इन्द्रकेतुध्वजराजपरिवर्तः॥
तत्र खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलशिक्षागुणधर्मनिश्रितेन भवितव्यम्। असंसर्गबहुलेन च भवितव्यम्, पापमित्रपरिवर्जकेन कल्याणमित्रसंनिश्रितेन परिपृच्छकजातीयेन धर्मपर्येष्ट्यामतृप्तेन प्रामोद्यबहुलेन धर्मार्थिकेन धर्मकामेन धर्मरतेन धर्मपरिग्राहकेण धर्मानुधर्मप्रतिपन्नेन। शास्तृसंज्ञा अनेन सर्वबोधिसत्त्वेषूत्पादयितव्या। यस्य चान्तिकादिमं धर्मपर्यायं शृणोति, तेन तस्यान्तिके प्रीतिगौरवं शास्तृसंज्ञा चोत्पादितव्या। यः कुमार बोधिसत्त्वो महासत्त्व इमान् धर्मान् समादाय वर्तते, स क्षिप्रमनाच्छेद्यप्रतिभावनिर्यातो भवति। अचिन्त्यबुद्धधर्माधिमुक्तश्च भवति। गम्भीरेषु च धर्मेषु निध्यप्तिं गच्छति। आलोकभूतश्च भवति सदेवकस्य लोकस्य काङ्क्षाविमतिविचिकित्सान्धकारविधमनतया॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-
अभ्यतीत बहुकल्पकोटियो
अप्रमेय अतुला अचिन्तियाः।
यद् अभूषि द्विपदानमुत्तमो
इन्द्रकेतुध्वजराज नायकः॥
१॥
सो समाधिमिमु शान्तु देशयि
यत्र नास्ति नरु जीव पुद्गलः।
माय बुद्बुद मरीचि विद्युता
सर्व धर्म दकचन्द्रसंनिभाः॥
२॥
नास्ति सत्त्व मनुजो च लभ्यते
कालु कृत्व परलोकि गच्छि यो।
नो च कर्म कृतु विप्रणश्यते
कृष्ण शुक्ल फल देति तादृशम्॥
३॥
एष युक्ति नयद्वार भद्रकं
सूक्ष्म दुर्दृशु जिनान गोचरा।
यत्र अक्षरपदं न लभ्यते
बुद्धबोधि भगवान् प्रजानति॥
४॥
धारणी विपुलज्ञानसंचया
सूत्रकोटिनियुतान आगता।
बुद्धकोटिनियुतान गोचर-
स्तं समाधि भगवान् प्रभाषते॥
५॥
आतुराणमय व्याधिमोचको
बोधिसत्त्वसमुदानितं धनम्।
सर्वबुद्धस्तुत संप्रकाशितो
देवकोटिनियुतेहि पूजितः॥
६॥
सर्व बालजन भूतचोदना
तीर्थिकेहि परिवर्जितः सदा।
श्रेष्ठ शीलधनु बुद्धवर्णितं
विद्युतेव गगने न लिप्यते॥
७॥
येहि पूजित जिनान कोटियो
दानशीलचरिता विचक्षणाः।
पापमित्र पुरि येहि वर्जिता
तेष पैतृकधनं निरुत्तरम्॥
८॥
तत्र भिक्षु स्थितु धर्मभाणको
ब्रह्मचारि सुगतस्य औरसः।
श्रुत्व धर्ममिममानुलोमिकं
चित्त पादेसि य लोकनायकः॥
९॥
इन्द्रकेतुध्वजराजु नायको
अध्यभाषि अभु धर्मभाणकम्।
भिक्षुभाव परमं ति दुष्करं
चित्तुपाद वर अग्रबोधये॥
१०॥
शीलु रक्ष मणिरत्नसंनिभं
मित्र सेव सद आनुलोमिकम्।
पापमित्र न कदाचि सेवतो
बुद्धज्ञानमचिरेण लप्स्यसे॥
११॥
इति श्रीसमाधिराजे इन्द्रकेतुध्वजराजपरिवर्तो नाम विंशतितमः॥