26 दानानुशंसापरिवर्तः

दानानुशंसापरिवर्तः॥

तस्मात्तर्हि कुमार अप्रमत्तो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्, अप्रमत्तस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किमङ्ग पुनरयं समाधिः। कथं च कुमार बोधिसत्त्वो महासत्त्वः अप्रमत्तो भवति ? इह कुमार बोधिसत्त्वो महासत्त्वः परिशुद्धशीलो भवति। इह कुमार परिशुद्धशीलो बोधिसत्त्वः अप्रमत्तो भवति। इह कुमार बोधिसत्त्वो महासत्त्वः परिशुद्धशीलो भवति। इह कुमार परिशुद्धशीलो बोधिसत्त्वो महासत्त्वः अविरहितो भवति सर्वज्ञताचित्तेन षट्सु पारमितासु। तस्येमे आनुशंसा भवन्ति। तान् शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। देशेमे कुमार अनुशंसा दानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत मात्सर्यक्लेशोऽस्य निगृहीतो भवति। त्यागानुबृंहितं चास्य चित्तं सदा भवति। बहुजनसाधारणेभ्यश्च भोगेभ्यः सारमाददाति। महाभोगेषु च कुलेषूपपद्यते। जातमात्रस्य चास्य त्यागचित्तमामुखीभवति। प्रियश्च भवति चतसृणां पर्षदामू। विशारदश्चासंकुचितः पर्षदमवगाहते। दिग्विदिक्षु चास्योदारो वर्णकीर्तिशब्दश्लोको लोकेऽभ्युद्गच्छति। मृदुतरुणहस्तपादश्च भवति समचरणतलप्रतिष्ठितः। अविरहितश्च भवति कल्याणमित्रैर्यावद्बोधिमण्डनिषदनात्। इमे कुमार दशानुशंसा दानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते - निगृहीतं सि मात्सर्यं त्यागचित्तं च बृंहितम्।
आदत्तसारो भवति समृद्धे जायते कुले॥

१॥

जातमात्रस्य चित्तं सि त्याग एव प्रवर्तते।
प्रियो भवति सत्त्वानां गृहप्रव्रजितान च॥

२॥

विशारदश्च पर्षत्सु अम रूप संक्रमेत्।
भवत्युदारशब्दोऽस्य ग्रामेषु नगरेषु च॥

३॥

मृदू हस्तौ च पादौ च भविष्यन्ति न दुर्लभाः।
कल्याणमित्राँल्लभते बुद्धांश्च श्रावकानपि॥

४॥

मात्सर्यचित्तं सि न जातु भोति त्यागेषु चित्त रमतेऽस्य नित्यम्।
प्रियश्च भोति बहुसत्त्वकोटिनां अमत्सरिस्या इमि आनुशंसाः॥

५॥

महाधने चापि कुले स जायते जातस्य त्यागे रमते मनोऽस्य।
आदत्तसारश्च करोति काल- ममत्सरिस्या इमि आनुशंसाः॥

६॥

विशारदश्चो परिषां विगाहते उदारशब्दोऽस्य दिशासु याति।
मृदु हस्तपादोऽस्य सदैव जायते अमत्सरिस्या इमि आनुशंसाः॥

७॥

कल्याणमित्रास्य न भोन्ति दुर्लभा बुद्धांश्च यो पश्यति श्रावकांश्च।
दृष्ट्वा च तान् पूजयते प्रसन्नो अमत्सरिस्या इमि आनुशंसाः॥

८॥

इति श्रीसमाधिराजे दानानुशंसापरिवर्तो नाम षडविंशतितमः॥