सप्तमः पटलविसरः ।
अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं शाक्यमुनिं त्रिः
प्रदक्षिणीकृत्य भगवतश्चरणयोर्निपत्य बह्गवन्तमेवमाह - साधु साधु
भगवता यस्तथागतेनार्हता सम्यक् सम्बुद्धेन सुभाषितोऽयं धर्मपर्यायः
सर्वविद्याव्रतचारिणामर्थाय हिताय सुखाय लोकानुकम्पायै
बोधिसत्त्वानामुपायकौशल्यता दर्शिता निर्वाणोपरिगामिनी वर्त्मोपविशेषा
नियतं बोधिपरायणा सन्ततिर्बोधिसत्त्वानां
सर्वमन्त्रार्थचर्यासाधनीयमेतन्मन्त्ररहस्यसर्वजनविस्तारणकरी
भविष्यत्यनागतेऽध्वनि निर्वृते लोकगुरौ अस्तमिते तथागतादित्यं वंशे रिञ्चिते
सर्वबुद्धक्षेत्रे सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः अन्धकारीभूते
लोकभाजने विच्छिन्ने आर्यमार्गे सर्वविद्यामन्त्रोपधिमणिरत्नोपगते
साधुजनपरिहीणे निरालोके सत्त्वधातौ सत्त्वा भविष्यन्ति कुसीदा नष्टस्पृहतया
अश्राद्धाः खण्डका अकल्याणमित्रपरिगृहीताः शठाः मायाविनो धूर्तचरिताः
। ते इमं धर्मपर्यायं श्रुत्वा च सत्रासमापत्स्यन्ते । आलस्यकौसीद्याभिरता न
श्रद्धास्यन्ति कामगवेषिणो न पतीष्यन्ति मिथ्यादृष्टिरताः । ते बहु अपुण्यं
प्रसविष्यन्ति सद्धर्मप्रतिक्षेपकाः अवीचिपरायणाः घोराद् घोरतरं गताः ।
तेषां दुःखितानामर्थाय अवशानां वशमानेता वश्यानां भयप्रदाय
उपायकौशल्यसङ्ग्रहया मन्त्रपटविधानं भाषतु भगवाम् । यस्येदानीं
कालं मन्यसे ॥
अथ भगवाञ्च्छाक्यमुनिः मञ्जुश्रियं कुमारभूतं साधुकारमदात् । साधु
साधु मञ्जुश्रीः ! यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे । अस्ति
मञ्जुश्रीः ! त्वदीयं परमं गुह्यतमं
विद्याव्रतसाधनचर्यापटलपटविधानविसरं परमहृदयानामर्थं परमं
गुह्यतमं महार्थं निधानभूतं सर्वमन्त्राणां षडेते
षडाक्षरपरमहृदयाः अविकल्पतो तस्मिं काले सिद्धिं गच्छन्ति । तेषां
सत्त्वानां दमनाय उपायकौशल्यसम्भाररामन्त्रप्रदेशनताय नियतं
सम्बोधिप्रापणताया षट्**(?)तिबुद्धकोटिभिः पूर्वभाषितमहमप्येतर्हि इदानीं
भाषिष्ये । अनाग*(?)जनतापेक्षाय तं शृणु साधु च सुष्ठु च मनसि कुरु ।
भाषिष्येऽहं ते । कतमं च तत् ॥
७४, प्। ७४)
अथ खलु भगवां शाक्यमुनिर्मन्त्रं भाषते स्म । ॐ वाक्यार्थे जय ॐ
वाक्यशेषे स्व । ॐ वाक्येयनयः । ॐ वाक्यनिष्ठेयः । ॐ वाक्येयनमः । ॐ
वाक्येदनमः । इत्येते मञ्जुश्रीः ! त्वदीयषड्मन्त्राः षडक्षराः
महाप्रभावाः तुल्यसमवीर्याः परमहृदयाः परमसिद्धाः
बुद्धमिवोत्पन्नाः सर्वसत्त्वानामर्थाय सर्वबुद्धैः सम्प्रभाषिताः
समयग्रस्ताः सम्प्रचलिताः सर्वकर्मिकाः बोधिमार्गानुदेशकाः तथागतकुले
मन्त्रप्रवराः उत्तममध्यगेतरतृधासम्प्रयुक्ताः सुशोभनं
कर्मफलविशकप्रदाः शासनान्तर्धानकालसमयसिद्धिं यास्यन्ति ।
समवशरणं राद्धर्मनेत्रारक्षणार्थं ये साधयिष्यन्ति तेषां
मूल्यप्रयोगेणैव महाराज्यमहाभोगैश्वर्यार्थं ते साधयिष्यन्ति । तेषां
क्षिप्रतरं तस्मिं काले तस्मिं समये सिद्धिं यास्यन्ति । अन्ततो जिज्ञासनहेतोरपि
साधनीया ह्येते परमहृदयाः सङ्क्षेपतः यथा यथा प्रयुज्यन्ते तथा तथा
सिद्धिं यास्यन्ति समासतः । एषां पटविधानं भवति तस्मिं काले तस्मिं समये
महाभैरवे पञ्चकषाये सत्त्वा अल्पपुण्या भविष्यन्ति । अल्पेशाख्याः अल्पजीविनः
अल्पभोगाः मन्दवीर्या न शक्यन्ते अतिविस्तरतरं पटविधानादीनि कर्माणि
प्रारभन्तुम् । तेषामर्थाय भाषिष्ये सङ्क्षिप्ततरम् ॥
आदौ तावद् विक्रयेण सूत्रकं क्रीत्वा पलमात्रमर्धपलमात्रं वा हस्तमात्रं
दीर्घत्वेन अर्धहस्तमात्रं तिर्यक्कर्पटं सदशं तन्तुवायेन वाययितव्यम् ।
उपगतकेशमन्यं वा नवं कर्पटखण्डं प्रत्यग्रमत ऊर्ध्वं यथेप्सतः
द्विहस्तचतुर्हस्तं वा षट् पञ्च दश चाष्टं वा सुशुक्लं गृह्य यथेप्सतः
चित्रकरेण चित्रापयितव्यम् । अश्लेषकैरङ्गैः चन्दनकर्पूरकुङ्कुमसितैः पटं
चन्दनकुङ्कुमकर्पूरं चैकीकृत्य निष्प्राणकेनोदके निःकलुषेनालोड्य नवे
भाण्डे पटं प्लावयित्वा दिवसत्रयं सुषिधानं पथितं स्थापयेत् । कृतरक्षां
शुचौ देशे आत्मनः शुचिर्भूत्वा शुक्लपक्षे पूर्णमास्यां
षटभाण्डस्याग्रतः पूर्वा****(?) कुश*(?)ण्डिकोपविष्टः इमे मन्त्रपदाः
अष्टशतवारमुच्चारयितव्याः । तद्यथा - ॐ हे हे भगवं बहुरूपधरः
दिव्यचक्षुषे अवलोकय अवलोकय *(?) समयमनुस्मर कुमाररूपधारिणे
७५, प्। ७५)
महाबोधिसत्त्व ! किं चिरायसि । हूꣳ हूꣳ फट् फट् स्वाहा । अनेन मन्त्रेण कृतजापः
तत्रैव स्वपेत् । स्वप्ने कथयति सिद्धिरसिद्धिं वा ॥
ततोत्थाय अविलम्बितसिद्धिनिमित्तं स्वप्नं दृष्ट्वा तं पटं लिखापयेत् न
चेदसिद्धिनिमित्तानि स्वप्नानि दृश्यन्ते । तत् पटं तस्माद् भाण्डादुद्धृत्य आतपे
शोषयेत् । शोषयित्वा च भूयः अन्ये नवे भाण्डे न्यसेत् । सगुप्तं च कृतरक्षं च
स्थापयेत् । ततो भूयो तेषां परमहृदयाना अन्यतमं मन्त्रं गृहीत्वा
यथेष्टतः षडक्षराणां भूयो अक्षरलक्षं जपेत् । ततो आशु तत्पटं सिध्यतीति ॥
आदौ तावत् तं पटं गृह्य प्रातिहारकपक्षे अन्ये वा शुक्लेऽहनि
शुभनक्षत्रसंयुक्ते शुभायां तिथौ शुक्लपक्ष्दिवसे वा सुशोभनैः शकुनैः
मङ्गलसम्मतायां रात्रौ अर्धरात्रकालसमये उपोषधिकेन चित्रकरेण तं
पटं चित्रापयेत् शुचौ प्रदेशे कर्पूरधूपं दहता ॥
आदौ तावदार्यमञ्जुश्रियं बालदारकाकारं पञ्चचीरकशिरस्कं
बालालङ्कारभूषितं कनकवर्णं नीलपट्टचलनिकानिवसितं
नीलपट्टांशुकोत्तरीयं धर्मं देशयमानं सिंहासने
अर्धपर्यङ्कोपविष्टदक्षिणचरणं रत्नपादपीठस्थं
स्थापितसिंहासनोपविष्टं सर्वालङ्कारोपेतं चारुदर्शनम् ईषस्मितमुखं
साधकगतदृष्टिं चित्रापयेत् ॥
दक्षिणे पार्श्वे आर्यसमन्तभद्रं सितचामङ्गोद्धूयमानं प्रियङ्गुश्यामं
वामहस्तचिन्तामणिविन्यस्तं सर्वाङ्गशोभनं सर्वालङ्कारभूषितं
नीलपट्टचलनिकानिवस्तं मुक्ताहारयज्ञोपवीतं सिकतं श्वेतपद्मासनस्थं
चित्रापयितव्यम् ॥
आर्यमञ्जुश्रियस्य वामपार्श्वे आर्यावलोकितेश्वरः नीलपट्टचलनिकानिवस्तः
सर्वाङ्गशोभनः सर्वालङ्कारविभूषितः मुक्ताहारयञोपवीतः वामहस्ते
श्वेतपद्मविन्यस्तः दक्षिणहस्ते सितोद्धूयमानचमरः **(?) ****(?)तः
सौम्याकारः ******(?)श्रियगतदृष्टिः तथैवार्यसमन्तभद्रः **(?)द्मासनस्थौ
उभावष्येतौ अभिलेख्यौ ॥
७६, प्। ७६)
एकपद्मविटपोत्थितौ त्रीणि पद्मानि । मध्यमे
मूलपद्मकर्णिकायामार्यमञ्जुश्रियस्य सिंहासनं रत्नपीठं च । अपरस्मिं
पद्मे आर्यसमन्तभद्रः तृतीये पद्मे आर्यावलोकितेश्वरः । शोभनम् च तत्
पद्मदण्डं मरकतपद्माकारम् अनेकपद्मपुष्पमुकुलितं पत्रोपेतं
विकसितार्धविकसितपुष्पमहासरानवतप्तोत्थितं द्वौ नागराजावष्टब्धनाभं
नन्दोपनन्दसन्धारितं तत् पद्मदण्डं सितवर्णा च तौ नागराजानौ
सप्तस्फटावभूपितौ सर्वालङ्कारशोभितशरीरौ मनुष्यार्धकायौ
अहिभोगाङ्कितमूर्तयः आर्यमञ्जुश्रियं निरीक्षमाणौ जलान्तार्धनिलीनौ
मणिरत्नोपशोभितच्छदौ लिखापयितव्यौ ॥
समन्ताच्च महासरम् अधस्तात् साधकः दक्षिणपार्श्वे पटान्तकोणे
आर्यमञ्जुश्रियस्य वक्त्रमण्डलं निरीक्षमाणो धूपकटच्छकव्यग्रहस्तः
अवनतशिरकोर्परजानुकायः यथा वेषवर्णतः तथामभिलेख्यम् ॥
उपरिष्टादार्यमञ्जुश्रियस्य उभौ पटान्तकोणाभ्यां द्वौ देवपुत्रौ
मालाधारिणौ पुष्पमालागृहीतौ उत्पतमानौ मेघान्तर्निलीनौ
महापुष्पौधमुत्सृजमानौ सुशोभनौ अभिलेख्यौ ॥
समन्ताच्च तत्पटं नागकेसरादिभिः पुष्पैः प्रकिरितमभिलिखेत् । यथेष्टतश्च
त्रिरूपकाधिष्ठितं वा अभिलिखेत् । आर्यमञ्जुश्रीः धर्मं देशयमानः
आर्यसमन्तभद्रः आर्यावलोकितेश्वरश्चमरविन्यस्तपाणयो लिखापयितव्याः ।
यथाभिरुचितकं वा साधकस्य त्रीणि रूपकाणि अवश्यं लिखापयितव्यानि ।
यथेष्टाकारा वा यथासंस्थानसंस्थिता वा साधकस्य यथा यथा रोचते तथा
तथा लिखितव्यानि ॥
मध्ये च आर्यमञ्जुश्रीः उभयान्ते च आर्यावलोकितेश्वरः समन्तभद्रश्च
यथेप्सितः अन्य अवश्यं लिखापयितव्यानि । यथालब्धे वा कर्पटखण्डे
वितस्तिहस्तमात्रे वा आत्मना वा परेण वा चित्र**(?)ण पोषधिकेन वा अपोषधिकेन
वा श्राद्धेन वा अश्राद्धेन वा शुद्धिना वा अशुचिना वा शीलवतेन वा
दु**(?)लेन वा चित्रकरेण छितापयितव्यः ॥
७७, प्। ७७)
आत्मना साधकेन अवश्यं कृतपुरश्चरणेन श्राद्धेन उत्पादितवोधिचित्तेन
अवश्यं भवितव्यमिति ॥
एवं सिध्यन्ति मन्त्रा वै नान्येषां पापकारिणाम् ।
श्राद्धेन तथा भूत्वा साधनीया मन्त्रदेवताः ॥
सिध्यन्ते मन्त्रराट् तस्य श्राद्धस्यैवेह नान्यथा ।
श्रद्धा हि परमं यानं येन यान्ति विनायकाः ॥
अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहते ।
बीजानामग्निदग्धानामङ्कुरो हरितो यथा ॥
श्राद्धे स्थितस्य मर्त्यस्य बोद्धारं हि कर्मणा ।
सिध्यन्ते देवतास्तस्य अश्राद्धस्य न सिध्यति ॥
लौकिका देवता येऽपि येऽपि लोकोत्तरा तथा ॥
सर्वे वै श्रद्दधानस्य सिध्यते विगतकल्मषः ।
आशु सिद्धिर्ध्रुवा तेषां बोधिस्तद्गतमानसाम् ॥
नान्येषां कथ्यते सिद्धिः शासनेऽस्मिन् निवारिताः ।
पटः स्वल्पो विशेषो वा मध्यमो परिकीर्तितः ॥
अधुना तु प्रवक्ष्यामि सर्वकर्मसु साधनमिति ॥
बोधिसत्त्वपिटकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् सप्तमः
पटलविसरात् चतुर्थः पटविधानपटलविसरः परिसमाप्त इति ॥
७८, प्। ७८)