02 द्वितीयः

२ २९. रुपस्मि यो न स्थिहते न च वेदनायां संज्ञाय यो न स्थिहते न च चेतनायाम्।
विज्ञानि यो न स्थिहते स्थितु धर्मतायां एषा स प्रज्ञवरपारमिताय चर्या॥१॥

३०. नित्यमनित्यसुखदुःखशुभाशुभं ति आत्मन्यनात्मि तथता त(थ) शून्यतायाम्।
फलप्राप्तिताय अथितो अरहन्तभूमौ प्रत्येकभूमि‍अथितो तथ बुद्धभूमौ॥२॥

३१. यथ नायकोऽस्थितकु धातु‍असंस्कृताया तथ संस्कृताय अथितो अनिकेतचारी।
एवं च स्थानु अथितो स्थित बोधिसत्त्वो अस्थानु स्थानु अयु स्थानु जिनेन उक्तो॥३॥

३२. यो इच्छती सुगतश्रावक हं भवेयं प्रत्येकबुद्ध भवियां तथ धर्मराजो।
इमु क्षान्त्यनागमि न शक्यति प्रापुणेतुं यथ आरपारगमनाय अतीतदर्शी॥४॥

३३. यो धर्म भाष्यति य भाष्यति भाष्यमाणां फलप्राप्त प्रत्ययजिनो तथ लोकनाथो।
निर्वाणतो अधिगतो विदुपण्डितेहि सर्वे त आत्मज निदृष्ट तथागतेन॥५॥

३४. चत्वारि पुद्गल इमे न त्रसन्ति येऽस्मिन् जिनपुत्र सत्यकुशलो अविवर्तियश्च।
अर्हं विधूतमलक्लेश प्रहीणकाङ्क्षो कल्याणमित्रपरिपाचित यश्चतुर्थः॥६॥

३५. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो नार्हंमि शिक्षति न प्रत्ययबुद्धभूमौ।
सर्वज्ञताय अनुशिक्षति बुद्धधर्मे शिक्षा‍अशिक्ष न य शिक्षति एष शिक्षा॥७॥

३६. न च रुपवृद्धिपरिहाणिपरिग्रहाये न च शिक्षति विविधधर्मपरिग्रहाये।
सर्वज्ञतां च परिगृह्णति शिक्षमाणो निर्यायती य इय शिक्ष गुणे रतानाम्॥८॥

३७. रुपे न प्रज्ञ इति रुपि न अस्ति प्रज्ञा विज्ञान संज्ञ अपि वेदन चेतना च।
न च एति प्रज्ञ इति तेष न अस्ति प्रज्ञा आकाशधातुसम तस्य न चास्ति भेदः॥९॥

३८. आरम्बणान प्रकृती स अ(न)न्तपारा सत्त्वान या च प्रकृती स अनन्तपारा।
आकाशधातुप्रकृती स अनन्तपारा प्रज्ञा पि लोकविदुनां स अनन्तपारा॥१०॥

३९. संज्ञेति नाम परिकीर्तितु नायकेन संज्ञां विभाविय प्रहाण व्रजन्ति पारम्।
ये अत्र संज्ञविगमं अनुप्राप्नुवन्ति ते पारप्राप्त स्थित पारमिते हु भोन्ति॥११॥

४०. सचि गङ्गवालुकसमानि स्थिहित्व कल्पां सत्त्वेति शब्द परिकीर्तयि नायकोऽयम्।
सत्त्वस्युपादु कुतु भेष्यति आदिशुद्धो एषा स प्रज्ञवरपारमिताय चर्या॥१२॥

४१. एवं जिनो भणति अप्रतिकूलभाणी यदहं इमाय वरपारमिताय आसी।
तद व्याकृतो अहु परापुरुषोत्तमेन बुद्धो भविष्यसि अनागत‍अध्वनस्मिन्॥१३॥

भगवत्यां रत्नगुणसंचयगाथायां शक्रपरिवर्तो नाम द्वितीयः॥