04 चतुर्थः

४ ५०. शक्रो जिनेन परिपृच्छितु प्रश्नमाहु सचि गङ्गवालिकसमा सिय बुद्धक्षेत्राः।
जिनधातु सर्वि परिपूरित चूडिबद्धा इममेव प्रज्ञवरपारमिताहु गृह्णे॥१॥

५१. किं कारणं न मि शरीरि अगौरवत्वं अपि तू खु प्रज्ञपरिभावित पूजयन्ति।
यथ राजनिश्रित नरो लभि सर्वि पूजां तथ प्रज्ञपारमितनिश्रित बुद्धधातुः॥२॥

५२. मणिरत्न सर्वि गुणयुक्त अनर्घप्राप्तो यस्मिं करण्डकि भवे स नमस्यनीयः।
तस्यापि उद्धृत स्पृहन्ति करण्डकस्मिं तस्यैव ते गुण महारतनस्य भोन्ति॥३॥

५३. एमेव प्रज्ञवरपारमितागुणानि यन्निर्वृतेऽपि जिनधातु लभन्ति पूजाम्।
तस्मा हु तान् जिनगुणा(न्) परिघेत्तुकामो सो प्रज्ञपारमित गृह्णतु एष मोक्षो॥४॥

५४. पूर्वंगमा भवतु दानु ददन्तु प्रज्ञा शीले च क्षान्ति तथ वीर्य तथैव ध्याने।
परिग्राहिका कुशलधर्म‍अविप्रणाशे एका च सा अपि निदर्शयि सर्वधर्मान्॥

५॥

५५. यथ जम्बुद्वीपि बहुवृक्षसहस्रकोटी
नानाप्रकार विविधाश्च अनेकरूपाः।
न वि छायनानतु भवेत विशेषतापि अन्यत्र छायगतसंख्य प्रभाषमाणा॥६॥

५६. एमेव पञ्च इमि पारमिता जिनानां प्रज्ञाय पारमित नामतया भवन्ति।
सर्वज्ञताय परिणामयमाण सर्वे षडपीह एकनयमर्छति बोधिनामा॥७॥

भगवत्यां रत्नगुणसंचयगाथायां गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः॥