प्रज्ञापारमिताहृदयसूत्रम्।
[विस्तरमातृका]
॥
नमः सर्वज्ञाय॥
एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥
अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ?
एवम् उक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः
आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्-
यः कश्चिच्छारिपुत्र कुलपुत्रो वा कुलदुहिता वा
[अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः,
तेनैवं व्यवलोकितव्यम्-
पञ्च स्कन्धांस्, तांश् च स्वभावशून्यान् समनुपश्यति स्म।
रूपं शून्यता, शून्यतैव रूपम्।
रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्।
यद्रूपं सा शून्यता, या शून्यता तद्रूपम्।
एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता।
एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा
अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः।
तस्मात्तर्हि शारिपुत्र
शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानम्,
न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा
न कायो न मनो
न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः।
न चक्षुर्धातुर् यावन् न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः।
न विद्या नाविद्या न क्षयो यावन् न जरामरणं न जरामरणक्षयः,
न दुःखसमुदयनिरोधमार्गा, न ज्ञानं न प्राप्तिर् नाप्राप्तिः।
तस्माच् छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमिताम् आश्रित्य विहरति चित्तावरणः।
चित्तावरणनास्तित्वाद् अत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः।
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः।
तस्माद् ज्ञातव्यः प्रज्ञापारमिता-महामन्त्र, अनुत्तरमन्त्रः, असमसममन्त्रः, सर्वदुःखप्रशमनमन्त्रः,
सत्यम् अमिथ्यत्वात्
प्रज्ञापारमितायाम् उक्तो मन्त्रः।
तद्यथा-
गते गते पारगते पारसंगते बोधि स्वाहा।
एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥
अथ खलु भगवान् तस्मात्समाधेर् व्युत्थाय
आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य साधुकारम् अदात्-
साधु साधु कुलपुत्र।
एवम् एतत् कुलपुत्र,
एवम् एतद् गम्भीरायां प्रज्ञापारमितायां चर्यं चर्तव्यं
यथा त्वया निर्दिष्टम्।
अनुमोद्यते तथागतैर् अर्हद्भिः॥
इदम् अवोचद् भगवान्।
आनन्दमना आयुष्मान् शारिपुत्रः
आर्यावलोकितेश्वरश्च बोधिसत्त्वः
सा च सर्वावती परिषत्
सदेवमानुषासुरगन्धर्वश्च लोको
भगवतो भाषितम् अभ्यनन्दन्॥
इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम्।