10 दशमः

१० ८८. शक्रो जिनस्य परिपृच्छति देवराजो चरमाण प्रज्ञ कथ युज्यति बोधिसत्त्वो।
अणुमात्र यो न खलु युज्यति स्कन्धधातौ यो एव युज्यति (स युज्यति) बोधिसत्त्वः॥१॥

८९. चिरयानप्रस्थितु स वेदयितव्य सत्त्वो बहुबुद्धकोटिनयुतेहि कृताधिकारो।
यो श्रुत्व धर्मि इमि निर्मितमायकल्पां न च काङ्क्षते अयु प्रयुज्यति शिक्षमाणः॥२॥

९०. कान्तारमार्गि पुरुषो बहु(भी)जनेहि गोपाल सीम वनसंपद पश्यते यो।
आश्वासप्राप्त भवती न च तस्य त्रासो अभ्याश ग्रामनगराण इमे निमित्ताः॥३॥

९१. एमेव प्रज्ञवरपारमिता जिनानां शृणु तात यो लभति बोधि गवेषमाणः।
आश्वासप्राप्त भवती न च तस्य त्रासो नार्हन्तभूमि न पि प्रत्ययबुद्धभूमी॥४॥

९२. पुरुषो हि सागरजलं व्रजि पश्यनाय सचि पश्यते द्रुमवनस्पतिशैलराजम्।
अथवा न पश्यति निमित्त निकाङ्क्ष भोति अ(भ्याश)तो महसमुद्र न सोऽतिदूरे॥५॥

९३. एमेव बोधिवरप्रस्थितु वेदितव्यो श्रुणमाण प्रज्ञ इमि पारमिता जिनानाम्।
यद्यापि संमुख न व्याकृतु नायकेनो तथपि स्पृशिष्यति नचिरेण हु बुद्धबोधिम्॥६॥

९४. सुवसन्ति कालि पतिते तृणपत्रशाखा नचिरेण पत्रफलपुष्प समागमन्ति।
प्रज्ञाय पारमित यस्यिमु हस्तप्राप्ता नचिरेण बोधिवर प्राप्स्यति नायकानाम्॥७॥

९५. यथ इस्त्रि गुर्विणि य चेष्टति वेदनाभि ज्ञातव्यु कालु अयमस्य प्रजायनाय।
तथ बोधिसत्त्व श्रुणमाणु जिनान प्रज्ञां रति छन्द वीक्षति स्पृशिष्यति बोधि शीघ्रम्॥८॥

९६. चरमाणु प्रज्ञवरपारमिताय योगी न च रूपवृद्धि न च पश्यति पारिहाणिम्।
धर्मा अधर्म इमु पश्यति धर्मधातुं न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम्॥९॥

९७. चरमाणु यो न इह कल्पयि बुद्धधर्मां बल ऋद्धिपाद न च कल्पयि बोधि शान्ताम्।
अविकल्पकल्पविगतो अधिष्ठानचारी एषा स प्रज्ञवरपारमिताय चर्या॥१०॥

भगवत्यां रत्नगुणसंचयगाथायां धारणीगुणपरिवर्तो नाम दशमः॥