१८ शून्यतापरिवर्तोऽष्टादशः

१८ शून्यतापरिवर्तोऽष्टादशः।
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-आश्चर्यं भगवन् महागुणसमन्वागतो बोधिसत्त्वो महासत्त्वः। अप्रमाणगुणसमन्वागतो भगवन् बोधिसत्त्वो महासत्त्वः। अपरिमितगुणसमन्वागतो भगवन् बोधिसत्त्वो महासत्त्वः। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। तत्कस्य हेतोः? अविनिवर्तनीयेन हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनन्तमपर्यन्तं ज्ञानं प्रतिलब्धमसंहार्यं सर्वश्रावकप्रत्येकबुद्धैः॥

सुभूतिराह-प्रतिबलो भगवन् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पानाकारान् लिङ्गानि निमित्तानि निर्देष्टुम्। अत एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि सूचयितव्यानि। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-साधु साधु सुभूते यस्त्वं गम्भीराणि गम्भीराणि स्थानान्यारभ्य निगमयितुकामः। गम्भीरमिति सुभूते शून्यताया एतदधिवचनम्। आनिमित्तस्य अप्रणिहितस्य अनभिसंस्कारस्य अनुत्पादस्य अजातेरभावस्य विरागस्य निरोधस्य निर्वाणस्य विगमस्यैतत्सुभूते अधिवचनं यदुत गम्भीरमिति॥

सुभूतिराह-एतेषामेव भगवन् केवलमेतद्धर्माणामधिवचनं न पुनः सर्वधर्माणाम्? भगवानाह-सर्वधर्माणामप्येतत्सुभूते अधिवचनं यदुत गम्भीरमिति। तत्कस्य हेतोः? रूपं हि सुभूते गम्भीरम्। एवं वेदना संज्ञा संस्काराः। विज्ञानं हि सुभूते गम्भीरम्। कथं च सुभूते रूपं गम्भीरम्? कथं वेदना संज्ञा संस्काराः? कथं च सुभूते विज्ञानं गम्भीरम्? यथा सुभूते तथता, तथा गम्भीरं रूपम्। एवं वेदना संज्ञा संस्काराः। यथा सुभूते तथता, तथा गम्भीरं विज्ञानम्। तत्र सुभूते यथा रूपतथता, तथा गम्भीरं रूपम्। यथा वेदनातथता संज्ञातथता संस्कारतथता। तत्र सुभूते यथा विज्ञानतथता, तथा गम्भीरं विज्ञानम्। यत्र सुभूते न रूपम्, इयं रूपस्य गम्भीरता। यत्र सुभूते न वेदना न संज्ञा न संस्कारा न विज्ञानम्, इयं वेदनासंज्ञासंस्काराणाम्, इयं विज्ञानस्य गम्भीरता॥

सुभूतिराह-आश्चर्यं भगवन् यावत्सूक्ष्मेणोपायेन रूपतश्च निवारितो निर्वाणं च सुचितम्। एवं वेदना संज्ञा संस्काराः। यावत्सूक्ष्मेणोपायेन विज्ञानतश्च निवारितो निर्वाणं च सूचितम्। भगवानाह-इमानि सुभूते गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि यश्चिन्तयिष्यन्ति तुलयिष्यति उपनिध्यास्यति-एवं मया स्थातव्यं यथा प्रज्ञापारमितायामाज्ञप्तम्। एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायामाख्यातम्। एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायामुपदिष्टम्। तथा संपादयमानस्तथोपनिध्यायंस्तथोपपरीक्षमाणस्तथा प्रयुज्यमानस्तथा घटमानस्तथा व्यायच्छमान एकदिवसमप्यत्र योगमापद्यते। अयं बोधिसत्त्वो महासत्त्वस्तेनैकदिवसेन कियत्कर्म करोति? तद्यथापि नाम सुभूते कश्चिदेव पुरुषो रागचरितो वितर्कचरितः। तस्य पुरुषस्य रागचरितस्य वितर्कचरितस्य स्त्रिया अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतो भवेत्। सा खलु पुनः स्त्री परपरिगृहीता भवेत्। न वशयेदात्मानमगारान्निष्क्रमितुम्। तत्किं मन्यसे सुभूते किंप्रतिसंयुक्तास्तस्य पुरुषस्य वितर्काः प्रवर्तेरन्? सुभूतिराह-स्त्रीप्रतिसंयुक्ता एव भगवंस्तस्य पुरुषस्य वितर्काः प्रवर्तेरन्-इयमागच्छति, इयमागता। तया सार्धमेवं करिष्यामि, एवं रमिष्यामि, एवं क्रीडिष्यामि, एवं प्रविचारयिष्यामीति। भगवानाह-तत्किं मन्यसे सुभूते दिवसस्यात्ययेन तस्य पुरुषस्य कियन्तो वितर्का उत्पद्येरन् ? सुभूतिराह- बहवो भगवन् दिवसस्यात्ययेन तस्य पुरुषस्य वितर्का उत्पद्येरन्। भगवानाह-यावन्तः सुभूते तस्य पुरुषस्य दिवसस्यात्ययेन वितर्का उत्पद्येरन्, इयतः सुभूते कल्पान् बोधिसत्त्वो महासत्त्वश्छोरयति विपृष्ठीकरोति संसाराद्व्यन्तीकरोति, य इह प्रज्ञापारमितायां यथाज्ञप्तं यथाख्यातं यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं तिष्ठति शिक्षते प्रतिपद्यते उपनिध्यायति योगमापद्यते, तांश्च दोषान् विवर्जयति, यैर्दोषैर्बोधिसत्त्वो महासत्त्वो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः। एवं हि सुभूते यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायोगमनुयुक्तः, अनेन विहारेण विहरन् यदुत प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः, एकदिवसेन तावत्कर्म करोति। यश्च प्रज्ञापारमिताविरहितो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, अयमेव ततो विशिष्यते योऽयं बोधिसत्त्वो महासत्त्व एवमेकदिवसमपि प्रज्ञापारमितायां योगमापद्यते॥

पुनरपरं सुभूते यश्च बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेभ्यो दानं दद्यात्, प्रतिष्ठापयेत्, एवं सकृदागामिष्वनागामिष्वर्हत्सु दानं दद्यात्, प्रतिष्ठापयेत्। प्रत्येकबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्। तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, विरहितश्च प्रज्ञापारमिताया। यश्च बोधिसत्त्वो महासत्त्वो यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं प्रज्ञापारमितायां तथैव योगमापद्येत एकदिवसमपि। अयं बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वद्बहुतरं पुण्यं प्रसवति॥

पुनरपरं सुभूते यो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, शीलेषु च परिपूर्णकारी भवेत्, विरहितश्च प्रज्ञापारमितया भवेत्। यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारी ततो मनसिकाराद्व्युत्थाय धर्मं देशयेत्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति॥

पुनरपरं सुभूते यो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, शीलेषु च परिपूर्णकारी भवेत्, क्षान्त्या च समन्वागतो भवेत्, विरहितश्च प्रज्ञापारमितया। यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारी ततो मनसिकारद्व्युत्थाय धर्मदानं दद्यात्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति॥

पुनरपरं सुभूते यो बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात् प्रतिष्ठापयेत्, शीलेषु परिपूर्णकारी क्षान्त्या च समन्वागतः, आरब्धवीर्यः सन् ध्यानेषु बोधिपक्षेषु च धर्मेषु योगमापद्येत, विरहितश्च प्रज्ञापारमितया। यश्च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति॥

पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा प्रज्ञापारमितोक्तेन परिणामेन अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, अयं ततो बहुतरं पुण्यं प्रसवति॥

पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा प्रज्ञापारमितोक्तेन परिणामेन अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, परिणाम्य च प्रतिसंलाने न पुनरेव योगमापद्येत। यश्च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानमेव दद्यात्, न पुनः प्रतिसंलाने योगमापद्येत, स बोधिसत्त्वो महासत्त्वो न तावत्पुण्यं प्रसवति, यावद्य एवं धर्मदानं ददद् बोधिसत्त्वो महासत्त्वः प्रतिसंलाने च पुनरेव योगमापद्यमानः प्रज्ञापारमितया च परिगृहीतस्तत्प्रतिसंलानमविरहितं करोति प्रज्ञापारमितया, अयं बोधिसत्त्वो महासत्त्वो बहुतरं पुण्यं प्रसवति॥

सुभूतिराह-यदा भगवन् अभिसंस्कारो विकल्प इत्युक्तं भगवता, तदा कथं बहुतरं पुण्यं प्रसवतीत्युच्यते? भगवानाह-सोऽपीदानीं सुभूते पुण्याभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक इत्येवाख्यायते, रिक्तक इत्येवाख्यायते, तुच्छक इत्येवाख्यायते, असारक इत्येवाख्यायते। यथा यथा खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मान् प्रत्यवेक्षते, तथा तथा सुभूते बोधिसत्त्वो महासत्त्वोऽविरहितो भवति प्रज्ञापारमितया। यथा यथा च सुभूते बोधिसत्त्वो महासत्त्वोऽविरहितो भवति प्रज्ञापारमितया, तथा तथा अप्रमेयमसंख्येयं पुण्यं प्रसवति॥

सुभूतिराह-अप्रमेयस्य च भगवन् असंख्येयस्य च किं नानाकरणं वा, कः प्रतिविशेषो वा? भगवानाह-अप्रमेयमिति सुभूते यत्र प्रमाणान्युपरमन्ते। असंख्येयमिति सुभूते यन्न शक्यं संख्ययापि क्षपयितुम्॥

सुभूतिराह-स्याद्भगवन् पर्यायो यद्रूपमप्रमेयं भवेत्, एवं वेदना संज्ञा संस्काराः। स्याद्भगवन् पर्यायो यद्विज्ञानमप्रमेयं भवेत्? भगवानाह-यत्सुभूतिरेवमाह-स्याद्भगवन् पर्यायो यद्रूपमप्रमेयं भवेत्, एवं वेदना संज्ञा संस्काराः। स्याद्भगवन् पर्यायो यद्विज्ञानमप्रमेयं भवेदिति। स्यात्सुभूते पर्यायो येन रूपमेवाप्रमेयं भवेत्, एवं वेदनैव संज्ञैव संस्कारा एव। स्यात्सुभूते पर्यायो येन विज्ञानमेवाप्रमेयं भवेत्। सुभूतिराह-कस्य पुनर्भगवन् एतदधिवचनमप्रमेयमिति? भगवानाह-शून्यतायाः सुभूते एतदधिवचनमप्रमेयमिति। आनिमित्तस्यैतदधिवचनम्। अप्रणिहितस्य सुभूते एतदधिवचनमप्रमेयमिति॥

सुभूतिराह-किं शून्यताया एव भगवन् केवलमेतदधिवचनमप्रमेयमिति, आनिमित्तस्यैव अप्रणिहितस्यैव भगवन् केवलमेतदधिवचनमप्रमेयमिति, नान्येषां धर्माणाम्? भगवानाह-तत्किं मन्यसे सुभूते ननु मया सर्वधर्माः शून्या इत्याख्याताः? सुभूतिराह-शून्या एव भगवन् सर्वधर्मास्तथागतेनाख्याताः। भगवानाह-ये च सुभूते शून्याः, अक्षया अपि ते। या च शून्यता, अप्रमेयतापि सा। तस्मात्तर्हि सुभूते एषां धर्माणामर्थतो विशेषो वा नानाकरणं वा नोपलभ्यते। अभिलापा एते सुभूते तथागतेनाख्याताः अभिलपिताः-अप्रमेयमिति वा, असंख्येयमिति वा, अक्षयमिति वा, शून्यमिति वा, आनिमित्तमिति वा, अप्रणिहितमिति वा, अनभिसंस्कार इति वा, अनुत्पाद इति वा, अजातिरिति वा अभाव इति वा, विराग इति वा, निरोध इति वा, निर्वाणमिति वा। देशनाभिनिर्हारनिर्देश एष सुभूते तथागतेनार्हता सम्यक्संबुद्धेनाख्यातः॥

सुभूतिराह-आश्चर्यं भगवन् यावद्यदियं तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्माणां धर्मता देशिता, सा च सर्वधर्माणां धर्मता अनभिलाप्या। यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा सर्वधर्मा अपि भगवन् अनभिलाप्याः। भगवानाह-एवमेतत्सुभूते, एवमेतत्। सर्वधर्मा अपि सुभूते अनभिलाप्याः। तत्कस्य हेतोः? या च सुभूते सर्वधर्माणां शून्यता, न सा शक्या अभिलपितुम्। सुभूतिराह-किं पुनर्भगवन् अनभिलप्यस्यार्थस्य वृद्धिर्वास्ति, परिहाणिर्वा विद्यते? भगवानाह-नो हीदं सुभूते। सुभूतिराहसचेद्भगवन् अनभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिः, दानपारमिताया अपि भगवन् न वृद्धिर्न परिहाणिर्भविष्यति। एवं शीलपारमिताया अपि, क्षान्तिपारमिताया अपि, वीर्यपारमिताया अपि, ध्यानपारमिताया अपि, प्रज्ञापारमिताया अपि भगवन् न वृद्धिर्न परिहाणिर्भविष्यति। सचेद्भगवन् आसां षण्णां पारमितानां न वृद्धिर्न परिहाणिः, कथं भगवन् विवर्धमानानां षण्णां पारमितानां बलेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? कथं च अनुत्तरायाः सम्यक्संबोधेरभ्यासन्नीभवति? न च भगवन् अप्रतिपूरयन् पारमितां बोधिसत्त्वो महासत्त्वोऽभ्यासन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः। भगवानाह-एवमेतत्सुभूते, एवमेतत्। न खलु पुनः सुभूते पारमितार्थस्य काचिद्वृद्धिर्वास्ति परिहाणिर्वा विद्यते। अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयत उपायकुशलस्य नैवं भवति-इयं दानपारमिता विवर्धते, इयं दानपारमिता परिहीयते इति। अपि तु खलु पुनरस्यैवं भवति-नामधेयमात्रमेतद्यदुत दानपारमितेति। स दानं ददत् तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति। यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति॥

पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति-इयं शीलपारमिता विवर्धते, इयं शीलपारमितापरिहीयते इति। अपि तु खलु पुनरस्यैवं भवति-नामधेयमात्रमेतद्यदुत शीलपारमितेति। स शीलं समादाय वर्तमानस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति। यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति॥

पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति-इयं क्षान्तिपारमिता विवर्धते, इयं क्षान्तिपारमिता परिहीयते इति। अपि तु खलु पुनरस्यैवं भवति-नामधेयमात्रमेतद्यदुत क्षान्तिपारमितेति। स क्षान्त्या संपादयंस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति। यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति॥

पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयत उपायकुशलस्य नैवं भवति-इयं वीर्यपारमिता विवर्धते, इयं वीर्यपारमिता परिहीयते इति। अपि तु खलु पुनरस्यैवं भवति-नामधेयमात्रमेतद्यदुत वीर्यपारमितेति। स वीर्यमारभमाणस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायै सम्यक्संबोधये परिणामयति। यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति॥

पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति-इयं ध्यानपारमिता विवर्धते, इयं ध्यानपारमिता परिहीयते इति। अपि तु खलु पुनरस्यैवं भवति-नामधेयमात्रमेतद्यदुत ध्यानपारमितेति। स ध्यानानि समापद्यमानस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति। यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति॥

पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति-इयं प्रज्ञापारमिता विवर्धते, इयं प्रज्ञापारमिता परिहीयते इति। अपि तु खलु पुनरस्यैवं भवति-नामधेयमात्रमेतद्यदुत प्रज्ञापारमितेति। स प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयंस्तान् मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति। यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति॥

अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-का पुनरेषा भगवन् अनुत्तरा सम्यक्संबोधिः? भगवानाह-तथतैषा सुभूते अनुत्तरा सम्यक्संबोधिः। न च सुभूते तथता विवर्धते, वा, परिहीयते वा। सचेद्बोधिसत्त्वो महासत्त्वस्तत्प्रतिसंयुक्तैर्मनसिकारैरभीक्ष्णं बहूलं विहरति, एवं स आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तैश्च मनसिकारैर्न परिहीयते। एवं खलु सुभूते अनभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिर्भवति। एवं पारमितानां न वृद्धिर्न परिहाणिर्भवति। एवं सर्वधर्माणामपि सुभूते न वृद्धिर्न परिहाणिर्भवति। एवं हि सुभूते बोधिसत्त्वो महासत्त्व एभिरेवंरूपैर्मनसिकारैर्विहरन् आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेरिति॥

आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शून्यतापरिवर्तो नामाष्टादशः॥