28 सप्तविंशतिमः

२७ २३५. एवं चरन्तु विदु ना पृथुदेवसंघाः कृत‍अञ्जलीपुट प्रणम्य नमस्ययन्ति।
बुद्धा पि यावत दशद्दिशि लोकधातौ गुणवर्णमालपरिकीर्तन कुर्वयन्ति॥१॥

२३६. यावन्ति गङ्गनदिवालिसमे हि क्षेत्रे सत्त्वा त सर्वि परिकल्प भवेयु माराः।
एकैक रोम पुन तान्तक निर्मिणेय्या सर्वे न शक्य करणे विदु अन्तरायम्॥२॥

२३७. चतुकारणेहि बलवां विदु बोधिसत्त्वो भवते दुघर्षु चतुमार‍असंप्रकम्प्यो।
शून्याविहारि भवते न च सत्त्वत्यागी यथवादि सत्त्वकरुणानुगतावस्थानः॥३॥

२३८. यो बोधिसत्त्व अधिमुच्यति भाष्यमाणा- मिम प्रज्ञपारमित मात तथागतानाम्।
प्रतिपत्तिया च अभियुज्यति आशयेन सर्वज्ञताय अभिप्रस्थितु वेदितव्यो॥४॥

२३९. न च धर्मधातुतथताय उपैति स्थानं भवती अथानस्थित सो लघु अन्तरीक्षे।
विद्याधरो व अभिलम्भु वनाभिप्राया खगु कालहीन द्रुम मन्त्रबलाधिष्ठानो॥५॥

२४०. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो न च बुध्यकं लभति नापि च बुद्धधर्मान्।
न च देशिकं न पि च पश्यक धर्मतायां शान्तैषिणामयु विहार गुणे रतानाम्॥६॥

२४१. यावन्त श्रावकविहार सप्रत्ययानां शान्ता समाधिप्रशमे सुखसंप्रयुक्ता।
अर्हन्विमोक्ष स्थपयित्व तथागतानां सर्वेषु अग्र अयु विहारु निरुत्तरश्च॥७॥

२४२. आकाशि पक्षि विहराति न चो पताति दकमध्यि मत्स्य विहराति न चो मराति।
एमेव ध्यानबलपारगु बोधिसत्त्वो शून्याविहारि न च निर्वृति प्रापुणाति॥८॥

२४३. यो सर्वसत्त्वगुण‍अग्रतु गन्तुकामो अग्रं स्पृशेय परमाद्भुत बुद्धज्ञानम्।
अग्रं ददेय वर उत्तमधर्मदान- मिमु अग्रु सेवतु विहारु हितंकराणाम्॥९॥

भगवत्यां रत्नगुणसंचयगाथायां सारपरिवर्तो नाम सप्तविंशतिमः॥