25 अनुमोदनापरिवर्तः

अनुमोदनापरिवर्तः॥

तत्र भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हिं कुमार बोधिसत्त्वेन महासत्त्वेनोपायकुशलेन भवितव्यम्। कथं च कुमार बोधिसत्त्वो महासत्त्व उपायकुशलो भवति ? इह कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामन्तिके ज्ञातिसंज्ञा उत्पादयितव्या। सर्वसत्त्वानामन्तिके ज्ञातिचित्तमुपस्थाप्य यः सर्वसत्त्वानां कुशलमूलपुण्यस्कन्धस्तत् सर्वमनुमोदयितव्यम्। त्रिरात्र्यास्त्रिदिवसस्य सर्वसत्त्वानां कुशलमूलपुण्यस्कन्धमनुमोद्य सर्वज्ञतारम्बणेन चित्तोत्पादेन तेषामेव सर्वसत्त्वानां निर्यातयितव्यम्। अनेन कुशलमूलेन बोधिसत्त्वो महासत्त्वः क्षिप्रमिमं समाधिं प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - सर्वे मम ज्ञातय एति सत्त्वाः यस्तेषमस्ती पृथु पुण्यस्कन्धः।
रात्रेस्त्रिरेवं दिवसस्य च त्री- रनुमोदमी एमु जनित्व चित्तम्॥

१॥

अनुमोदमी ये सुविशुद्धशीला ये जीवितार्थे न करोन्ति पापम्।
अधिमुक्तिसंपन्न य बोधिसत्त्वा अनुमोदमी तेष य किंचि पुण्यम्॥

२॥

अनुमोदमी येष प्रसादु बुद्धे धर्मे प्रसादोऽस्ति तथैव संघे।
अनुमोदमी ये सुगतस्य पूजां कुर्वन्ति बोधिं प्रतिकाङ्क्षमाणाः॥

३॥

अनुमोदमी येष न आत्मदृष्टि- र्न भावदृष्टिर्न च जीवदृष्टिः।
अनुमोदमी येष न पापदृष्टि- र्ये शून्यतां दृष्ट्व जनेन्ति तुष्टिम्॥

४॥

अनुमोदमी ये सुगतस्य शासने लभन्ति प्रव्रज्योपसंपदं च।
अल्पेच्छ संतुष्ट वने वसन्ति प्रशान्तचारित्र ये ध्यानगोचराः॥

५॥

अनुमोदमी एकक येऽद्वितीया वने वसन्ती सद खड्गभूताः।
आजीवशुद्धाः सद अल्पकृत्या ये ज्ञात्रहेतोर्न न करेन्ति कूहनाम्॥

६॥

अनुमोदमी येष न संस्तवोऽस्ति न चापि ईर्ष्या न कुलेषु तृष्णा।
उत्त्रस्ति त्रैधातुकि नित्यकालम् अनोपलिप्ता विचरन्ति लोके॥

७॥

अनुमोदमी येष प्रपञ्चु नास्ति निर्विण्ण सर्वासु भवोपपत्तिषु।
अविगृहीता उपशान्तचित्ता न दुर्लभस्तेष समाधिरेषः॥

८॥

अनुमोदमी ये गणदोष दृष्ट्वा सर्वान् विवादान् परिवर्जयित्वा।
सेवन्त्यरण्यं वनमूलमाश्रिता विमुक्तिसाराः सुगतस्य पुत्राः॥

९॥

अनुमोदमी ये विहरन्त्यरण्ये नात्मानमुत्कर्षि परान्न पंसये।
अनुमोदमी येष प्रमादु नास्ति ये अप्रमत्ता इम बुद्धशासने॥

१०॥

यावन्त धर्माः पृथु बोधिपाक्षिकाः सर्वेष मूलं ह्ययमप्रमादः।
ये बुद्धपुत्राः सद अप्रमत्ता न दुर्लभस्तेष अयं समाधिः॥

११॥

निधानलाभः सुगतान शासनं प्रव्रज्यलाभो द्वितीयं निधानम्।
श्रद्धाय लाभस्तृतीयं निधान- मयं समाधिश्चतुर्थं निधानम्॥

१२॥

श्रत्वा इमं शून्यत बुद्धगोचरं तस्याप्रतिक्षेपु निधानलम्भः।
अनन्तु प्रतिभानु निधानलम्भो या धारणी तत् परमं निधानम्॥

१३॥

यावन्ति धर्माः कुशलाः प्रकीर्तिताः शीलं श्रुतं त्यागु तथैव क्षान्तिः।
सर्वेष मूलं ह्ययमप्रमादो निधानलम्भः सुगतेन देशितः॥

१४॥

ये अप्रमत्ता इह बुद्धशासने सम्यक् च येषां प्रणिधानमस्ति।
न दुर्लभस्तेष अयं समाधि- रासन्नभूता इह बुद्धशासने॥

१५॥

इति श्रीसमाधिराजे अनुमोदनापरिवर्तो नाम पञ्चविंशतितमः॥