07 सप्तमः

७ ७५. जात्यन्धकोटिनियुतान्यविनायकानां मार्गे अकोविदु कुतो नगरप्रवेशे।
विन प्रज्ञ पञ्च इमि पारमिता अचक्षुः अविनायका न प्रभवन्ति स्पृशेतु बोधिम्॥१॥

७६. यत्रान्तरस्मि भवते प्रगृहीत प्रज्ञा ततु लब्धचक्षु भवती इमु नामधेयम्।
यथ चित्रकर्मपरिनिष्ठित चक्षुहीनो न च ताव पुण्यु लभते अकरित्व चक्षुः॥२॥

७७. यद धर्म संस्कृत असंस्कृत कृष्णशुक्लो अणुमात्रु नो लभति प्रज्ञ विभावमानः।
यद प्रज्ञपारमित गच्छति संख्य लोके आकाश यत्र न प्रतिष्ठितु किंचि तत्र॥३॥

७८. सचि मन्यते अहु चरामि जिनान प्रज्ञां मोचिष्य सत्त्वनियुतां बहुरोगस्पृष्टान्।
अयु सत्त्वसंज्ञपरिकल्पकु बोधिसत्त्वो न च एष प्रज्ञवरपारमिताय चर्या॥४॥

७९. यो बोधिसत्त्व वरपारमितेति चीर्णो परिचारिका य न च काङ्क्षति पण्डितेहि।
सह श्रुत्व तस्य पुन भेष्यति शास्तृसंज्ञा सो वा लघू अनुबुधिष्यति बोधि शान्ताम्॥५॥

८०. सत्कृत्य बुद्धनियुतां परिचारिकायां न च प्रज्ञपारमित श्रद्दधिता जिनानाम्।
श्रुत्वा च सो इमु क्षिपिष्यति सोऽल्पबुद्धिः स क्षिपित्व यास्यति अवीचिमत्राणभूतो॥६॥

८१. तस्मा हु श्रद्दधत एव जिनान मातां यदि इच्छथा स्पृशितु उत्तमबुद्धज्ञानम्।
सो वाणिजो यथ व्रजित्वन रत्नद्वीपं मूलातु छेदन करित्व पुन आगमेया॥७॥

भगवत्यां रत्नगुणसंचयगाथायां निरयपरिवर्तो नाम सप्तमः॥