अथ तृतीयः परिवर्तः ।
अथ खलु मञ्जुश्रीः कुमारभूतः पुनरपि तं शुद्धावासभवनमवलोक्य
तां महापर्षन्मण्डलसन्निपतितां सर्वबुद्धबोधिसत्त्वां प्रणम्य एकाक्षरं
परमगुह्यं सर्वविषघातसर्वकर्मिकं च मन्त्रं स्वमण्डलसाधनीषयिकं
सर्वक्षुद्रकर्मेषु चोपयोज्यं भाषते स्म । कतमं च तत् । नमः
समन्तबुद्धानाम् । तद्यथा - जः । एष समार्षा सार्वभूतगणाश्च अस्यैव
मन्त्रमेकाक्षरस्य द्वितीयं मण्डलविधानं सङ्क्षेपतो योज्यम् । अष्टहस्तं
चतुर्हस्तं वा भूप्रदेशं संशोध्य पञ्चरङ्गिकैरेव चूर्णैः स्वयं
लिखितव्यम् । न परैः । यत्र वा तत्र वा न चात्र दोषः । समं चतुरश्रं
त्रिमण्डलोपशोभितं पञ्चशिखां महामुद्रां प्रथमं च तावल्लिखेत् ।
भगवतो मञ्जुश्रियः उत्पलमुद्रां दंष्ट्रामुद्रां वक्त्रमुद्रां
यष्टिमुद्रां च । एते मुद्रा अभ्यन्तरमण्डलपूर्वदिग्भागे आलिखितव्याः । ततः
पद्मवज्र उत्पलध्वजपताकच्छत्रतोरणरथकुञ्जर
अश्ववलीवर्दमहिपस्वस्तिकमयूर अजमेषपुरुषकुमाररूपी बहिर्द्वारमूले
आलिखितव्यः । यथानुपूर्वतः पङ्क्ति आश्रिता आलेख्याः त्रिमण्डलाश्रिता एवं
कार्याः स्युरिति ॥
ततो एकाक्षरेणैव मन्त्रेण पूर्वदक्षिणे दिग्भागे अग्निकार्यं कार्यम् ।
अपामार्गसमिधानां दधिमधुधृताक्तानाम् अष्टशतं होतव्यम् । ततः
पुष्पैरर्घ्यो देयः । एकाक्षरेणैव मन्त्रेण बलिनिवेद्यप्रदीप यथेप्सितं दातव्यम् ।
धूपं वा आह्वाननविसर्जनं कुर्यादिति ॥
ततः प्रवेशयेद् राज्यकामं नगरमध्ये आलिखेत् । भोगकामं वटवृक्षसमीपे
पुत्रकामं पुत्रञ्जीवकवृक्षसमीपे अनपत्नीकं हस्त्यश्वकामं
कुञ्जरशालायां वाजिशालायां वा दष्टकं महाह्रदे नागायतने वा
चातुर्थकनित्यज्वरसर्वज्वरेषु च एकलिङ्गे ग्रामदक्षिणदिशे वा राक्षसगृहीतं
श्मशाने शून्यग्रहे वा पिशाचगृहीतं विभीतकवृक्षसमीपे एरण्डवृक्षसमीपे
वा प्रातरसर्वगृहीतेषु चतुःपथेषु मृतकसूतकगृहसमीपे वा
ब्रह्मराक्षसगृहीतं **(?)वृक्षे श्लेष्मातकवृक्षे वा गरदत्तकम् एकाक्षरेणैव
मन्त्रेणैव उदकं सप्ताभिमन्त्रितं कृत्वा तत्रैव मण्डलमध्ये पातयितव्यः
मन्यते ॥
५४, प्। ५४)
एवं स्त्रियाया पुरुषस्य वा यशोर्थिनं च चत्वरे ब्रह्मस्थले वा आलिखितव्यम् ।
मृतवत्सायाः सफले वृक्षे क्षीरवृक्षे वा शालिधान्यषककेदारमध्ये
अनपत्याया लिखितव्यम् । विविधरोगस्त्रीकृतान्यदुष्टतः प्रतरादिषु
महारोगस्पृष्टासु रक्षोघ्नं नदीपुलिने कूले वा पर्वताग्रे चाभिलेख्यम् ।
सर्वरोगेषु सर्वतः । डाकिनीकृतान्यपि ब्रह्मपालिकायां शून्यवेश्म
एकान्तस्थान निम्नप्रदेशे वा । एवं सर्वकर्मेषु अर्धरात्रे मध्याह्ने वा
सर्वकालमभिलिखितव्यम् । तेनैवैकाक्षरमन्त्रेण पुष्पैरर्घ्यं दत्त्वा विसर्ज्य च
मण्डलम् उदकेन प्लावयितव्यम् । सर्वग्लानानां महती रक्षा कृता भवति ॥
मुच्यते सर्वरोगेभ्यो ईप्सितमर्थं च सम्पद्यन्ते ।
अपुत्रो लभते पुत्रं दुर्भगः सुभगो भवेत् ॥
दरिद्रो लभते अर्थां दर्शनादेव मण्डलम् ।
स्त्रियस्य पुरुषस्यापि श्राद्धस्यापि कल्पतः ॥
यथेष्टविविधाकारां प्राप्नुयात् सम्पदां सदा ।
इति बोधिसत्त्वपटलविसरा मञ्जुश्रीकुमारभूतमूलकल्पात् तृतीयो
मण्डलविधानपरिवर्तः ।
५५, प्। ५५)