21 निगमनपरिवर्तः

निगमनपरिवर्तः॥

अथ खलु बोधिसत्त्वसंमुच्चया नाम कुलदेवता हृष्टतुष्टा तस्यं वेलायामिमाभिर्गाथाभिर्भगवन्तं तुष्टाव॥

नमोऽस्तु बुद्धाय सुविशुद्धबोधये विशुद्धधर्मा प्रतिभामुबुद्धये।
सद्धर्मपुण्योपगतानुबुद्धये भवाग्रशून्याय विशुद्धबुद्धये॥

१॥

अहो अहो बुद्धमनक्षतेजसं अहो अहो सागरमेरुतुल्यम्।
अहो अहो बुद्धमनन्तगोचरं औदुम्बरं पुष्पमिवातिदुर्लभम्॥

२॥

अहो अहो कारुणिकस्तथागतः शाक्यकुलकेतुनरेन्द्रसूर्यः।
येन दृशं भाषित सूत्रमुत्तमं सर्वेषु सत्त्वामनुग्रहार्थम्॥

३॥

शान्तेश्वरः शाक्यमुनिस्तथागतः सत्त्वोत्तमः शान्तपुरे प्रविष्टः।
गम्भीरशास्ता विरजा समाधिः यदनुप्रविष्टो जिनबुद्धगोचरे॥

४॥

शून्याश्च कायास्तथ श्रावकाणां विहारशून्या द्विपदोत्तमानाम्।
ते सर्वधर्माः प्रकृत्या च शून्याः सत्त्वापि शून्यात्म न जातु विद्यते॥

५॥

नित्यं च नित्यं च जिन स्मरामि नित्यं च शोचामि जिनस्य दर्शनम्।
सततं च नित्यं प्रणिधिं करोमि संबुद्ध सूर्यस्य च दर्शनार्थम्॥

६॥

स्थाप्येह नित्यं धरणीषु जानु अतिशोकतप्तोऽस्मि जिनस्य दर्शने।
रोदिमि कारुण्यविनायकत्वं अभिसंतृष्णास्मि सुगतस्य दर्शने॥

७॥

शोकाग्निना प्रज्वलितोऽस्मि समन्त नित्यं ददाहि मे दर्शनतोय शीतलम्।
सत्त्वाः सतृष्णास्तव रूपदर्शने प्रह्लादयेन्मां करुणोदकेन॥

८॥

कारुण्यभावं कुरु मह्य नायक ददाहि मे दर्शन सौम्यरूपं।
त्वया हि त्राता जगदेव देशितः शून्याश्च कायस्तथ श्रावकाणाम्॥

९॥

आकाशतुल्या गगणस्वभावा मायामरीच्युदकचन्द्रकल्पा।
सर्वे च सत्त्वाः सुपिन स्वभावा महान्तशून्याः स्वय नायकस्य॥

१०॥

अथ भगवानासनादुत्थाय ब्रह्मस्वरेणावोचत्। साधु साधु ते कुलदेवते शास्ता ददाति साधु ते कुलदेवते पुनश्च साध्विति॥

इदमवोचद्भगवानात्तमनास्ते बोधिसत्त्वा बोधिसत्त्वसमुच्चयाकुलदेवतासरस्वतीमहादेवीप्रमुखा सा च सर्वावती पर्षत्सदेवमानुषासुरगरुडकिंनरमहोरगादिप्रमुखा भगवतो भाषितमभ्यनन्दन्निति॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे निगमनपरिवर्तो नामैकविंशतितमः॥

इत्यार्यश्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजः परिसमाप्तः॥