06 षष्ठमः

६ ६६. यावन्ति श्रावकगणाः प्रसवन्ति पुण्यं दानं च शीलमपि भावनसंप्रयुक्तम्।
स हि बोधिसत्त्व अनुमोदन एकचित्ते न च सर्वश्रावकगणे सिय पुण्यस्कन्धो॥१॥

६७. ये बुद्धकोटिनियुता पुरिमा व्यतीता ये वा अनन्तबहुक्षेत्रसहस्रकोटयः।
तिष्ठन्ति येऽपि परिनिर्वृत लोकनाथा देशन्ति धर्मरतनं दुखसंक्षयाय॥२॥

६८. प्रथमं उपादु वरबोधयि चित्तुपादो यावत् सु धर्मक्षयकालु विनायकानाम्।
एकस्मि तत्र चिय तेष जिनान पुण्यं सह युक्त पारमित येऽपि च बुद्धधर्माः॥३॥

६९. यश्चैव बुद्धतनयान (च) श्रावकाणां शैक्ष अशैक्ष कुशलास्रव नास्रवाश्च।
परिपिण्डयित्व अनुमोदयि बोधिसत्त्वो सर्वं च नामयि जगार्थनिदान बोधि॥४॥

७०. परिणामयन्तु यदि वर्तति चित्तसंज्ञा तथ बोधिसत्त्वपरिणामन सत्त्वसंज्ञा।
संज्ञाय दृष्टिस्थितु चित्त त्रिसङ्गयुक्तो परिणामितं न भवती उपलभ्यमानम्॥५॥

७१. सचि एव जानति निरुध्यति क्षीणधर्मा तच्चैत क्षीण परिणामयिष्यन्ति यत्र।
न च धर्म धर्मि परिणामयते कदाचित् परिणामितं भवति एव प्रजानमाने॥६॥

७२. सचि सो निमित्त कुरुते न च मानयाति अथ आनिमित्त परिणामित भोन्ति बोधौ।
विषसृष्ट भोजनु यथैव क्रियाप्रणीतो तथ शुक्लधर्म‍उपलम्भ जिनेन उक्तो॥७॥

७३. तस्मा हु नामपरिणामन शिक्षितव्या यथ ते जिना कुशल एव प्रजानयन्ति।
यज्जातियोऽयं प्रभवो यदलक्षणं च अनुमोदमी तथ तथा परिणामयामि॥८॥

७४. एवं च पुण्य परिणामयमान बोधौ न च सो हि बुद्ध क्षिपते जिन उक्तवादी।
यावन्ति लोकि उपलम्भिकबोधिसत्त्वा अभिभोन्ति सर्वि परिणामयमान शूरो॥९॥

भगवत्यां रत्नगुणसंचयगाथायामनुमोदनापरिवर्तो नाम षष्ठमः॥