॥
सर्वबुद्धबोधिसत्त्वनामसंधारणिपरिवर्तः॥
ॐ नमो भगवते रत्नशिखिनः तथागतस्य। नमः सुवर्णरत्नाकरच्छत्रस्कूटस्य तथागतस्य। नमः सुवर्णपुष्पज्वलरश्मिकेतोस्तथागतस्य। नमो महाप्रदीपस्य तथागतस्य। रुचिरकेतुर्नाम बोधिसत्त्वः। सुवर्णप्रभासोत्तमो नाम बोधिसत्त्वः। सुवर्णगन्धो नाम बोधिसत्त्वः। सदाप्ररुदितो नाम बोधिसत्त्वः। धर्मोद्गतो नाम बोधिसत्त्वः। पुरस्थिमेनाक्षोभ्योनाम तथागतः। दक्षिणेन रत्नकेतुर्नाम तथागतः। पश्चिमेनामितायुर्नाम तथागतः। उत्तरे दुन्दुभिस्वरो नाम तथागतः। सुवर्णप्रभासोत्तमसूत्रेन्द्रराज इमानि बोधिसत्त्वनामानि ये धारयन्ति वाचयन्ति ते बोधिसत्त्वा नित्यं जातिस्मरा भोन्तीति॥
इति श्रीसुपर्णप्रभासोत्तमसूत्रेन्द्रराजे सर्वबुद्धबोधिसत्त्वनाम संधारणिपरिवर्तो नाम दशमः॥