०१

नमः सर्वबुद्धबोधिसत्त्वेभ्यः । एवं मया श्रुतम् । एकस्मिन् समये भगवां
शुद्धावासोपरि
गगनतलप्रतिष्ठितेऽचिन्त्याश्चर्याद्भुतप्रविभक्तबोधिसत्त्वसन्निपातमण्डलमाडे
विहरति स्म । तत्र भगवां शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म । तत्र
भगवां शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म । शृण्वन्तु देवपुत्राः !
मञ्जुश्रियस्य कुमारभूतस्य बोधिसत्त्वस्य
महासत्त्वस्याचिन्त्याद्भुतप्रातिहार्वचर्यासमाधिशुद्धिविशेषविमोक्षमण्डल-
बोधिसत्त्वविकुर्वणं
सर्वसत्त्वोपजीव्यमायुरारोग्यैश्वर्यमनोरथपापारिपूरकाणि मन्त्रपदानि
सर्वसत्त्वानां हिताय भाषिष्यते । तं शृणु साधु च सुष्ठु च मनसि कुरु
भाषिष्येऽहं ते ।

अथ शुद्धावासकायिका देवपुत्राः साञ्जलयो भूत्वा [*]
विशेषभूमिप्रतिलाभवज्रासनाक्रमणमारधर्पणधर्मचक्रप्रवर्तनसर्व-श्र
अवकप्रत्येकबुद्धनिर्याणदेवमनुष्योपपत्तिसर्वदुःखप्रशमनदरिद्रव्या-धित-
आढ्यरोगोपकर्षणतां सर्वलौकिकलोकोत्तरमन्त्रचर्यानभिभवनतां
सर्वाशापरिपूरणतः सर्वतथागतानामवश्यवचनधारणम् । तद् वदतु
भगवान् मन्त्रचित्तो हितचित्तोऽस्माकमनुकम्पामुपादाय सर्वसत्त्वानां च ।

अथ भगवान् शाक्यमुनिः सर्वावन्तं शुद्धावासभवनं
बुद्धचक्षुषावलोस्य विशुद्धविपयज्योतिर्वि* * * * * (?) विध्वंसिनीं नाम
समाधिं पमापयनं ******* (?) यनन्तरसमापन्नर सुमितः ******* (?)
ञ्चोदनी नाम सिनरश्म्यवभासं दृष्ट्वा ईषत्

२, प्। २)

प्रहासेतवदनो भूत्वा तं बोधिसत्त्वगमामहायते स्म । इयं भो ! जिनपुत्राः !
अस्माकं रश्मिसञ्चोदनी । इदायात । सज्जीभवन्तु भवन्तः ॥

अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्व
उत्फुल्लनयनोऽनिमिषनयनो येनासौ रश्म्यवभासः तेनाभिमुखस्तस्थौ ॥

अथ सा रश्मिः सञ्चोदनी कुसुमावती लोकधातुं महतावभासेनावभास्य
भगवतः सङ्कुसुमितराजेन्द्रस्य तथागतस्य त्रिः प्रदक्षिणीकृत्य मञ्जुश्रियस्य
बोधिसत्त्वस्य महासत्वस्य मूर्धन्यन्तर्धीयते स्म ॥

अथ मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं सङ्कुसुमितराजेन्द्रं
तथागतं त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य दक्षिणं जानुमण्डलं
पृथिव्यां प्रतिष्ठाप्य भगवन्तं सङ्कुसुमितराजेन्द्रमेतदवोचत् ॥

समन्वाहृताय भगवता शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन ।
गच्छामो वयं भगवन्नितो सहां लोकधातुं भगवन्तं शाक्यमुनिं द्रष्टुं
वन्दितुमुपासितुं सर्वमन्त्रचर्यासाधनौपयिकमण्डलविधानं
कल्परहस्यपटविधानरूपसर्वतथागतहृदयगुह्यमुद्राभिषेकं निर्देष्टुं
सर्वसत्वानां सर्वाशां परिपूरयितुम् ॥

एवमुक्तेः भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मञ्जुश्रियं
कुमारभूतमेतदवोचत् - गच्छ तं मञ्जुश्रीः कुमार यस्येदानीं कालं
मन्यसे । अपि त्वस्मद्वचनेन भगवान् शाक्यमुनिरल्पावाधतामल्पातङ्कतां
लघूत्थानतां सन्यासविहारतां प्रष्टव्यः ॥

अथ भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मञ्जुश्रियं कुमारभूतमेतदवोचत् -
अपि तु कुमार ! शतसहस्रगङ्गानदीसिकतप्रख्यैस्तथागतैरर्हद्भिः सम्यक्
अभ्युद्धैस्त्वदीयं
मन्त्रचर्यामण्डलकल्परहस्वाभिपेकमुद्रापटलविधानहोमजपनियमसर्वाशा-
पारिपूरकसर्वसत्त्वसन्तोषणज्योति* * * * * (?) पटलविसरातीत ***** (?)
सततर्तमानज्ञानराज्यै **** (?) याकरणमन्त्रावर्तन ****** (?)
वसानान्तर्धान्तु ***** (?) विसरण ***** (?) पञ्चपलौकिक लोको बोधिसत्त्वार्यश्रा
अनुमोदितुमेव

३, प्। ३)

गच्छ त्वं मजुश्रीः ! कुमारभूत ! यस्येदानीं कालं मन्यसे ।
शाक्यमुनिसमीपं सम्मुखम् । इयं धर्मपर्यायं श्रोष्यसि । त्वमपि
भाषिष्यसे । भवति चात्र मन्त्रः - नमः
सर्वतथागतानामचिन्त्याप्रतिहतशासनानाम् ओꣳ र र स्मर ।
अप्रतिहतशासनकुमाररूपधारिण हूम् हूम् फट् फट् स्वाहा ॥

अयं स कुमार !
मञ्जुश्रीः ! मूलमन्त्रः । सर्वेषां तथागतानां हृदयः सर्वैश्च
तथागतैर्भाषितः भाषिष्यन्ते । स त्वमपीदानीं भाषिष्यसे । सहां लोकधातुं
गत्वा विस्तर विभागशः सर्वकर्मकरम् । शाक्यमुनिना । तथागतेनाभ्यनुज्ञातः
। परमहृदयं भवति चात्र ॐ वाक्ये द नमः । उपहृदयं चात्र वाक्ये हूम् ॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवान् सङ्कुसुमितराजेन
तयागतेनाभ्यनुज्ञातः सर्वव्यूहालङ्कारो
बोधिसत्त्वचर्यानिष्यन्दबोधिमण्डलसमनुप्रापणं नाम समाधिं समापद्यते
। समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य चतुर्दिग्व्यापन्नाग्र
अन्तोर्ध्वमधस्तिर्यक् सर्वे सर्वावन्तं दिशं बुद्धिर्भगवद्भिः सम्पूर्णं तं
लोकधातुमभवत् । साधु साधु भो ! जिनपुत्र ! यत् त्वमिमं समाधिविशेषं
समापद्यसे । न शक्यं सर्वश्रावकप्रत्येकबुद्धैर्बोधिसत्त्वैश्च
चर्याप्रविष्टैर्दशभूमिप्रतिष्ठितैरपि ** (?) सङ्कुसुमितराजेन्द्रस्तथागतस्तैश्च
बुद्धैर्भगवद्भिः सार्धं सम्मन्त्र्य इदं मञ्जुश्रियः कुमारभूतस्य
परमहृदयं परमगुह्यं सर्वार्थसाधनं मन्त्रं भाषते स्म । एकाक्षरं
नाम परमगुह्यं सर्वसत्त्वानामर्थकरं दिव्यमन्यैरपि मन्त्रचर्याविशेषैः
साधनीयम् ॥

अथ भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मुहूर्तं तूष्णीमभूत् । सर्वं
सर्वावन्तं लोकधातुं बुद्धचक्षुपावलोक्य तांश्च बुद्धान् भगवतः
समन्वाहुतं वा मैत्रात्मकेन चेतसा मन्त्रमुदीरयते स्म । नमः
सर्वबुद्धानाम् । मन्त्रः । एष मञ्जुश्रीः परमहृदयः सर्वकर्मकरः ॥

अथ मञ्जुश्रीः कुमारस्दस्तस्मात् यमाधेर्व्युत्थाय संयषाणि नाम *** (?)
पुरुषः सम्मिन्न*** (?) आहुं ***** (?) प्रसारितं वा स **** (?) ** (?)
सङ्घातमात्रो ************ (?) देवलवलजबुद्धिर्नानीत् क्षेपविकुर्वणं नाम
समा***** (?) समा ****** (?) ******* (?)कधातुं प्रत्यस्यात् ॥

४, प्। ४)

आगत्य चोपरि गगनतलमहामणिरवपतिष्ठिते शुद्धावासदेवनिकाये प्रत्यष्ठात् ।
सर्वं च तं शुद्धाभवनं महन****(?)भ्यवभासेनावभास्य
ज्योतिरवप्रतिमण्डनोद्द्योतनीं नाम समापयतरम । समनन्रसमापन्नस्य
मञ्जुश्रियः
कुमारभूतस्यानेकरवप्रविभक्तकूटागाररत्नच्छत्रानेकयोजनशतसहस्र-
विस्तीर्णदिव्यदृश्यमहापट्टकलापोपशोभितविरचितदिव्यपुष्पध्वजषनाकमाला-
कुलरत्नकिङ्किणीजालोपनद्धमधुरसर्वनिर्घोषवैवर्तिकत्वयोधिसत्त्वप्रतिष्ठा-
पनदिव्यं च गन्धमाल्यविलेपनस्रक्चूर्णप्रवर्षं चाभिनिर्ममे भगवतः
शाक्यमुनेः पूजाकर्मणे तमाश्चर्याद्भुतप्रातिहार्यं बोधिसत्त्वविकुर्वणं
दृष्ट्वा ॥

अथ ते शुद्धावासकायिका देवपुत्रा संहृष्टरोमकूपजाता भवनं
सत्वरमाणरूपाः उच्चैः क्रोशितुमारव्धाः एवं चाहुः - परित्रायस्व भगवन् !
परित्रायस्व शाक्यमुने ! ॥

अथ भगवान् सर्वावन्तं शुद्धावासपर्षदमामन्त्रयते स्म । मा भैष्टतु
मार्षा मा भैष्टथ । एष स मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः
सङ्कुसुमिते बुद्धक्षेत्रे सङ्कुसुमितराजस्य तथागतस्य सकाशाद् द्रष्टुं वन्दितुं
पर्युपासितुं महतार्थचर्यामन्त्रपदवैपुल्याद्भुतधर्मपदं च
निर्दिष्टुमागतः ॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः शाक्यमुनेस्त्रिः
प्रदक्षिणीकृत्यानिमिषनयनो भगवन्तमवलोक्य चरणयोर्निपत्य
इमेभिरक्षरपदप्रत्याहारैर्बह्गवन्तमभ्यष्टावीत् ॥

नमस्ते मुक्तायाजन्य नमस्ते पुरुषोत्तमः ।
नमस्ते पुरुषश्रेष्ठ ! सर्वचर्यार्थसाधकः ।
नमस्ते पुरुषसिंह ! सर्वानर्थनिवारक ! ।
नमोऽस्तु महावीर ! ******** (?)
नमस्ते ************ (?) दुःखविमोचक ! ।
नमस्ते ************ समान्तक ! ।

५, प्। ५)

नमस्ते सिद्धाय सर्वमन्वनर्यार्थसाधक ! ।
नमस्ते मङ्गल्याय सर्वमङ्गलमङ्गल ! ।
नमस्ते बुद्धाय सर्वधर्मावबोधने ! ।
नमस्ते तथागताय सर्वधर्मतथागत ! ।
निःप्रपञ्चाकारसमनुप्रविष्टदेशिक ! ।

नमस्ते सर्वज्ञाय सर्वज्ञ
ज्ञेयवस्तुसंस्कृतासंस्कृतत्रियानमार्गनिर्वाणप्रतिष्ठापनप्रतिष्ठिताय इति ।

एभिरक्षरपदप्रत्याहारास्तोत्रपदैर्भगवन्तं सम्मुखम लोकधातूनतिक्रम्य
पूर्वोत्तरे दिग्भागे सङ्कुसुमितं नाम बुद्धक्षेत्रमभूत् । तत्र कुसुमावती नाम
लोकधातु यत्र स भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो विहरत्यर्हं सम्यक्
सम्बुद्धो विद्याचरण वोदशयत्यादौ कल्याणं मध्ये कल्याणं पर्यवसाने
कल्याणं स्वार्थं सर्वं जन केवलं परिपूर्णं परिशुद्धं पर्यवदातं
बुद्धचर्यं सम्प्रकाशयति स्म ॥

स एतर्हि तिष्ठति ध्रियते यापयति धर्मं च दो * * * * * * * * * * (?) त्राणं लयनं
शरणं परायणं क्षेममत्यन्तनिष्ठमत्यन्तपर्यवसानं सर्वसत्त्वानां च
भाषते स्म । तेनैव भगवता कृताभ्यनुज्ञात इहागतो भगवतः
समीपपादमूलम् स च भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो भगवत
अल्पाताधतां लघूत्थानलोवभास्यत्वविहारतां पर्यपृच्छत् । एवं चाह -
आश्चर्यम् । यत्र हि नाम एवंविधे पञ्चकपाये काले बुद्धो भगवानः
शक्यमुनिरुत्पनः । दर्भं देशयति । अनूनपदव्यञ्जनं तृपयाप ******* (?)
मनुप्योपपत्तिप्रितिलीभनता । आश्चर्यं तस्य भगवतः शाक्य ***** (?) । यत्र हि
नाम अभव्ये सत्त्वनिकाये त्रिभवसमुद्यातानुवर्तियानेऽत्वन्तयोगक्षेमानुगमे
निर्वाणे भक्तं प्रतिष्ठापयति । अपि तु भगवान् बुद्धान्तं ******** (?) चित्तं
बुद्धा एव भगवन्तं पश्यन्ति । किं मया

६, प्। ५)

शक्यमचिन्त्याद्गुतैश्वर्यविकुर्वितानां भगवतां बुद्धविकुर्वितुं ज्ञातुम् ।
चित्तचरितचर्यानुप्रवेशनिर्हारचेष्टितं ज्ञातुं वा समासनिर्देशतो वा
कल्पकोटीनयुतशतसहस्रैरपि वक्तुम् । योऽयं तथागतानां
तथागतनिर्हारसमस्तव्यस्ताशेषमूर्त्या संस्कृतधर्मतो द्रष्टव्यः ।
दर्शनहेयपुराणावलम्बिनां चर्या वक्तुं गुणान् वा कथयितुं तथागत एवात्र
भगवान् जानीते न वयम् ॥

अथ खलु मञ्जुश्रीः कुमारभूतः स्वरिद्धिविकुर्वितनिर्मिते महारत्नपद्मे
निपण्णः भगवन्तं शाक्यमुनिं निरीक्ष्यमाणः ॥

अथ भगवाञ्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतं बोधिसत्त्वं महासत्त्वं
विविधकथानुसारे तथागतभूतान्
पूर्वप्रश्नपूर्वङ्गमपुरःसरधर्मदेशनानुकूलबोधिसत्त्वचर्यानिर्हारार्थोप्
असंहितेन ब्राह्मेण स्वरेण कलविङ्करुतरचितगर्जितदुन्दुभिस्वरनिनादितनिर्घोषेण
स्वरेण मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म ॥

स्वागतं ते मञ्जुश्रीः !
महासत्त्व
चर्यासर्वबुद्ध्यधिष्ठितनिर्हारसर्वबोधिसत्त्वार्थसम्प्रापकसर्वमन्त्रपद-
सरहस्याभिपेकमुद्रामण्डलकल्पभिषेक आयुरारोग्यैश्वर्यसर्वाशापारिपूरकः
सर्वसाधनौषयिकतन्त्रज्ञानज्ञेयकालान्तराधानराज्यक्षेत्र
अतीतानागतवर्तमानसङ्क्षेपतः सर्वसत्त्वानां सर्वाशापारिपूरक
स्वगुणोद्बोधनमन्त्रचर्यानुवर्त्तितपरसत्त्वप्रीतिकरण अन्तर्द्धानाकाशगमन
पादप्रचारिक मेधावीकरण आकर्षण पातालप्रवेशन आभिचारिक
सर्वकामावाप्तिसङ्कुल यक्षयक्षिणी किङ्करपिशाचसर्वभूताकर्षण
बालवृद्धतरुणयथास्थितिस्थापकसङ्क्षेपतः सर्वकर्मकर
सर्वमनोरथपरिपूरक आभिचारक शान्तिकपौष्टिकेषु प्रकुर्वाणः यथा यथा
प्रयुज्यमानस्तथा तथा श्राव्यमानबोधिसत्त्वपिटकावतंसकं
महाकल्परत्नपटलविसरम् अस्माभिरनुज्ञातः सर्ववृद्धैश्च भापन्तं
शुद्धसत्त्वे यधर्मकोशं बहुजनहिताय *****(?)कामाय देवानां च
सर्वसत्त्वानुद्दिश्य ॥

अथ *********** (?) मारभूतः *********** (?)
ज्योतिरश्मिव्यूहालङ्कारस********* (?) त्त्वसमाधिं ************ (?) मनन्तर

७, प्। ७)

समापवस्यानेकमङ्गान यावद् भुवनं यावच्च अवीचिर्महानरकं ये केचित्
सत्ता सुदुःखिताः सर्वे ते दुःखप्रशमनशान्तिं च जग्मुः ।
सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वान् बुद्धांश्च भगवतां सञ्चोद्य
पुनरेवं सा रश्मिर्मञ्जुश्रियस्य बोधिसत्त्वस्य मूर्धन्यन्तर्धीयते स्म ॥

अत्रान्तरे पूर्वस्यां दिशि ये व्यवस्थिता बुद्धक्षेत्राः तत्र बुद्धा भगवन्तः
सञ्चोदिताः तेन रश्मिधातुमण्डलीसमुद्द्योतितनिर्हारेण । तद्यथा -
ज्योतिस्सौम्यगन्धावभासश्रीर्नाम तथागतः
भैषज्यगुरुवैदूर्यप्रभराजस्तथागतः समन्तावभासश्रीर्नाम तथागतः
समुद्गतराजो नाम तथागतः शालेन्द्रराजो नाम तथागतः लोकेन्द्रराजो नाम
तथागतः अमितायुर्ज्ञानविनिश्चयराजो नाम तथागतः अनन्तावभासराजेन्द्रो
नाम तथागतः ज्योतिरश्मिराजेन्द्रो नाम तथागतः एवम्प्रमुखा बुद्धा
भगवन्तो बोधिसत्त्वगणपरिवृताः अनन्तानन्तेषु च लोकधातुषु तथागतार्हन्तः
सम्यक् सम्बुद्धाः सहां लोकधातुं शुद्वावासभवनस्थं च शाक्यमुनिं
तथागतामर्हन्तं सम्यक् सम्बुद्धं मञ्जुश्रिया सार्धं कुमारभूतेन
बोधिसत्त्वचर्यानिर्देशमन्त्रपदार्थपटलविसरं भाषन्तं ते बुद्धा भगवन्तः
सन्निपतेयुः । एवं दक्षिणस्यां पश्चिमस्यामुत्तरस्यां दिक्षु विदिक्षु ।
इत्यूर्ध्वमधस्तिर्यक् सर्वावन्तं बुद्धक्षेत्रानवभास्य सर्वेषु च बुद्धक्षेत्रेषु
सर्वमारभवनानि जिह्वीकृत्य सबोधिसत्त्वगणपरिवृताः
सश्रावकसङ्घपुरस्कृताश्च तं शुद्धावासभवनं
बुद्धविकुर्वणबोधिसत्त्वमहात्म्यं च दर्शयितुकामा
मन्त्रचर्यानिर्हारसमाधिविशेषपटलविसरतथागतशासनमप्रतिहतं
चोद्द्योतयितुकामाः प्रत्यस्था ॥

तद्यथा -

सुबाहु सुरत्न सुव्रत सुनेत्र सूरत सुधर्म सर्वार्थसिद्धि सर्वोद्गत धर्मोद्गत
रत्नोद्गत रत्नश्रीः मेरुश्रीः अचिन्त्यश्रीः प्रभाकरणीः ****** (?) ** (?)तिश्रीः
सर्वार्थश्रीः सर्वरत्नपाणिः चूडामणिः मेरुध्व***** (?) **** (?) गर्भः
रत्नगर्भं *** (?) गर्भः सचिन्त्यार्थगर्भः अचिन्त्यार्थम ****** (?)
चर्मोद्गतगर्भः ध्व***** (?) सुकेतुः अनन्तकेतुः

८, प्। ८)

अ****(?)सज्ञानरागः सर्वतमोऽन्धतरविधमनराजः
सर्वविकरणबोधिविध्वंसनराजः सर्वचर्यातिशयज्ञानराजः लोकेन्द्रराज
अतिशयेन्द्रराज विधमनराज निर्धूतराज आदित्यराज अभावसमुद्गतराज
स्वभावसमुद्गतराज अभावस्वभावसमुद्गतराज अविवक्षितराज
स्वभावपुण्याभः लोकाभः अमिताभः मिताभः अनन्ताभः सुनेत्राभः
सुसम्भवाभः अर्थभावाभः अधृष्यः अमृष्यः अकृषः अकनिष्ठः अमलः
अनलः द्युति पति मति सुख मुख नेमि निमि केतु ऋक्ष दिविदेव दिव्य नाभि रवन
लोकशान्ति उपारिष्ट दुन्दुभिसिद्ध शिव आख्यदिव्य दुप्रसह दुर्धर्ष दुरालभ
दूरङ्गम दुरालभ दुरस्थित ऊर्ध्वद्रव्यतम खद्योत समहद्योत अद्योत ऋषभ
आभ सुमनाय सुमन महादेव सुनिर्मल मलान्त दान्त समि सुचिह्न श्वेतध्वज इमि
किमि कनिष्ठ निकर्ष जीव सुजात धूमकेतु ध्वजकेतु श्वेतकेतु सुकेतु वसुकेतु वसव
पितामह पितरनिष्ककुरुलोकाख्य समन्ताख्य महाख्य श्रेयसि तेजसि ज्योतिकिरण
समन्तकर लोकङ्कर दिवङ्कर दीपङ्कर भूतान्तकर सर्वार्थङ्कर सिद्धङ्कर
द्योतिङ्कर अवभासङ्कर दुन्दुभिस्वर रुतस्वर सुस्वर अनन्तस्वर केतुस्वर
भूतमुनि कनकमुनि ऋक्च्छन्दः काश्यपशिखि । विश्वभुक् विपश्चि शाक्यमुनिश्चेति ।
एतैश्चान्यैश्च बहुभिर्बुद्धैर्भगवद्भिस्तं शुद्धवासभवनमवभास्य
पद्मासनेषु च स्थित्वा भूदेवं बोधिसत्त्वगणाश्चाजहारम् एवंरूपाः ।
तद्यथा -

रत्नपाणिः वज्रपाणिः सुपाणि अनन्तपाणि क्षितिपाणि आलोकपाणि सुनिर्मल सुकूप
प्रभूतकूट मणिकूट रत्नकूट रत्नहस्ति समन्तहस्ति गन्धहस्ति सुमति विगलगति
लोकगति चारुगति अनन्तगति अनन्तकीर्ति विमलकीर्ति गतिकीर्ति (?)लकीर्ति कीर्तिकीर्ति नाथ
नमन्तदेव त्वद्धत्रेय ***** (?) (?)न्तात्रेय त्रिशर
* (?) ****(?)त्रेय (?)र्ज
सुमनोद्भार्
(?) *(?)र्मीश्वरः अभावे *********** (?) अवलोकितेश्वरः सुलोकितेश्वर
विलोकं *(?)कमह सु(?) वर्जितेश्वर दुन्दुभिस्वर निततेश्वर विध्वस्तेश्वर

९, प्। ९)

सुवक्ष सुमूर्ति सुमद्ध यशोवत आदित्यप्रभाव प्रभविष्णुः सोमेश्वर सोम
सौम्य अनन्तधो लोकश्री मगन गगनाढ्य गगनमं क्षितेश्वा महेश्वर
क्षितिक्षितिगर्भ नीवरण सर्वावरण सर्वावरण विष्कम्भि सर्वनीवरणविष्कम्भि
समन्तनिर्मथनः समन्तभद्रः भद्रपाणिः सुधनः सुसंहतः रसुपुष्य
सुनभ आकाश आकाशगर्भः सवार्थगर्भः सर्वोद्भव अनिवर्ती अनिवर्तित
अपायजह अविवर्तित अवैवर्त्तिकसर्वधर्मोपश्चेति । एतैश्चान्यैश्च
बोधिसत्त्वैर्महासत्त्वैः सार्धं भगवान् शाक्यमुनिः शुद्धावासभवने
विहरति स्म ॥

अन्यैरपि बोधिसत्त्वैर्महासत्त्वैः स्त्रीरूपधारिभिः
अनन्तचर्यार्थलोकनिरहारसकलसत्त्वाशय
अनिवर्तनमार्गप्रतिष्ठापनतयाचिन्त्याविद्यापदमन्त्रधारणी
ओषधवेषरूपधारिभिर्नानाविधपक्षिगणयक्षराक्षसमणिमन्त्ररत्नराजसत्त्व
असत्त्वसङ्ख्यानसमनुप्रवेशसत्त्वचर्यानुवर्तिभिर्यथासयसत्त्वविनयनथानु-
कारिभिः
तत्प्रतिविशिष्टरूपानुवर्तिभिर्विद्याराजोपदेशयथावबोधधर्मनिर्याततथागता-
ब्जकुलिशसर्वलौकिकलोकोत्तरसमनुप्रवेशसमयानतिक्रमणीयवचनपथप्रतिष्ठा-
पनतृरत्नवंशानुपच्छेदकर्तृभिः तद्यथा -

उष्णीष अत्यद्भुत अत्युन्नत सितातपत्र अनन्तपत्र शतपत्र जयोष्णीष लोकोत्तर
विजयोष्णीष अभ्युद्गतोष्णीष कमलरश्मि कनकरश्मि सितरश्मि व्यूढोष्णीष
कनकराशि सितराशि तेजोराशि मणिराशि समनन्तराशि विख्यातराशि भूतराशि
सत्यराशि अभावस्वभावराशि अवितथराशि
एतैश्चान्यैश्चोष्णीषराजैरनन्तधर्मधातुप्रविष्टैर्यथाशयसत्त्वाभिप्राय-
पारिपूरकैः सर्वजिनहृदयसमन्तागनैर्न शक्यं कल्पकोटीनियुतशतसहस्रैरपि
उष्णीषराज्ञां गणनापर्यन्तं वक्तुम् अचिन्त्यबलपराक्रमाणां माहात्म्यं
वा कथयितुम् । समासनिर्देशतः सङ्क्षेपतश्च कथ्यते वेद्याराज्ञीनां *****(?)
वक्ष्यते । तद्यथा -

ऊर्णा भ्रूलोचना पद्मा अ****(?)वा अभया करुणा मैत्री कृपा प्रज्ञा रश्मि
चेतना प्रभा निर्म*******(?) तथान्याश्च
विद्याराज्ञीभिरनन्तापर्यन्ततथागतमूर्तनिसृष्टां *****(?)या -

१०, प्। १०)

तथागतपात्र धर्मचक्र तथागतशयन तथागतावभास तथागतवचन
तथागतोष्ठ तथागतोरु तथागतान्नल तथागतध्वज ******(?) तथागतचिह्नश्चेति ।
एतैश्चान्यैश्च तथागतमन्त्रभाषितैर्विचाराज्ञराज्ञीकिङ्करचेटचेटी दूतदूती
यक्षयक्षी सत्त्वासत्त्वैश्च प्रतिविशिष्टव्यूहालङ्कारधर्ममेधान्निःसृतैः
समाधिविशेषनिष्यन्दितैरपरिमितकोटीशतसहस्रपरिवारितैः सर्वविद्यागण
उपर्युपरि प्रवर्तमानैर्विद्याराज्ञैः । तेऽपि तत्र
शुद्धावासभवनमधिष्ठितवानभूवम् । अब्जकुले च विद्याराज्ञः । तद्यथा -

भगवान् द्वादशभुजः षड्भुजेः चतुर्भुजः हालाहलः अमोघपाशः
श्वेतहयग्रीवः सुग्रीव अनन्तग्रीव नीलग्रीव सुग्रीव सुकर्णः श्वेतकर्णः
नीलकण्ठः लोककण्ठ विलोकित अवलोकित ईश्वासहस्ररश्मि मनः मनसः
विख्यातमनसः कमलः कमलपाणिः मनोरथः आश्वासकः प्रहसित सुकेश
केशान्त नक्षत्र नक्षत्रराज सौम्य सुगत दमकश्चेति । एतैश्चान्यैश्च विद्याराजैः

अब्जोष्णीपप्रमुखैरनन्तनिर्हारधर्ममेघनिष्यन्दसमाधिभूतैरनेक-शतसहस्र्
अकोटीनियुतविदीपपरिवारितैरनेकैश्च
विद्याराज्ञीभिर्लोकेश्वरमूर्त्तिसमाधिविसृतैः । तद्यथा -

तारा सुतारा नटी भृकुटी अनन्तटी लोकटी भूमिप्रापटी विमलटी सिता श्वेता
महाश्वेता पाण्डरवासिनी लोकवासिनी विमलवासिनी अब्जवासिनी दशबलवासिनी
यशोवती भोगवती महाभोगवती उलूका अलोका अमलान्तकरी समन्तान्तकरी
दुःखान्तकरी भूतान्तकरी श्रिया महाश्रिया भूपश्रिया अनन्तश्रिया लोकश्रिया
विख्यातश्रिया लोकमाता समन्तमाता बुद्धमाता भगिनी भागीरथी सुरथी
रथवती नागदन्ता दमनी भूतवती अमिता आवली भोगवली आकर्षणी अद्भुता
रश्मी सुरसा सुरवती प्रमोदा द्युतिवती तटी समन्ततटी ज्योत्स्ना सोमा सोमावती
मायूरी महामायूरी धनवती धनन्ददा सुरवती लोकवती (?)र्चिष्मती **** ((?)
ध्रुहन्ता सुघोषा सुनन्दा वसुदा लक्ष्मी लक्ष्मीव (?)गान्तिका (?)धिचिकित्सनी
असमा देवी ख्यानिकरी वशकरा अमकरी क्षेमद
(?) मङ्गलावहा चन्द्रा
शुचन्द्रा ******* (?) चेति । आन्यैश्च विद्यार
*** (?)
पर्णासवरिजाङ्गु******(?)नसीप्रमुखैरनन्तनिर्हारधर्मधातुगगनस्वभावैः

११, प्। ११)

सत्त्वचर्याविकुर्वि******(?)ष्ठानसञ्जनितमानसैः दूतदूती **(?)पेटी
किङ्करकिङ्करी यक्षयक्षी राक्षसराक्षसीं पिशाचपिशाची
अब्जकुलसमयानुप्रवेशमन्त्रविचारिभिः येन तं शुद्धावासं देवभवनं
शुद्धसत्त्वनिश्वस्तं तेन प्रत्यष्ठात् । प्रतिष्ठिताश्च भगवतः शाक्यमुनेः
पूजाकर्मणोद्युक्तमानसो अभूवंस्थितवन्तः ॥

तस्मिन् भगवतः शाक्यमुनेः समीपं वज्रपाणिः बोधिसत्त्वः स्वकं
विद्यागणमामन्त्रयते स्म । सन्निपातं ह भवन्तोऽस्मद्विद्यागणपरिवृताः
सक्रोधराजः विद्याराजराज्ञिभिर्महादूतिभिः स्मरणमात्रेणैव सर्वा
विद्यागणाः सन्निपतिताः । तद्यथा -

विद्योत्तमः सुविद्य सुविद्ध सुबाहु सुषेण सुरान्तक सुरद सुपूर्ण वज्रसेन वज्रकर
वज्रबाहु वज्रहस्त वज्रध्वज वज्रपताक वज्रशिखर वज्रशिख वज्रदंष्ट्र
शुद्धवज्र वज्ररोम वज्रसंहत वज्रानन वज्रकवच वज्रग्रीव वज्रनाभि वज्रान्त
वज्रपञ्जर वज्रप्राकार वज्रासु वज्रधनुः वज्रशरः वज्रनाराच वज्राङ्क
वज्रस्फोट वज्रपाताल वज्रभैरव नेत्र वज्रक्रोध जलान्तश्चर भूतान्तश्चर
गन्धनान्तश्चर महाक्रोधान्तश्चर महेश्वरान्तश्चर सर्वविद्यान्तश्चर घोरः
सुघोरः क्षेप उपक्षेपः पदनिक्षेपः विनायकान्तक्षेपः सविन्यासक्षेपः
उत्कृष्टक्षेप बल महाबल सुम्भ भ्रमर भृङ्गिरिटि क्रोध महाक्रोध सर्वक्रोध
अजर अजगर ज्वर शोष नागान्त दण्ड नीलदण्ड अङ्गद रक्ताङ्ग वज्रदण्ड मेध्य
महामेध्य काल कालकूट श्वित्ररोम सर्वभूतसङ्क्षय शूल महाशूल अर्ति
महार्ति यम वैवस्वत युगान्तकर कृष्णपक्ष घोरः घोररूपी पट्टिस तोमर गद
प्रमथन ग्रसन संसार अरह युगान्तार्क प्राणहर शक्रघ्न द्वेष आमर्ष
कुण्डलि सुकुण्डलि अमृतकुण्डलि अनन्तकुण्डलि रत्नकुण्डलि बाहु महाबाहु
महारोग दुष्टसर्प वसर्प कुष्ठ उपद्रव भक्षक अतृप्त उच्छुष्यश्चेति ।
पौष्टिक आभिचारककर्मेषु (?) अनेकैश्च
विद्याराजकोटीनयुतशतसहस्रपरिवारिताः शा
******* (?) मञ्जुश्रियं
कुमारभूतं

१२, प्। १२)

निध्यायन्तं स्वकं विद्याराजं कुलिशपाणिं
नमस्यतामाज्ञामुदीक्षयमाणाश्च कुलस्थानं स्थिताः । स्वकस्वकेषु चासनेषु
च निषण्णा अभूवन् । भगवतो वज्रपाणेर्या अपि ता महादूत्यो
विद्याराज्ञीनियुतसहस्रपरिवाराश्च अपि स्वकं धर्मधातुं गगनस्वभावं
निःप्रपञ्चावलम्ब्य तस्मिन् स्थाने सजिपतिताः । तद्यथा -

मेखला सुमेखला सिङ्कला वज्रार्णा वज्रजिह्वा वज्रभू वज्रलोचना वज्रांसा
वज्रभ्रुकुटी वज्रश्रवणा वज्रलेखा वज्रसूची वज्रमुस्ती वज्राङ्कुशी वज्रशाटी
वज्रासनी वज्रश्रिङ्खला सालवती साला विअरटी कामिनी वज्रकामिनी कामवज्रिणी
पश्यिका पश्यिनी महापश्यिनी शिखरवासिनी ग्रहिला द्वारवासिनी कामवज्रिणी
मनोजवा अतिजवा शीघ्रजवा सुलोचना सुरसवती भ्रमरी भ्रामरी यात्रा सिद्धा
अनिला पूरा केशिनी सुकेशा हिण्डिनी तर्जिनी दूती सुदूती मामकी वामनी रूपिणी
रूपवती जया विजया अजिता अपराजिता श्रेयसि हासिनी हासवज्रिणी लोकवती यसवती
कुलिशवती अदान्ता त्रैलोक्यवशङ्करी दण्डा महादण्डा प्रियवादिनी
सौभाग्यवती अर्थवती महानर्था तित्तिरी धवलतित्तिरी धवला सुनिर्मिता सुनिर्मला
घण्टा खड्गपट्टिसा सूची जयती अवरा निर्मिता नायिका गुह्यकी विस्रम्भिका
मुसला सर्वभूतवशङ्करी चेति । एताश्चान्याश्च महादूत्यः
अनेकदूतीगणपरिवारिवारिता अत्रैव महापर्षन्मण्डले सन्निपतेयुः अनेकाश्च
धारण्यः समाधिनिष्पन्दपरिभावितमानसोद्भवा
दुष्टसत्त्वनिग्रहदण्डमायादयिताः तद्यथा -

वज्रानलप्रमोहनी धारणी मेरुशिखरकूटागारधारिणी
रत्नशिखरकूटागारधरणिन्धरा सुकृटा बहुकूटा पुष्पकूटा दण्डधारिणी
निग्रहधारणी आकर्षणधारिणी केयूरा केयूरवती ध्वजाग्रकेयूरा
रन्नागकेयूरा लोकाग्रकेयूरा पताग्रकेयूरा विपरिवर्ता लोकावर्ता सहस्रावर्ता
विवस्वा**(?) सर्वभूतावर्ता केतुवती रत्नवती मणिरत्नचूडा बोद्ध्यगा बलवती
अनन्तकेतु समन्तकेतु रत्नकेतु विख्यातकेतु सर्वभूतकेतु

१३, प्। १३)

अजिरवती अम्बरा सुनिर्मला षण्मुखा विमला लोकाख्या चेति ।
एताश्चान्याश्चानेकधारणीशतसहस्रकोटीपरिवारिता तत्रैव महापर्पन्मण्डले
सन्निपतेयुः । अनन्तबुद्धाधिष्ठानमहाधिसत्त्वसमाध्याधिष्ठानं च । अथ
बुद्धक्षेत्रविवर्जितप्रत्येकबुद्धा भगवन्तो खड्गविषाणकल्पा वनचारिणश्च
ससत्त्वानागर्थं कुर्वन्तस्तूष्णीम्भावानधिवासनधर्मनेत्रीसम्प्रकाशयन्तः
संसारानुवर्तिन सदा खिन्नमानसा महाकरुणावर्जितसन्तानः
केवलचित्तवासनापरिभावितबोधिचित्तपूर्वोद्भावितपरिभावितचेतना एकभूमि
द्विभूमि त्रिभूमिर्यावदष्टमी बोधिसत्त्वभूमिनिवर्तितमानसः खिन्नमानसो
संसारभयभीरवः तेऽपि तं महापर्पन्मण्डलं सन्निपतेयुः । तद्यथा -

गन्धमादनः सिमन्तायतन समन्तप्रभ चन्दन काल उपकाल नेमि उपनेमि रिष्ट
उपरिष्ट उपारिष्ट पार्श्व सुपार्श्व दुन्दुभि उपदुन्दुभि लोकाख्य लोकप्रभ जयन्त
अरेणु रेणु उपरेणु अंश उपांश चिह्न सुचिह्न दिनकर सुकर प्रभावन्त प्रभाकर
लोककर विश्रुत सुश्रुत सुकान्त सुधान्त सुदान्त अदन्तान्त भवान्त सितकेतु जिह्मकेतु
केतु उपकेतु तथ्य पद्महर पद्मसम्भव स्वयम्भु अद्भुत मनोज मनस
महेन्दुकूटाख्य कुम्भसकलाख्य मकर उपकर शान्त शान्तमानस वर्म
उपवर्म वैरोचन कुसुम सुलील श्रेयस वद्यहरान्तक दुःप्रसह कनक विमलकेतु
सोम सुसोम सुषेण सुचीर्ण शुक्र क्रतु इष्ट उपेन्द्र वसुश्चेति । एतैश्चान्यैः
प्रत्येकबुद्धकोटीनियुतशतसहस्राचिन्त्यातुल्या
प्रणिहितधर्मधातुगगनस्वभावनिःप्रपञ्चसंस्कृतमध्ययानप्रविष्ट-
निर्दिष्टप्रतिष्ठितैः सार्धं भगवान् शाक्यमुनिः
प्रतिष्ठातुननयप्रतिघापगतैर्विहरति स्म । महाश्रावकसङ्घेन च
सार्धमनेकश्रावकशतसहस्रकोटीपरिवारैः ॥

तद्यथा -

सहाकाश्यप नदीकाश्यप गयाकाश्यप दुरविक्षोकाश्यप भरद्वर ***(?)
मौद्गल्यायन महामौल्यायन शारिपुत्र महासारिपुत्र सुभूति महासुभूति
गवाम्यवि कात्यायन महाकात्यायन उपालि भद्रिस फिणनन्द आनन्द सुन्दरनन्द
लोकभूत अनन्तभूत वर्णक उपवर्णक ***(?)न्दिक उपनन्दिक अविरुद्ध पूर्ण
सुपूर्ण उपपूर्ण

१४, प्। १४)

तिष्य पुनर्वसु रूह रौद्र रौरव कुरु पञ्चिक उपपञ्चिक **** (?) देवल राहुल हरित
उपहन्ति ध्यायि नन्दि ध्यायिक उपायि उपयायिक श्रेयसक द्रव्यो मल्लपुत्रः
उपद्रव्यः उपेतः खण्डः तिष्य महातिष्य समन्ततिष्य आह्वयनयसोद यसिक धनिक
धनवर्ण उपधनिक पिलिन्दवश पिप्पल किम्फल उपफल अनन्तफल सफल कुमार
कुमारकाश्यप महोद षोडशवर्तिका नन्द उपनन्द जिह्व जिह्म जितपाश महेष्वास
वात्सीक कुरुकुल्ल उपकुरुकुल्ल कोटीकर्ण श्रमण श्रोणीपरान्तक गाङ्गेयक
गिरिकर्णिक कोटिकर्णिक वार्षिक जेतः सुजेत श्रीगुप्त लोकगुप्त गुरुगुप्त गुरुक
द्योतीरसः सनक डिम्भक उपडिम्भि विसकोटिक अनाथद उपर्तन विवर्तन उन्मत्तक
द्योत समन्त भद्दलि सुप्रबुद्ध स्वागत उपागत लोहागत दुःखान्त भद्रकल्पिक
महाभद्रिक अर्थचर पितामह गतिक पुष्पमाल पुष्पकाशिख उपकाशिक
महौषध महोजस्क महोज अनुराधमहौजस्क महोज अनुराध राधक रासिक
सुब्रह्म सुशोभन सुलोक समागम मितश्चेति । एतैश्चान्यैश्च
मनन्तधर्मधातुविमुक्तिरसरसज्ञैः
त्रियानसमवसरणकरणीयसयानसमनुप्राप्तैः संसारपलायिभिः
त्रिमोक्षध्यानध्यायिभिः चतुर्बाहुविहार ईर्ष्याषथसम्पन्नैः सुसमाहितैः
सूपसम्पन्नैः अनयप्रविष्टनिर्वाणधातुसमवशरणसमतानिःप्रपञ्चभिः
सार्धं तन्महापर्षन्मण्डलं तं च भगवन्तं शाक्यमुनिं
त्रिरन्तस्थानवस्थित । दशभूम्यानन्तरं तेऽपि तत्र निषण्णभूवम् । अनेकैश्च
महाश्राविकासमवशरणनिर्वाणधातुसमनुप्रविष्टाभिः
असंस्कृतयावमानयानावलम्विभिः शुद्धाभिर्वीतरागाभिः
समन्तद्योतिसमनुप्राप्ताभिः दक्षिणीयक्षेत्रगुणाधानविशोधिभिः
सत्त्वसारमण्डभूताभिः लोकाग्राधिपतीभिः
पूज्यदेवमनुष्यपुण्यक्षेत्रद्विपदचतुष्पदबहुपद अपद सर्वसत्त्वाधिपतीभिः
तद्यथा -

यशो**** (?) (?)शोदा म***(?) **(?)पती सुजाता नन्दा (?)नन्दा **** (?)
ध्यायिनी ***** (?) विशा
(?) मनोरथा ***(?)ती वीरा उपवीरा देवता ****(?) आश्रिता
श्रिया ***(?) (?) प्रियंवरा रोहिणी धृ(?) ****(?) सम्पदा वपुषा

१५, प्। १५)

शुद्धा सभा जटा उपजटा समन्तजटा भवान्तिका भाव्ती मनोजवा केशवा
विष्णुला विष्णुवती सुषमा बहुशा श्रेयसी दुःखान्ता कर्मदा क वसुदा धर्मदा
नर्मदा ताम्रा सुताम्रा कीर्तिवती मनोवती प्रहसिता त्रिभवान्ता त्रिभलान्ता
दुःखशायिका निर्वीणा त्रिपर्णा पद्मवर्णा पद्मावती पद्मप्रभा पद्मा
पद्मावती त्रिपर्णी सप्तवर्णी उत्पलवर्णा चेति । एताश्चान्याश्च महास्थविष्ठा
महाश्राविका भगवतः पादमूलं वन्दनाय उपसङ्क्रान्ताः । एता एव
महापर्षन्मण्डलं महाबोधिसत्त्वविकुर्वणं प्रभावयितुकामाः सन्निपतिताः
सन्निषण्णा अभूवम् । धर्मश्रवणाय मन्त्रचर्यार्थनिर्हारमुद्योतयितुकामा
भूवम् ॥

अथ भगवान् शाक्यमुनिस्तं सर्वावन्तं पर्षन्मण्डलमवलोक्य
शुद्धाध्यासयः अभावस्वभावगगनस्वभावत्रिपर्वसगतिक्रमणं
सत्त्वधातुं विदित्वा मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । समन्वाहर
त्वं मञ्जुश्रीः ! सत्त्वार्थचर्यं प्रति
यथाशयाभिननन्दनेप्सितकर्मफलश्रद्धासमन्वागममन्त्रचर्यार्थ-
सम्प्राषणं नामामधर्मपदकर्मपदं शान्तिपदं मोक्षपदं
कल्पनिर्हारं निर्विकल्पसमताप्रापणं दशतथागतवलसमन्तवलसबलं
मारवलाभिवर्द्धनं नाम बोधिसत्त्वसमाधिं भावयथ ॥

अथ मञ्जुश्रीः कुमारभूतः समनन्तरभावितं भगवता समापद्यते स्म ।
समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य यथेयं
त्रिसाहस्रमहासाहस्रो लोकधातुरनेकलोकधातुशतसहस्रपरमाणुरजःसमां
त्रिसाहस्रमहासाहस्रां लोकधातुं सम्प्रकल्प्य महतावभासेनावभास्य च
स्वकं शुद्धिवलाधानं दर्शयते स्म । स्वानि च मन्त्रपदानि भाषते स्म । नमः
समन्तबुद्धानात् । अभावस्वभावसमुद्गतानाम् । नमः
प्रत्येकबुद्धार्यश्रावकाणाम् । नमो बोधिसत्त्वानां
दशभूमिप्रतिष्ठेश्वराणां बोधिसत्त्वानां ********(?)म् ।

अ*******(?)लपरशुपाशहर*****(?) (?)नतुर्मुख ! प(?) गच्छ
महाविघ्नघा***(?) सर्वभूतभयङ्कर ! ******* (?) व्याघ्रचर्मनिवसन !

१६, प्। १६)

कुरु कुरु सर्वकर्मा । छिन्द छिन्द सर्वप्रधान् । भिन्द भिन्द परमुद्राम् । आकर्षय
आकर्षय सर्वमुद्राम् । निर्मथ निर्मथ सर्वदुष्टान् । प्रवेशय प्रवेशय
मण्डलमध्ये । वैवस्वतान्तकर ! कुरु कुरु मम कार्यम् । दहदह पचपच मा
विलम्ब मा विलम्ब समयमनुस्मर हूꣳ हूꣳ फट् फट् । स्फोटय स्फोटय
सर्वाशापारिपूरक ! हे हे भगवन् ! किं चिरायसि मम सर्वार्थान् साधय स्वाहा ॥

एष भगवतो मञ्जुश्रियस्य महाक्रोधराजा यमान्तको नाम यमराजामपि
घातयति । आनयति । किं पुनरन्यसत्त्वम् । समनन्तरभाअपिते महाक्रोधराजे
भगवतः समीपं सर्वसत्त्वा उपसङ्क्रमन्ते आर्ता भीतास्त्रस्ता उद्विग्नमनसो
भिन्नहृदयाः । नान्यच्छरणम् । नान्यत् त्राणम् । नान्यत् परायणम् । वर्जयित्वा तु
बुद्धं भगवन्तं मञ्जुश्रियं च कुमारभूतम् ॥

अथ ये केचित् पृथिवीचरा जलेचराः खगचराः स्थावरजङ्गमाश्च
जरायुजाण्डजसंस्वेदज उपपादुकसत्त्वसङ्ख्याताः तेऽपि
तत्क्षणतन्मुहूर्तेनानन्तापर्यन्तेषु लोकधातुषु स्थिता इत्यूर्ध्वमधस्तिर्यक् दिक्षु
विदिक्षु निलीनास्तत्क्षणं महाक्रोधराजेन स्वयमपोह्य नीताः । अयं च
क्रोधराजा अवीतरागस्य पुरतो न जप्तव्यः । यत् कारणं सोऽपि म्रियते शुष्यते वा ।
समयमधिष्ठाय बुद्धप्रतिमायाग्रतः वा मञ्जुश्रियो वा
कुमारभूतस्याग्रतो जप्तव्यः । अन्यकर्मनिमित्तं वा यत्र वा तत्र वा न
पठितव्यः । कारणं महोत्पादमहोत्सन्न आत्मोषघातय भवतीति ।
परमकारुणिका हि बुद्धा भगवन्तो बोधिसत्त्वाश्च महासत्त्वाश्च केवलं नु
सर्वज्ञज्ञान सम्प्रतिष्ठापन-अशेषसत्त्वधातुनिर्वाणाभिसम्प्रापणा
अशासितशासनः त्रिमात्रसंयोजनः त्रिरत्नवंशानुपच्छेदमन्त्रचर्यादीपनः
गद्दाकरुणाग्रभावनिष्यन्देन चेतसा मारवलाभिभवन महाविघ्ननाशन
दुष्टराज्ञा निवारण आत्मवलाभिभवन पर******(?)रणस्तोभन (?) (?)
शासन उच्छोषण (?) स्वमन्त्र
(?)काशन आयुरारो
(?) (?)भिव
***(?)

१७, प्। १७)

अथ ते नागा महानागा यक्षा महायक्षा राक्षसा महाराक्षसाः पिशाचा
महापिशाचाः पूतना महापूतनाः कटपूतना महाकटपूतना मारुता
महामारुताः कूष्माण्डा महाकूष्माण्डा व्याडा महाव्याडा वेताडा
महावेताडा कम्बोजा महाकम्बोजा भगिन्यो महाभगिन्यो डाकिन्यो
महाडाकिन्यः चूषका महाचूषका उत्सारका महोत्सारका डिम्फिका
महाडिम्फिकाः किम्पका महाकिम्पका रोगा महारोगाः महारोगा अपस्मारा
महा-अपस्माराः ग्रहा महाग्रहा आकाशमातरा महाकाशमातरः रूपिण्यो
महारूपिण्यः क्रन्दना महाक्रन्दनाः छाया महाच्छाया प्रेषका
महाप्रेषकाः किङ्करा महाकिङ्करा यक्षिण्यो महायक्षिण्यः पिशाच्यो
महापिशाच्यो ज्वरा महाज्वराः चातुर्थका महाचातुर्थकाः नित्यज्वरा
विषयज्वरा साततिका मौहूर्तिका वातिकाः पैत्तिकाः श्लेष्मिकाः सान्निपातिका विद्या
महाविद्या सिद्धा महासिद्धा योगिनो महायोगिनः ऋषयो महाऋषयः किङ्करा
महाकिङ्करा महोरमा महामहोरगा गन्धर्वा महागन्दह्र्वा देवा महादेवा
मनुष्या महामनुष्या जनपदयो महाजनपदयः सागराः महासागराः नद्यो
महानद्यः पर्वता महापर्वताः निधयो महानिधयः पृथिव्या महापृथिव्या
वृक्षा महावृक्षाः पक्षिण्यो महापक्षिण्यो राज्ञा महाराज्ञा शक्रा महेन्द्रा
वासवा क्रतयो भूता वियति ईशान यमः ब्रह्मा महाब्रह्मा वैवस्वत धनद
धृतराष्ट्रः विरूपाक्षः कुवेरः पूर्णभद्रः पञ्चिकः जम्भल सम्भल
कूष्मल हारीति हरिकेश हरिहारीति पिङ्गला प्रियङ्कर अर्थङ्कर जालेन्द्र लोकेन्द्र
उपेन्द्र गुह्यक महागुह्यक चल चपल जलचर सातत गिरि हेमगिरि महागिरि कूटाक्ष
त्रियसिरश्चेति । एतैश्चान्यैश्च महायक्षसेनापतिभिः
अनेकयक्षकोटीनियुतशतसहस्रपरिवारितैस्तत्रैव महापर्षन्मण्डले
शुद्धावासभवने बोधिसत्वाधिष्ठानेन ऋद्धिबलाधानेन च सन्निपतिता
अभूवं सन्निपण्णाश्च धर्मश्रवणाय ॥

येऽपि ते महाराक्षसरा***(?) अनेकराक्षस***************** (?) आनीता
महाक्रोध***(?) । तद्यथा रावण प्रविण विद्रावण **(?)कुकर्ण कुम्भ
कुम्भकर्ण हयन्तकर्ण यम घिभीषण

१८, प्। १८)

घोर सुघोर यक्ष यम घण्ट इन्द्रजित् लोकजिः योधनः सुयोधनः शूलः त्रिशूलः
त्रिशिरः ***(?)शिरश्चेति सन्निपतिता भूवं धर्मश्रवणाय ॥

येऽपि ते महापिशाचा अनेककोटीनियुतशतसहस्रपरिवाराः । तद्यथा - पीलु उपपीलु
सुपीलु अनन्तपीलु मनोरथ अयनोरथ सुताय ग्रसन सुधाम घोर घोररूपीश्चेति
सन्निपतिता अभूवं धर्मश्रवणाय ॥

येऽपि ते महानागराजानः अनेकनागकोटीनियुतशतसहस्रपरिवारा आनीताः
क्रोधराजेन बोधिसत्त्वऋद्धिवलाधानेन च । तद्यथा - नन्द उपनन्द कम्बल
उपकम्बल वासुकि अनन्त तक्षक पद्म महापद्म सङ्खपाल सङ्ख सङ्खपाल
कर्कोटक कुलिक अकुलिक माण कलशोद कुलिशिक चाम्पेय मणिनाग मानभञ्ज
दुकुर उपदुकुर लकुट महालकुट श्वेत श्वेतभद्र नील नीलाम्बुद क्षीरोद अपलाल
सागर उपसागरश्चेति । एतैश्चान्यैश्च महानागराजनैः
अनेकशतसहस्रमहानागपरिवारितैस्तन्महाषर्षन्मण्डलं सन्निपतिताः
सन्निषण्णा अभूवं धर्मश्रवणाय ॥

येऽपि ते ऋषयो महाऋषयः । तद्यथा - आत्रेय वसिष्ठः गौतम भगीरथः जह्नु
अङ्गिरसः अगस्ति पुलस्तिः व्यास कृष्ण कृष्ण गौतम अग्नि अङ्गिरस जामदग्नि आस्तीक
मुनिः मुनिवर अश्वरः वैशम्पायन पराशरः परशुः योगेश्वरः पिपोअलः
पिप्पलाद वाल्मीकः मार्कण्डश्चेति । एतैश्चान्यैर्महाऋषयै
अनेकमहाऋषिशतसहस्रपरिवारास्तत्पर्षन्मण्डलमुपजग्मुः । भगवन्तं
शाक्यमुनिं वन्दित्वा सन्निषण्णा भूवं मन्त्रचर्यार्थबोधिसत्त्वपिटकं
श्रोतुमनुमोदितुं च ॥

येऽपि ते महोरगराजानः तेऽपि तत् पर्षन्मण्डलं सम्प्रविष्टा अभूवं
सन्निषण्णाः । तद्यथा - भेरुण्ड ***(?) ******** (?) दीप ******(?)श्चेति ॥

येऽपि ते गरुड ****(?)स्तेऽपि तत् पर्षन्मण्डल *******(?) अनेकशतसहस्रपरिवाराः ।

१९, प्। १९)

अजातपक्षः मनोजव पन्नगनाशन वैनतेय वैनतेय भरद्वाज शकुन
महाशकुन पक्षिरान्नाश्रेति । तेऽपि तत् पर्षन्मण्डलं सन्निपतेयुः ॥

येऽपि ते किन्नरराज्ञः अनेककिन्नरशतसहस्रपरिवाराः तेऽपि तं पर्षन्मण्डलं
सन्निपतेयुः । तद्यथा - द्रुम उपद्रुम सुद्रुम अनन्तद्रुम लोकद्रुम लेद्रुम
घनोरस्क यद्दोरस्क महोजस्क महोज महर्द्धिक विरुत सुस्वर मनोज्ञ
चित्तोन्मादकर उन्नत उपेक्षक करुण अरुणश्चेति । एते चान्ये च महाकिन्नरराजानः
अनेककिन्नरशतसहस्रपरिवाराः सन्निपतिता अभूवं धर्मश्रवणाय ॥

एवं ब्रह्मा सहाम्पति महाब्रह्मा आभास्वरः प्रभास्वरः शुद्धाभः
पुण्याभः अट्टह अतषाः अकनिष्ठा सुकनिष्ठा लोकनिष्ठा आकिञ्चन्या
नैवकिञ्चन्या आकाशानन्त्या नैवाकाशानन्त्या सुदृशा सुदार्शना सुनिर्मिता
परनिर्मिता शुद्धावासा तुषिता यामा तृदशा चातुर्महाराजिका सदामत्ता
मालाधारा करोटपाणयः वीणातृतीयकाः पर्वतवासिनः कूटवासिनः
शिखरवासिनः अलकवासिनः पुरवासिनः विमानवासिनः अन्तरिक्षचराः
भूमिवासिनः वृक्षवासिनः गृहवासिनः । एवं दानवेन्द्राः - प्रह्लाद बलि राहु
वेमचित्ति सुचित्ति क्षेमचित्ति देवचित्ति राहु वाहुप्रमुखाः
अनेकदानवकोटीशतसहस्रपरिवाराः विचित्रगतयो विचित्रार्थाः सुरयोधिनोऽसुराः
तेऽपि तत् पर्षन्मण्डलं सन्निपतेयुः । बुद्धाधिष्ठानेन बोधिसत्वविकुर्वणं
द्रुष्टुवन्दितुं पर्युपासितुम् ॥

येऽपि ते ग्रहा महाग्रहा लोकार्थकरा अन्तरिक्षचराः । तद्यथा - आदित्य सोम
अङ्गारक बुध बृहस्पति शुक्र शनिश्चर राहु कम्पकेतु अशनि निघात तार ध्वज
घोर धूम्र धूम वज्र ऋक्ष वष्टि उप**(?)नष्टार्क नि***(?)हशान्त माष्टि
रौद्र श्वेत **** (?) अभिजत मैत्र****(?) त्रिशङ्कु लूश्च*****(?) क्रतुनाशन ******
(?) अरुण विहति********(?)न्द सनत् ****** (?) कुमारक्रीडन हसन प्रहसन नर्तपक
नर्तकं ****(?) विरूपश्चेति । इत्येते महाग्रहाः तेऽपि तत्

२०, प्। २०)

पर्षन्मण्डलमनेकशतसास्रपरिव्रताः बुद्धाधिष्ठानेन **(?)
शुद्धावासभवने सन्निपतिता अभूवं सन्निपण्णा ॥

अथ ये नक्षत्राः खगानुचारिणः अनेकनक्षत्रशतसहस्रपरिवारिताः । तद्यथा -
अश्विनी भरणी कृत्तिका रोहिणी मृगशिरा आर्द्र पुनर्वमू पुष्य आश्लेषा मघा उभे
फल्गुनी हस्ता चित्रा स्वाति विशाखा अनुराधा ज्येष्ठा मूला उभौ आषाढौ
श्रवणा धनिष्ठा शतभिषा उभौ भद्रपदौ रेवती देवती प्रभिजा पुनर्णवा
ज्योती अङ्गिरसा नक्षत्रिका उभौ फल्गुफल्गुवती लोकप्रवरा प्रवराणिका श्रेयसी
लोकमाता ईरा ऊहा वहा अर्थवती असार्था चेति । इत्येते नक्षत्रराज्ञः तस्मिं
शुद्धावासभवने अनेकनक्षत्रशतसहस्रपरिवारिताः तास्तस्मिन्
महाषर्पन्मण्डलसन्निपाते बुद्धाधिष्ठानेन सन्निपतिताः सन्निषण्णा अभूवम्

षट्तृंशद् राशयः तद्यथा - मेष वृषभ मिथुन कर्कटक सिंह कन्य तुल
वृश्चिक धनु मकर कुम्भ मीन वानर उपकुम्भ भृञ्जार खड्ग कुञ्जर
महिष देव मनुष्य शकुन गन्धर्व लोकसत्वजित उग्रतेज ज्योत्स्न छाय पृथिवी तम
रज उपरज दुःख सुख मोक्ष बोधि प्रत्येक श्रावक नरक विद्याधर महोज
महोजस्क तिर्यक्प्रेत असुरपिशित पिशाच यक्षराक्षस सर्वभूमित भूतिक निम्नग
ऊर्ध्वग तिर्यग विकसित ध्यानग योगप्रतिष्ठ उत्तम मध्यम अधमश्चेति । इत्येते
महाराश्यः अनेकराशिशतसहस्रराशिपरिवारिताः येन शुद्धावासभवनं येन
च महापर्षत्सन्निपातमण्डलं तेनोपजग्मुः । उपेत्य भगवतश्चरणयोर्निपत्य
स्वकस्वकेषु च स्थानेषु सन्निषण्णा भूवम् ॥

येऽपि ते महायक्षिण्यः अने****(?)शतसहस्रपरिवृताः । तद्यथा सुलोचना सुभ्रू
सुकेता (?) सुमती वसुमती चित्राक्षी पू(?) ******* (?) मेखला ****** (?) **
(?) अभया ** (?) वि******** (?) के*****(?) केशान्त***** (?) हरा (?) मनो* (?)
सुरसा ***(?)टवासिनी अन्धार(?) *****दरी प्रभावती ********** (?)

२१, प्। २१)

असिता **(?) काणा मेना नन्दिनी उपनन्दिनी लोकान्तरा चेति । इत्येते ***(?)क्षिण्यो
अनेकयक्षिणीशतसहस्रपरिवाराः तन्महापर्षन्मण्डलं दुरत एव भगवन्तं
शाक्यमुनिं नमस्यन्त्यः स्थिता भूवम् ॥

येऽपि ते महापिशाच्यः अनेकपिशाचिनीशतसहस्रपरिवृताः तेऽपि तं भगवन्तं
शाक्यमुनिं नमस्यन्त्यः सन्निपतेयुः । तद्यथा - मण्डितिका पांसुपिशाची
उल्कापिशाची ज्वालापिशाची भस्मोद्गिरा पिशिताशिनी दुर्धरा भ्रामरी मोहनी तर्जनी
रोहिणिका गोवाहिणिका लोकान्तिका भस्मान्तिका पीलुवती बहुलवती बहुल दुर्दान्ता
धणा चिह्नितिका धूमान्तिका धूमा सुधूमा चेति । इत्येता महापिशाच्यः
अनेकपिशाचीशतसहस्रपरिवारिताः तेऽपि तन्महापर्षत्सन्निपातमण्डलं
सम्प्रविष्टा भूवम् ॥

येऽपि ते मातरा महामातराः लोकमनुचरन्ति सत्वविहेठिका वलिमाल्योपहारिश्च ।
तद्यथा - ब्रह्माणी माहेश्वरी वैष्णवी कौमारी चामुण्डा वाराही ऐन्द्री
याम्या आग्नेया वैवस्वती लोकान्तकरी वारुणी ऐशानी वायव्या परप्राणहरा
सुखमण्डितिका शकुनी महाशकुनी पूतना कटपूतना स्कन्दा चेति । इत्येते
महामातरा अनेकमातरशतसहस्रपरिवाराः तेऽपि तं महापर्षन्मण्डलं
नमो बुद्धायेति वा चमुदीरयन्त्यः स्थिता अभूवम् ॥

एवमनेकशतसहस्रमनुष्या मनुष्यसत्वासत्वयावदीदेवीचिर्महानरकं यावच्च
भगवाग्रम् अत्रान्तरे सर्वगानतलं स्फुटमभूत् । सत्वनिकाये न च कस्यचित्
प्राणिनो विरोधोऽभूत् । बुद्धाधिष्ठानेन च बोधिकन्नरङ्घालङ्कारेण च सर्व
एव सत्वा मूर्धापस्थितं बुद्धं भगवन्तं मञ्जुश्रियं कुमारभूतं
सम्पश्यते स्म ॥

अथ भगवान् शाक्य******** (?) लोकधातुं बुद्धच**(?) समवलये मञ्जुश्रियं
कुमार************ (?) । भाप भाप त्वं शुद्धसत्य

२२, प्। २२)

अथ मञ्जुश्रीः कुमारभूताः भवनता शाक्यमुनिना कृताभ्यनुज्ञातः
गगनस्वभावव्यूहालङ्कारं वज्रसंहतकठिनसन्तानव्यूहालङ्कारं नाम
समाधिं समापद्यते । समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य तं
शुद्धावासभवनम् अनेकयोजनशतसहशविस्तीर्णं वज्रमयमधितिष्ठते स्म ।
यत्र ते अनेकयक्षराक्षसगन्धर्वमरुतपिशाचः सङ्क्षेपतः
सर्वसत्वधातुबोधिसत्वाधिष्ठानेन तस्मिन् विमाने वज्रमणिरत्नप्रख्ये
सम्प्रतिष्ठिताः सन्निषण्णा भूवम् अन्योन्यमविहेठकाः । अथ मञ्जुश्रीः
कुमारभूतस्तन्महापर्षत्सन्निपातं विदित्वा यमान्तकं क्रोधराजमामन्त्रयते
स्म । भो भो महाक्रोधराज ! सर्वबुद्धबोधिसत्वनिर्घातः एवं
महापर्षत्सन्निपातमण्डलं सर्वसत्वानां च रक्ष रक्ष वशमानय । दुष्टान्
दम । सौम्यान् बोधय । अप्रसन्नां प्रसादय । यावदहं स्वमन्त्रचर्या**(?)नं
बोधिसत्वपिटकं वैपुल्यमन्त्रचर्यामण्डलविधानं भाषिष्ये । तावदेतां
बहिर्गत्वा रक्षय ॥

एवमुक्तस्तु महाक्रोधराजा आज्ञां प्रतीक्ष्य महाविकृतरूपी निर्ययुः
सर्वसत्वान् रक्षणाय शासनाय समन्तात् पर्षन्मण्डलं यमान्तकः क्रोधराजा
अनेकक्रोधशतसहस्रपरिवारितो समन्तात्तं चतुर्दिक्षु इत्यूर्ध्वमधस्तिर्यग् घोरं
च नादं प्रमुञ्चमानः स्थितोऽभूत् ॥

अथ ते सर्वाः सुमन्स्काः संवृत्ताः आज्ञां नोल्लङ्घयन्ति । एवं च शब्दं
शृण्वन्ति । यो ह्येतं समयमतिक्रमेत् । स तवास्य स्फुटो मूर्ध्ना अजकस्येव
मञ्जरीति । बोधिसत्वाधिष्ठानं च तत् ॥

अथ मञ्जुश्रीः कुमारभूतः स्वमन्त्रचर्यार्थधर्मपदं भाषते स्म । एकेन
धर्मेण समन्वामनस्य बोधिसत्त्वस्य महासत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः ।
कतमेनेकेन यदुत सर्वधर्माणां निःप्रपञ्चो कारतः समनुपश्यता ।
द्वाभ्यां धर्माभ्याम् एनिष्ठितस्य बोधिसत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः ।
एतमाभ्यां द्वाभ्यद बो************(?)त्यागिता सर्वसत्त्वसयता च । त्रया*** (?)
धर्माभ्यां स्व******(?) । (?)रिपूरिं गच्छति । कतमाभ्यां (?)यां
सर्वसत्त्वापरित्या
(?)शीलनं
***(?) तया *********(?)गिता च । चतुर्भिः
धर्मैः समन्वागतस्व प्रथम

२३, प्। २३)

चित्तोत्पादिकस्य बोधिसत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः । कतमैश्चबुद्धिं
समन्त्रापरित्यागिता पश्यन्त्रानुपच्छेदनता सर्वसत्त्वमैत्र्योपसंहरणता
वहाकरुणाभावितचेतनता च । इमैश्चतुर्भिः धर्मैः समन्वागतस्य
प्रथमचित्तोत्पादकस्य बोधिसत्त्वस्य मन्त्राः सिद्धिं गच्छेयुः । यन्धर्मा
बोधिसत्त्वस्य पिटकसमवशरणता मन्त्रचर्याभिनिर्हारं बोधिपूरिं गच्छेयुः ।
कतमे पञ्च । विविक्तदेशसेवनता परसत्त्वाद्वेषणता लौकिकमन्त्रानिरीक्षणता
शीलश्रुतचारित्रस्थापनता च । इमे पञ्च धर्माः मन्त्रचर्यार्थपारिपूरिं
गच्छेयुः । षट् धर्मा मन्त्रचर्यार्थपारिपूरिं गच्छेयुः । कतमे षट् ।
त्रिरत्नप्रसादानुपच्छेदनता बोधिसत्त्वप्रसादानुपच्छेदनता
लौकिकलोकोत्तरमन्त्रानिन्दनता निःप्रपञ्चधर्मधातुदम्भ नता
गम्भीरपदार्थमहायानसूत्रान्त अप्रतिक्षेपणता अखिन्नमानसता
मन्त्रचर्यापर्येष्टिः कुशलपक्षे अपरिहानता । इमे षट् धर्मा
विद्याचर्यामन्त्रसिद्धिं समवशरणतां गच्छन्ति । सप्त धर्मा
विद्यासाधनकालौपयिकमन्त्रचर्यानुप्रवेशनतां गच्छन्ति । कतमे सप्त ।
गम्भीरनयः प्रज्ञापारमिता भावना
पठनदेशनस्वाध्यायनलिखनबोधिसत्त्वञ्चर्याविमुक्तिः
कालदेशनियमजपहोममौनतप-अविलम्बितगतिमतिस्मृतिप्रज्ञाधृति अधिवासवतः
बोधिसत्त्वसम्भारमहायानधर्मनयसम्प्रवेशनतः
स्वमन्त्रमन्त्राकर्षणरक्षणसाधनक्रियाकौशलतः महाकरुणा महामैत्री
महोपेक्षा महामुदिता पारमिताभाववतः
निःप्रपञ्चसत्त्वधातुधर्मधातुतथतासमवसरणतः
द्वयाकारसर्वज्ञज्ञानपरिगवेषणतः सर्वसत्त्वापरित्यागः
हीनयानास्पृहणतश्च । इमे सप्त धर्मा विद्याविद्यामन्त्रसिद्धिं पारिपूरतां
गच्छन्ति । कतमे अदृष्टदृष्टादृष्टफलश्रद्धा कौतुकजिज्ञासत अपिचिकित्सा
अष्टधर्मविद्यामन्त्रचर्यार्थसिद्धिं समवसरणतां गच्छन्ति ।
बोधिसत्त्वप्रसादसफलशुद्धिविकुर्वणतः अविपरीतमन्त्रग्रहणगुरुगौरवतः
बुद्धबोधिसत्त्वमन्ततन्त्र आचार्योपदेशग्रहनम्
अविवंवादनसर्वस्वपरित्यागतः सिद्धक्षेत्रस्थानास्थानस्वप्नदर्शन*******(?)
सर्वविघ्नान् प्रहर्तुकामः

२४, प्। २४)

बोधिमण्डक्रमणमहाभोगप्रतिकाङ्क्षणमद्देशाख्ययात्मभावतः
महेशाख्यपुद्गलसमवधानातिरहितकल्याणमित्रमञ्जुश्रीकुषा
भूतबोधिसत्त्वसमवधानतश्च । इमे अष्ट धर्मा मन्त्रचर्यार्थसिद्धिं
समवशरणतां च गच्छन्ति । सङ्क्षेपतः मार्षा अविरहितबोधिचित्तस्य
रत्नत्रयाविमुक्तस्य परमदुःशीलस्यापि अखिन्नमानमानसः सतताभियुक्तस्य
मदीयमन्त्रपटलविसर अनन्ताद्भुतबोधिसत्त्वचर्यानिष्यन्दितमान्सोद्गतं
सिध्यतेति । नान्यथा च गन्तव्यम् । अविकल्पमानसो भूत्वा जिज्ञासनहेतोरपि
साधनीयमिति ॥

अथ सा सर्वावती पर्षत् सबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाधिष्ठिता एवं
वाचमुदीरयन्तः साधु साधु भो जिनपुत्र ! विचित्र
सर्वसत्त्वा******(?)र्थाय अहो कुमारभूत ! मञ्जुश्रीः !
विचित्रदह्र्मदेशनानुवर्तिनी मन्त्रचर्यानुकूला सुभाषिता । यो हि कश्चित्
महाराज्ञः इमं सन्निपातपरिवर्तं वाचयिष्यति धारयिष्यति मनसि करिष्यसि
सङ्ग्रामे वाग्रतः हस्तिमारोप्य स्थापयिष्यति विविधैर्वा
पुष्पधूपगन्धविलेपनैः पूजयिष्यति प्रत्यर्थिकानां प्रत्यमित्राणां
वशमानयिष्यामः । परबलसेनाभङ्गं करिष्यामः । पुस्तकलिखितं वा कृत्वा
स्वगृहे स्थापयिष्यति तस्य कुलपुत्रस्य वा कुलदुहितुर्वा महाराज्ञस्य वा
महाराज्ञीयं वा भिक्षुर्वा भिक्षण्या वा उपासिकस्य वा उपासिकाया वा
महारक्षां महाभोगतां दीर्घायुष्मताम् आयुरारोग्यतां
सततभोगाभिवर्धनतां करिष्यामीति ॥

एवमुक्तस्तु सा सर्वावती पर्षत् तूष्णीमभूत् ॥

महायानमन्त्रचर्यानिर्देश्यमहाकल्पात्
मञ्जुश्रीकुमारभूतबोधिसत्त्वविकुर्वणपटलविसरात् मूलकल्पात् प्रथमः
सन्निपातपरिवर्तः ॥

२५, प्। २५)