स्वस्त्ययनगाथा

स्वस्त्ययनगाथानमोऽस्तु बुद्धाय नमोऽस्तु बोधयेनमो विमुक्ताय नमो विमुक्तये। नमोऽस्तु ज्ञानस्य नमोऽस्तु ज्ञानिनोलोकाग्रश्रेष्ठाय नमो करोथ॥१॥

यानीह भूतानि समागतानिभूम्यानि वा यानिव अन्तरीक्षे। सर्वाणि वा आत्तमनानि भूत्वाशृण्वन्तु स्वस्त्ययनं जिनेन भाषितं॥२॥

इमस्मिं वा लोके परस्मिं वा पुनःस्वर्गेषु वा यं रतनं प्रणीतं। न तं समं अस्ति तथागतेनदेवातिदेवेन नरोत्तमेन। इमं पि बुद्धे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥३॥

[क्षयं विरागं अमृतं प्रणीतंयदध्यगात् शाक्यमुनिः समाहितः। न तेन धर्मेण सममस्तिकिञ्चित्। ]इदं पि धर्मे रतनं प्रणीतं। एतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥४॥

यं बुद्धेश्रेष्ठो परिवर्णये शुचिंयमाहु आनन्तरियं समाधिंसमाधिनो तस्य समो न विद्यते। इदं पि धर्मे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतोवा॥५॥

य पुद्गला अष्ट सदा प्रशस्ताचत्वारि एतानि युगनि भोन्ति। ते दक्षिणीया सुगतेन उक्ताःएतानि दिन्नानि महत्फलानि। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥६॥

सर्वैव यस्य दर्शनसंपदायोत्रयोऽस्य धर्मा जहिता भवन्ति। सत्कायदृष्टी विचिकित्सितं च शीलव्रतं चापि यदस्ति किंचित्। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥७॥

किंचापि शैक्षो प्रकरोति पापंकायेन वाचा अथ चेतसापि। अभव्यो सो तस्य निगूहनायअभव्यता दृष्टपथेषु उक्ता। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥८॥

यथेन्द्रकीलो पृथिवीसन्निश्रितो स्याचतूर्भि वातेहि असंप्रकम्पि। तथोपमं सत्पुरुषं वदेमियो आर्यसत्यानि सुदेशितानिगम्भीरार्थानि अथेत्य पश्यति। इदं पि संधे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥९॥

ये आर्यसत्यानिविभावयन्तिगम्भीरप्रज्ञेन सुदेशितानि। किंचापि ते भोन्ति भृशं प्रमत्तान ते भवां अष्ट उपादियन्ति। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥१०॥

ये युक्तयोगी मनसा सुच्छन्दसानैष्क्रम्यिणो गौतमशासनस्मिं। ते प्राप्तिप्राप्ता अमृतं बिगाह्यविमुक्तचित्ता निर्वृतिं भुंजमाना। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा॥११॥

क्षीणं पुराणं नवो नास्ति संचयोविमुक्ता आयतिके भवस्मिंते क्षीणबीजा अविरूढिधर्मानिर्वान्ति धीरायथ तैलदीपा। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यो वा अमनुष्यतो वा॥१२॥

अग्निर्यथा प्रज्वलितो निषीदेइन्धनक्षया शाम्यति वेगजातो। एवंविधं ध्यायिनो बुद्धपुत्राःप्रज्ञाय रागानुशयं ग्रहेत्वाअदर्शनं मृत्युराजस्य यान्ति। इदं पि संघे रतनं प्रणीतंमनुष्यतो वा अमनुष्यतो वा॥१३॥

ग्रीष्माणमासे प्रथमे चैत्रस्मिंवने प्रगुल्मा यथ पुष्पिताग्रावातेरिता ते सुरभिं प्रवान्ति। एवंविधं ध्यायिनो बुद्धपुत्राःशीलेनुपेता सुरभिं प्रवान्ति। इदं पि संघे रतनं प्रणीतंएतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥१४॥

यानीह भूतानि समागतानिभूम्यानि वा यानि व अन्तरीक्षे। मैत्रीकरोन्तु सद मनुष्यका प्रजादिवं च रात्रिं च हरन्ति वो बलिं। तस्माद्धि तं रक्षथ अप्रमत्तामाता व पुत्रं अनुकम्पमाना। एतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतोवा॥१५॥

विपश्यिस्मिं विश्वभुवि क्रकुच्छन्देभामकनकमुनिस्मिं काश्यतेमहावशे शाक्यमुनिस्मिं गौतमे। एतेहि बुद्धेहि महाद्धिंकेहिया देवता सन्ति अभिप्रसन्ना। वाढं पि तं रक्षयन्तु च करोन्तुस्वस्त्ययनं मानुषिकप्रजाये। तस्मा हि तं रक्षथ अप्रमत्तामाता व पुत्रं अनुकम्पमान। [एतं पि संघे रतनं प्रणीतं]एतेन सत्येन सुस्वस्ति भोतुमनुष्यतो वा अमनुष्यतो वा॥१६॥

यो धर्मचक्रं अभिभूय लोकंप्रवर्तयति सर्वभूतमुकम्पितं। एतादृशं देवमनुष्यश्रेष्ठंबुद्धं नमस्यामि सुस्वस्ति भोतु। धर्मं नमस्यामि सुस्वस्ति भोतुसंघं नमस्यामि सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो व॥१७॥

[इति स्वस्त्ययनगाथा]