29 अष्टाविंशतिमः

२८ २४४. यावन्ति शिक्ष परिदीपित नायकेन सर्वेष शिक्ष अयु अग्रु निरुत्तरा च।
यः सर्वशिक्षविदु इच्छति पार गन्तु- मिमु प्रज्ञपारमित शिक्षति बुद्धशिक्षाम्॥१॥

२४५. अग्रं निधान अयु उत्तमधर्मकोश बुद्धान गोत्रजननं सुखसौख्यगञ्जो।
अतिक्रान्तनागत दशद्दिशि लोकनाथा इतु ते प्रसूत न च क्षीयति धर्मधातुः॥२॥

२४६. यावन्ति वृक्ष फलपुष्पवनस्पती या सर्वे च मेदिनिसमुद्गत प्रादुभूताः।
न च मेदिनी क्षयमुपैति न चापि वृद्धिं न च खिद्यती न परिहायति निर्विकल्पा॥३॥

२४७. यावन्त बुद्धसम श्रावकप्रत्ययाश्च मरुतश्च सर्वजगती सुखसौख्यधर्माः।
सर्वे ति प्रज्ञवरपारमिताप्रसूता न च क्षीयते न च विवर्धति जातु प्रज्ञा॥४॥

२४८. यावन्त सत्त्व मृदुमध्यमुत्कृष्ट लोके सर्वे अविद्यप्रभवा सुगतेन उक्ताः।
सामग्रिप्रत्ययु प्रवर्तति दुःखयन्त्रो न च यन्त्र क्षीयति अविद्य न चापि वृद्धिः॥५॥

२४९. यावन्ति ज्ञान नयद्वार उयायमूलाः सर्वे ति प्रज्ञवरपारमिताप्रसूताः।
सामग्रिप्रत्यय प्रवर्तति ज्ञानयन्त्रो न च प्रज्ञपारमित वर्धति हीयते वा॥६॥

२५०. यो तु प्रतीत्यसमुत्पादु अनुद्भवाये इमु प्रज्ञ अक्षयत बुध्यति बोधिसत्त्वो।
सो सूर्य अभ्रपटले यथ मुक्तरश्मी विधमित्वविद्यपटलं भवते स्वयंभूः॥७॥

भगवत्यां रत्नगुणसंचयगाथायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतिमः॥