पञ्चशतिका प्रज्ञापारमिता

पञ्चशतिका प्रज्ञापारमितानमो भगवत्या आर्यप्रज्ञापारमितायै॥

एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म। गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वगणेन। तत्र भगवान् सुभूतिम् आमन्त्रयते स्म॥

रूपं सुभूते अभा वो नाभावः सद्भावः। वेदना संज्ञा संस्कारा विज्ञानं सुभूते अभावो नाभावः सद्भावः। चक्षू रूपाणि च चक्षुर्विज्ञानं श्रोत्रं शब्दाः श्रोत्रविज्ञानं घ्राणं गन्धा घ्राणविज्ञानं जिह्वा रसा जिह्वाविज्ञानं कायः स्प्रष्टव्यानि कायवि ज्ञानं मनो धर्माः मनोविज्ञानं सुभूते अभावो नाभावः सद्भावः॥

एवं तद् रूपं त्रिपरिवर्तेन बालपृथग्जना यथाभूतम् अप्रजानन्तस् तद् रूपम् अभिनिविशन्तेऽभिनिर्वर्तयन्त्य्अवच्छादयन्ति। ते तद् रूपम् अभिनिविशन्तोऽभिनिर्वर्तयन्तोऽवच्छादयन्तः श्रावकयानेन प्रत्येकबु-(1)द्धयानेन वा तावन् न निर्यास्यन्ति। कः पुनर् वादो महायानेन। तथाभिनिविशन्तोऽभिनिर्वर्तयन्तोऽवच्छादयन्तो दीर्घकालं जरामरणं प्रत्यनुभवन्ति। यद्उत नरकेषु तिर्यक्षु प्रेतेषु देवेषु मनुष्येषु॥

एवं वेदना संज्ञा संस्कारा विज्ञानं सुभूते अभावो नाभावः सद्भावः। चक्षू रूपाणि च चक्षुर्विज्ञानं श्रोत्रंशब्दाः श्रोत्रविज्ञानं घ्राणं गन्धा घ्राणविज्ञानंजिह्वा रसा जिह्वाविज्ञानं कायः स्प्रष्टव्यानि कायविज्ञानंमनो धर्माः मनोविज्ञानं सुभूते अभावो नाभावः सद्भावः। एवं तन् मनोविज्ञानं त्रिपरिवर्तेन बालपृथग्जना यथाभूतम् अप्रजानन्तस् तन् मनोविज्ञानम् अभिनिविशन्तेऽभिनिर्वर्तयन्त्य् अवच्छादयन्ति। ते तद् विज्ञानम् अभिनिविशन्तोऽभिनिर्वर्तयन्तोऽवच्छादयन्तः। स्रावकयानेन प्रत्येकबुद्धयानेन वा तावन् न निर्यास्यन्ति। कः पुनर् वादो महायानेन। तथाभिनिविशन्तो(2)ऽभिनिर्वर्तयन्तोऽवच्छादयन्तो दीर्घरात्रं जरामरणंप्रत्यनुभवन्ति।
यद् उत नरकेषु तिर्यक्षु प्रेतेषु देवेषुमनुष्येषु॥

एवं च तद् रूपं त्रिपरिवर्तेन पण्डिता यथाभूतं प्रजानन्तो नाभिनिविशन्ते नाभिनिर्वर्तयन्ति प्रकाशयन्ति।
अनभिनिविशन्तोऽनभिनिर्वर्तयन्तः प्रकाशयन्तो महायानेनतावन् निर्यान्ति।
कः पुनर् वादः श्रावकयानेनप्रत्येकबुद्धयानेन वा। एवं चानभिनिविशन्तोऽनभिनिर्वर्तयन्तः प्रकाशयन्तो जरामरणं न प्रत्यनुभवन्ति। यद् उत नरकेषु तिर्यक्षु प्रेतेषु देवेषु मनुष्येषु॥

एवं वेदनां संज्ञां संस्कारान् विज्ञानं च त्रिपरिवर्तेनपण्डिता यथाभूतं प्रजानन्तो नाभिनिविशन्ते नाभिनिर्वर्तयन्तिप्रकाशयन्ति। अनभिनिविशन्तोऽनभिनिर्वर्तयन्तः प्रकाशयन्तो महायानेन तावन् निर्यान्ति। कः पुनर् वादः श्रावकयानेन प्रत्येकबुद्धयानेन वा। एवं चानभिनिविशन्तोऽनभिनिर्वर्तयन्तः प्रकाशयन्तो न जरा-(3)मरणं प्रत्यनुभवन्ति।
यद् उत नरकेषु तिर्यक्षु प्रेतेषु देवेषु मनुष्येषु॥

रूपं सुभूते उत्पद्यते च व्ययते च। यो रूपस्योत्पा दोऽनुत्पादः स रूपस्य। यो रूपस्योत्पादोऽनुत्पादप्रकृतिः सारूपस्य। तां पुनर् अनुत्पादप्रकृतिं रूपस्य यथाभूतंप्रजानतो बोधिसत्त्वस्य यो रूपस्यानुत्पादः स संपद्यते॥

एवं वेदना संज्ञा संस्कारा विज्ञानं सुभूते उत्पद्यते च व्ययते च। यो विज्ञानस्योत्पादोऽनुत्पादः स विज्ञानस्य।
यो विज्ञानस्योत्पादोऽनुत्पादप्रकृतिः सा विज्ञानस्य। तां पुनर् अनुत्पादप्रकृतिं विज्ञानस्य यथाभूतं प्रजानतो बोधिसत्त्वस्य यो विज्ञानस्यानुत्पादः स संपद्यते॥

१ यः कश्चित् सुभूते एवं वदेद् रूपम् आत्मा वात्मीयं वेति तम् अहं बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

यः कश्चित् सुभूते एवं वदेद् वेदना संज्ञा संस्कारा विज्ञानम् आत्मा वात्मीयं वेति तम् अप्य् अहं बाह्यं पृथग्जन-(4)पक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

२ योऽपि सुभूते एवं वदेद् रूपं पूर्वकृतहेतुकं वेश्वरनिर्माणहेतुकं वाहेतुप्रत्ययं वा तम् अप्य् अहं बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

यः कश्चित् सुभू ते एवं वदेद् वेदना संज्ञा संस्काराविज्ञानं पूर्वकृतहेतुकं वेश्वरनिर्माणहेतुकं वाहेतुप्रत्ययं वा तम् अप्य् अहं बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

३ योऽपि सुभूते एवं वदेद् रूपणालक्षणं रूपम् अनुभवलक्षणा वेदना संजाननालक्षणा संज्ञा अभिसंस्कारलक्षणाः संस्कारा विजा ननालक्षणं विज्ञानंतम् अप्य् अहं बाह्याद् बाह्यं पृथग्जनपक्षावस्थितंमिथ्यादृष्टिकं वदामि॥

४ योऽपि सुभूते एवं वदेद् रूपं दुःखम् अप्रशान्तं रूपनिरोधः सुखं शान्तम् इति तम् अप्य् अहं बाह्याद् बाह्यं(5)पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

योऽपि सुभूते एवं वदेद् वेदना संज्ञा संस्कारा विज्ञानंदुःखम् अप्रशान्तं विज्ञाननिरोधः सुखं शान्तम् इति तम् अप्य् अहं बाह्याद् बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

५ योऽपि सुभूते एवं वदेन् नास्त्य् एव रूपम् इति तम् अप्य् अहं बाह्याद् बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकंवदामि॥

योऽपि सुभूते एवं वदेन् नास्त्य् एव वेदना संज्ञा संस्काराविज्ञानम् इति तम् अप्य् अहं बाह्याद् बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

६ योऽपि सुभूते एवं वदेद् या रूपस्य निःस्वभावता भगवता देशितानुत्पादोऽनिरोध आदिशान्तता प्रकृतिपरिनिर्वृतता सर्वा सा देशना निरभिसंधिका निरभिप्राया(6)यथारुतम् एव ज्ञेयेति तम् अप्य् अहं बाह्याद् बाह्यं पृथग्जनपक्षावस्थितं मिथ्यादृष्टिकं वदामि॥

योऽपि सुभूते एवं वदेद् या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य निःस्वभावता भगवता देशितानुत्पादोऽनिरोध आदिशान्तता प्रकृतिपरिनिर्वृतता सर्वा सा देशना निरभिसंधिका निरभिप्राया यथारुतम् एव ज्ञेयेति तम् अप्य् अहं बाह्याद् बाह्यं पृथग्जनपक्षावस्थितंमिथ्यादृष्टिकं वदामि॥

अस्ति सुभूते रूपं यद् रूपस्यानभिनिवेशायानुत्पादायानभि- संख्यानाय संवर्तते। अस्ति तद् रूपं यद् रूपस्य संक्लेशायसंनिश्रयाय संप्रवेशाय संवर्तते। अस्ति तद् रूपंयद् रूपस्य व्यवदानाय वित्तत्वाय संवर्तते॥

अस्ति सुभूते वेदना संज्ञा संस्कारा विज्ञानं यद् विज्ञनस्यानभिनिवेशायानुत्पादायानभिसंख्यानाय संवर्तते।
अस्ति सुभूते वेदना संज्ञा संस्कारा विज्ञानं यद्विज्ञानस्य संक्लेशाय संनिश्रयाय संप्रवेशाय संवर्तते। अस्ति वेदना संज्ञा संस्कारा विज्ञानं यद् विज्ञानस्य व्यवदानाय वित्तत्वाय संवर्तते॥

(7)अस्ति सुभूते रूपं यद् बोधिसत्त्वानां प्रहीणं परिज्ञातं देशनाय वित्तत्वाय संवर्तते। अस्ति सुभूते रूपं यत् प्रहीणं परिज्ञातं संदर्शनवित्तत्वाय संवर्तते। अस्ति सुभूते रूपं यत् प्रहीणं परिज्ञातं शुक्लधर्मसमन्वयाय धर्मवशवर्तित्वाय महासुखविहाराय संवर्तते॥

अस्ति सुभूते वेदना संज्ञा संस्कारा विज्ञानं यद् बोधिसत्त्वानां प्रहीणं परिज्ञातं देशनाय वित्तत्वाय संवर्तते। अस्ति सुभूते वेदना संज्ञा संस्कारा विज्ञानंयत् प्रहीणं परिज्ञातं संदर्शनवित्तत्वाय संवर्तते। अस्ति सुभूते वेदना संज्ञा संस्कारा विज्ञानं यद् बोधिसत्त्वानां प्रहीणं परिज्ञातं शुक्लधर्मसमन्वयायधर्मवशवर्तित्वाय महासुखविहाराय संवर्तते॥

यः कश्चित् सुभूते बोधिसत्त्वो रूपे रूपमात्रं दुःखमात्रं न समनुपश्यति स रूप आत्मानम् उपलभते। यो रूप आत्मानम् उपलभते स रूप आत्मदृष्टिम् उपलभते। यो रूप आत्मदृष्टिम् उपलभते स रूपे सर्वम् उपलभते। यो रूपे सर्वम् उपलभते स रूपे सर्वं नोपलभते। यो रूपे सर्वम् उपलभमानः सर्वं नोपलभते स तस्य भ-(8)वत्य् उपलम्भः परिनिष्पन्नः।
स तम् उपलम्भं निश्रित्य श्रावकयानेन प्रत्येकबुद्धयानेन वा तावन् न निर्याति। कः पुनर् वादो महायानेन॥

यः कश्चित् सुभूते बोधिसत्त्वो वेदनायां संज्ञायां संस्कारेषु विज्ञाने विज्ञानमात्रं दुःखमात्रं न समनुपश्यति स विज्ञान आत्मानम् उपलभते। यो विज्ञान आत्मानम् उपलभते स विज्ञान आत्मदृष्टिम् उपलभते।
यो विज्ञान आत्मदृष्टिम् उपलभते स विज्ञाने सर्वम् उपलभते। यो विज्ञाने सर्वम् उपलभते स विज्ञाने सर्वं नोपलभते। यो विज्ञाने सर्वम् उपलभमानः सर्वं नोपलभते स तस्य भवत्य् उपलम्भः परिनिष्पन्नः। स तम् उपलम्भं निश्रित्य श्रावकयानेन प्रत्येकबुद्धयानेन वा तावन् न निर्याति। कः पुनर् वादो महायानेन॥

यः पुनः सुभूते रूपे रूपमात्रं दुःखमात्रं समनुपश्यति स रूप आत्मानं नोपलभते। यो रूप आत्मानंनोपलभते स रूप आत्मदृष्टिं नोपलभते। यो रूप आत्मदृष्टिं नोपलभते स रूपे सर्वं नोपलभते। यो रूपेसर्वं नोपलभते स रूपे सर्वं उपलभते। यो रूपे सर्वम् अनुपलभमानः सर्वम् उपलभते स तस्य भवत्य् उपलम्भः परिनिष्पन्नः। स तम् उपलम्भं निश्रित्यश्रा वकयानेन वा प्रत्येकबुद्धयानेन वा निर्याति नो तुमहायानेन॥

(9)यः पुनः सुभूते वेदनायां संज्ञायां संस्कारेषु विज्ञाने विज्ञानमात्रं दुःखमात्रं समनुपश्यति स विज्ञान आत्मानं नोपलभते। यो विज्ञान आत्मानं नोपलभते स विज्ञान आत्मदृष्टिं नोपलभते। यो विज्ञान आत्मदृष्टिं नोपलभते स विज्ञाने सर्वं नोपलभते। यो विज्ञाने सर्वंनोपलभते स विज्ञाने सर्वं उपलभते। यो विज्ञा ने सर्वम्अनुपलभमानः सर्वम् उपलभते स तस्य भवत्य् उपलम्भः परिनिष्पन्नः। स तम् उपलम्भं निश्रित्य श्रावकयानेनवा प्रत्येकबुद्धयानेन वा निर्याति नो तु महायानेन॥

यः कश्चित् सुभूते रूपेऽभूतपरिकल्पमात्रं भ्रान्तिमात्रंन समनुपश्यति स रूपे रूपम् उपलभते। यो रूपे रूपम्उपलभते स रूपे रूपदृष्टिम् उपलभते। यो रूपे रूपदृष्टिम्उपलभते स रूपे सर्वम् उपलभते। यो रूपे सर्वम् उपलभते स रूपे सर्वं नोपलभते। यो रूपे सर्वम् उपलभमानः सर्वं नोपलभते स तस्य भवत्य् उपलम्भः परिनिष्पन्नः। स तम् उपलम्भं निश्रित्य श्रावकयानेन प्रत्येकबुद्धयानेन वा तावन् न निर्याति। कः पुनर् वादो महायानेन॥

यः कश्चित् सुभूते वेदनायां संज्ञायां संस्कारेषु विज्ञाने(10)ऽभूतपरिकल्पमात्रं भ्रान्तिमात्रं न समनुपश्यति सविज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानम् उपलभतेस विज्ञाने विज्ञानदृष्टिम् उपलभते। यो विज्ञाने विज्ञानदृष्टिम् उपलभते स विज्ञाने सर्वम् उपलभते। यो विज्ञाने सर्वम् उपलभते स विज्ञाने सर्वं नोपलभते। यो विज्ञाने सर्वम् उपलभमानः सर्वं नोपलभते स तस्य भवत्य्उपलम्भः परिनिष्पन्नः।
स तम् उपलम्भं निश्रित्य श्रावकयानेन वा प्रत्येकबुद्धयानेन वा तावन् न निर्याति। कः पुनर् वादो महायानेन॥

यस् तु सुभूते रूपेऽभूतपरिकल्पमात्रं भ्रान्तिमात्रं समनुपश्यति स रूपे रूपं नोपलभते। यो रूपे रूपंनोपलभते स रूपे रूपदृष्टिं नोपलभते। यो रूपे रूपदृष्टिं नोपलभते स रूपे सर्वं नोपलभते। यो रूपेसर्वम् नोपलभते स रूपे सर्वम् उपलभते। यो रूपेसर्वम् अनुपलभमानः सर्वम् उपलभते स तस्य भवत्य्उपलम्भः परिनिष्पन्नः।
स तम् उपलम्भं निश्रित्य महायानेन तावन् निर्याति। कः पुनर् वादः श्रावकयानेन प्रत्येकबुद्धयानेन वा॥

यस् तु वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूतेअभूतपरिकल्पमात्रं भ्रान्तिमात्रं समनुपश्यति स विज्ञानेविज्ञानं नोपलभते।
यो विज्ञाने विज्ञानं नोपल-(11)भते स विज्ञाने विज्ञानदृष्टिं नोपलभते। यो विज्ञाने विज्ञानदृष्टिं नोपलभते स विज्ञाने सर्वं नोपलभते। यो विज्ञाने सर्वं नोपलभते स विज्ञाने सर्वम् उपलभते। यो विज्ञाने सर्वम् अनुपलभमानः सर्वम् उपलभते स तस्य भवत्य् उपलम्भः परिनिष्पन्नः। स तम् उपलम्भं निश्रित्य महायानेन तावन् निर्याति।
कः पुनर् वादः श्रावकयानेन प्रत्येकबुद्धयानेन वा॥

रूपे सुभूते बोधिसत्त्वस्य यथारुताभिनिवेशव्याहारसमुदाचारःसत्कायदृष्टिसमुदाचारः पुनर्भवतृष्णासमुदाचारोविभवपर्येष्टिसमुदाचारो रूपेऽपरिज्ञातलिङ्गम्॥

एवं वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वस्य यथारुताभिनिवेशव्याहारसमुदाचारः सत्कायदृष्टिसमुदाचारः पुनर्भवतृष्णासमुदाचारो विभवपर्येष्टिसमुदाचारो विज्ञानेऽपरिज्ञातलिङ्गम्॥

रूपे सुभूते बोधिसत्त्वस्य यथारुताभिनिवेशव्याहारासमुदाचारःसत्कायदृष्ट्यसमुदाचारः पुनर्भवतृष्णासमुदाचारोविभवपर्येष्ट्यसमुदाचारो रूपे परिज्ञातलिङ्गम्॥

एवं वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूतेबोधिसत्त्वस्य यथारुताभिनिवेशव्याहारासमुदाचारःसत्कायदृष्ट्यसमुदाचारः।
पुनर्भवतृष्णासमुदाचारो(12)विभवपर्येष्ट्यसमुदाचारो विज्ञाने परिज्ञातलिङ्गम्॥

त्रीणीमानि सुभूते रूपे बोधिसत्त्वस्य चित्तबीजानि यनि प्रत्ययगृहीतानि व्यवदानाय संवर्तन्ते। अधिमुक्तिचित्तबीजम् उद्वेगचित्तबीजम् अविप्रणाशचित्तबीजं च॥

त्रीणीमानि सुभूते वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वस्य चित्तबीजानि यानि प्रत्ययगृहीतानिव्यवदानाय संवर्तन्ते।
अधिमुक्तिचित्तबीजम् उद्वेगचित्तबीजम्अविप्रणाशचित्तबीजं च॥

त्रीणीमानि सुभूते रूपे बोधिसत्त्वेन चित्तान्य् उत्पादयितव्यानि। अनभिनिवेशचित्तं विसंयोगचित्तं परिशोधनचित्तं च। सचेत् पुनः सुभूते बोधिसत्त्वः तद्रूपे चित्तोत्पादम्(13)अनुत्पादं महोत्पादं समनुपश्यति स एवं समनुपश्यन् क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते॥

त्रीणीमानि सुभूते वेदनायां संज्ञायां संस्कारेषु विज्ञाने बोधिसत्त्वेन चित्तान्य् उत्पादयितव्यानि।
अनभिनिवेशचित्तंविसंयोगचित्तं परिशोधनचित्तं च। सचेत् पुनः सुभूते बोधिसत्त्वः तद्विज्ञाने चित्तोत्पादम् अनुत्पादं महोत्पादंसमनुपश्यति स एवं समनुपश्यन् क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते॥

रूपं सचेत् सुभूते बोधिसत्त्वोऽस्तितया तथास्तितया नास्तितयावा समनुपश्यत्य् अतत्त्वज्ञो बोधिसत्त्व इति वेदितव्यः। एवं वेदनां सम्ज्ञां संस्कारान् विज्ञानं सचेत् सुभूतेबोधिसत्त्वोऽस्ति तया तथास्तितया नास्तितया वा समनुपश्यत्य्अतत्त्वज्ञो बोधिसत्त्व इति वेदितव्यः॥

रूपं सचेत् सुभूते बोधिसत्त्वोऽनस्तितयातथास्तितयानस्ति-(14)नास्तितया समनुपश्यति तत्त्वज्ञो बोधिसत्त्व इति वेदितव्यः॥

वेदनां संज्ञां संस्कारान् विज्ञानं सचेत् सुभूते बोधिसत्त्वोऽनस्तितयातथास्तितयानस्तिना स्तितया समनुपश्यतितत्त्वज्ञो बोधिसत्त्व इति वेदितव्यः॥

रूपे सुभूते बोधिसत्त्वस्य चित्तं समाधातुकामस्य रूपम् अधिमुच्यमानस्य तच् चित्तं रूप उच्चलति संचलति विचलति दुरधिमोक्षो बोधिसत्त्वो वेदितव्यः॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वस्य चित्तं समाधातुकामस्य विज्ञानम् अधिमुच्यमानस्य विज्ञाने तच् चित्तम् उच्चलति संचलति विचलतिदुरधिमोक्षो बोधिसत्त्वो वेदितव्यः॥

रूपे सुभूते बोधिसत्त्वश् चित्तं समाधातुकामस् तच् च रूपम्अधिमुच्यमानो रूपे चित्तं न बध्नाति न संबध्नाति न विबध्नाति स्वधिमोक्षो बोधिसत्त्वो वेदितव्यः॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूतेबोधिसत्त्वश् चित्तं समाधातुकामस् तच् च विज्ञानम्अधिमुच्यमानो विज्ञाने चित्तं न बध्नाति न संबध्नाति न विबध्नाति स्वधिमोक्षो बोधिसत्त्वो वेदितव्यः॥

(15)रूपे सुभूते अलक्षणधर्मपरिज्ञायै दुःखप्रशमायनिर्वाणानैकान्तिकत्वाय च प्रतिपन्नो बोधिसत्त्वः सम्यक्प्रतिपन्नोवेदितव्यः। एवं च सम्यक्प्रतिपन्नो बोधिसत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते अलक्षणधर्मपरिज्ञायै दुःखप्रशमाय निर्वाणानैकान्तिकत्वाय च प्रतिपन्नो बोधिसत्त्वः सम्यक्प्रतिपन्नो वेदितव्यः। एवं च सम्यक्प्रतिपन्नो बोधिसत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

अलक्षणपरिज्ञायैदुःखस्योपशमाय च। अनैकान्ते शान्ततायैबोधिसत्त्वः प्रपद्यते॥1॥

रूपे सुभूते निरालोकं समन्तालोकं तदाश्रयं तत्प्रवेशंच धर्मं यथाभूतं प्रजानन् बोधिसत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते निरालोकं समन्तालोकं तदाश्रयं तत्प्रवेशं च धर्मं(16)यथाभूतं प्रजानन् बोधिसत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्यते॥

निरालोकश् च यो धर्मःसमन्तालोक एव च। तदाश्रयप्रवेशं चज्ञात्वा तां बोधिम् आप्नुते॥2॥

रूपे सुभूते रूपं परिमार्गमाणो बोधिसत्त्वः तच् चानुपलभमानो रूपम् अनाभासीकृत्य रूपधर्मसमतां च प्रति विध्य क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते विज्ञानं परिमार्गमाणो बोधिसत्त्वः तच् चानुपलभमानो विज्ञानम् अनाभासीकृत्य विज्ञानधर्मसमतां च प्रतिविध्य क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

प्रगृह्यालभ्य धर्माग्र्यंवस्त्वनाभा सचैतसः। अभिज्ञो धर्मतायां चधीमान् बोधिं निगच्छति॥3॥

रूपे सुभूते अभावकुशलो बोधिसत्त्वो रूपविभवेन समन्वागतो रूपधर्मधातुनिश्चलः क्षिप्रम् अनुत्तरांसम्यक्संबोधिम् अभिसंबुध्यते॥

(17)वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते अभावकुशलो बोधिसत्त्वो विज्ञानविभवेन समन्वागतोविज्ञानधर्मधातुनिश्चलः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यतो॥

अभावकुशलो धीमान्विभावनसमन्वितः। निश्चलो धर्मधातोश् चसर्वज्ञत्वं निगच्छति॥4॥

रूपे सुभूते निरर्थम् अपार्थं महार्थं यथाभूतं प्रजानन् बोधिसत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिं अभिसंबुध्यते॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते निरर्थम्अपार्थं महार्थं यथाभूतं प्रजानन् बोधिसत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

निरर्थं चाप्य् अनर्थं चमहार्थं तथ्यम् इत्य् अपि। संबुद्धो वै बोधिसत्त्वःस हि बोधिं निगच्छति॥5॥

(18)रूपे सुभूते बोधिसत्त्वेन पञ्च रागान् परिज्ञाय परिवर्जयितव्याः वितर्करागः प्रतर्करागो विकल्परागो रागो महारागश् च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेन पञ्च रागान् परिज्ञाय परिवर्जयितव्याः। वितर्करागः प्रतर्करागो विकल्परागो रागो महारागश् च॥

रूपे सुभूते बोधिसत्त्व इमान् पञ्च रागान् परिवर्जयित्वारूपस्वभावं नोपलभते।
रूपस्वभावम् अनुपलभमानो रूपे रूपं नोपलभते। रूपे रूपम् अनुपलभमानोरूपे रूपम् उपलभते।
यो रूपे रूपोपलम्भः स एव रूपे रूपानुपलम्भः। स तेन रूपोपलम्भानुपलम्भेन सर्वप्रकारं रूपम् अभिभूय निर्याति यद् उतानुत्तरायैसम्यक्संबोधये॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्व इमान् पञ्च रागान् परिवर्जयित्वा विज्ञानस्वभावंनोपलभते। विज्ञानस्वभावम् अनुपलभमानो विज्ञानेविज्ञानं नोपलभते।
विज्ञाने विज्ञानम् अनुपलभमानोविज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानोपलम्भः स एव विज्ञाने विज्ञानानुपलम्भः। स तेन विज्ञानो पलम्भानुपलम्भेन सर्वप्रकारं विज्ञानम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

रूपे सुभूते बोधिसत्त्वेन पञ्च द्वेषान् परिज्ञाय परिवर्जयितव्याः। वितर्कविचारद्वेषः प्रतर्कविचारद्वेषो(19)विकल्पविचारद्वेषो द्वेषो महाद्वेषश् च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सूभूते बोधिसत्त्वेन पञ्च द्वेषान् परिज्ञाय परिवर्जयितव्याः।
वितर्कविचारद्वेषः प्रतर्कविचारद्वेषो विकल्पविचारद्वेषो द्वेषोमहाद्वेषश् च॥

रूपे सुभूते बोधिसत्त्व इमान् पञ्च द्वेषान् परिवर्जयित्वारूपस्वभावं नोपलभते।
रूपस्वभावम् अनुपलभमानोरूपे रूपं नोपलभते।
रूपे रूपम् अनुपलभमानो रूपे रूपम् उपलभते। यो रूपे रूपोपलम्भः स एवरूपे रूपानुपलम्भः।
स तेन रूपोपलम्भानुपलम्भेन सर्वप्रकारं रूपम् अभिभूय निर्याति यद् उतानुत्तरायैसम्यक्संबोधये॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्व इमान् पञ्च द्वेषान् परिवर्जयित्वा विज्ञानस्वभावंनोपलभते। विज्ञानस्वभावम् अनुपलभमानो विज्ञाने विज्ञानं नोपलभते। विज्ञाने विज्ञानम् अनुपलभमानो विज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानोपलम्भः सएव विज्ञाने विज्ञानानुपलम्भः।
स तेन विज्ञानोपलम्भानुपलम्भेन सर्वप्रकारं विज्ञानम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

रूपे सुभूते बोधिसत्त्वेन पञ्च मोहान् परिज्ञाय परिवर्जयितव्याः। भ्रान्तिमोहो भ्रान्तिनिमित्तमोहोऽभ्रान्तिनिमित्तमोहो मोहो महामोहश् च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बो-(20)धिसत्त्वेन पञ्च मोहान् परिज्ञाय परिवर्जयितव्याः। भ्रान्तिमोहोभ्रान्तिनिमित्तमोहोऽभ्रान्तिनिमित्तमोहो मोहो महामोहश् च॥

रूपे सुभूते बोधिसत्त्व इमान् पञ्च मोहान् परिवर्जयित्वा रूपस्वभावं नोपलभते। रूपस्वभावम् अनुपलभमानोरूपे रूपं नोपलभते।
रूपे रूपम् अनुपलभमानो रूपे रूपम् उपलभते। यो रूपे रूपोपलम्भः स एव रूपे रूपानुपलम्भः।
स तेन रूपोपलम्भानुपलम्भेन सर्वप्रकारं रूपम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्व इमान् पञ्च मोहान् परिवर्जयित्वा विज्ञानस्वभावंनोपलभते। विज्ञानस्वभावम् अनुपलभमानो विज्ञाने विज्ञानं नोपलभते। विज्ञाने विज्ञानम् अनुपलभमानो विज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानोपलम्भःस एव विज्ञाने विज्ञानानुपलम्भः।
स तेन विज्ञानोपलम्भानुपलम्भेन सर्वप्रकारं विज्ञानम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

रूपे सुभूते बोधिसत्त्वेन पञ्च मानान् परिज्ञाय परिवर्जयितव्याः। बाहुश्रुत्यमानोऽभ्युदयमानोऽभिमानो मानो महामानश् च॥

वेदनायां संज्ञायं संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेन पञ्च मानान् परिज्ञाय परिवर्जयितव्याः। बाहुश्रुत्यमानोऽभ्युदयमानोऽभिमानो मानो महामानश् च॥

रूपे सुभूते बोधिसत्त्व इमान् पञ्च मानान् परिवर्जयित्वारूपस्वभावं नोपलभते।
रूपस्वभावम् अनुपलभमानोरूपे रूपं नोपलभते।
रूपे रूपम् अनुपलभमानो(21)रूपे रूपम् उपलभते।
यो रूपे रूपोपलम्भः स एवरूपे रूपानुपलम्भः।
स तेन रूपोपलम्भानुपलम्भेनसर्वप्रकारं रूपम् अभिभूय निर्याति यद् उतानुत्तरायैसम्यक्संबोधये॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्व इमान् पञ्च मानान् परिवर्जयित्वा विज्ञानस्वभावं नोपलभते। विज्ञानस्वभावम् अनुपलभमानो विज्ञाने विज्ञानं नोपलभते। विज्ञाने विज्ञानम् अनुपलभमानो विज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानो पलम्भःस एव विज्ञाने विज्ञानानुपलम्भः।
स तेन विज्ञानोपलम्भानुपलम्भेन सर्वप्रकारं विज्ञानम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

रूपे सुभूते बोधिसत्त्वेन पञ्च दृष्टीः परिज्ञाय परिवर्जयितव्याः। स्वभावविपर्यासदृष्टिर् अस्तीतिदृष्टिर् अपवाददृष्टिर् दृष्टिर् महादृष्टिश् च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेन पञ्च दृष्टीः परिज्ञाय परिवर्जयितव्याः। स्वभावविपर्यासदृष्टिर् अस्तीतिदृष्टिर् अपवाददृष्टिर् दृष्टिर् महादृष्टिश् च॥

रूपे सुभूते बोधिसत्त्व इमाः पञ्च दृष्टीः परिवर्जयित्वारूपस्वभावं नोपलभते।
रूपस्वभावम् अनुपलभमानोरूपे रूपं नोपलभते।
रूपे रूपम् अनुपलभमानोरूपे रूपम् उपलभते।
यो रूपे रूपोपलम्भः स एव रूपे रूपानुपलम्भः। स तेन रूपोपलम्भानुपलम्भेनसर्वप्रकारं रूपम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधि-(22)सत्त्व इमाः पञ्च दृष्टीः परिवर्जयित्वा विज्ञानस्वभावं नोपलभते। विज्ञानस्वभावम् अनुपलभमानो विज्ञाने विज्ञानं नोपलभते। विज्ञाने विज्ञानम् अनुपलभमानो विज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानोपलम्भः स एव विज्ञाने विज्ञानानुपलम्भः। स तेन विज्ञानोपलम्भानुपलम्भेन सर्वप्रकारं विज्ञानम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

रूपे सुभूते बोधिसत्त्वेन पञ्च विमतीः परिज्ञाय परिवर्जयितव्याः। धर्मविमतिर् गतिदुःखविमतिर् निर्वाणबुद्धबोधिसत्त्वधर्मविमतिर् विमतिर् महाविमतिश् च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनपञ्च विमतीः परिज्ञाय परिवर्जयितव्याः। धर्मविमतिर् गतिदुःखविमतिर् निर्वाणबुद्धबोधिसत्त्वधर्मविमतिर् विमतिर् महाविमतिश् च। रूपे सुभूते बोधिसत्त्व इमाः पञ्च विमतीः परिवर्जयित्वा रूपस्वभावं नोपलभते। रूपस्वभावम् अनुपलभमानो रूपे रूपं नोपलभते। रूपे रूपम् अनुपलभमानो रूपे रूपम् उपलभते। यो रूपे रूपोपलम्भः स एव रूपे रूपानुपलम्भः।
स तेन रूपोपलम्भानुपलम्भेन सर्वप्रकारं रूपम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्व इमाः पञ्च विमतीः परिवर्जयित्वा विज्ञानस्वभावं नोपलभते। विज्ञानस्वभावम् अनुपलभमानो विज्ञाने(23)विज्ञानं नोपलभते।
विज्ञाने विज्ञानम् अनुपलभमानो विज्ञाने विज्ञानम् उपलभते। यो विज्ञाने विज्ञानोपलम्भः स एव विज्ञाने विज्ञानानुपलम्भः। स तेन विज्ञानोपलम्भानुपलम्भेन सर्वप्रकारं विज्ञानम् अभिभूय निर्याति यद् उतानुत्तरायै सम्यक्संबोधये॥

रूपे सुभूते बोधिसत्त्वः पर्येषन् रूपं धर्मं देशयन् रूपे कायवाङ्मनस्कर्म परिशोधयंस् तद् रूपं यथारुतं यथादृष्टि यथाख्यातं पर्येषते धर्मं देशयति। तस्मिंश् च कायवाङ्मनस्कर्म परिशोधयति। रूपेऽपर्येषको बोधिसत्त्वोऽसम्यग्वाक्कर्मकथिता वेदितव्यः। तस्मिंश् च रूपेऽपरिशुद्धकायवाङ्मनस्कर्मा बोधिसत्त्वो वेदितव्यः॥

रूपे सुभूते बोधिसत्त्वः पर्येषन् रूपं धर्मं देशयन् रूपे कायवाङ्मनस्कर्म परिशोधयंस् तद् रूपम् अयथारुतम् अयथादृष्टि अयथाख्यातं पर्येषते धर्मं देशयति। तस्मिंश् च कायवाङ्मनस्कर्म परिशोधयति। रूपे सुपर्येषको बोधिसत्त्वः सम्यग्वाक्कर्मकथिता वेदितव्यः। तस्मिंश् च रूपे परिशुद्धकायवाङ्मनस्कर्मा बो-(24)धिसत्त्वो वेदितव्यः॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वः पर्येषन् विज्ञानं धर्मं देशयन् विज्ञाने कायवाङ्मनस्कर्म परिशोधयंस् तद् विज्ञानं यथारुतं यथादृष्टि यथाख्यातं पर्येषते धर्मं देशयति। तस्मिंश् च कायवाङ्मनस्कर्म परिशोधयति। विज्ञानेऽपर्येषको बोधिसत्त्वोऽसम्यग्वाक्कर्मकथिता वेदितव्यः।
तस्मिंश् च विज्ञानेऽपरिशुद्धकायवाङ्मनस्कर्मा बोधिसत्त्वो वेदितव्यः॥

विज्ञाने सुभूते बोधिसत्त्वः पर्येषन् विज्ञानं धर्मं देशयन् विज्ञाने कायवाङ्मस्कर्म परिशोधयंस् तद् विज्ञानम् अयथारुतम् अयथादृष्टि अयथाख्यातं पर्येषते धर्मं देशयति। तस्मिंश् च कायवाङ्मनस्कर्म परिशोधयति। विज्ञाने सुपर्येषको बोधिसत्त्वःसम्यग्वाक्कर्मकथिता वेदितव्यः। तस्मिंश् च विज्ञाने(25)परिशुद्धकायवाङ्मनस्कर्मा बोधिसत्त्वो वेदितव्यः॥

रूपे सुभूते बोधिसत्त्वश् चित्तं समाधातुकामः तच् च रूपम् अध्यात्मम् अधिमुच्यमानो द्वये द्वयम् उपलभते। अधिमोक्ष्यरूपम् अधिमोक्षरूपं च। तत्र यो बोधिसत्त्वो रूपे यथाधिमोक्ष्यम् अधिमोक्षम् अववदते यथाधिमोक्षं वाधिमोक्ष्यम् अववदते रूपेऽसम्यगववदिताबोधिसत्त्वो वेदितव्यः॥

तत् कस्य हेतोः।
न हि सुभूते अधिमोक्ष्यरूपम् अधि-(26)मोक्षरूपात् पृथग्लक्षणं विद्यते। सचेत् सुभूते अधिमोक्ष्यरूपम्अधिमोक्षरूपात् पृथग्लक्षणं विद्यते नानाधि मुक्तानां सत्त्वानां समाधिमोक्ष्येऽभिन्नानि दर्शनान्य् उपलभ्येरन्। न च स्वप्नादिष्व् अनालम्बनाधिमोक्ष उपलभ्येत। बालपृथग्जनाश् च रूपे तत्त्वदर्शिनो भवेयुः। न च सिद्धे युक्ते निर्विकल्पाधिमोक्षे चाधिमोक्ष्यरूपम् अनुवर्तेत। यस्मात् तर्हि सुभूते नानाधिमुक्तानां सत्त्वानां समाधिमोक्ष्ये भिन्नानि दर्शनानि प्रवर्तन्ते। स्वप्नादिषु चानालम्बनाधिमोक्ष उपलभ्यते। न च बालपृथग्जना रूपे तत्त्वदर्शिनो भवन्ति। सिद्धे युक्ते निर्विकल्पाधिमोक्षे चाधिमोक्ष्यरूपम् अनुवर्तते। तस्माद् अधिमोक्ष्यरूपम् अपृथग्लक्षणम् अधि-(27)मोक्षरूपाद् बोधिसत्त्वेन द्रष्टव्यम्। नान्यत्र सनिमितदृष्टिको रूपाधिमोक्षस् तथा यथा समुत्पन्नं तद् अधिमोक्ष्यरूपम्।
तस्माद् अर्थोऽन्यः ख्याति॥

एवं पश्यन् बोधिसत्त्वोऽधिमोक्ष्यरूपसंज्ञां विभावयति। तस्यैवं भवत्य् अधिमोक्ष्यरूपे सत्य् अधिमोक्षरूपं युज्यते नासतीति विदित्वाधिमोक्षरूपभ्रान्तिम् उपलभते। अधिमोक्षरूपसंज्ञाम् अपि विभावयति। स द्वयरूपसंज्ञां विभावयित्वा सर्वरूपं नोपलभते। सर्वं रूपम् अनुपलभमानो रूपभ्रान्तिम् उपलभते। रूपभ्रान्तिम् उपलभमानो रूपभ्रान्तिनिमित्तम् उपलभते। रूपभ्रान्तिनिमित्तम् उपलभमानो रूपेऽभ्रान्तिधर्मान् समुदानयति। रूपेऽभ्रान्तिधर्मान् समुदानयन् रूपेऽभ्रान्तिनिष्यन्दान् धर्मान् समुदानयति।
पूर्वम् एव चानेन रूपभ्रान्त्यभ्रान्तिधर्माः समुदानीता भवन्ति। स रूपेऽभ्रान्तिधर्मान् अभ्रान्तिनिष्यन्दधर्मांश् च निश्रित्य सर्वबुद्धधर्मान् भावयति। सत्त्वांश् च परिपाचयति।
बु-(28)द्धक्षेत्रं च परिशोधयति।
क्षिप्रं चानुत्तरां सम्यक्संबोधिम्अभिसंबुध्यते। एवं रूपेऽववदमानो बोधिसत्त्वो महासत्त्वः सम्यगववदिता भवति॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वश् चित्तं समाधातुकामः तच् च विज्ञानम् अध्यात्मम् अधिमुच्यमानो द्वये द्वयम् उपलभते। अधिमोक्ष्यविज्ञानम् अधिमोक्षविज्ञानं च। तत्र यो बोधिसत्त्वो विज्ञाने यथाधिमोक्ष्यम् अधिमोक्षम् अववदते यथाधिमोक्षं वाधिमोक्ष्यम् अववदते विज्ञानेऽसम्यगववदिता बोधिसत्त्वो वेदितव्यः॥

तत् कस्य हेतोः।
न हि सुभूते अधिमोक्ष्यविज्ञानम् अधिमोक्षविज्ञानात् पृथग्लक्षणं विद्यते। सचेत् सुभूते अधिमोक्ष्यविज्ञानम् अधिमोक्षविज्ञानात् पृथग्लक्षणं विद्यते नानाधिमुक्तानां सत्त्वानां समाधिमोक्ष्येऽभिन्नानि दर्शनान्य् उपलभ्येरन्। न च स्वप्नादिष्व् अनालम्बनाधिमोक्ष उपलभ्येत। बालपृथग्जनाश् च विज्ञाने(29)तत्त्वदर्शिनो भवेयुः।
न च सिद्धे युक्ते निर्विकल्पाधिमोक्षे चाधिमोक्ष्यविज्ञानम् अनुवर्तेत। यस्मात् तर्हि सुभूते नानाधिमुक्तानां सत्त्वानां समाधिमोक्ष्ये भिन्नानि दर्शनानि प्रवर्तन्ते। स्वप्नादिषु चानालम्बनाधिमोक्ष उपलभ्यते। न च बालपृथग्जना विज्ञाने तत्त्वदर्शिनो भवन्ति। सिद्धे युक्ते निर्विकल्पाधिमोक्षे चाधिमोक्ष्यविज्ञानम् अनुवर्तते। तस्माद् अधिमोक्ष्यविज्ञानम् अपृथग्लक्षणम् अधिमोक्षविज्ञानाद् बोधिसत्त्वेनद्रष्टव्यम्। नान्यत्र सनिमित्तदृष्टिको विज्ञानाधिमोक्षस् तथा यथा समुत्पन्नं तद् अधिमोक्ष्यविज्ञानम्। तस्माद् अर्थोऽन्यः ख्याति॥

एवं पश्यन् बोधिसत्त्वोऽधिमोक्ष्यविज्ञानसंज्ञां विभावयति। तस्यैवं भवत्य् अधिमोक्ष्यविज्ञाने सत्य् अधिमोक्षविज्ञानं युज्यते नासतीति विदित्वाधिमोक्षवि-(30)ज्ञानभ्रान्तिम् उपलभते। अधिमोक्षविज्ञानसंज्ञाम् अपि विभावयति। स द्वयविज्ञानसंज्ञां विभावयित्वा सर्वविज्ञानं नोपलभते। सर्वविज्ञानम् अनुपलभमानो विज्ञाने भ्रान्तिम् उपलभते। विज्ञानभ्रान्तिम् उपलभमानो विज्ञानभ्रान्तिनिमित्तम् उपलभते। विज्ञानभ्रान्तिनिमित्तम् उपलभमानो विज्ञानेऽभ्रान्तिधर्मान् समुदानयति। विज्ञानेऽभ्रान्तिधर्मान् समुदानयित्वा विज्ञानेऽभ्रान्तिनिष्यन्दधर्मान् समुदानयति। पूर्वम् एव चानेन विज्ञानभ्रान्त्यभ्रान्तिधर्माः समुदानीता भवन्ति। स विज्ञानेऽभ्रान्तिधर्मान् अभ्रान्तिनिष्यन्दधर्मांश् च निश्रित्य सर्वबुद्धधर्मान् भावयति। सत्त्वांश् च परिपाचयति।
बुद्धक्षेत्रं च परिशोधयति। क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते। एवं विज्ञानेऽववदमानो बोधिसत्त्वः सम्यगववदिता वेदितव्यः॥

रूपे सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चाकारा मैत्री भावयितव्या। सद्धर्मोपसंहारा मैत्री लौकिकसुखोपसंहारामैत्री लोकोत्तरसुखोपसंहारा मैत्री मैत्री महामैत्री च॥

(31)वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनमहासत्त्वेन पञ्चाकारा मैत्री भावयितव्या। सद्धर्मोपसंहारा मैत्री लौकिकसुखोपसंहारा मैत्री लोकोत्तरसुखोपसंहारा मैत्री मैत्री महामैत्री च॥

रूपे सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चाकारा करुणा भावयितव्या। असंग्रहकरुणा संयोगकरुणाप्य् असंयोगकरुणा करुणा महाकरुणा च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनमहासत्त्वेन पञ्चाकारा करुणा भावयितव्या। असंग्रहकरुणा संयोगकरुणाप्य् असंयोगकरुणा करुणा महाकरुणा च॥

रूपे सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चाकारा मुदिता भावयितव्या। सद्धर्मप्रसादाभिष्यन्दना नुग्रहानुमोदना मुदिता लौकिकसुखाभिष्यन्दनानुग्रहानुमोदना मुदिता लोकोत्तरसुखाभिष्यन्दनानुग्रहानुमोदना मुदिता मुदिता महामुदिता च॥

वेदनायां सम्ज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनमहासत्त्वेन पञ्चाकारा मुदिता भावयितव्या। सद्धर्मप्रसादाभिष्यन्दनानुग्रहा नुमोदना मुदिता लौकिकसुखाभिष्यन्दनानुग्रहानुमोदना मुदिता लोकोत्तरसुखाभिष्यन्दनानुग्रहानुमोदना मुदिता मुदिता महामुदिताच॥

रूपे सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चकारोपेक्षा भावयितव्या। असद्दृष्ट्यसंक्लेशोपसंहारोपेक्षा सर्वदोषपरिवर्जनासंक्लेशोपसंहारोपेक्षा सर्वगुणपरिग्रहासंक्लेशोपसंहारोपेक्षोपेक्षा महोपेक्षा च॥

(32)वेदानायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनमहासत्त्वेन पञ्चाकारोपेक्षा भावयितव्या। असद्दृष्ट्यसंक्लेशोपसंहारोपेक्षा सर्वदोषपरिवर्जनासंक्लेशोपसंहारोपेक्षा सर्वगुणपरिग्रहासंक्लेशोपसंहारोपेक्षोपेक्षा महोपेक्षा च॥

रूपे सुभूते दानपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं दानं भावयितव्यम् प्रतिज्ञादानम् आमिषाभयप्रतिपत्तिदानं धर्मप्रतिपत्तिदानं दानं महादानं च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते दानपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं दानं भावयितव्यम्। प्रतिज्ञादानं आमिषाभयप्रतिपत्तिदानंधर्मप्रतिपत्तिदानं दानं महादानं च॥

रूपे सुभूते शीलपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं शीलं भावयितव्यम्। समादानसांकेतिकशीलं ध्यानसंवरशीलम् अनास्रवसंवरशीलं शीलं महाशीलं च॥

(33)वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते शीलपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं शीलं भावयितव्यम्। समादानसांकेतिकशीलं ध्यानसंवरशीलम् अनास्रवसंवरशीलं शीलं महाशीलं च॥

रूपे सुभूते क्षान्तिपारमितायां प्रयुक्तेन बोधिसत्त्वेनमहासत्त्वेन पञ्चाकारा क्षान्तिर् भावयितव्या। सत्त्वापकारमर्षणा क्षान्तिर् दुःखाधिवासनक्षान्तिर् धर्मनिध्यानक्षान्तिः क्षान्तिर् महाक्षान्तिश् च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते क्षान्तिपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारा क्षान्तिर् भावयितव्या। सत्त्वापकारमर्षणा क्षान्तिर् दुःखाधिवासनक्षान्तिर् धर्मनिध्यानक्षान्तिः क्षान्तिर् महाक्षान्तिश् च॥

रूपे सुभूते वीर्यपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं वीर्यं भावयितव्यम्। उद्देशस्वाध्यायचित्तवीर्यं सर्वदोषपरिवर्जनवीर्यं सर्वगुणपरिग्रहवीर्यं वीर्यं महावीर्यं च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते(34)वीर्यपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं वीर्यं भावयितव्यम्। उद्देशस्वाध्यायचित्तवीर्यं सर्वदोषपरिवर्जनवीर्यं सर्वगुणपरिग्रहवीर्यं वीर्यं महावीर्यं च॥

रूपे सुभूते ध्यानपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं ध्यानं भावयितव्यम्। व्यञ्जनसापेक्षकुशलध्यानं व्यञ्जननिरपेक्षादिविशुद्धलौकिककुशलध्यानं लोकोत्तरकुशलध्यानं ध्यानं महाध्यानं च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते ध्यानपारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारं ध्यानं भावयितव्यम्। व्यञ्जनसापेक्ष कुशलध्यानं व्यञ्जननिरपेक्षादिविशुद्धलौकिककुशलध्यानं लोकोत्तरकुशलध्यानं ध्यानं महाध्यानं च॥

रूपे सुभूते प्रज्ञापारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारा प्रज्ञा भावयितव्या। व्यञ्जनसापेक्षकुशलध्यानाश्रिता प्रज्ञा व्यञ्जननिरपेक्षादिविशुद्धलौकिकध्यानाश्रिता प्रज्ञा लोकोत्तरध्यानाश्रिता प्रज्ञा प्रज्ञा महाप्रज्ञा च॥

(35)वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते प्रज्ञापारमितायां प्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारा प्रज्ञा भावयितव्या। व्यञ्जनसापेक्षकुशलध्यानाश्रिता प्रज्ञा व्यञ्जननिरपेक्षादिविशुद्धलौकिकध्यानाश्रिता प्रज्ञा लोकोत्तरध्यानाश्रिता प्रज्ञा प्रज्ञा महाप्रज्ञा च॥

रूपे सुभूते कल्याणमित्रसेवाप्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारया कल्याणमित्रसेवया कल्याणमित्रं सेवितव्यम्। श्रवणसेवयोपस्थानपरिचर्याशिक्षानुविधानसेवया प्रतिपत्त्याराधनसेवया सेवया महासेवया च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते कल्याणमित्रसेवाप्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारयाकल्याणमित्रसेवया कल्याणमित्रं सेवितव्यम्। श्रवणसेवयोपस्थानपरिचर्याशिक्षानुविधानसेवया प्रतिपत्त्याराधनसेवया सेवया महासेवया च॥

एवं कल्याणमित्रं सेवमानो बोधिसत्त्वो महासत्त्वो विमोक्षोपायं च परिगृह्णाति। बहु च पुण्यं प्रसूयते।
क्षिप्रम् अनुत्तरायै सम्यक्संबोधये निर्याति॥

(36)रूपे सुभूते तथागतपूजाप्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारया तथागतपूजया तथागतः पूजयितव्यः। विचित्रस्तोत्रोपहारपूजया लाभसत्कारोपसंहारपूजया प्रतिपत्त्याराधनपूजया पूजया महापूजया च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते तथागतपूजाप्रयुक्तेन बोधिसत्त्वेन महासत्त्वेन पञ्चाकारया तथागतपूजया तथागतः पूजयितव्यः। विचित्रस्तोत्रोपहारपूजयालाभसत्कारोपसंहारपूजया प्रतिपत्त्याराधनपूजया पूजया महापूजया च॥

एवं तथागतपूजायां प्रयुक्तस्य बोधिसत्त्वस्य महासत्त्वस्यानन्तापर्यन्तेषु दशसु दिक्षु लोकधातुषु बुद्धबोधिसत्त्वा वर्णं भाषन्ते। सदेवमानुषासुराच् च लोकाल् लाभसत्कारं प्रतिलभते। अप्रमाणांश् च सत्त्वान् परिपाचयति। बुद्धक्षेत्रं च परिशोधयति। क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते॥

रूपे सुभूते दानपारमितायां प्रयुक्तो बोधिसत्त्वो महासत्त्वः सनिमित्तं दानं भावयन् न क्षिप्रं दानपारमितां परिपूरयति।
अनिमित्तं तु दानं भावयन् क्षिप्रं दानपारमितां परिपूरयति। कथं च सुभूते(37)बोधिसत्त्वो रूपे सनिमित्तं दानं भावयत्य् अनिमित्तं वा। सचेत् सुभूते बोधिसत्त्वो रूपे दानम् अधिमुच्यमानोऽधिमोक्ष्यदानं वोपलभतेऽधिमोक्षदानं वा सनिमित्तं बोधिसत्त्वो रूपे दानं भावयतीति वेदितव्यम्। रूपे सुभूते बोधिसत्त्वो दानम् अधिमुच्यमानो नाधिमोक्ष्यदानम् उपलभते नाधिमोक्षदानं वा यद् उत रूपस्वभावानुपलम्भेन तथाभावानुपलम्भेन प्रकृत्यनुपलम्भेन रूपेऽनिमित्तं बोधिसत्त्वो दानं भावयतीतिवेदितव्यम्॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते दानपारमितायां प्रयुक्तो बोधिसत्त्वः सनिमित्तं दानं भावयन्न क्षिप्रं दानपारमितां परिपूरयति। अनिमित्तं तु दानं भावयन् क्षिप्रं दानपारमितां परिपूरयति। कथं च सुभूते बोधिसत्त्वो विज्ञाने सनिमित्तं दानं भावयत्य् अनिमित्तं वा। सचेत् सुभूते बोधिसत्त्वोविज्ञाने दानम् अधिमुच्यमानोऽधिमोक्ष्यदानं वोपलभतेऽधिमोक्षदानं वा सनिमित्तं दानं बोधिसत्त्वो विज्ञाने भावयतीति वेदितव्यम्। विज्ञाने सुभूते बोधिसत्त्वो दानम् अधिमुच्यमानो नाधिमोक्ष्यदानम् उपलभते नाधिमोक्षदानं वा यद् उत विज्ञानस्वभावानुपलम्भेन तथाभावानुपलम्भेन प्रकृत्यनुपलम्भेन विज्ञानेऽनिमित्तं बोधिसत्त्वो दानं भावयतीति वेदितव्यम्॥

(38)एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां च पेयालं कर्तव्यम्॥

रूपे सुभूते बोधिसत्त्वेन शून्यतासमाधिः परिज्ञेयः। कतमश् च सुभूते रूपे शून्यतासमाधिः। या सुभूते रूपेऽभाव शून्यतां तथाभावशून्यतां प्रकृतिशून्यतां चालम्बनीकृत्य चित्तस्यैकाग्रतायं रूपे शून्यतासमाधिः।
एवं च बोधिसत्त्वेन रूपे शून्यतासमाधिः परिज्ञेयः॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनशून्यतासमाधिः परिज्ञेयः।
कतमश् च सुभूते विज्ञानेशून्यतासमाधिः।
या सुभूते विज्ञानेऽभावशून्यतां तथाभावशून्यतां प्रकृतिशून्यतां चालम्बनीकृत्यचित्तस्यैकाग्रतायं विज्ञाने शून्यतासमाधिः। एवं च बोधिसत्त्वेनविज्ञाने शून्यतासमाधिः परिज्ञेयः॥

रूपे सुभूते बोधिसत्त्वेनानिमित्तः समाधिः परिज्ञेयः। कतमश् च सुभूते रूपेऽनिमित्तसमाधिः। या सुभूते बोधिसत्त्वस्य रूपेऽभावशून्यतां तथाभावशून्यतां प्रकृतिशून्यताम् एवं च मनसिकुर्वतो निरुद्-(39)धे निमित्तेऽभावनिमित्तानुसारिविज्ञानविरहिता तथाभावनिमित्तानुसारिविज्ञानविरहिता भावाभावनिमित्तानुसारिविज्ञानविरहिता चित्तस्यैकाग्रतायं सुभूते रूपेऽनिमित्तः समाधिः। एवं च बोधिसत्त्वेन रूपेऽनिमित्तः समाधिः परिज्ञेयः॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनानिमित्तः समाधिः परिज्ञेयः। कतमश् चसुभूते विज्ञानेऽनिमित्तः समधिः। या सुभूते बोधिसत्त्वस्य विज्ञानेऽभावशून्यतां तथाभावशून्यतां प्रकृतिशून्यताम्एवं च मनसिकुर्वतो निरुद्धे निमित्तेऽभावनिमित्तानुसारिविज्ञानविरहिता तथाभावनिमित्तानुसारिविज्ञानविरहिता भावाभावनिमित्तानुसारिविज्ञानविरहिता चित्तस्यैकाग्रतायंसुभूते विज्ञानेऽनिमित्तः समाधिः। एवं च बोधिसत्त्वेन विज्ञानेऽनिमित्तः समाधिः परिज्ञेयः॥

रूपे सुभूते बोधिसत्त्वेनाप्रणिहितः समाधिः परिज्ञेयः। कतमश् च सुभूते रूपेऽप्रणिहितः समाधिः। या सुभूते रूपे शून्यतानिमित्तसमाधिलाभिनो रूपेऽभाव-(40)निमित्तप्रतिकूलालम्बना तथाभावनिमित्तप्रतिकूलालम्बना भावाभावनिमित्तप्रतिकूलालम्बना चित्तस्यैकाग्रतायं सुभूते रूपेऽप्रणिहितसमाधिः। एवं च बोधिसत्त्वेन रूपेऽप्रणिहितः समाधिः परिज्ञेयः॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनाप्रणिहितसमाधिः परिज्ञेयः। कतमश् च सुभूते विज्ञानेऽप्रणिहितसमाधिः। या सुभूते विज्ञाने शून्यतानिमित्तसमाधिलाभिनो विज्ञानेऽभावनिमित्तप्रतिकूलालम्बनातथाभावनिमित्तप्रतिकूलालम्बना भावाभावनिमित्तप्रतिकूलालम्बनाचित्तस्यैकाग्रतायं सुभूते विज्ञानेऽप्रणिहितसमाधिः। एवं च बोधिसत्त्वेन विज्ञानेऽप्रणिहितसमाधिः परिज्ञेयः॥

(41)रूपे सुभूते बोधिसत्त्वेन त्रिभिर् अर्थैर् अनित्यता परिज्ञेया। असदर्थेन विनाशार्थेन समलामलार्थेन च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनत्रिभिर् अर्थैर् अनित्यता परिज्ञेया। असदर्थेन विनाशार्थेन समलामलार्थेन च॥

रूपे सुभूते बोधिसत्त्वेन त्रिभिर् अर्थैर् दुःखता परिज्ञेया। अभिनिवेशार्थेन त्रिविधलक्षणार्थेन सम्बन्धार्थेन च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनत्रिभिर् अर्थैर् दुःखता परिज्ञेया। अभिनिवेशार्थेन त्रिविधलक्षणार्थेन सम्बन्धार्थेन च॥

रूपे सुभूते बोधिसत्त्वेन त्रिभिर् अर्थैर् अनात्मता परिज्ञेया। अभावानात्मार्थेन तथाभावानात्मार्थेन प्रकृत्यनात्मार्थेन च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधि-(42)सत्त्वेन त्रिभिर् अर्थैर् अनात्मता परिज्ञेया। अभावानात्मार्थेन तथाभावानात्मार्थेन प्रकृत्यनात्मार्थेन च॥

रूपे सुभूते बोधिसत्त्वेन त्रिभिर् अर्थैर् निर्वाणशान्ततापरिज्ञेया। अभावात्यन्तशान्त्यर्थेन तथाभावशान्त्यर्थेनप्रकृतिविशुद्धिशान्त्यर्थेन च॥

वेदनायां संज्ञायां संस्कारेषु विज्ञाने सुभूते बोधिसत्त्वेनत्रिभिर् अर्थैर् निर्वाणशान्तता परिज्ञेया। अभावात्यन्तशान्त्यर्थेनतथाभावशान्त्यर्थेन प्रकृतिविशुद्धिशान्त्यर्थेन च॥

इदम् अवोचद् भगवान् आत्तमनाः स्थविरसुभूतिस् ताश् च भिक्षुभिक्षुण्युपासकोपासिकाः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति॥

आर्यभगवती प्रज्ञापारमिता स्वभावप्रवेशिका पञ्चशतिकासमाप्ता॥

(43)