०२

अथ द्वितीयः परिवर्तः ।

अथ खलु मञ्जुश्रीः कुमारभूतः सर्वावन्तं पर्षन्मण्डलमवलोक्य
सर्वसत्त्वमयानुप्रवेशावलोकिनीं नाम समाधिं समापद्यते । स्म ।
समनन्तरसमापन्नस्य च मञ्जुश्रियः कुमारभूतस्य नाभिमण्डलप्रदेशाद्
रश्मिर्निश्चरन्ति स्म । अनेकरश्मिकोटीनियुतशतसहस्रपरिवारिता समन्तात्
सर्वसत्वधातुमवभास्य पुनरेव तं शुद्धावासभवनम् अवभास्य स्थिताभूत्

अथ खलु वज्रपाणिर्बोधिसत्वो महासत्वः मञ्जुश्रियं कुमारभूतमामन्त्रयते
स्म । भाष भाष त्वं भो जिनपुत्र ! सर्वसत्वसमयानुप्रवेशनं नाम
समनुप्रविश्य त्वदीयं मन्त्रगणं सर्वलौकिकलोकोत्तरं च मन्त्रसिद्धिं
समनुप्राप्नुवन्ति । एवमुक्त आगुह्यकाधिपतिना यक्षेन्द्रेण मञ्जुश्रीः
कुमारभूतः परमगुह्यमण्डलतन्त्रं भाषते स्म । सर्वविद्यसञ्चोदनं
नाम स ** (?) विकुर्वणं विदन्तयति । दक्षिणं च पाणिमुद्यम्य अङ्गुल्याग्रेण
पर्षन्मण्डलमाकारयति स्म । तस्मिन्नङ्गुल्यग्रे
अनेकविद्याराजकोटीनयुतशतसहस्राणि निश्चेरुः । निश्चरित्वा च सर्वावन्तं
शुद्धावासभवनं महतावभासेनावभास्य च स्थित्वा अभूवम् ॥

अथ मञ्जुश्रीः कुमारभूतः यमान्तकस्य क्रोधराजस्य हृदयं सर्वकर्मिकम्
एकवीरम् आवाहनविसर्जनशान्तिकपौष्टिक आभिचारुक
अन्तर्धानाकाशगमनपातालप्रवेशपादप्रचारिकाकर्षणविद्वेषणवशीकरण-
सर्वगन्धमाल्यविलेपनप्रदीपस्वमन्त्रतन्त्रेषुगदानः सङ्क्षेपतः यथा यथा
प्रपद्यते तथा तथा साध्यमानः अक्षरं नाम महावीर्यं सर्वार्थसाधनं
महाक्रोधराजम् । कतमं च तत् । ॐ । आः । ह्रूꣳ । इदं तन्महाक्रोधस्य हृदयम् ।
सर्वकर्मिकं सर्वमण्डलेषु सर्वमन्त्रचर्यासु च निर्दिष्टं महासत्त्वेन

स्थापयामि । एवमाह - नमस्ते ****** (?) समन्वाहरन्त बुद्धा भगवन्तः ।

२६, प्। २६)

ये के***(?) दशदिग्लोकधातुव्यवस्थिता मनन्तापर्यान्ताथ बोधिसत्त्वा ****** (?)
समयमधितिष्ठन्न । ***(?)भुक्त्वा तं क्रोधराजानं भ्रामयित्वा क्षिपान स्म ।
समनन्तरनितिशे महाक्रोधराजे सर्वावन्तं लोकधातुं सत्त्वा क्षणमात्रेण ये
दुष्टाशयाः सत्त्वा महर्द्धिकाः तां निगृह्यानयति रूप । तं
महापर्षन्मण्डलं शुद्धावासभवनं प्रवेशयति स्म । व्यवस्थायाञ्च
स्थापयित्वा समन्तज्वालामालाकुलो भूत्वा दुष्टसत्त्वेषु च मूर्ध्नि तिष्ठते स्म ॥

अथ मञ्जुश्रीः कुमारभूतः पुनरपि तं पर्षन्मण्डलमवलोक्य शृण्वन्तु
भवन्तः सर्वसत्त्वाः यो ह्येनं मदीयं समयमतिक्रमेत् तस्यायं क्रोधराजा
निग्रहमापादयिष्यति । यत् कारणमनतिक्रमणीया बुद्धानां भगवतां
समयरहस्यमन्त्रार्थवचनपथाः बोधिसत्त्वानां च महर्द्धिकानां
समासनिर्देशतः कथयिष्यामि । तं शृणुत साधु च सुष्टु च मनसि कुरुत
भाषिष्येऽहम् । नमह् समन्तबुद्धानाम् । ओंर र स्मर
अप्रतिहतशासनकुमाररूपधारिण हूꣳ हूꣳ फट् फट् स्वाहा । अयं सप्नार्याः !
मदीयमूलमन्त्रः । आर्यमञ्जुश्रियं नाम मुद्रा पञ्चशिखा महामुद्रेति
विख्याता तं प्रयोजये अस्मिन् मूलमन्त्रे सर्वकर्मिकं भवति हृदयम् । बुद्धो
सर्वकर्मकरं शिवम् । ॐ धान्यद नमः । मुद्रा चात्र भवति त्रिशिखेति विख्याता
सर्वभोगाभिवर्द्धनी । उपहृदयं चात्र भवति । वाह्ये हूꣳ । मुद्रा चात्र भवति
त्रिशिखेति विख्याता सर्वसत्त्वाकर्षणी । परमहृदयं चात्र भवति । मुम् । मुद्रा
भवति चात्र मयूरासनेति विख्याता सर्वसत्त्ववशङ्करी । सर्वबुद्धानां हृदयम्
। अपरमपि महावीरं नाम अष्टाक्षरं परमश्रेयसं महापवित्रं
त्रिभववर्त्मीयच्छेदं सर्वदुर्गविनिवारणं सर्वशान्तिकरं सर्वकर्मकरं
क्षेत्रं निर्वाणप्रापणं बुद्धमिव सम्मुखदर्शनोपस्थितम् । स्वयमेव
मञ्जुश्रीरवं बोधिसत्त्वः सर्वसत्त्वानाम***** (?) *********** (?) सर्वशापारि
यत्र स्यरित************ (?) । कः पुनर्वादो भवेत् । कत***(?) ****************** (?) ।
एष सः मा** (?) एवमेवाहम् अष्टाक्षरं ******************* (?) शिव
प्रत्ययस्*****(?) । सर्वकार्येषु

२७, प्। २७)

सङ्क्षेपतो प*** (?) * * * * * * * (?) । न्तनिष्ठादक्षमिति । मुद्रा वास भवति
महावीरेति विख्याता सर्वाशापारिपूरकी । आह्वाननमन्त्रा चात्र भवति । ॐ हे हे
कुमाररूपिस्वरूपिणे सर्ववालभाषितप्रबोधने आयाहि भगवम् आयाहि ।
कुमारक्रीडोत्पलधारिणे मण्डलमध्ये तिष्थ तिष्ठ । समयमनुस्मर ।
अप्रतिहतशासन हूꣳ । मा विलम्ब । रु रु फट् स्वाहा । एष भगवं मञ्जुश्रियः
आह्वाननमन्त्रा । सर्वसत्त्वानां सर्वबोधिसत्त्वानां
सर्वप्रत्येकबुद्धार्यश्रावकदेवनागयक्षगन्धर्वगरुडकिन्नरमहारोग-
पिशाचराक्षससर्वभूतानां चेति सप्ताभिमन्त्रितं चन्दनोदकं कृत्वा
चतुर्दिशमित्यूर्ध्वमधस्तिर्यक्सर्वतः क्षिपेत् । सर्वबुद्धबोधिसत्वाः मञ्जुश्रियः
स्वयं तस्य परिवारः सर्वलौकिकलोकोत्तराश्च मन्त्राः सर्वे च भूतगणाः
सर्वसत्त्वाश्च आगता भवेयुः । नमः सर्वबुद्धानामप्रतिहतशासनानाम् । ॐ धु
धुर धुर धूपवासिनि धूपार्चिषि हूꣳ तिष्ठ समयमनुस्मर स्वाहा ।
धूपमन्त्रः । चन्दनं कर्पूरं कुङ्कुमं चैकीकृत्य धूपं दापयेत्ततः ।
आगतानां तथागतानां सर्वबोधिसत्त्वानां च धूपाप्यायितमनसः आकृष्टा
भवन्ति । भवति चात्र मुद्रा यस्य मालेति विख्याता सर्वसत्त्वाकर्षणी शिवा ।
आह्वाननमन्त्रायाश्च अयमेव मुद्रा पद्ममाला शुभा । आगतानां च
सर्वबुद्धबोधिसत्त्वानां सर्वसत्त्वानां चागतानाम् अर्घ्यो देयः ।
कर्पूरचन्दनकुङ्कुमैरुदकमालोड्य
जातीकुसुमनवमालिकवार्षिकपुन्नागनागवकुलपिण्डितगराभ्याम्
एतेषामन्यतमेन पुषेण यथार्त्तुकेन वा सुगन्धपुष्पेण मिश्रीकृत्य अनेन
मन्त्रेण अर्घ्यो देयः । नमः सर्वबुद्धानामप्रविहनशासनानां तद्यथा - हे
हे (?)कारुणिक ! विश्वरूपधररिणि ! ** (?) प्रतीच्छ प्रती(?)पय समयानुस्मर
तिष्ठ तिष्ठ मण्डल******(?) (?)विश सर्व*******(?) (?)ह्ण हूꣳ । अम्********
(?) । मुद्रा चा******(?)ति विख्यात सर्वबुद्धानुवर्तिनी । (?)मन्त्रा चात्र
(?) सर्व
******(?) नमः समन्तग*********(?)श्रियाय तथागताय ।
भवति

२८, प्। २८)

चात्र मुद्रा पल्लवा नाम सर्वामापारिपूरिका । पुष्पमन्त्रा चात्र भवति । नमः
सर्वबुद्धानामप्रतिहतशासनानाम् । नमः सङ्कुसुमितराजस्य तथागतस्य ।
तद्यथा - कुसुमे कुसुमे कुसुमाढ्ये कुसुमपुरवासिनि कुसुमावति स्वाहा । तेनैव
धूपमन्त्रेण पूर्वोक्तेनैव धूपेन धूपयेत् ।

सर्वबुद्धां नमस्कृत्य अचिन्त्याद्भुतरूपिणाम् ।
बलिमन्त्रं प्रवक्ष्यामि सम्यक् सम्बुद्धभाषिताम् ॥

नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानां तद्यथा - हे हे भगवं !
महासत्त्व ! बुद्धावलोकित ! मा विलम्ब । इदं बलिं गृह्णापय गृह्ण हूꣳ हूꣳ
सर्वविश्व र र ट ट फट् स्वाहा । निवेद्यं चानेन दापयेत् । बलिं च सर्वभौतिकम् ।
भवति चात्र मुद्रा शक्तिः सर्वदुष्टनिवारिणी । नमः
सर्वबुद्धानामप्रतिहतशासनानां सर्वतमोऽन्धकारविध्वंसिनां नमः
समन्तज्योतिगन्धावभासश्रियाय तथागताय । तद्यथा - हे हे भगवं !
ज्योतिरश्मिशतसहस्रप्रतिमण्डितशरीर ! विकुर्व विकुर्व
महाबोधिसत्त्वसमन्तज्वालोद्योतितमूर्ति खुर्द खुर्द अवलोकय अवलोकय
सर्वसत्त्वानां स्वाहा ॥

प्रदीपमन्त्रा । प्रदीपं चानेन दापयेत् । मुद्रा विकासिनी
नाम सर्वसत्त्वावलोकिनी । नमः समन्तबुद्धानामप्रतिहतशासनानाम् । तद्यथा

  • ज्वल ज्वल ज्वालय ज्वालय । हुꣳ । विवोधक हरिकृष्णपिङ्गल स्वाहा । अग्निकारिका
    मन्त्रा । भवति चात्र मुद्रा सम्पुटनाम लोकविश्रुता । सर्वसत्त्वप्रभोद्योतनी
    भाषिता मुनिवरैः पूर्वं बोधिसत्त्वस्य धीमतः ॥

अथ खलु मञ्जुश्रीः कुमारभूतः वज्रपाणिं बोधिसत्त्वमामन्त्रयते स्म । इमानि
गुह्यकाधिपते मन्त्रपदानि सरहस्यानि परमगुह्यकानि

त्वदीयं कुलविख्यातः सुतं घोरं सदारुणम् ।
स एव सर्वमन्त्राणां साध्यमानानां **(?)क्षणैः ॥

पूर्धूटक इयं ख्यात * * * (?) जकुलयोरपि ।

२९, प्। २९)

नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम् । उं कर कर कुरु कुरु नम
कार्यम् । भञ्ज भञ्ज सर्वविघ्नाम् । दह दह सर्ववज्रविनायकम् ।
मूर्धटकजीवितान्तकर महाविकृतरूपिणे पच पच सर्वदुष्टाम् ।
महागणपतिजीवितान्तकर बन्ध बन्ध सर्वग्रहाम् । षण्मुख ! षड्भुज !
षट्चरण ! रुद्रमानय । विष्णुमानय । ब्रह्माद्यां देवानानय । मा विलम्ब मा
विलम्ब । झल् झल् मण्डलमध्ये प्रवेशय । समयमनुस्मर । हूꣳ हूꣳ हूꣳ हूꣳ हूꣳ
हूꣳ फट् फट् स्वाहा । एष सः परमगुह्यकाधिपते परमगुह्यः महावीर्यः
मञ्जुश्रीः षण्मुखो नाम महाक्रोधराजा सर्वविघ्नविनाशकः । अनेन
पठितमात्रेण दशभूमिप्रतिष्ठापितबोधिसत्त्वा विद्रवन्ते । किं
पुनर्दुष्टविघ्नाः । अनेन पठितमात्रेण महारक्षा कृता भवति । मुद्रा चात्र
भवति महाशूलेति विख्याता सर्वविघ्नविनाशिका । अस्यैव क्रोधराजस्य हृदयम् । ॐ
हीꣳः हीः विकृतानन हुम् । सर्वशत्रुं नाशय स्तम्भय फट् फट् स्वाहा । अनेन
मन्त्रेण सर्वशत्रूं महाशूलरोगेण चतुर्थकेन वा गृह्णापयति । शततजपेन
वा यावद् रोचते मैत्रतां वा न प्रतिपद्यते । अथ करुणाचित्तं लभते । जापान्ते
मुक्तिर्न स्यात् । मृयत इति रत्नत्रयापकरिणां कर्तव्यं नाशेषं सौम्यचित्तानां
मुद्रा महाशूलैव प्रयोजनीया । उपहृदयं चात्र भवति । ॐ ह्रीꣳः कालरूप हुं
खं स्वाहा । मुद्रा महाशूलयैव प्रयोजनीया । सर्वदुष्टां यमिच्छति तं
कारयति । परमहृदयम् । सर्वबुद्धाधिष्ठितम् एकाक्षरं नाम । हूꣳ । एष
सर्वकर्मकरः । मुद्रा महाशूलयैव प्रयोजनीया । सर्वानर्थनिवारणम् ।
सर्वभूतवशङ्करः सङ्क्षेपतः । एष क्रोधराज सर्वकर्मेषु प्रयोक्तव्यः
मण्डलमध्ये जापः सिद्धिकाले च विशिष्यते । विसर्जनमन्त्रा भवन्ति । नमः
सर्वबुद्धानामप्रतिहतशासनानाम् । तद्यथा - जयं जय सुजय महाकारुणिक
विश्वरूपिणे गच्छ गच्छ स्वभवनं सर्वबुद्धांश्च विसर्जय । सपरिवारां
स्वभवनं चानुप्रवेशय । समयमनुस्मर । सर्वार्धाश्च मे सिद्ध्यन्तु
मन्त्रपदाः मनोरथं **** (?) परिपूरय स्वहा ॥

अर्थ विवर्जनमन्त्रः
सर्वकर्मेषु प्रसाकव्यः । मुद्रा पदपीठेति विख्याता । आसनं वानेन दापयेत् ।
मनसा सप्तज सेन विसर्जनं सर्वेभ्यः लौकिकलोकोत्तरेष्यो मण्डलेभ्यः
मन्त्रेभ्यश्चैव मन्त्रसिद्धिः । ***(?)जपकालनियमेषु च ********(?)येति ॥

३०, प्। ३०)

महापर्वन्मण्डलं स्वकं च विद्यागणमन्त्रपटलविसरं भाषते स्म । नमः
सर्वबुद्धानाम् अप्रतिहतशासनानाम् । ॐ रिटि स्वाहा ॥

मञ्जुश्रियस्येदम् अनुचरी
केशिनी नाम विद्या सर्वकर्मिका । महामुद्राया पञ्चशिखाया
योज्यसर्वविषकर्मसु । नमः समन्तबुद्धानामप्रतिहतशासनानाम् । ॐ निटि ।
उपकेशिनी नाम विद्येयं सर्वकर्मिका मुद्रया विकासिन्या च योजयेत् ।
सर्वग्रहकर्मेषु । नमः समन्तबुद्धानामप्रतिहतगतीनाम् । ॐ निः ।

विद्येयं वलिनी नाम सवर्कमकरा शुभा ।
मुद्रया भद्रपीठया संयुक्ता यक्षिणी आनयेद् ध्रुवम् ॥

नमः समन्तबुद्धानाम् अचिन्त्याद्भुतरूपिणाम् ।
मुद्रया शक्तिना युक्ता सर्वडाकिनीघातिनी ॥

ॐ ज्ञैः स्वाहा ।

विद्या कापतलिनी नाम मञ्जुघोषेण भाषिता ।
समन्तासर्वबुद्धैश्च प्रशस्ता दिव्यरूपिणी ॥

नमः समन्तबुद्धानाम् अप्रतिहतगतिप्रचारिणाम् ।
तद्यथा - ॐ वरदे स्वाहा ।

मुद्रा त्रिशिखेनैव प्रयोजयेत् । श्रेयसात्मकः ।
बहुरूपधरा देवी क्षिप्रभोगप्रसाधिका ॥

नमः समन्तबुद्धानाम् अचिन्त्याद्भुतरूपिणाम् ।

ॐ भूरि स्वाहा ।

मुद्रया शूलसन्दुका सर्वज्वरावनाशिनी ।
नमः समन्तबुद्धानामचिन्त्यद्भूतरूपिणाम् ॥

ॐ तु रे स्वाहा ।

विद्या ता***(?) नाम (?) कर्मसु ।
मुद्रया श
*******(?)घातिनी ॥

नमः सम******************(?)म् ।

३१, प्। ३१)

तद्यथा ॐ विलोकिनि स्वहा ।

विद्या लोकवती नाम * * * * * (?)शङ्करी ।
योजिता वज्रमुद्रेण सर्वसौख्यप्रदायिका ॥

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् ।

तद्यथा - ॐ विश्वे विश्वसम्भवे विश्वरूपिणि कह कह आविशाविश ।
समयमनुस्मर । रुरु तिष्ठ स्वाहा ।

एषा विद्या महावीर्या दर्शिता लोकनायकैः ।
दंष्ट्रमुद्रासमेतास्त्रसर्वसत्त्वा *(?) वेशिनी ॥

शुभा वरदा सर्वभूतानां विश्वेति सम्प्रकाशिता ।
नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् ॥

तद्यथा - ॐ श्वेतश्री वपुः स्वाहा ।

मयूरासनेन मुद्रेण विन्यस्ता सर्वकर्मिका ।
महाश्वेतेति विख्याता अचिन्त्याद्भुतरूपिणी ॥

सौभाग्यकरणं लोके नरनारीवशङ्करी ।
नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम् ॥

तद्यथा - ॐ । खिखिरिखिरि भङ्गुरि सर्वशत्रुं स्तम्भय जम्भय मोहय
वशमानय स्वाहा ।

एषा विद्या महाविद्या योगिनीति प्रकथ्यते ।
योजिता वक्त्रमुद्रेण दुष्टसत्त्वप्रसादिनी ॥

नमः समन्तबुद्धानामप्रतिहतगतिप्रचारिणाम् ।

तद्यथा - ॐ श्रीः ।

एषा विद्या महालक्ष्मी लोकनाथैस्तु देशिता ।
मुद्रा सम्पुटया युक्ता महाराज्यप्रदायिका ॥

नमः समन्तबुद्धा * * * (?) भयप्रदायिनाम् ।
ॐ अजिते । * * * (?) * * * * * (?)ण ! एहि आगच्छ म ॥

३२, प्। ३२)

अजितेति विख्याता कुमारी अमृतोद्भवा ।
मुद्रया पूर्णया युक्ता सर्वशत्रु***(?)णी ॥

नमः समन्तबुद्धानाय* * * * * * (?)पिणाम् ।

तद्यथा - ॐ जये स्वाहा । विजये स्वाहा । अजिते स्वाहा । अपराजिते स्वाहा ।

चतुर्भगिन्य इति विख्याता बोधिसत्त्वानुचारिका ।
पर्यटन्ति महीं कृत्स्नां सत्त्वानुग्रहकारिकाः ॥

भ्राता स्तुम्बुरुविख्याता एतासामनुचारकः ।
नौयानसमारूढा अन्दुर्धेतुः निवासिनः ॥

मुष्टिमुद्रेण विन्यस्ता सर्वाशापारिपूरिका ।
नमः समन्तबुद्धानां लोकाग्राधिपतीनाम् ॥

तद्यथा - ॐ । कुमार ! महाकुमार ! क्रीड क्रीड षण्मुखबोधिसत्त्वानुज्ञात !
मयूरासनसङ्घोद्यतपाणि रक्ताङ्ग ! रक्तगन्धानुलेपनप्रिय ! ख ख खाहि
खाहि खाहि । हुं नृत्य नृत्य । रक्तापुष्पार्चितमूर्ति समयमनुस्मर । भ्रम भ्रम
भ्रामय भ्रामय भ्रामय । लहु लहु माविलम्ब सर्वकार्याणि मे कुरु कुरु
चित्ररूपधारिणे तिष्ठ तिष्ठ हुं हुं सर्वबुद्धानुज्ञात स्वाहा ।

भाषिता बोधिसत्त्वेन मञ्जुघोषेण नायिका ।
षड्विकारा मही कृत्स्ना प्रचचाल समन्ततः ॥

हितार्थं सर्वसत्त्वानां दुष्टसत्त्वनिवारणम् ।
महेश्वरस्य सुतो घोरो वैनेयार्थमिहागतः ॥

स्कन्दमङ्गारकस्यैव * * * * (?) सुचिहितः ।
मञ्जुभाषिणी ततो माषे करुणाविष्टेन चेतसा ॥

आवर्तया*****(?) किं पुनर्मानुषं फलम् ।

३३, प्। ३३)

कौमारभित्तमखिलं कल्पनस्य समासतः ।
कार्त्तिकेयमञ्जुश्रीः मन्त्रोऽयं समुदाहृतः ॥

सत्त्वानुग्रहकाम्यर्थं बोधिसत्त्व इहागतः ।
त्र्यक्षरं नाम हृदयं मन्त्रस्यास्य उदाहृतम् ॥

सर्वसत्त्वहितार्थाय भोगाकर्षणतत्परः ।
मुद्रया शक्तियष्ट्या तु विन्यस्तः सर्वकर्मिकः ॥

ॐ हूꣳ जः ।

एष मन्त्रः समासेन कुर्यान्मानुषकं फलम् ।
नमः समन्तबुद्धानां समन्तोद्योतितमूर्तिनाम् ॥

ॐ विकृतग्रह हुं फट् स्वाहा ॥

उपहृदयं चास्य संयुक्तो मुद्राशक्तिना तथा ।
आवर्तयति भूतानि सग्रहां मातरां तथा ॥

सर्वमुद्रितमुद्रेषु विन्यस्ता सफला भवेत् ।
वित्रासयति भूतानां दुष्टाविष्टविमोचनी ॥

एष मञ्जुश्रियस्य कुमारभूतस्य कार्त्तिकेयमञ्जुश्रीर्नाम कुमारः अनुचरः
सर्वकर्मिकः जपमात्रेणैव सर्वकर्माणि करोति सर्वभूतानि त्रासयति आकर्षयति
वशमानयति शोषयति घातयति यथेप्सितं वा विद्याधरस्य तत् सर्वं सम्पादयति ।
नमः समन्तबुद्धानामप्रतिहतशासनानाम् । तद्यथा - ॐ ब्रह्म सुब्रह्म
ब्रह्मवर्चसे शान्तिं कुरु स्वाहा ॥

एष मन्त्रो महाब्रह्मा बोधिसत्त्वेन भाषितः ।
शान्तिं प्रजग्मुर्भूतानिं तत्क्षणादेव शीतला ॥

मुद्रा पञ्चशिखा*(?)क्ता क्षिप्रं स्वस्त्ययनं भवेत् ।
आभिचारुकेषु सर्वेषु अथवो चेदपठ्यते ॥

तद्यथा ॐ ******** (?) ! चक्रपाणि ! ************** (?)स्मर । बोधिसत्त्वो ज्ञापयति
स्वाहा ॥

३४, प्। ३४)

आज्ञप्तो मञ्जुघोषेण क्षिप्रमर्थकरः शिवः ।
विद्रापयति भूतानि विष्णुरूपेण देहिनाम् ॥

मुद्रा त्रिशिखे युक्तः क्षिप्रमर्थकरः स्थिरः ।
य एव वैष्णवे तन्त्रे कथिताः कल्पविस्तराः ॥

उपायवैनेयसत्त्वानां मञ्जुघोषेण भाषिताः ।
नमः समन्तबुद्धानामप्रतिहतशासनानाम् ॥

एष मन्त्रो मया प्रोक्तः सत्त्वानां हितकाम्यया ।
शूलमुद्रासमायुक्ताः सर्वभूतविनाशकः ॥

यन्मया कथितं पूर्वं कल्पमस्य पुरातनम् ।
सैवमिति वक्ष्यन्ते सत्त्वा भूतलवासिनः ॥

विविधा गुणविस्ताराः शैवतन्त्रे मयोदिताः ।
नमः समानबुद्धानामप्रतिहतशासनानाम् ॥

तद्यथा - ॐ **(?)न महाशकुन पद्मविततपक्ष सर्वपन्नगनाशक ख ख खाहि
खाहि समयमनुस्मर । हुꣳ । तिष्ठ । बोधिसत्त्वो ज्ञापयति स्वाहा ॥

एष मन्त्रो महावीर्यः वैनतेयेति विश्रुतः ।
दुर्दान्तदमको श्रेष्ठः भोगिनां विषनाशनम् ॥

महामुद्रया समायुक्तः हन्त्यनर्थ सुदारुणाम् ।
विचिकित्सयति न सन्देहो विषं स्थावरजङ्गमम् ॥

सत्त्वानुपायवैनेया बोधिसत्त्वसमानया ।
पिचेरुर्गरुडरूपेण पक्षिराट् स महाद्युतिः ॥

सावन्तः गारुडे तन्त्रे कथिताः कल्पविस्तराः ।

भोगिनां **** (?) *** (?) पक्षिरूपिणः ॥

३५, प्। ३५)

यावन्तो लौकिका मन्त्राः तेऽस्मि कल्प उदाहृताः ।
वैनेयार्थं हि सत्त्वानां विचरामि तथा तथा ॥

ये तु ताथागतीमन्त्राः कुलिशाङ्कुकुलयोरपि ।
तेऽस्मिन् कल्पविस्तरे भाषिता पूर्वमेव तु ॥

यथा हि धात्री बहुधा बालानां लालति यत्नतः ।
तथा बालिशबुद्धीनां मन्त्ररूपी चराम्यहम् ॥

दशबलै कथितं पूर्वे अधुना च मयोदितम् ।
सकलं मन्त्रतन्त्रार्थं कुमारोऽप्याह महाद्युतिः ॥

जिनवरैश्च ये गीता गीता दशबलात्मजैः ।
मञ्जुस्वरेण ते गीता अचिन्त्याद्भुतरूपिणाम् ॥

अथ खलु मञ्जुश्रीः कुमारभूतः सर्वावन्तं शुद्धावासभवनं तं च
महापर्षन्मण्डलमवलोक्य सर्वसमयसञ्चोदनीं नाम समाधिं समापद्यते
स्म । यत्र समाधेः प्रतिष्ठितस्य अशेषसत्त्वनिर्हारचर्यामनसः सर्वसत्त्वा
प्रतिष्ठिताः भवेयुः समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य
सर्वावन्तं शुद्धावासभवनं विचित्रमणिरत्नव्यूहालङ्कारमण्डलम्
अचिन्त्याद्भुतबोधिसत्त्वविकुर्वणं सर्वप्रत्येकबुद्धार्यश्रावकचर्याप्रविष्टैरपि
वाधिसत्त्वैः दशभूमिप्रतिष्ठितेश्वरैरपि न शक्यते मण्डलं लिखितुं वा कः
पुनर्वादो पृथग्जनभूतैः सत्त्वैः त
दिव्यमार्यमण्डलसमयनिर्हारवस्थानावस्थितं मञ्जुश्रियं कुमारभूतं
दृष्ट्वा सर्वे बुद्धा भगवन्तः सर्वप्रत्येकबुद्धाः सर्वे आर्यश्रावकाः सर्वे
बोधिसत्त्वाः दशभूमिप्रतिष्ठिताः यौवराज्याभिषेकसमनुप्राप्ता आर्याः
प्रतिपन्नाश्च सर्वे सत्त्वा साश्रवा अनाश्रवाश्च मञ्जुश्रियः
कुमारभूतस्याधिष्ठानेनाचिन्त्यं बुद्धबोधिसत्वाचार्यानिष्यन्दितं
समाधिविशेषसानसोद्भवं मण्डलं प्रविष्टमात्मानं सञ्जानन्ते स्म । न
शक्यते तत् पृथग्जनैः सत्त्वैः यमनसाष्याटम्बयितुम् क**(?)नर्वादो लिखितुं
लेखयितुं वा ॥

अथ मञ्जुश्रीः कुमारभूत (?) महापर्षन्मण्डलसमयानुप्रविष्टः
सत्त्वानामन्त्रयते । शृण्वन्तु मा
(?) ! अनतिक्रमणीयमेतत् तथागतानां

३६, प्। ३६)

बोधिसत्वानां च समयः कः पुनर्वादोऽन्येषां सत्वानाम् आर्यानार्याणाम् ।
अथ मञ्जुश्रीः कुमारभूतः वज्रपाणिं गुह्यकाधिपतिमामन्त्रयते स्म ।
निर्दिष्टं मो जिनपुत्रातिक्रान्तमानुष्यकं समयं मानसोद्भवं मानुष्यकं
तु वक्ष्ये परिनिर्वृतानां च तथागतानाम् यत्र सत्वा समनुप्रविश्य
सर्वमहालौकिकलोकोत्तरा सिद्धिं गच्छेयुः ॥

अथ खलु वज्रपाणिर्गुह्याधिपतिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म ।
भाष भाष त्वं भो जिनपुत्र ! यस्येदानीं कालं मन्यसे ।

परिनिर्वृते लोकनाथे शाक्यसिंहे अनुतरे ।
बुद्धत्व इव सत्वानां त्वदीयं मण्डलं भुवि ॥

दृष्टमात्रो हि लोकेऽस्मिन् मन्त्रा सिद्धिं प्रजग्मिरे ।
अज्ञानविधिहीनं तु शयानविकृतेन वा ॥

मन्त्रा सिद्धिं न गच्छेयुः ब्रह्मस्यापि महात्मनः ।
अनभियुक्ता तन्त्रेऽस्मिन् अदृष्टसमयोदिते ॥

मन्त्रा सिद्धिं न गच्छन्ति यत्नेनाप्यनेकदा ।
समयप्रयोगहीनं शक्रस्यापि प्रयत्नतः ॥

मन्त्राः सिद्धिं न गच्छन्ति किं पुनर्भुवि मानुषे ।
समयशास्त्रतत्त्वज्ञे चर्याकर्मसु साधने ।
पठितमात्रा हि सिध्यन्ते मात्रा आर्या च लौकिकाः ॥

मण्डलं मञ्जुघोषस्य प्रविष्टः सर्वकर्मकृत् ।
मन्त्रसिद्धिर्ध्रुवं तस्य कुमारस्यैव शासने ॥

अथ खलु वज्रपाणिर्गुह्यधिपतिः तं महासत्व मध्ये भाषते स्म । सङ्क्षेपतः
भो भो महाबोधिसत्व ! सत्वानायर्थाय मण्डलविधानं भापस्वेति ॥

एवमुक्त*(?) गुह्यकाधिपतिना मञ्जुश्रीः कुमारभूतः सर्वसत्वासामर्थाय
मण्*********(?) भाषते स्म । आदौ तावत् पतिहारकपक्षे चैत्रवैशाखे
पूर्वाहे******************** (?) यत्र वा *****(?)न्मण्डलानार्थः

३७, प्। ३७)

श्व समुद्रगामिनी वा नदीमाश्रित्य समुद्रतटसमीपं वा महानगरस्य
पूर्वोत्तरे दिग्भागे नातिदूरे नात्यासन्ने मण्डलाचार्येण सत्त्वाना सप्ताहं
पक्षमात्रं वा एकान्ते उडयं कृत्त्वा प्रतिवस्तव्यम् । यः तस्मिन् स्थाने सुचौक्षं
पृथिवीप्रदेशं समाताच्चतुरश्रं षोडशहस्तं द्वादशहस्तं वा
अपगतपाषाणकटण्णभस्माङ्गारतुषकपालास्थिवर्जितं सुचौक्षं
सुपसुपरिकर्मितं पृथिवीप्रदेशं निध्रोत्मकेनोदकेन पञ्चगव्यसन्विश्रितेन
चन्दनकर्पूरकुङ्कुमोदकेन वा यमान्तकेन क्रोधराजेनाष्टसहस्राभिमन्त्रितेन
पञ्चशिखमहामुद्रासंयुक्तेन तं पृथिवीप्रदेशम् अभ्युक्षयेच्चतुर्दिक्षु
इत्यूर्ध्वमधस्तिर्यग् विदिक्षु च सर्वतः क्षिपेत् । ततो तं पृथिवीप्रदेशं
समन्ताच्चतुरश्रं षोडशहस्तं द्वादशहस्तं वा अष्टहस्तं वा तत्र
षोडशहस्तं ज्येष्ठं मध्यं द्वादशहस्तं कन्यसम् अष्टहस्तम् । एतत्
त्रिविधं प्रोक्तं मण्डलं सर्वदर्शिभिः राज्यकामाय ततो ज्येष्ठं मध्यमं
सम्भोगवर्धनं कन्यसं समयमात्रं तु सर्वकर्मकरं शिवम् ।
ततोऽन्यतमं मनसेप्सितं मण्डलमालिखेत् । तत्र तं पृथिवीप्रदेशं
द्विहस्तमात्रं खनेत् । तत्र पाषाणाङ्गारभस्मास्थिकेशादयो विविधा वा
प्राणकजातयः यदि दृश्यन्ते अन्यं पृथिवीप्रदेशं खनेत् । निरुपहत्यं
निरुपद्रवं भवेत् । न चेत्
पर्वताग्रनदीपुलिनसमुद्रोत्सङ्गमहानदीपुलिनसिकतादिचयं महता प्रयत्नतः स
प्रत्यवेक्षितं सुचौक्षं निःप्राणकं कृत्वा लिखेत् । तं पृथिवीप्रदेशं भूयो
निःप्राणेनोदकेन पञ्चगव्यसन्मिश्रेण नदीकूलमृत्तिकया मेध्यया
वल्मीकमृत्तिकया वा यत्र प्राणका न सन्ति तया मृत्तिकया पूरयितव्यम् । पूरयित्वा
च स्वाकोटितं समतलं समन्तात् त्रिविधं मण्डलं यथेप्सितं काम्येत् ।
चतुर्दिक्षु चत्वारः खदिरकीलका निखनेत् । क्रोधराजेनैव सप्ताभिमन्त्रितं कृत्वा
पञ्चरङ्गिकेण सूत्रेण सप्ताभिमन्त्रितेन क्रो***(?)येन कृत्वा समन्ता (?)
चतुरश्राकारेण वेष्टयेत् । एवं मध्यमे स्थाने एवमभ्यन्तरे ********* (?) ।
मध्यस्थानस्थितेन मण्डलाचार्येण विद्या अष्ट
***(?) उच्चारयितव्या
महामुद्रा पञ्चशिखां बध्वा मूलमन्त्रेण ससत्त्वारशा आत्मरक्षा च
कार्या । जपतश्च निष्कसर्वहिमण्डलं प्रदक्षिणीकृत्य ******(?)
कुशविण्डकोपविष्टः

३८, प्। ३८)

सर्वबुद्धबोसत्वानां मनसि कुर्वाणः । समन्ताच्च तन्मण्डलं
चतुरश्राकारेण वेष्टयेत् । वहिर्नाधः एकरात्रोषितां कृत्वा प्रवासयेत् ॥

तत्र मण्डलाचार्येण कृतपुरश्चरणेन स्वतन्त्रमन्त्रकुशलेन
उपायसत्त्वार्थमहायानाधिमुक्तेन एकरात्रोषितेन सुसखायसमेतेन
विधिशास्त्रदृष्टेन कर्मणा पञ्चरङ्गिकेन चूर्णेन श्लक्ष्णोज्ज्वालेन
सुपरिकर्मकृतेन षडक्षराभिमन्त्रिते हृदयेनाभिमन्त्यं तं चूर्णं
मण्डलमध्ये स्थापयेत् । वहिश्चोच्छ्रितध्वजपताकतोरणे चतुष्पथालङ्कृतं
कदलीस्तस्भरोपितफलभरितपिण्डीभिः
प्रलम्बमानमाहतभेरीमृदङ्गशङ्खतन्त्रीनिर्घोषनिनादितं पृथिवीप्रदेशं
कुर्यात् । प्रशस्तशब्दधर्मश्रवणचतुष्पर्षानुकूलमहायानसूत्रां चतुर्दिक्षु
पुस्तकां वाचयन् ॥

तद्यथा - भगवती प्रज्ञापारमिता दक्षिणां दिशि वाचयेत् ।
आर्यचन्द्रमदीपसमाधिः पश्चिमायां दिशि । आर्यगण्डव्यूह उत्तरायां दिशि ।
आर्यसुवर्णप्रभासोत्तमसूत्रं पूर्वायां दिशि । एवमधीतचतुःसूत्रान्तिकं
पुद्गलां धर्मभाणकं पुस्तकाभावादद्ध्येषयेत् । धर्मश्रवणाय ततो
मण्डलाचार्येणोत्थाय चन्दनकर्पूरकुङ्कुमव्यामिश्रकेण
श्वेतसुगन्धपुष्पैः मूलमन्त्रं जपता सर्वतस्तं मण्डलमभिकिरेत् । अभिकीर्य
च वहिर्निर्गच्छेत् । सप्ताहाद्धविष्याहारोषितां द्वौ त्रयो वा उत्पादितबोधिचित्तम् ।
सप्ताहाद्धविष्याहारोषितां द्वौ त्रयो वा उत्पादितबोधिचित्तम् उपोषध
उपवासोचितां चित्रकरा निपुणतरां प्रवेशयेत् । मूलमन्त्रेणैव शिखाबन्धं
कृत्वा ततः सुवर्णरूप्यविविधरत्नपञ्चविचित्रोज्ज्वलचारुसूक्ष्मचूर्णताम्व्रां
प्रतिगृह्य महाभोगैः सत्त्वैः महाराजानैश्च धार्मिकैः लिखापनीयम् ।
बोधिपरायणीयं बोधिपरायणं नियतम् ॥

मण्डलं दर्शनादेव किं पुनर्मन्त्रसाधने ।
सत्वानामल्पपुण्यानां निर्वृते शाक्यपुङ्गवे ॥

कुत**(?)विधा ******धिरेपा तु कल्प्यते ।
दरिद्रजनतां दृष्ट्वा *****(?)षो महाद्युतिः ॥

उदीरयेत् कल्परा*****(?) तु समासतः ।
शालितण्डुलचूर्णैस्तु ***(?) पञ्चरङ्गोज्ज्वलैः ॥

३९, प्। ३९)

शुक्लपीतरक्तकृष्णहरितवर्णाययेत् ।

पूर्वस्थापितकं चूर्णं मण्डलाचार्येण स्वयं गृह्य महामुद्रां
पञ्चशिखां बद्ध्वा मूलमन्त्रं जपता तं चूर्णं मुद्रयेत् । अपरेण तु
साधकाचार्येण मण्डलवहिर्दक्षिणपूर्वायां दिशि विधिदृष्टेन कर्मणा
अग्निकुण्डं कारयेत् । द्विहस्तप्रमाणं हस्तमात्रनिम्नं समन्तात्
पद्मपुष्कराकारं वहिः पद्मपुष्कराकारा पलाशकाष्ठसमिद्भिः अग्निं
प्रज्वाल्य श्रीफलकाष्ठसमिधानां वितस्तिमात्रप्रमाणानां साद्रां
दधिमधुघृताक्ता मूलमन्त्रं षडक्षरहृदयेन वा मुद्रामुष्टिं बध्वा
आह्वयेत् । आहूय च पूर्वोक्तैनैव एकाक्षरमूलमन्त्रहृदयेन भूयो अष्टशतं
जुहुयात् ॥

ततो मण्डलाचार्येण बद्धोष्णीषकृतपरिकरः आत्मना चित्रकरांश्च
निपुणतरानात्मना कारयेत् । ततो मण्डलाचार्येण बुद्धबोधिसत्त्वां मनसि
कुर्वता पूर्वोक्तेनैव धूपमन्त्रेण धूपं दहता अञ्जलिं कृत्वा
सर्वबुद्धबोधिसत्त्वां प्रणम्य मञ्जुश्रियं कुमारभूतं नमस्कृत्य
चूर्णं गृहीत्वा आकारयेत् । रूपं चित्रकरैश्च पूरयितव्यम् । एतेन विधिना
प्रथमत एव बुद्धं भगवन्तं शाक्यमुनिं सर्वाकारवरोपेतं
रत्नसिंहासनोपविष्टं शुद्धावासवभनस्थं धर्मं देशयमानमालिखेत् ।
लिखितश्च मण्डलाचार्यस्यानुसाधकेन आत्मरक्षाविधानं मूलमन्त्रेण कृत्वा
सर्वभूतिका वलिर्देया चतुर्दिक्षूर्ध्वमधः वहिर्मण्डलस्य क्षिपेत् ॥

ततो स्नात्वा अग्निकुण्डसमीपं गत्वा शुचिवस्त्रप्रावृतेन शुचिना कृता
रक्षाविधानेन घृताहुतीनां कुङ्कुममिश्राणामष्टसहस्रं
जुहुयान्मूलमन्त्रेण । ततः कुशविण्डकोपविष्टेन जपं कुर्वतः तत्रैव स्थातव्यम्
। श्वेतसर्षपाणामष्टाभिमन्त्रितं कृत्वा यमान्तकक्रोधराजेनाभिमन्त्र्य
शरावसम्पुटे स्थापयेत् ।
अनेकाकारविकृतरूपघोरस्वरवातवर्षदुर्दिनयन्यतयान्यतमं वा
विघ्नमागतं दृष्ट्वा हुतेन सर्षपाहुतयः सप्त होतव्याः । ततो विघ्नाः
प्रणश्यन्ति । मनुष्यविघ्नैर्वा पञ्चाहुतयो होतव्या । स्तम्भिता (?) अशक्ति(?)
पुरुषा मृयन्ति वा । अमानुष्यैर्वा (?)न्ते तत्क्षणा*(?) न सन्देहो***(?)
कथञ्च***(?)क्रोऽपि म्रियते क्षि***(?) । किं पुन**(?)चेतसा मनु************ (?)
विघ्ना यमान्त (?)ध*(?) निर्नष्टा ***(?)त इतो तत इति ॥

४०, प्। ४०)

ततो (?)धकेन तत्रैव कुशविण्डकोपविष्टेन दमान्तकक्रोधराजानं जपं
कुर्वाण स्थातव्यम् । ततो मण्डला
(?) भगवतः शाक्यपुनेः प्रतिजाया दक्षिणे
पार्श्वे प्रत्येकबुद्धा तथापनोपविष्टौ पर्यङ्केनोपविष्टौ कार्यौ तयोरधस्ताद्
द्वौ महाश्रावकौ धर्मं शृण्वन्तः कार्यौ । तेषामपि दक्षिणतः
भगवानार्थावलोकितेश्वरः सर्वालङ्कारविभूषितः शरत्काण्डगौरः
पद्मासनोपविष्टः वामहस्तेन पद्मं गृहीत्वा दक्षिणहस्तेन वरदः । तस्यापि
दक्षिणतः भगवती षण्डरवासिनी पद्महस्ता दक्षिणेन हस्तेन भगवन्तं
शाक्यमुनिं वन्दमाना पद्मासनोपनिषण्णा जटामकुटधारिणी
श्वेतपट्टवस्त्रनिवस्ता पट्टांशुकोत्तरासङ्गिनी कृष्णभस्मतृमुण्डीकृता । एवं
तारा भ्रुकुटी स्वकस्वकासनेर्यायथे सुस्थिता कार्या । उपरिष्टाच्च भगवती तेषां
प्रज्ञापारमिता तथागतलोचना उष्णीषराजा स्वकार्याः । एवं बोधिसत्त्वाः
षोडश कार्याः । तद्यथा - समन्तभद्रः क्षितिगर्भः गगनयञ्जः
सर्वनीवरणविष्कम्भी अपायजह मैत्रेयः चमरव्यग्रहस्तः बुद्धं भगवन्तं
निरीक्षमाणः विमलगतिः विमलकेतुः सुधन चन्द्रप्रभ विमलकीर्ति
सर्वव्याधिचिकित्सकः सर्वधर्मीश्वरराजः लोकगतिः महामतिः पतिधरश्चेति । एते
षोडश महाबोधिसत्त्वाः प्रसन्नमूर्तयः सर्वालङ्कारभूषिता लेख्याः ।
प्रधानविद्याराजः विद्याराज्ञी अब्जकूले रूपकमुद्रा । स च यथास्मरतः
आगमतश्च यथास्थानेषु वा शेषा लेख्याः । अन्ते च स्थाने चतुरश्राकारं
स्थानं स्थापये पद्मपुष्पसंस्कृतम् । येन स्मरिता विद्या देवता तेऽस्मिन् स्थाने
तिष्ठन्त्विति ॥

एवं दक्षिणे पार्श्वे भगवतः शाक्यमुनेः द्वौ प्रत्येकबुद्धौ गन्धमादनः
उपारिष्टश्चेति । एवं प्राङ्मुखं मण्डलं सर्वतः प्रवेशद्वारं कार्यम् ।
भगवतः शाक्यमुनेः पार्श्वे अपरौ द्वौ प्रत्येकबुद्धौ चन्दनसिद्धश्चेति

४१, प्। ४१)

यथाधेषचिह्नस्थानासनसर्वविद्याराज्ञाराज्ञीसपरिवारः रूपमुद्रादिषु
यथास्मरणा लेख्याः । तेषामपि वामतः चतुरश्राकारमुभयवज्रमुद्रां
लिखेत् । लिख्य*(?) ****(?) येऽत्र स्थाने न स्मरिता विद्यागणाः तेऽत्र स्थानेन स्मरिता
विद्यागणाः तेऽत्र स्थाने तिष्टन्त्विति ॥

तेषामुपरिष्टात् वेद्यारमिताः भगवती मामकी आलेख्याः
सर्वालङ्कारविभूषिताश्च ताः प्रसन्नमूर्तयः ॥

तेषामप्युपरिष्टा अष्टौ उष्णीषराजानः समन्तज्वालमालाकुलाः । मुद्रा च
स्वकस्वकानि महाराजचक्रवर्तीरूपाणि आलेख्यानि । कनकवर्णसुप्रसन्नेन्द्रियाणि
सर्वालङ्कारविभूषितानि । ईषत् तथागतः प्रतिमदृष्टिजातानि । तद्यथा - चक्रवर्ती
उष्णीषः अभ्युद्गतोष्णीष सितातपत्र जयोष्णीष कमलोष्णीष तेजोराशि उन्नतोष्णीष
इति ॥

एते अतः उष्णीषराजानः प्रत्येकबुद्धानां वामतः आलेख्य द्वारे बुद्धो
बोधिसत्त्वो कार्यप्रवेशतदक्षिणतो लोकातिक्रान्तगामी नाम जटामकुटधारी
सौम्यमूर्तिः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वामहस्तेन कमण्डलुं
द्वाराभिमुखः ईषद्भ्रुकुटीवदनः वामतः प्रवेशे महाबोधिसत्व अजितञ्जयो
नाम आलेख्यः । प्रसन्नमूर्तिः जटामकुटधारी
दण्डकमण्डलुवामकरावसक्तः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा
वरप्रदानकरः ईषद्भ्रुकुटीवदनः द्वाराभिमुख आलेख्यः ॥

सिंहासनस्याधस्ताद् धर्मचक्रः समन्तज्वालमालाकुलः तस्याप्यधस्तात्
रत्नविमानः तत्रस्थो भगवां महाबोधिसत्त्वः मञ्जुश्रीः कुमारभूतः
कुङ्कुप्रमौराकारः प्रसन्नमूर्तिः चारुरूपी ईषित् प्रहसितवदनः वामहस्ते
नीलोत्पलावसक्तः दक्षिणहस्तेन श्रीफलावसकृवरदः
सर्ववा******(?)भूषित**(?)वचीरकोपशोभितः मुक्तावलीयज्ञो***(?)
पट्टांशुको******(?) पट्टन***(?)स्तः समन्तप्रभः समन्तज्वाल*****(?)ल
पद्मासनोप******(?) यमान्त**(?)धराजगतदृष्टिः मण्डलप्रवे****(?)भिमुखः
चारुद*******(?)तः आलेख्यः ॥

४२, प्। ४२)

तस्य दक्षिणे पार्श्वे ***(?)धस्ताद् यमान्तकः क्रोधराजा आलेख्यः
महाविकृतरूपी समन्तज्वालमालाकुलः आज्ञां प्रतीच्छमानः
महाबोधिसत्तगतदृष्टिः सर्वत आलेख्यः । वामपार्श्वे
पद्मस्याधस्ताच्छुद्धावासकायिकाः देवपुत्ररूपिणः बोधिसत्त्वाः पञ्च
आलेख्याः । तद्यथा - सुनिर्मलः सुदान्तः सुशान्तः संशुद्धः तमोद्घातनः
समन्तावलोकश्चेति । सर्वे च ते शुद्धावासभवनोपनिषण्णः
अनेकरत्नोज्वलशिलातलाकारः समन्तज्वालविचित्रपुष्पावकीर्णश्चारुरूपी आलेख्यः ॥

बहिः समन्ताच्चतुरश्राकारं चतुस्तोरणाकारं चतुर्दिशं
विचित्रपञ्चरङ्गोज्ज्वलं सुप्रगुणरेखावनद्धम् अभ्यन्तरमण्डलं कार्यम् ।
पूर्वायां दिशि भगवतः शाक्यमुनेः उपरिष्टाद् रेखाभिः मध्ये
सङ्कुसुमितराजेन्द्रः पद्मासनोपनिषण्णः तथागतविग्रहः स्वल्पमात्रः
कार्यसमन्तज्वालमालाकुलः वरदप्रदानहस्तः पर्यङ्कोपनिषण्णः ॥

तस्य दक्षिणतः उष्णीषचक्रवर्त्तिमुद्रा लेख्या । वामतस्तेजोराशिमुद्रा लेख्या ।
तथागतलोचनाया उपरिष्टात् प्रज्ञापारमितामुद्रा लेख्या । भगवतः
आर्यावलोकितेश्वरस्योपरिष्टात् प्रज्ञापारमितामुद्राया दक्षिणतः
भगवानमिताभः तथागतविग्रहः कार्यः वरप्रदानहस्तः
पद्मासनोपनिषण्णः समन्तज्वालमालाकुलः ॥

तस्यापि दक्षिणतः पात्रचीवरमुद्रे कार्यौ । एवमनुपूर्वतः प्रवेशस्थाने
पद्ममुद्रा कार्याः । भगवतो सङ्कुसुमितराजस्य तथागतस्य वा मतो
उष्णीषतेजोराशिमुद्रा लेख्या समन्तज्वालमालाकुलाः ॥

तस्यापि वामतः रत्नकेतुस्तथागतः कार्यः रत्नपर्वतोपनिषण्णः धर्मं
देशयमानः नीलवैडूर्यपरकतपद्मरागविचित्रज्वालार्चिषि
निर्गतसमन्तात्समन्तप्रभ आलेख्यः ॥

तस्यापि वामतः जयोष्णीषमुद्रा समन्तज्वालमालाकुला आलेख्या । अस्यापि जगतः
धर्मचक्रमुद्रा आ***(?) समन्तज्वालावती । तस्यापि वामतः
अनुपूर्वतः **(?)ने वज्रसूच्(?)यतः समन्तज्वाल आलेख्यः ।

४३, प्। ४३)

भगवतो मञ्जुश्रियस्याधस्तान्महामुद्रा पञ्चशिखा नाम उत्पलमुद्रा ना
लेख्या । समन्तज्वालिनौ एतौ अन्योऽन्यासक्तं समन्तमण्डलाकारमालेख्यम् ।
द्वारतः पश्चान्मुखप्रवेशतः प्राङ्मुखश्च कार्यः । सर्वेष्वपि बहिर्मण्डलं
भवति पञ्चवर्णरङ्गोज्ज्वलं विचित्रचारुदर्शनं चतुःकोणविभक्तं
चतुस्तोरणाकारं चतुर्दिशं द्विहस्तमात्राभ्यन्तरमण्डलतो बहिरालेख्यम् ।
पूर्वस्यां दिशि महाब्रह्मा चतुर्मुखः शुक्लवस्त्रनिवस्तः
श्वेतवस्त्रोत्तरासङ्गिनः श्वेतयज्ञोपवीतः कनकवर्णः जटामकुटधारी
दण्डकमण्डलुं वामावसक्तपाणिः ॥

तस्य दक्षिणतः आभास्वरो देवपुत्रः कार्यः कनकवर्णः ध्यानान्तरगतमूर्त्तिः
पट्टवस्त्रनिवस्तः पट्टांशुकोत्तरीयः सुप्रसन्नवदनः जटामकुटधारी
श्वेतयज्ञोपवीतः पर्यङ्कोपनिषण्णः दक्षिणहस्तेन वरदः ॥

तस्य दक्षिणत अकनिष्ठो देवपुत्रः कार्यः सर्वालङ्कारभूषितः प्रसन्नमूर्तिः
ध्यानगतचेतसः पट्टवस्त्रनिवसननिवस्तः पट्टांशुकोत्तरीयः ।

तस्य दक्षिणतः पर्यङ्कोपविष्टः दक्षिणहस्तेन वरदः श्वेतयज्ञोपवीतः ॥

एवमनुपूर्वतः सन्तुषितः सुनिर्मितः परनिर्मितः सुयामशक्रप्रभृतयो देवपुत्रा
आलेख्याः यथानुपूर्वतः यथावेषसंस्कृताः ॥

शक्रस्याधस्ताच्चातुर्महाराजकायिकाः सदामत्ताः मालाधारिणो
करोटपाणयः वीणाद्वितीयका लेख्याः । भौमाश्च देवपुत्रा यथानुपूर्वतः
यथावेषेनालेख्याः ॥

एवं दक्षिणायां दिशि अवृह अनय सुदृश सुदशन परीत्ताभ
पुण्यप्रसवप्रभृतयो देवपुत्रा आलेख्या यथावेषस्थानाः ॥

एवं पश्चिमायां दिशि चोत्तरायां दिशि तेषामधस्ताद् द्विपङ्क्ति आश्रिता
आलेख्याः । द्वितीयमण्डलाद् बहिस्तृतीयमण्डलं भवति । चतुर्दिशं चत्वारो
महाराजानः अनुपूर्वत आलेख्याः ॥

उत्तरायां (?)शि प्रविशतो दक्षि*(?) धनदः निधिसमीपस्थः
मणिभद्र*****(?)क्षसेनापती आ****(?) ॥

४४, प्। ४४)

एवमनुपूर्वतः हारीती व्यहायक्षिणी आलेख्या । प्रियङ्करः कुमार
उत्सङ्गोपविष्टो मण्डलं निरीक्षमाणः आलेख्याः । पञ्चिकः पिङ्गलः
भीषणश्च आलेख्यः ॥

तेषां च समीपे यक्षाणां मुद्रा आलेख्याः । एवमनुपूर्वतः वरुणो पाशहस्त
पश्चिमायां दिशि आलेख्यः । नागौ नन्दोपनन्दौ तक्षकवासुकिप्रभृतयोऽष्टौ
महानागराजानः आलेख्याः ॥

एवं द्विपङ्क्त्याश्रिताः अनुपूर्वतः यक्षराक्षसकिन्नरमहोरगऋषयः
सिद्धप्रेतपिशाचगरुढकिन्नरमनुष्या मनुष्याद्या ओषधयश्च
मणिरत्नविशेषाः पर्वताः सरितः द्वीपाश्च अनुपूर्वतः सर्वे प्रधाना लेख्याः ॥

दक्षिणायां दिशि यम आलेख्यः सपरिवारः । मातराः सप्त पूर्वदक्षिणस्यां
दिशि । अग्निः समन्तज्वालमालाकुलः दण्डकमण्डलुअक्षसूत्रव्यग्रपाणिः
जटामकुटधारी श्वेतवस्त्रनिवस्तः पट्टांशुकोत्तरासङ्गिकः श्वेतयज्ञोपवीत
कनकवर्णः भस्मत्रिपुण्डरीकृतः ॥

एवं नानाकरणप्रहरणवेषसंस्थानवर्णतत्त्वद्विपङ्क्ती आश्रिता आलेख्याः ।
सर्वतः प्रविशतो बहिर्मण्डले उमापतिर्वृपवाहनस्त्रिशूलपाणिः उमा च देवी
कनकवर्णा सर्वालङ्कारभूषिता कार्तिकेयश्च मयूरासनः शक्त्युद्यतहस्तः
कुमाररूपी षण्मुखः रक्ताभासमूर्तिः पीतवस्त्रनिवस्तः । पीतवस्त्रोत्तरासङ्गः
वामहस्तेन घण्टां गृहीत्वा रक्तपताकां च अनुपूर्वतः भृङ्गिरिटि
अत्यन्तकृशाकारः महागणपतिनन्दिकेश्वरमहाकालौ मातराः सप्त
यथाभरणप्रहरणवेषसंस्थानाभिलेख्याः । अष्टौ वसवः सप्त ऋषयः
विष्णुश्चक्रपाणिश्चतुर्भुजो गदाशङ्खासिहस्तो गरुडासनः
सर्वालङ्कारभूषितश्च । अष्टौ ग्रहाः सप्तविंशतिनक्षत्राः येषु चरन्ति भुवि
मण्डले उपग्रहाश्चाष्टा देवा लेख्याः अनुपूर्वशः पञ्चदश तिथयः
सितकृष्णा द्वादश राशयो षट् ऋतवो द्वादश मासाः संवत्सरश्च ।
चतुर्भगिन्*(?) नावाधिरूढाः भ्रातृपञ्चनी सलिलवासिनश्चेति सङ्क्षेपतो
मुद्रामु व्यवस्थाना हि देवता अनुभूते **(?) श्रिताश्च कार्या सङ्क्षेपतो
मण्डल
(?) मण्डलाश्रयः । (?) चतुरश्रश्च । त्रिमण्डलेष्वपि
व्यव
(?) भवति । सङ्क्षेपतः बुद्धो भगवान

४५, प्। ४५)

सर्वसत्त्वानाना अवगामभिलेख्यः । अब्जकुले आर्यावलोकितेश्वरो दक्षिणतः
बोधिसत्त्वानामग्र आर्यसमन्तभद्रोऽवश्यमभिलेख्यः । मञ्जुश्रीः
कुमारभूतोऽवश्यमभिलेख्यः । सैषा मुद्रासु यथाव्यवस्थायामभिलेख्याः ।
एतदभ्यन्तरमण्डलं मध्यमण्डलेऽपि ब्रह्मा सहाम्पतिः पूर्वायां
दिश्यवश्यमभिलिखितव्यः । एवमाभास्वरो दक्षिणायां दिशि अकनिष्ठ
अरूपिणश्च देवा मण्डलाकारा अव्यक्ताः नैव सञ्ज्ञानासञ्ज्ञायतना देवाः
उत्तरायां दिशि शक्रो देवराजा सयामः सन्तुपितः सुनिर्मितः परनिर्मितः
परीत्ताभप्रभृतयो देवपुत्रा अवश्यमेकैकः देवराजोऽभिलिखितव्यः । सैषा
मुद्रासु व्यवस्थाप्याः ॥

एवं तृतीयमण्डलेऽपि उत्तरायां दिशि ईशानो भूताधिपतिः
सहोमयावश्यमभिलिखितव्यः । द्वितीयद्वारसमीपे कार्त्तिकेयमञ्जुश्रीः
मयूरासनः शक्तिपाणिः रक्तावभासमूर्त्तिः पीतवस्त्रनिवस्तोत्तरासङ्गिनः
दक्षिणहस्ते घण्टापताकावसक्तः कुमाररूपी मण्डलं निरीक्षमाणः ।
पूर्वायां दिशि वैनतेयः पक्षिरूपी । ऋषिर्मार्कण्डः अवश्यमभिलिखितव्यः ।
सैषा मुद्रासु च व्यवस्थाप्याः ॥

दक्षिणपूर्वतः चतुःकुमार्याः कुमारभ्रातृसहिता नौयानसंस्थिता
महोदधेः परिभ्रमन्त्यः । अग्निश्च देवराट् अवश्यलिखितव्यः । एवं दक्षिणस्यां
दिशि लङ्कापुरी विभीषणश्च राक्षसाधिपतिः तत्रस्थितः पिचुमन्दवृक्षाश्रितः
जम्भलजलेन्द्रनामा यक्षरूपी बोधिसत्त्वोऽवश्यमभिलिखितव्यः ॥

एवमनुपूर्वतो यमो राजो प्रेतमहर्द्धिकोऽवश्यमभिलिखितव्यः । एवं
पिशाचराजा विकरालो नामावश्यमभिलिखितव्यः । सैषा मुद्रासु व्यवस्थाप्या ॥

एवं दक्षिण*(?)श्रमायां दिशि स्पन्दोपनन्दौ नागमुख्यौ अवश्यमभिलि****(?)
निर्गन्धरूपी अनुपूर्वतः । सैषा मुद्रासु व्यवस्थाप्याः ********* (?) न दिशासु
यक्षाह धनदः

४६, प्। ४६)

गन्धर्वराट् पञ्चशिखः किन्नरराजा द्रुमः एतेऽवश्यमभिलिखितव्याः । सैषा
मुद्रासु च अनुपूर्वतः यथास्थानं संस्थिता अभिलिखितव्याः इति ॥

चतुर्थमण्डलं बहिः पञ्च रेखाः चितं मुद्रमालाभिश्चोपशोभितं
चतुरश्रं चतुस्तोरणाकारं चतुर्महाराजविभूषितं यथानुपूर्वस्थिता ।
तद्यथा - मुद्रा भवन्ति पुरःप्रदेशे नीलोत्पलमभिलेख्यम् । दक्षिणतो वामतः
पद्मं वज्रं
परशुखड्गशूलत्रिशूलगदाचक्रस्वस्तिककलशमीनशङ्खकुण्डलध्वजपताकं
पाशघण्टाकद्वारकधनुर्नाराचमुद्गर एतैर्विविधाकारप्रहरणमुद्रैः
समन्ताच्चतुरश्रमालाकुलं कुर्यादित्यतः बहिश्चतुर्दिशं चत्वारो
महासमुद्राः स्थापनीयाः ॥

उत्तरायां दिशि चतुरश्राकारं मण्डलकं कृत्वा उभयवज्रं त्रिसूच्याकारं
समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा स्थापयेत् ॥

दक्षिणायां दिशि धन्वाकारं मण्डलकं कृत्वा पात्रं समन्तज्वालं
स्थापयेत् । पश्चिमायां दिशि समन्तप्रभाकारं मण्डलकं कृत्वा नीलोत्पलं
सनालपत्रोपेतं समन्तज्वालं विदिक्षु मण्डलं कृत्वा समन्तज्वालं
दक्षिणपश्चिमायां दिशि दीर्घाकारमण्डलकं कृत्वा दण्डं समन्तज्वालं
दक्षिणपश्चिमायां दिशि परशुं समन्तज्वालं त्रिकोणाकारं मण्डलकं
कृत्वा पूर्वोत्तरायां दिशि खड्गं समन्तज्वालं स्थापयेत् ॥

आलिख्य सर्वत इत्यूर्ध्वमधस्तिर्यक् त्रीणि मुद्राद्वारसमये
बहिर्मण्डलस्यालेख्याः चूर्णैरेव । तद्यथा - वज्रव्यजनोपानहौ च
समन्तज्वालिनस्त्वेते अभिलेख्या इति ॥

एतन्मण्डलविधानं कथितं त्विह समासतः ।
सत्त्वानां हितकाम्यार्थ मञ्जुघोषेण धीमता ॥

ततो मण्डल*****(?)ण शिष्याः पूर्वमेवा******(?)व्याः अविकले (?)
सर्वाङ्गशोभनाः ब्राह्मणक्षत्रियविट्
(?) (?)दितबोधिचित्ताः (?)यायिनः
इतरयानास्पृहणशीला महास
(?) कल्याणध
*****(?)
अल्पभोगजुगुप्सनाः ******(?)भिरुचितवन्तः

४७, प्। ४७)

भद्रा विनीताः शीलवन्तः भिक्षुभिक्षण्युपासकोपासिका नियमस्था
उपो*****(?)ससंवरस्थाः महाबोधि सत्वाद्वेषिणो महायक्षःकुलीनाः प्रकृत्यैव
धर्मचारिणः अहोरात्रोषिता शुचिवस्त्रप्रावृताः सुगन्धकेशाः त्रिःस्नायिनः
मौनिनश्च । तदहो कर्पूरकुङ्कुमलवङ्गसुगन्धमुखगन्धिनः नित्यं
चोपस्पृशितवन्तः कुशपिण्डकोपविष्टाः कृतरक्षाविधानाः ब्रह्मचारिणः
सत्यवन्तः * * * * * * (?) न्मण्डल * * * * * (?) नात्यासन्ने स्थापनीयाः । शुचिनः
सुचौक्षाः अष्टानां प्रभृति यावदेकं नान्येपाम् । ते च परस्परासंसक्तिनः
क्षत्रिया मूर्द्धाभिषिक्ताश्च महाराजानः । तेषां च सुताः
कुमारकुमारिकाश्च अविदितग्राम्यधर्माणः कारणं भगवान् कुमाररूपी
महाबोधिसत्त्वो मञ्जुश्रीः बालजनप्रबोधकः कुमारक्रीडनपरश्च । अतः
प्रथमतर एव कुमारः पर्वेशयितव्यः । महाराज्ञाभिवर्द्धन
आयुरारोग्यैश्वर्यकामः भोगाभिवर्द्धनं च विशेषतः बालानां
मन्त्रसिद्धिः ध्रुवं स्थिता इति ॥

एतां पूर्वस्थापितां कृत्वा सुसखायोपेता अप्रमत्ताः ततो मण्डलाचार्येण
कर्पूरधूपं दहता पृष्ठतो बहिर्निगन्तव्यम् । निर्गत्य च
यथामुखर्त्तुकोदकेनाष्टशताभिमन्त्रितेन मूलमन्त्रेण महामुद्रा
पञ्चशिखमुद्रितेनोदकेन स्नात्वा उपस्पृश्य च शुचिर्वस्त्रप्रावृतेन शुचिना
अग्निकुण्डं गत्वा कुशविण्डकोपविष्टः उत्तरपूर्वाभिमुखः आहुतीनां
कर्पूरकुङ्कुमचन्दनमिश्राणामष्टसहस्रं जुहुयात् ॥

पूर्वोक्तेन विधिना आहूय विसृज्य च भूयो मण्डलं प्रवेष्टव्यम् । प्रविश्य
चाष्टौ पूर्णकलशाः शुचिवस्त्रोपेताः सहकारपल्लवविभूपिताः
सुवर्णरजतरत्नधान्यव्रीहिप्रक्षिप्तगर्भः एकं भगवतः शाक्यमुनेः
प्रतिपादयेत् । द्वितीयः सर्वबुद्धानाम् । तृतीयः सर्वप्रत्येकबुद्धार्यश्रावक***(?)
चतुर्थः सर्वमहाबोधिसत्त्वानाय । पञ्चमो महाबोधिसत्त्वस्य ******(?)श्रेयस्य
। षष्ठः सर्वदेवा **(?) सप्तमाष्टमौ द्वितीयमण्डले ********(?)स्थापयितव्यौ

ततः पूर्वोक्तेनैव विधिना धूपं दहता महा*****(?) शिखां

४८, प्। ४८)

बद्ध्वा भूययावाहनं कुर्यात् । सर्वबुद्धानां *****(?)शुद्धानाम्
आर्यश्रावकमहाबोधिसत्त्वानां सर्वभूतानां सर्वसत्वांश्च मञ्जुश्रियं
कुमारभूतं च पूर्वोक्तेन विधिना आह्वानयेत् ॥

एवं पुष्पधूपगन्धप्रदीपैः निवेद्यांश्च पूर्वनिर्दिष्टेनैव कर्मणा
निवेद्यः । सर्वेषां सर्वतः अनुपूर्वेणैव कुर्यात् । प्रदीपग्रहणेनैव घृतदीपं
दद्यात् । सर्वेभ्यः आर्यानार्येभ्यः निवेद्यग्रहणेन शाल्योदनं दध्नोपेतं
मधुपायसविशेषविशेष्योपरचितघृतपक्वपूषान्
अशोकवर्त्तीखण्डखाद्यकाद्यां सर्वं तथागतेभ्यो निर्यातयेत् । हवि पूर्ण
श्रीवेष्टमधुशिरषयोपक्वभक्षाद्यां
सर्वप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्वानार्यदेवतानां च निर्यातयेत् । एवं
लड्डुकागर्भोक्तारकविशेषान् पूषोपकारणान् सर्वदेवभूतगणान्
सर्वसत्वांश्च मन्त्रोपेतान् विधिना निर्यातयेत् । एवं सुगन्धपुष्पान्
जातीतगरनागपुष्पपुन्नागप्रभृतिं पूर्वनिर्दिष्टान्
सर्वबुद्धप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्वेभ्य आर्यानार्येभ्यो निर्यातयेत् ।
विशेषतः तथागतकुले जातीकुसुमं पद्मं पद्मकुले तथा कुवलयं कुलिशषाणे
अन्यमन्त्रेभ्यो इतरमिति कर्पूरधूपं तथागतकुले चन्दनं पद्मकुले तथा
गुग्गुलुं गुह्यकेन्द्रस्य वज्रिणस्यैव शस्यते । अन्यमन्त्रेभ्यः सर्वेभ्यः धूपं
दद्यात् इतरघृतप्रदीपानार्येभ्यः सर्वेभ्यश्चैव दापयेत् । अनार्येभ्य
मन्त्रेभ्यः सुगन्धतैलन्तु दापयेत् ।

अनुपूर्वेण विधिना पूर्वदृष्टेन हेतुना ।
गन्ध * * (?) त्तथैवोक्तं सर्वमन्त्रेभ्यो नित्यश ॥

अवलोकितेन यत् प्रोक्तं यत् प्रोक्तं कुलिशपाणिना ।
स्वकस्वकेषु तन्त्रेषु मन्त्रचर्यार्थसाधने ॥

तेष्येह कल्पे द्रष्टव्याः अनुवर्त्त्याश्च सर्वदा ।

इति ॥

ततो मण्डला (?)र्येण पूर्वदृष्टेन विधिना
आवाहनपूजनधूपनादिनिवेद्यप्रदाना
****(?)क्रियां कृत्वा ********* (?)
कुशलेन त्वरमाणेन सार्वभौ*******(?) निरामिषां
सर्वत**********(?)निनन्दीशब्दघोषनिनादिने ************(?)पालभिरचितः
चतुर्दिक्षु विदिक्षु च

४९, प्। ४९)

इत्यूर्ध्वमधस्तिर्यक् सर्वतो बहिर्मण्डलं प्रदक्षिणी * * * (?) र्व भौतिकां क्षि * *
षडक्षरमूलमन्त्रहृदयेन जुह्वतः पूर्वस्थापितकां
मण्डलानुप्रवेशमहासत्त्वां कृतरक्षाविधानानां
मण्डलाचार्यशिष्यत्वाभ्युपगतानामुत्पादितबोधिचितानामुपोषधिकानां
सर्वबुद्धबोधिसत्वात्मानिर्यातितमूर्त्तीनां
सिद्ध्यर्थसत्वोषभोगसाधारणभूतानामनुत्तरबोधिमण्डाक्रमण-
कुशलानां सर्वज्ञज्ञानबुद्धलिप्सकामानां मण्डलदर्शनादेव मुच्यते
सर्वकिल्विषात् । आनन्तर्यहारिणोऽपि ये मुच्यन्ते तत्क्षणाज्जनाः इति ॥

ततो मण्डलाचार्येण अनाहतेन वस्त्रेण तन्त्रोद्धृतेनापगतकेशेन
मूलमन्त्रसप्ताभिमन्त्रितेन सुगन्धचन्दनकुङ्कुमाभ्यक्तेन पटेन मण्डलं
प्रवेष्टुकानां मुखं वेष्टयित्वा प्रथमतः बालषोडशप्रभृति यावन्त्रीणि
वर्षजन्मिकं पञ्चचीरकोपशोभितम् एकचीरकोपशोभितं शिखोपशोभितम्
अशिरस्कं वा राजपुत्रं मूर्धाभिषिक्तं क्षत्रियपुत्रं वा अन्यं वा
महोत्साहमहाराज्यकामं वा प्रवेशयेत् ॥

द्वितीयमण्डलस्थितं मुखं वेष्टयित्वा उत्पलमुद्रां बद्ध्वा मञ्जुश्रियः
कुमारभूतस्य मूलमन्त्रं सकृज्जप्त्वा कारापयित्वा सुगन्धपुष्पं दत्त्वा
चन्दनकुङ्कुमाभ्यां मिश्रं सचौक्षाभ्यां हस्ताभ्यां पुष्पाणि
क्षिपापयितव्याः । यत्रास्य पुष्पमधितिष्ठति तमस्य मन्त्रं दद्यात् । स्वमन्त्रेति
कीर्त्यते । सैवास्यानुबद्धा जन्मपरम्परासु सैवास्य कल्याणमित्रो
बोधिमण्डक्रमणमहाबोधिसत्त्वज्ञज्ञानपरिपूरणार्थमभिनिर्हरति । सैवास्य
साधनीयम् । महाभोगमहाराज्यमहेशाख्यपुद्गलसमवधानता
चास्यमभिनिर्हरति । इहैव जन्मनि अविचारतः साधनीयं सिध्यते सर्वकर्येषु च ।
एवमनुपूर्वतः एकं प्रति वावद् यावदष्टानां नान्येषा**(?) सिद्धिकामैः ।
अन्येषां यथेप्सतः पापक्षपणार्थं समयमात्रं स्यादिति अभिषेकं ददता
मण्डलाचार्येण आदौ तावन्मण्डले वहिर्नातिदूरे नात्यासन्ने पूर्वोत्तरे दिग्भागे
भूप्रदेशे अधिष्ठाय मन्त्रपूतं कृत्वा मूलमन्त्रेण ततः
राज्याभिषे***(?)नमात्मानम् एकान्तबुद्धधर्मसङ्घाभि***(?) श्राद्धं
महोत्साहिनम् अविरहितबोधिचित्तं महायानयायिनं

५०, प्। ५०)

रत्नत्रयोपकारिणम् अविकलेन्द्रियम् अकुत्सितमिहैव जन्मनि मन्त्रां साधयितुकामः ।
भद्राशयं मन्त्रचर्योद्युक्तमानसं कौतुकजातीयं जिज्ञासनहेतोरपि
अविकल्पितमन्त्रार्थतद्गतमानसम् एकं प्रभृति यावत्यथे अभिषेच्या सेव्यावर्ज्या
इति । प्राज्ञा अमूढचरिता इति । शेषतो अभिषेच्याः । नान्येषामपि । ततः
सर्वराज्याभिषेकमिवोपकरणं सम्भृत्य आचार्यो वा येन तुष्येत । ततः
विनतवितानोच्छ्रितध्वजपताकश्वेतच्छत्रमूर्धनि धार्यमाणः सितचामरे
निवीज्यमानः महता सत्कारेण
नन्दीशब्दनिर्घोषशङ्खभेरीमृदङ्गजयशब्दैः मङ्गलगाथाभिः
प्रशस्तस्वस्तिकगाथाभिश्च जिनभाषितैरभिस्तूयमानः प्रदक्षिणीकृत्य च
तन्मण्डलं सर्वबुद्धबोधिसत्त्वां प्रणम्य आचार्यं शिरसा प्रणम्य एवं च
वक्तव्यम् उ * * (?) ष्याचार्यसर्वबुद्धबोधिसत्त्वमन्त्रचर्यानिर्हारं
समनुप्रवेष्टुं सर्वलौकिकातिक्रान्तरहस्यविमोक्षमण्डलं समनुप्रवेष्टुं
सर्वधर्मराज्यसमनुप्रवेशबुद्धत्वगधिगन्तुं सङ्क्षेपतो वक्तव्यं बुद्धो
भूयामिति ॥

ततः कुशविण्डकोपविष्टः पूर्वाभिमुखः मं * * * * * * * * * * * (?)
पञ्चशिखां बद्धापयितव्यः । ततो स्वेस्थितं मन्त्रं यो यस्य रोचते भूर्जपत्रे
गोरोचनया लिखितव्यम् । लिखित्वा चन्दनकुङ्कुमाभ्यां हस्तौ म्रक्षयित्वा
शरावसम्पुटं च ततस्तं भूर्जपत्रं शरावसम्पुटाभ्यन्तरस्थं * * * * (?)
बोधिसत्वस्य पादमूले स्थापनीयम् ॥

ततस्तत्रोपविष्टेन विद्यामूलमन्त्रा अष्टशतवारानुच्चारयितव्यः । पूर्वमेव तु
ततः तं कुशविण्डकोपविष्टमभिषेचनीयम् । बहिर्मण्डले यः
सर्वसत्त्वसाधारणभूतं पूर्णकलशं पूर्वस्थापितकं द्वारसमीपे तं
गृहीत्वा आचार्येण मूलमन्त्रं पठता मूर्धनि अभिषेक्तव्यः । शेषाः
यथेष्टमुदकेनेति ॥

मन्त्राक्षरहीनातिरिक्ता ** (?)

५१, प्। ५१)

दत्ता भवति **(?)मसाधनम् एव सिध्यतीत्यविकल्पताः । सा एष पूर्वलिखिता

एवं प्रथमतः विद्याभिषेकं दद्यात् । द्वितीयमण्डलाभिषेकं द्वितीयमण्डले
सर्वदेवानां यत् प्रतिपादितकं पूर्णकलशं तेनाभ्यषिञ्चेत् । मूर्धनि यथैव
वा पूर्वकं तेनैव विधिना मुच्यते सर्वकिल्विषात् । अनुज्ञातश्च भवति
सर्वबुद्धैः सर्वलौकिकलोकोत्तरसमयमण्डलं सर्वमन्त्रमुद्रासाधनेषु च
अव्यष्टो भवति । सर्वबोधिसत्त्वैरिति आचार्याभिषेकं दद्यात् ॥

तृतीयमण्डले सर्वश्रावकप्रत्येकबुद्धेभ्यः पूर्णकलशं निर्यातितकं तेनैव
विधिना मूर्धन्यभिषेचयेत् । वक्तव्यम् अनुज्ञातस्त्वं सर्वबुद्धैः बोधिसत्त्वैश्च
महर्द्धिकैः सर्वलौकिकलोकोत्तराणां मन्त्राणां
लिखनपठनमण्डलोपदेशमन्त्रतन्त्रमुद्राचर्यानिर्देश स्वयं चरितुं
निर्देष्टुं वा । इहैव जन्मनि परम्परासु च यावत्पश्चिमकं नियतं बुद्धत्वं
प्राप्तव्यमिति ॥

एवं जयविजयाभिषेकेऽपि पूर्वनिर्दिष्टेन विधिना भगवतो
बुद्धनिर्यातितकपूर्णकलशेन बोधिसत्त्वनिर्याति । तेन च पूर्णकलशेन
तथैवाभ्यषिच्यत् । एवं च वक्तव्यमनुज्ञातस्त्वं
सर्वबुद्धैर्भगवद्भिर्महाबोधिसत्त्वैश्च श्रावकैः

अधृष्यः सर्वभूतानामजितः सर्वदेहिनाम् ।
विजयत्वं सर्वमन्त्राणां साधयस्त्वं यथेप्सतः ॥

ततो मण्डलाचार्येण एकैकस्य यथेप्सतः ।
पञ्चाभिषेका दातव्या सर्वेभ्यो पञ्च एव तु ।

ततस्तामनुपूर्वेण मण्डलं प्रवेश्य सर्वबुद्धबोधिसत्त्वानां निर्यातयित्वा
मण्डलं त्रिः प्रदक्षिणीकृत्य विसर्जयितव्यः । तदहो परेण अनुपूर्वेण
शिक्षयितव्याः मन्त्रचर्यासु नियोक्तव्या । तत्क्षणादेव भगवतो **(?)श्रियस्य
महाबोधिसत्त्वस्य *****(?)निर्यातितकं पूर्णकलशं गृहीत्वा तेषां
मण्डलमविष्टानामुदकचुलुकत्रयं पूर्वाभिमुखं कृत्वा पाययेत् । ** (?) -
इयं भो ! महाबोधिसत्त्वस्य मञ्जुश्रियः कुमारभूतस्य

५२, प्। ५२)

समयरहस्यं मातिक्रमिष्यथेति मा बहु अपुण्यं प्रसविष्यथेति । सर्वमन्त्राश्च
न प्रतिक्षेप्तव्याः । सर्वबुद्धबोधिसत्त्वाश्च न विसंवादनीयाः ।
गुरुराराधनीयश्चेति । अन्यथा समयातिक्रमः स्यात् । मन्त्राश्च सिद्धिं न
गच्छेयुः । वह्वपुण्यं स्यादिति । एवं विसर्जयितव्याः ॥

ततो मण्डलाचार्येण भूयो दधिमधुघृताभ्यक्ताः
शालितण्डुलाहुतयोऽष्टाक्षरहृदयेन होतव्याः । ततोत्थाय मण्डलमध्यं
प्रविश्य पूर्वनिर्दिष्टैः पुष्पैः पूर्वोक्तेन विधिना अर्घ्यं देयः सर्वेभ्यः
मनसा चिन्तयेत् । पूर्वोक्तेनैव धूपेन सर्वबुद्धबोधिसत्त्वां
प्रत्येकबुद्धार्यश्रावकां
सर्वदेवनागयक्षगरुडगन्धर्वकिन्नरमहोरगयक्षराक्षसपिशाचभूतयोगिन-
सिद्धऋषयः सर्वसत्त्वां सन्धूष्य पुष्पैरवकीर्य
चन्दनकुङ्कुमोदकेनाभ्यपिञ्चेत् । पूर्वोक्तेनैव विधिना विसर्जयेत् । मनसा मोक्षः
सर्वेभ्य इति ॥

ततो मण्डलाचार्येण निवेद्यं बलिं चूर्णं सर्वे नद्यां प्लावयितव्याः ।
दुःखितेभ्यो वा प्राणिभ्यो दातव्यम् । सुपरामृष्टं सुकेलायितं सुशोभितं
पृथिवीप्रदेशं कृत्वा गोमयेन लेप्तव्यः । उदकेन वा प्लावयितव्यम् ।
सुचौक्षमृत्तिकया वाभ्यलिम्प्य सिकताया वा अस्यैव कार्यं यथेष्टतो गन्तव्यम् ।
तैर्मण्डलप्रविष्टैरात्मनः क्षीरोदनाहारेण हविष्याहारेण वा भवितव्यमिति ॥

बोधिसत्त्वपिटकावतंसकान्महाकल्पराजेन्द्रान्मञ्जुश्रीकुमारभूतविकुर्वणात्
बोधिसत्त्वपटलविसराद् द्वितीयः मण्डलविधिनिर्देशपरिवर्तः समाप्त इति ।
५३, प्। ५३)