16 पञ्चदशमः

१५ १२९. यो आदिकर्म स्थितु भूमिय बोधिसत्त्वो अध्याशयेन वर प्रस्थित बुद्धबोधिम्।
तेही सुशिष्यगुरुगौरवसंप्रयुक्तो कल्याणमित्र सद सेवयितव्य विज्ञैः॥१॥

१३०. किं कारणं ततु गुणागमु पण्डितानां प्रज्ञाय पारमित ते अनुशासयन्ति।
एवं जिनो भणति सर्वगुणाग्रधारी कल्याणमित्रमुपनिश्रित बुद्धधर्माः॥२॥

१३१. दानं च शीलमपि क्षान्ति तथैव वीर्यं ध्यानानि प्रज्ञ परिणामयितव्य बोधौ।
न च बोधिस्कन्ध विमृशित्व परामृशेया ये आदिकर्मिक न देशयितव्य एवम्॥३॥

१३२. एवं चरन्त गुणसागर वादिचन्द्राः त्राणा भवन्ति जगती शरणा च लेना।
गति बुद्धि द्वीप परिणायक अर्थकामाः प्रद्योत उल्क वरधर्मकथी अक्षोभ्याः॥४॥

१३३. संनाहु दुष्करू महायशु संनहन्ती न च स्कन्धधातु न च आयतनैः सनद्धाः।
त्रिभि यानसंज्ञविगता अपरिगृहीता अविवर्तिका अचलिताश्च अकोप्यधर्माः॥५॥

१३४. ते एव धर्मसमुदागत निष्प्रपञ्चा काङ्क्षाविलेखविमतीविगतार्थयुक्ताः।
प्रज्ञाय पारमित श्रुत्व न सीदयन्ति अपरप्रणेय अविवर्तिय वेदितव्याः॥६॥

१३५. गम्भीर धर्म अयु दुर्दृशु नायकानां न च केनचीदधिगतो न च प्रापुणन्ति।
एतार्थु बोधिमधिगम्य हितानुकम्पी अल्पोत्सुको क इमु ज्ञास्यति सत्त्वकायो॥७॥

१३६. सत्त्वश्च आलयरतो विषयाभिलाषी स्थित अग्रहे अबुध यो मह‍अन्धभूतो।
धर्मो अनालयु अनाग्रहु प्रापितव्यो लोकेन सार्ध अयु विग्रहु प्रादुभूतो॥८॥

भगवत्यां रत्नगुणसंचयगाथायां देवपरिवर्तो नाम पञ्चदशमः॥