06 शून्यतापरिवर्तः

शून्यतापरिवर्तः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत॥

अन्येषु सूत्रेषु अचिन्तियेषु अतिविस्तरं देशितशून्यधर्माः।
तस्मादिमे सूत्रवरोत्तमे वः संक्षेपतो देशित शून्यधर्माः॥

१॥

सत्त्वोऽल्पबुद्धिरविजानमानो न शक्य ज्ञातुं खलु सर्वधर्मा।
पश्येह सूत्रेन्द्रवरोत्तमेन संक्षेपतो देशित शून्यधर्माः॥

२॥

अन्यैरुपायैर्नयहेतुभिश्च सत्त्वान कारुण्यवशोदयार्थम्।
प्रकाशितं सूत्रवरेन्द्रमेतं यथाभिजानन्ति हि सर्वसत्त्वाः॥

३॥

अयं च कायो यथ शून्यग्रामः षड्ग्राम चोरोपम इन्द्रियाणि।
तान्येकग्रामे निवसन्ति सर्वे न ते विजानन्ति परस्परेण॥

४॥

चक्षुरिन्द्रियं रूपमेतेषु धावति श्रोत्रेन्द्रियं शब्दविचारणेन।
घ्राणेन्द्रियं गन्धविचित्रहारि जिह्वन्द्रियं नित्य रसेषु धावति॥

५॥

कायेन्द्रियं स्पर्शगतोऽभिधावति मनेन्द्रियं धर्मविचारणेन।
षडिन्द्रियाणीति परस्परेण स्वकं स्वकं विषयमभिधावति॥

६॥

चित्तं हि मायोपम चञ्चलं च षडिन्द्रियं विषयविचारणं च।
यथा नरो धावति शून्यग्रामे संग्राम चौरेभि समाश्रितश्च॥

७॥

चित्तं यथा षड्विषयाश्रितं च प्रजानते इन्द्रिय गोचरं च।
रूपं च शब्दं च तथैव गन्धं रसं च स्पर्श तथ धर्मगोचरम्॥

८॥

चित्तं च सर्वत्र षडिन्द्रियेषु शकुनिरिव चञ्चलं इन्द्रियसंप्रविष्टम्।
यत्र यत्रेन्द्रियसंश्रितं च न चेन्द्रियं कुर्वतु जानमात्मकम्॥

९॥

कायश्च निश्चेष्ट निर्व्यापारं च असारकः प्रत्ययसंभवश्च।
अभूतविकल्पसमुत्थितश्च स्थितकर्मयन्त्रं इवं शून्यग्रामः॥

१०॥

क्षित्यम्भतेजोऽनिलानि यथा चौरग्रामान्तः स्थित देशदेशे।
परस्परेणैव सदा विरुद्धा यथैव आशीविष एकवेश्मनि॥

११॥

धातूरगास्ते च चतुर्विधानि द्वे ऊर्ध्वगामी द्वय हेष्टगामी।
द्वयाद्वयं दिशि विदिशासु सर्वं नश्यन्ति ता धातुभुजङ्गमानि॥

१२॥

क्षित्युरगश्च सलिलोरगश्च इमौ च हेष्टा क्षयतां व्रजेते।
तेजोरगश्चानिलमारुतोरग इमौ हि द्वे ऊर्ध्वगतौ नभोऽन्ते॥

१३॥

चित्तं च विज्ञानमध्यस्थितं च गत्वा यथा पूर्वकृतेन कर्माणा।
देवे मनुष्यषु च त्रिष्वपाया यथाकृतं पूर्वभवे प्रवर्त्त्या॥

१४॥

श्लेष्मानिलपित्तक्षयान्तप्राप्तः कायः शकृन्मूत्रपरीषपूर्णः।
निराभिरामः कृमिक्षुद्रपूर्णः क्षिप्तः श्मशाने यथ काष्ठभूतः॥

१५॥

पश्याहि त्वं देवत एभि एवं कत्यत्र सत्त्वस्तथ पुद्गलो वा।
शून्या हि एते खलु सर्वधर्मा अविद्यतः प्रत्ययसंभवाश्च॥

१६॥

एते महाभूत अभूत सर्वाश्च यस्मान्महाभूतप्रकृत्यभावा।
तस्माच्च भूता हि असंभवाश्च अविद्यमाना न कदाचि विद्यते॥

१७॥

अविद्यतः प्रत्ययसंभवाश्च अविद्यमानैव अविद्यवाचः।
तस्मान्मया उक्त अविद्य एषा संस्कारविज्ञान सनामरूपम्॥

१८॥

षडायतनस्पर्श तथैव वेदना तृष्णा उपादान तथा भवश्च।
जातिजरामरणशोक उपद्रवाणां दुःखानि संस्कार अचिन्तियानि॥

१९॥

संसारचक्रे च यथा स्थितानि अभूत संभूत असंभवाश्च।
अयोनिशश्चित्तविचारणं तथा दृष्टीगतं छेत्स्यथ आत्मनैव॥

२०॥

ज्ञानासिना छिन्दथ क्लेशजालं स्कन्धालयं पश्यथ शून्यभूतम्।
स्पर्शेथ तं बोधिगुणं ह्युदारं विवर्त च मे अमृतपुरस्य द्वारम्॥

२१॥

संदर्शि तं अमृतपुरस्य भाजनं प्रवेक्ष्य तं अमृतपुरालयं शुभम्।
तर्पिष्य ह अमृततरसेन आत्मनां पराहता मे वरधर्मभेरीः॥

२२॥

आपूरितो मे वरधर्मशङ्खः प्रज्वालिता मे वरधर्म उल्का।
सुवर्षितं मे वरधर्मवर्षं पराजिता मे परक्लेशशत्रवः॥

२३॥

उच्छ्रेपितं मे वरधर्मध्वजं प्रतारिता मे भवसत्त्वसमुद्राः।
पिधितानि मेऽपायपथानि त्रीणि क्लेशाग्निदाहं शमयित्व प्राणिनाम्॥

२४॥

यस्माद्धि पूर्वमहमनेककल्पान्
अचिन्तिया पूजित्व नायका हि।
चरित्व बोधाय दृढव्रतेन सद्धर्मकायं परिवेषमाणः॥

२५॥

हस्तौ च पादौ च परित्यजित्वा धनं हिरण्यं मणिमुक्तभूषणम्।
नयनोत्तमाङ्गं प्रियदारपुत्रं सुवर्णवैडूर्यविचित्ररत्नानि॥

२६॥

छिन्दित्वा त्रिसाहस्रायां सर्ववृक्षवनस्पतीम्।
सर्वं च चूर्णयित्वा तत् कुर्यात् सूक्ष्मरजोपमम्॥

२७॥

चूर्णराशिं करित्वा तु यावदाकाशगोचरम्।
अशकद्भभागभिन्नाय धरणीरजःसमानि वा॥

२८॥

सर्वसत्त्वा अनेके हि ज्ञानवत तथैव च।
सर्वं गणयितुं शक्यं न तु ज्ञातं जिनस्य च॥

२९॥

एकक्षणप्रवृत्तं तु यज्ज्ञानं च महामुनेः।
अनेककल्पकोटीषु न शक्यं गणयितुं क्वचित्॥

३०॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे शून्यतापरिवर्तो नाम षष्ठः॥