26 पञ्चविंशतिमः

२५ २२१. यो शिक्षमाणु न उपैति कहिंचि शिक्षां न च शिक्षकं लभति नापि च शिक्षधर्मान्।
शिक्षा अशिक्ष उभयो अविकल्पमानो यो शिक्षते स इह शिक्षति बुद्धधर्मे॥१॥

२२२. यो बोधिसत्त्व इमु जानति एव शिक्षां न स जातु शिक्षविकलो भवते दुशीलो।
आराधितेषु इह शिक्षति बुद्धधर्मं शिक्षातिशिक्षकुशलो ति निरूपलम्भो॥२॥

२२३. शिक्षन्तु एव विदु प्रज्ञ प्रभंकराणां नोत्पद्यते अकुशलमपि एकचित्तम्।
सूर्ये यथा गगनि गच्छति अन्तरीक्षे रश्मीगते न स्थिहते पुरतोऽन्धकारम्॥३॥

२२४. प्रज्ञाय पारमित शिक्षित संस्कृतानां सर्वेष पारमित भोन्तिह संगृहीताः।
सत्कायदृष्टि यथ षष्टि दुवे च दृष्टी अन्तर्गतास्तथमि पारमिता भवन्ति॥४॥

२२५. यथ जीवितेन्द्रिय निरुद्धि य केचिदन्ये भोन्ती निरुद्ध पृथु इन्द्रिय यावदस्ति।
एमेव प्रज्ञचरिते विदु उत्तमानां सर्वेत पारमित उक्त य संगृहीता॥५॥

२२६. ये चापि श्रावकगुणा तथ प्रत्ययानां सर्वेषु भोन्ति विदु शिक्षितु बोधिसत्त्वा।
नो चापि तत्र स्थिहतान स्पृहेति तेषा- मयु शिक्षितव्यमति शिक्षति एतमर्थम्॥६॥

भगवत्यां रत्नगुणसंचयगाथायां शिक्षापरिवर्तो नाम पञ्चविंशतिमः॥