०८

अष्टमः पटलविसरः ।

अथ खलु भगवांश्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । ये
ते मञ्जुश्रीः ! त्वया निर्दिष्टा सत्त्वा तेषामर्थाय इदं पटविधानं
विसरमाख्यातम् । ते स्वल्पेनैवोपायेन साधयिष्यन्ते । तेषामर्थाय साधनोपयिकं
गुणविस्तारप्रभेदविभागशो कर्मविभागं समनुभापिष्यामि । तं शृणु साधु
च सुष्ठु च मनसि कुरु भाषिष्ये । सर्वसत्त्वानामर्थाय ॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । साधु साधु भगवं !
सुभाषिता तेऽस्मद्विभावनोद्योतनकरीं मन्त्रचर्यागुणनिष्पत्तिप्रभावनकरीं
वाणीम् । तद्वदतु तं भगवाम् । यस्येदानीं कालं मन्यसे ।
अस्माकमनुकम्पार्थम् ॥

अथ भगवांश्छाक्यमुनिः सर्वावन्तं पर्षन्मण्डलमवलोक्य स्मितमकार्पीत् ।
अथ भगवतः शाक्यमुनेर्मुखाद्वारात् नीलपीतस्फटिकवर्णादयो रश्मयो
निश्चरन्ति स्म । समनन्तरनिश्चरिता च रश्मयो सर्वावन्तं पर्षन्मण्डलम्
अवभास्य त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वमारभवनं जिह्मीकृत्य
सर्वनक्षत्रद्योतिशैलगणप्रभां यत्रेमौ चन्द्रसूर्यौ महर्धिकौ
महानुभावौ तया प्रभया तेऽपि जिह्मीकृतौ नावभास्यन्ते निष्प्रभाणि च भवन्ति
। न विरोचन्ते जिह्मीकृतानि च सन्दृश्यन्ते सर्वमणिमन्त्रौषधिरत्नप्रभां
निःप्रभीकृत्य पुनरेव भगवतः शाक्यमुनेः मुखद्वारान्तर्धीयते स्म ॥

अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः तत्रैव पर्षन्मण्डले सन्निपतितोऽभूत् ।
सन्निषण्णः स उत्थायासनात् सत्त्वरमाणरूपो भगवतश्चरणयोर्निपत्य
भगवन्तमेतदवोचत् । नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं
प्राविष्कुर्वन्ति को भगवं हेतुः कः प्रत्ययो स्मितस्य प्राविष्करणाय ॥

एवमुक्ते भगवां वज्रपाणिं बोधिस**(?)मन्त्रयते स्म । एव मेतद् वज्रपाणे !
एवमेतत् । यथा वदसि तत् तया । नाहेत्वप्रत्ययं तथागतानां विद्यते स्मितम् । अस्ति
हेतुः अस्ति प्रत्ययः । यो इदं

७९, प्। ७९)

सूत्रेन्द्रराजं मञ्जुश्रीमूलकल्पा
विद्याचर्यानुष्ठानकर्मसाधनोपयिकसमवशरणधर्ममेघनिःश्रितं
समनुप्रवेशानुवर्तकं करिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति श्रद्धास्यन्ति
पुस्तकलिखितं कृत्वाः पूजयिष्यन्ति चन्दनचूर्णानुलेपनधूपमाल्यैः
छत्रध्वजपताकैः विविधैर्वा प्रकारैर्वाद्यविशेषैर्वा नानातूर्यताडावचरैः
। अन्तशः अनुमोदनासहगतं वा चित्तसन्ततिर्वा प्रतिलप्स्यन्ते रोमहर्षण। सञ्जनं
वा करिष्यन्ति विद्याप्रभावशक्तिं वा श्रुत्वा संहृष्यन्ते अनुमोदिष्यन्ते चर्यां
वा प्रतिपत्स्यन्ते । व्याकृतास्ते मया अनुत्तरायां सम्यक् सम्बोधो सर्वे ते भविष्यन्ति ।
बुद्धा भगवन्तः । अत एव जिनाः स्मितं कुर्वन्ति नान्यथा इति ॥

आदौ तावद् दृष्टसमयः कृतपुरश्चरनः लब्धाभिषेकः अस्मिन्
कल्पराजमूलमन्त्रहृदयम् उपहृदयं वा अन्यतरं वा मन्त्रं गृहीत्वा
एकाक्षरं वा अन्यं वायथेप्सितं महारण्यं गत्वा त्रिंशल्लक्षाणि जपे
फलोदकाहारः मूलपर्णभक्षो वा कृतपुरश्चरणो भवति ॥

ततो पर्वतायमभिरुह्य ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य आत्मना
पूर्वाभिमुखो कुशविण्डकोपविष्टः श्वेतपद्मानां
श्वेतकुङ्कुमाभ्यक्तानां लक्षमेकं भगवतः शाक्यमुनेः
सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पटस्याधस्तान्निवेदयेत् ।
कर्पूरधूपं च यथाविभवतः दहेत् । देवपुत्रनागानां च पूजां कुर्यात् ।
यथालब्धैः पुष्पैः ॥

ततोऽर्धरात्रकालसमये शुक्लपूर्णमास्यां
प्रातिहारकप्रतिपूर्णायां पटस्याग्रतः अग्निकुण्डं कृत्वा पद्माकारं
श्वेतचन्दनकाष्ठैरग्निं प्रज्वाल्य कुङ्कुमकर्पूरं चैकीकृत्य
अष्टसहस्राहुतिं जुहुयात् । यथाविभवतः कृतरक्षह् ॥

ततः भगवतः शाक्यमुनेः रश्मयो निश्चरन्ति समन्ताच्च पटः एकज्वालीभूतो
भवति । ततः साधकेन सत्त्वरमाणरूपेण पटं त्रिः प्रदक्षिणीकृत्य
सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां प्रणम्य पटं ग्रहेतव्यम् ॥

अतीतेन पूर्वलिखितसाधक**(?)देशे ततो गृहीतमात्रोत्पतति । अच्छटामात्रा
ब्रह्मलोकमतिक्रामति । कुसुमावतीं लोकधातुं सम्प्रतिष्ठति । यत्रास्तै भगवां
सङ्कुसुमितराजेन्द्रस्तथागतः तिष्ठति ध्रियते

८०, प्। ८०)

यापयति धर्मं च देशयति आर्यमञ्जुश्रियं च साक्षात् पश्यति धर्मं शृणोति
अनेकान्यनि बोधिसत्त्वशतसहस्रा पश्यति तांश्च पर्युषास्ते महाकल्पसहस्रम्
अजरामरलीली भवति । पटस्तत्रैव तिष्ठति सर्वबुद्धबोधिसत्त्वाधिष्ठितो भवति
तेषां चाधिष्ठानं सञ्जानीते क्षेत्रशतसहस्रं चाक्रामति कायशतसहस्रं
वा दर्शयति अनेकऋद्धिप्रभावसमुद्गतो भवति आर्यमञ्जुश्रियश्च कल्याणमित्रो
भवति नियतं बोधिपरायणो भवतीति ॥

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् अष्टम
उत्तमसाधनौपयिककर्मपटलविसरात् प्रथमः समाप्त इति ॥

८१, प्। ८१)