[संक्षिप्तमातृका]
नमः सर्वज्ञाय ॥
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धास् - तांश् च स्वभाव-शून्यान् पश्यति स्म ।
इह शारिपुत्र, रूपं शून्यता, शून्यतैव रूपम् ।
रूपान् न पृथक् शून्यता, शून्याताया न पृथग् रूपम् ।
यद् रूपं, सा शून्यता।
या शून्यता तद् रूपम् ।
एवम् एव वेदाना-संज्ञा-संस्कार-विज्ञानानि ।
इह शारिपुत्र - सर्व-धर्माः शून्यता-लक्षणा,
अनुत्पन्ना, अनिरुद्धा, अमला, विमला, नोना, न परिपूर्णाः ।
तस्माच्चारिपुत्र शून्यतायां
न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं,
न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि
न रूप-शब्द-गन्ध-रस-स्प्रष्टव्य-धर्माः,
न चक्षुर्-धातुर् यावन्न मनो-विज्ञान-धातुः ।
न विद्या, नाविद्या, न विद्याक्षयो, नाविद्याक्षयो,
यावन् न जरामरणं न जरा-मरण-क्षयो,
न दुःख-समुदय-निरोध-मार्गा, न ज्ञानं, न प्राप्तिः ।
तस्माद् अप्राप्तित्वाद् बोधि-सत्त्वानां प्रज्ञा-पारमिताम् आश्रित्य विहरत्य् अचित्तावरणः ।
चित्तावरण-नास्तित्वाद् अत्रस्थो विपर्यासातिक्रान्तो निष्ठ-निर्वाणः ।
त्र्य्-अध्व-व्यवस्थिताः सर्व-बुद्धाः प्रज्ञापारमिताम्
आश्रित्यानुत्तरां सम्यक्-सम्बोधिं अभिसम्बुद्धाः ।
तसाज् ज्ञातव्यं प्रज्ञा-पारमिता-महामन्त्रो
महाविद्या-मन्त्रो ऽनुत्तर-मन्त्रो ऽसम-सम-मन्त्रः सर्व-दुःख-प्रशमनः ।
सत्यम् अमिथ्यत्वात्।
प्रज्ञापारमितायाम् उक्तो मन्त्रः॥
तद्यथा - गते गते पारगते पार-संगते बोधि सवाहा ॥
इति प्रज्ञापारमिताहृदयं समाप्तम् ॥