18 सप्तदशमः

१७ १४३. स्थविरो सुभूति परिपृच्छति लोकनाथं अरणाय लिङ्ग भणही गुणसागराणाम्।
अविवर्तिया यथ भवन्ति महानुभावा तां व्याकुरुष्व जिनगुणान प्रदेशमात्रम्॥१॥

१४४. नानात्वसंज्ञविगता गिर युक्तभाणी न च अन्य ते श्रमण ब्राह्मण आश्रयन्ति।
त्रियपायवर्जित विदू सदकालि भोन्ति दशभिश्च ते कुशलकर्मपथेभि युक्ता॥२॥

१४५. धर्मं निरामिषु जगस्यनुशासयन्ति एकान्तधर्मनियताः सद स्निग्धवाक्याः।
स्थितिचंक्रमं शयनिषद्य सुसंप्रजाना युगमात्रप्रेक्षिण व्रजन्त्यभ्रान्तचिन्ता॥३॥

१४६. शुचिशौच‍अम्बरधरा त्रिविवेकशुद्धा न च लाभकाम वृषभा सद धर्मकामाः।
मारस्यतीतविषया अपरप्रणेया चतुध्यानध्यायि न च निश्रित तत्र ध्याने॥४॥

१४७. न च कीर्तिकाम न च क्रोधपरीतचित्ता गृहिभूत नित्य अनध्योषित सर्व वस्तुं।
न च जीविकाविषयभोग गवेषयन्ति अभिचारमन्त्र न च इस्त्रिप्रयोगमन्त्राः॥५॥

१४८. न च आदिशन्ति पुरुषैः स्त्रिय इच्छकर्मां प्रविविक्त प्रज्ञवरपारमिताभियुक्ताः।
कलहाविवादविगता दृढमैत्रचित्ता सर्वज्ञकाम सद शासनि निम्नचित्ताः॥६॥

१४९. प्रत्यन्तम्लेच्छजनवर्जित‍अन्तदेशाः स्वकभूमि काङ्क्षविगताः सद मेरुकल्पाः।
धर्मार्थ जीवित त्यजन्ति प्रयुक्तयोगा अविवर्तियान इमि लिङ्ग प्रजानितव्या॥७॥

भगवत्यां रत्नगुणसंचयगाथायामविनिवर्तनीयलिङ्गाकारपरिवर्तो नाम सप्तदशमः॥