०६

षष्ठः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते
स्म । अस्ति मञ्जुश्रीः अपरमपि पटविधानरहस्यं तृतीयं कन्यसं नाम । यः
सर्वसत्त्वानामयत्नेनैव सिद्धिं गच्छेयुः । पूर्वनिर्दिष्टेनैव विधिना शिल्पिभिः
सुगतवितस्तिप्रमाणं तिर्यक् तथैव समं चतुरश्रं पूर्ववत् पटश्रित्रापयितव्यः
पूर्वनिर्दिष्टैरङ्गैः ॥

आदौ तावदार्यमञ्जुश्रीः सिंहासनोपनिषण्णः बालदारकरूपी पूर्ववत्
धर्मं देशयमानः समन्तप्रभा अर्चिषो निर्गच्छमानश्चारुरूपी
चित्रापयितव्यः ॥

वामपार्श्वे आर्यसमन्तभद्रः रत्नोपलस्थितः चमरव्यग्रहस्तः
चिन्तामणिवामविन्यस्तकरः प्रियङ्गुश्यामवर्णः पूर्ववच्चित्रापयितव्यः ॥

दक्षिणपार्श्वे आर्यमञ्जुश्रियस्य रत्नोपलस्थितः आर्यावलोकितेश्वरः पूर्ववत् ।
चमरव्यग्रहस्तः वामहस्तारविन्दविन्यस्तः समन्तद्योतितमूर्तिरभिलेख्यः ॥

अधश्च सिंहासनात् कनकवर्णः पर्वतो यावत् पटान्ते चित्रापयितव्यः ।
पटान्तकोणस्य आर्यमञ्जुश्रियस्य सिंहासनस्याधस्ताद् दक्षिणपार्श्वे
यमान्तकः क्रोधराजा पूर्ववच्चित्रापयितव्यः । धूपकटच्छुकव्यग्रहस्तः
यथापूर्वं तथैव साधकः । उपरिष्टादार्यमञ्जुश्रियस्य
सङ्कुसुमितराजेन्द्रस्तथागतचित्रापयितव्यः षोडशाङ्गुलप्रमाणः
रत्नपर्वतगुहालीनः । कूटागारसदृशाः प्राग्भारपर्वताः दश
चित्रापयितव्याः । समन्ताच्च तत्पटं पर्वताकारवेष्टितं लिखेत् । उपरिष्टाच्च
षटकोणावस्थितौ पर्वतप्राग्भारसंश्लिष्टौ
उत्पतमानविमानपुष्पौघमुत्सृजमानौ शुद्धावासकायिकौ देवपुत्रौ शुद्धश्च
नाम विशुद्धश्च नाम पूर्ववच्चित्रापयितव्यौ ॥

नानापुष्पाभिकीर्णं च तत् पटमभिलिखापयितव्यमिति ॥

एतत् कथितं सर्वं त्रिविधं पटलक्षणम् ।

७२, प्। ७२)

पटं तु दृष्टमात्रं वै तत्क्षणादेव मुच्यते ।
बुद्धकोटीसहस्राणि सत्कुर्याद् यो हि बुद्धिमाम् ॥

कन्यसं तु पटं दृष्ट्वा कला नायाति षोडशीम् ।
यत् पुण्यं सर्वबुद्धानां पूजा कृत्वा तु तापिनाम् ॥

तत् पुण्यं प्राप्नुयाद् विद्वां कन्यसे पटदर्शने ।
शोभनानि च कर्माणि भोगहेतोः इहाचरेत् ॥

यावन्ति केचन मन्त्रा ब्रह्मेन्द्रऋषिभाषिताः ।
वैनतेयेन तु प्रोक्ताः वरुणादित्यकुबेरयोः ॥

धनाद्यैः राक्षसैः सर्वैर्दानवेन्द्रैर्महोरगैः ।
सोमवायुयमाद्यैश्च भाषिता हरिहरादिभिः ॥

सर्वे मन्त्रा इहानीताः सिध्यन्ते पटमग्रतः ।
शान्तिकानि सदा कुर्यात् पौष्टिकानि तथा इह ॥

दारुणानि च वर्जीत गर्हिता जिनवरैस्त्विहेति ॥

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् मञ्जुश्रीमूलकल्पात्
षष्ठः पटलविसरः ।

तृतीयः कन्यसपटविधानः परिसमाप्त इति ॥

७३, प्। ७३)