९
८६. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो
सङ्गा उछिन्नु व्रजते जगती असक्तो।
सूर्यो व राहुग्रहमुक्त विरोचमानो
अग्नीव युक्त तृणकाष्ठवनं दहाति॥१॥
८७. प्रकृतीय शुद्ध परिशुद्धिमि सर्वधर्मां
प्रज्ञाय पारमित पश्यति बोधिसत्त्वो।
न च पश्यकं लभति नापि च सर्वधर्मान्
एषा स प्रज्ञवरपारमिताय चर्या॥२॥
भगवत्यां रत्नगुणसंचयगाथायां स्तुतिपरिवर्तो नाम नवमः॥