०९

अथ नवमः पटलविसरः ।

अथ खलु भगवांश्छाक्यमुनिः सर्वावती पर्षन्मण्डलोपनिषण्णां
देवसङ्घानामन्त्रयते स्म । शृण्वन्तु भवन्तो मार्षा मञ्जुश्रियस्य
कुमारभूतस्य चर्यामण्डलमन्त्रसाधकमोपयिकं रक्षार्थं साधकस्य
परमगुह्यतमं परमगुह्यहृदयं सर्वतथागतभाषितं महाविद्याराजम् ।
येन जप्तेन सर्वमन्त्रा जप्ता भवन्ति । अनतिक्रमणीयोऽयं भो देवसङ्घमः !
अयं विद्याराजा । मञ्जुश्रियोऽपि कुमारभूतोऽनेन विद्याराज्ञा आकृष्टो
वशमानीतो सम्मतीभूतः । कः पुनर्वादः तदन्ये बोधिसत्त्वाः
लौकिकलोकोत्तराश्च मन्त्राः । सर्वविघ्नांश्च नाशयत्येष महावीर्यः प्रभावः
एकवीर्यः एक एव सर्वमन्त्राणाम् अग्रमाख्यायते । एक एव
एकाक्षराणामक्षरमाख्यायते । कतमं च तत् । एकाक्षरं सर्वार्थसाधकं
सर्वकार्यकरणं सर्वमन्त्रच्छेदनं दुष्टकर्मिणां सर्वपापप्रनाशनं
सर्वमन्त्रप्रतिपूरणं शुभकारिणं
सर्वलौकिकलोकोत्तरमन्त्राणामुपर्युपरिवर्तते
अप्रतिहतसर्वतथागतहृदयसर्वाशापारिपूरक कतमं च तत् । तद्यथा - क्ल्ल्हीम् ।
एष स मार्षा परमगुह्यतमं सर्वकर्मिकम् एकाक्षरं नाम विद्याराजा
अनतिक्रमणीयः सर्वसत्त्वानाम् । अधृष्यः सर्वभूतानां मङ्गलं
सर्वबुद्धानां साधकः सर्वमन्त्राणां प्रभुः सर्वलोकानाम् ईश्वरो
सर्ववित्तेशानां मैत्रात्मको सर्वविद्विष्टानां कारुणिको सर्वजन्तूनां नाशकः
सर्वविघ्नानां सङ्क्षेपतः यथा यथा प्रयुज्यते तथा तथा करोति असाधितोऽपि
कर्माणि करोति । मन्त्रजपता यं स्पृशति स वश्यो भवति वस्त्राण्यभिमन्त्र्य
प्रावरेत् सुभगो भवति । दन्तकाष्ठमभिमन्त्र्य भक्षये दन्तशूलमपनयति ।
श्वेतकरवीरदन्तकाष्ठमभिमन्त्र्य भक्षयेत् अप्रार्थितमन्नमुत्पद्यते । अक्षिशूले
सैन्धवं चूर्णयित्वा सप्तवारानभिमन्त्र्य अक्षि पूरयेत् अक्षिशूलमपजयति ।
कर्णशूले गजविष्टोत्थिताङ्गर्जानसम्भवां छत्रिकां केधुकपत्रावनद्धां
प्रदग्निना पचेत् । सुकेलायितां सुखोष्णं सैन्धवचूर्णपूतां कृत्वा
सप्ताभि**(?) तेन कर्णां पूरयेत् तत्क्षणादुपशमयति । प्रसवनकाले
स्त्रिया*******(?)र्भायाः शूलशिखायाः आटरुपकमूलं निष्प्राणकेनोदकेन

८२, प्। ८२)

पुराणघृतम् अष्टशतवारानभिमन्त्र्य पाययेल्लेपयेद् वा तत्प्रदेशं
तत्क्षणादेव निःशल्यो भवति । अजीर्णविशूचिकायातिसारे मूलेषु सौवर्चलं
सैन्धवं वा अन्यं वा लवणं सप्तवारानभिमन्त्र्य भक्षये
तस्माद्व्याधेर्मुच्यते तदह एव स्वस्थो भवति । उभयातिसारे सद्यातिसारे वा
मातुलुङ्गफलं पीपयित्वा निष्प्राणकेनोदकेन तस्मादावाधान्मुच्यते ।
सकृज्जप्तेन तु जप्तेन वा वन्ध्यायाः स्त्रिया वा अप्रसवधर्मिण्याः
प्रसवमाकाङ्क्षता अश्वगन्धमूलं गव्यघृतेन सह पाचयित्वा गव्यक्षीरेण
सह पीषयित्वा गव्यक्षीरेणैवाद्वाल्य पञ्चविंशत्परिजप्तम् ऋतुकाले पायये
स्नानान्ते च परदारवर्जी गृही कममिथ्याचारवर्जितः स्वदारमभिगच्छे । स्वपतिं
वा जनयते सुतं त्रिपञ्चवर्षप्रसवनकालातिरेकं वा अनेकवर्षविष्टब्धो वा
परमन्त्रतन्त्रोषधपरमुद्रितपरदुष्टकृतं वा गर्भदारणविधृतं वा
व्याधिसमुत्थितं वा अन्यं वा यत्किञ्चि व्याधिं
परविधृतस्थावरजङ्गमकृत्रिमाकृत्रिमगरादिप्रदत्तं वा
सर्वमूलमन्त्रौषधिमित्रामित्रप्रयोगकृतं वा सप्तविंशतिवारां
पुराणघृतमयूरचन्द्रकं चेकीकृत्य पीषयेत् । ततः सुपिष्टं कृत्वा शर्करेण
सह योज्य हरीतकीमात्रं भक्षयेत् । सप्तदिवसानि च शर्करोपेतं शृतं क्षीरं
पाययेद् अभिमन्त्र्य पुनः पुनः । मस्तकशूले काकपक्षेण सप्ताभिमन्त्रितेन
उमार्जायेत् स्वस्थो भवति । स्त्रीप्रदरादिषु रोगेषु आलम्बुषमूलं क्षीरेण सह
पीषयित्वा नीलिकामूलसंयुक्तमष्टशताभिमन्त्रितं क्षीरेणालोड्य पाययेत् ।
एवं चातुर्थकएकाहिकद्व्याहिकत्र्याहिकसाततिकं नित्यज्वरविषमज्वरादिषु
पायसं घृतसंयुक्तम् अष्टशताभिमन्त्रितं भक्षापयेत् । स्वस्थो भवति ॥

एवं डाकिनीग्रहगृहीतेषु आत्मनो मुखमष्टशतवारानभिमन्त्र्य निरीक्षयेत् ।
स्वस्थो भवति । एवं मातरवालपूतनवेतालकुमारग्रहादिषु
सर्वामानुषदुष्टदारुणगृहीतेषु आत्मनो हस्तमष्टशताभिमन्त्रितं कृत्वा
गृहीतकं मस्तके स्पृशेत् । स्वस्थो भवति ॥

एकजप्तेनात्मरक्षा *******(?)रक्षा तृजप्तेन **(?) चतुर्थेन ग्रामरक्षा
पञ्चजप्तेन या
(?)चरगतरक्षा भवति । एवं

८३, प्। ८३)

यावत्सहस्रजप्तेन कटकचकरक्षा कृता भवति । एतानि चापराणि अन्यानि च
क्षुद्रकर्माणि सर्वाणि करोति असाधितेऽपि । अथ साधयितुमिच्छति क्षुद्रकर्माणि
कार्याणि । एकान्तं गत्वा विविक्तदेशे समुद्रगामिनीं सरित्समुद्भवे समुद्रकूले
गङ्गानदीकूले वा अथवा महानदीकूलमाश्रित्य शुचौ प्रदेशे उडयं कृत्वा
त्रिस्नायी त्रिचैलपरिवर्ती मौनी भिक्षभैक्षाहारसाधकयावकषयो फलाहारो वा
त्रिंशल्लक्षाणि जपेत् सिद्धिनिमित्तं ततो दृष्ट्वा ततो साधनमारभेत् । ज्येष्ठं
पटं तत्रैव देशे तस्मिं स्थाने पटस्य महतीं पूजां कृत्वा सुवर्णरूप्यमयी
ताम्रमृत्तिकमयैर्वा प्रदीपकैः तुरुष्कतैलपूर्णैः गव्यघृतपूर्णैर्वा
प्रदीपकैः प्रत्यग्रवस्त्रखण्डाभिः खण्डाभिः कृतवर्तिभिः लक्षमेकं पटस्य
प्रदीपानि निवेदयेत् । सर्वाणि समं समन्तात् समनन्तरप्रदीपितैः प्रदीपमालाभिः
पटस्य रश्मयो निश्चरन्ति । समनन्तरनिश्चरितै रश्मिभिः पटः
समन्तज्वालमालाकुलो भवति । उपरिष्टाच्चान्तरिक्षे दुन्दुभयो नदन्ति ।
साधुकारश्च श्रूयते ॥

ततो विद्याधरेण सत्त्वरमाणरूपेण साधकपटान्तकोणं पूर्वलिखितपटः
निःसृतम् अर्घं दत्त्वा प्रदक्षिणीकृत्य सर्वबुद्धां प्रणम्य ग्रहेतव्यम् । ततो
गृहीतमात्रेण सर्वप्रदीपगृहीतैः सत्त्वैः सार्धं समुत्पतति
एकाधिकविमानलक्षणं वा गच्छन्ति । दिव्यतूर्यप्रतिसंयुक्ते
मधुरध्वनिगीतवादितनृत्योपेतैः विद्याधरीभिः समन्तादाकीर्णं तं
साधकं विद्याधरचक्रवर्तिराज्ये अभिषेचयन्ति । सह तैः प्रदीपधारिभिः
अजरामरलीली भवति । महाकल्पस्थायी भवति । उदितादित्यसङ्काशः दिव्याङ्गशोभी
विचित्राम्बरभूषितः । त एवास्य भवन्ति किङ्कराः । तैः सार्धं विचरति ।
सर्वविद्याधरराजास्य दासत्वेनोपतिष्ठन्ते । विद्याधरचक्रवर्ती भवति । चिरञ्जीवी
अधृष्यो भवति । सर्वसिद्धानां परमसुभगो भवति । विद्याधरकन्यानां
दशेना भवति । सर्वद्रव्यानां बुद्धबोधिसत्त्वांश्च पूजयति । ततो भवति
क्षणमात्रेण ब्रह्मलोकमपि गच्छति ।

स्यापि न गणपति किं पुन****(?)न्यविद्याधराणाम् । अन्ते चास्य **(?)न्वं भवति ।
आर्यमञ्जुश्रियः * * * * * * * * (?) ******(?)वति । उत्तप्ततरम् । तत एकान्ते

८४, प्। ८४)

गत्वा विवेके विगतजने निःसङ्गसङ्गरहिते महारण्यमनुप्रविश्य यत्र स्थाने
पद्मसरं सरितोपेतम् एकवर्षताश्रितं पर्वता***(?) एकाक्षरं विद्याराजं
मञ्जुश्रीकल्पभाषितं वा तमागतान्यबोधिसत्त्वभाषितं वा अन्यतरं मन्त्रं
गृह्य तेषां यथेप्सतः पद्ममूलफलाहारो पयोपयोगाहारो वा विद्या
षट्त्रिंशल्लक्षाणि जपेत् । जपान्ते च तेनैव विधिना पूर्वनिर्दिष्टेन ज्येष्ठं पटं
प्रतिष्ठाप्य पद्मपुष्पाणां श्वेतचन्दनकुङ्कुमाभ्यक्तानां
खदिरकाष्ठैरग्निं प्रज्वाल्य पूर्वपरिकल्पितां पद्मां षट्त्रिंशत् सहस्राणि
जुहुयात् ॥

ततो होमावसाने भगवतः शाक्यमुनेः पटस्य रश्मयो निश्चरन्ति । ततो
साधकमवभास्य मूर्धान्तर्धीयन्ते । समनन्तरस्पृष्टश्च साधकः
पञ्चाभिज्ञो भवति । बोधिसत्त्वलब्धभूमिः दिव्यरूपी यथेष्टं विचरते ।
षट्त्रिंशत्कल्पां जीवति । षट्त्रिंशद्बुद्धक्षेत्रानतिक्रामति । तेषां च प्रभावं
समनुपश्यति । षट्त्रिंशद्बुद्धानां प्रवचनं धारयति । तेषां च
पूजोपस्थानाभिरतो भवति । अन्ते च बोधिपरायणो भवति ।
आर्यमञ्जुश्रीकल्याणमित्रपरिगृहीतो भवति । यावद् बोधिनिष्ठं
निर्वाणपर्यवसानम् इति ॥

बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्राद्
आर्यमञ्जुश्रीमूलकल्पान्नवमः पटलविसराद् द्वितीयः
उत्तमसाधनोपयिककर्मपटलविसरः परिसमाप्त इति ॥

८५, प्। ८५)