27 शीलनिर्देशपरिवर्तः

शीलनिर्देशपरिवर्तः।
दशेमे कुमार अनुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत ज्ञानं च परिशोधयति परिपूरयति। बुद्धानां भगवतामनुशिक्षते। अगर्हितो भवति पण्डितानाम्। प्रतिज्ञातो न चलति। प्रतिपत्तौ तिष्ठति। संसारात् पलायते। निर्वाणमर्पयति। निष्पर्युत्थानो विहरति। समाधिं प्रतिलभते। अदरिद्रश्च भवति। इमे कुमार दशानुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते - ज्ञानं च परिपूरेति बुद्धानामनुशिक्षते।
अगर्हितः पण्डितानां भोति नित्यं विशारदः॥

१॥

प्रतिज्ञातो न चलति प्रतिपत्तौ च तिष्ठति।
अर्पेति येन निर्वाणं संसारातः पलायते॥

२॥

निष्पर्युत्थितो विहरति समाधिं लभते लघु।
अदरिद्रश्च भवति शीलस्कन्धे प्रतिष्ठितः॥

३॥

ज्ञानं च तस्यो परिपूर्णु भोति अनुशिक्षते चाति तथागतानाम्।
न चास्य निन्दां प्रकरोन्ति पण्डिताः तथा हि तस्यो परिशुद्ध शीलम्॥

४॥

प्रतिज्ञातोऽसौ न चलाति पण्डितः तथा हि शूरः प्रतिपत्तिये स्थितः।
दृष्ट्वा च संसारमनेकदोषं पलायते निर्वृति येन याति॥

५॥

पर्युत्थितं चित्तु न भोति तस्य तथा ह्यसौ शीलबले प्रतिष्ठितः।
क्षिप्रं समाधिं लभते निरङ्गणं परिशुद्धशीलस्यिमि आनुशंसाः॥

६॥

इति श्रीसमाधिराजे शीलनिर्देशपरिवर्तो नाम सप्तविंशतिमः॥