अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तः।
तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता अचिन्त्यबुद्धधर्मनिर्देशकुशलेन भवितव्यम्। अचिन्त्यबुद्धधर्मपरिपृच्छकजातिकेन भवितव्यम्। अचिन्त्यबुद्धधर्माधिमुक्तिकेन भवितव्यम्। अचिन्त्यबुद्धधर्मपर्येषणाकुशलेन भवितव्यम्। अचिन्त्यांश्च बुद्धधर्मान् श्रुत्वा नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत्- यथा कथं भगवन् बोधिसत्त्वो महासत्त्वः अचिन्त्यबुद्धधर्मनिर्देशकुशलो भवति, अचिन्त्यबुद्धधर्मपरिपृच्छाकुशलश्च, अचिन्त्यबुद्धधर्माधिमुक्तश्च ? अचिन्त्यबुद्धधर्मपर्येषणाकुशलश्च भवति, अचिन्त्यांश्च बुद्धधर्मान् श्रत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते ?
तेन खलु पुनः समयेन पञ्चशिखो नाम गन्धर्वपुत्रः पञ्चभिस्तूर्यशतैः सार्धं गगनतलादवतीर्य भगवतः पुरतः स्थितोऽभूदुपस्थानपरिचर्यायै। अथ खलु पञ्चशिखस्य गन्धर्वपुत्रस्यैतदभवत्-यन्न्वहं यथैवः देवानां त्रायस्त्रिंशानां शक्रस्य च देवानामिन्द्रस्य सुधर्मायां देवसभायामुपस्थानपरिचर्यां करोमि, संगीतिं संप्रयोजयामि, तथैवाद्य देवातिदेवस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजायै संगीतिं संप्रयोजयेयम्॥
अथ खलु पञ्चशिखो गन्धर्वपुत्रस्तैः पञ्चभिस्तूर्यशतैस्तैश्च पञ्चमात्रैर्गन्धर्वपुत्रशतैः सार्धमेकस्वरसंगीतिसंप्रयुक्ताभिस्तूर्यसंगीतिभिर्वैदूर्यदण्डां वीणामादाय भगवतः पुरतो वादयामास। अथ खलु भगवत एतदभूद-यन्न्वहं तथारूपमृद्ध्यभिसंस्कारमभिसंस्कुर्यां यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन चन्द्रप्रभः कुमारभूतोऽचिन्त्यबुद्धधर्मनिध्यप्तिकौशल्यमधिगच्छेत्, सर्वधर्मस्वभावसमताविपञ्चिताच्च समाधेर्न चलेत्। पञ्चशिखस्य च गन्धर्वपुत्रस्य तन्त्रीस्वरगीतिस्वरकौशल्यमुपदिशेयम्॥
अथ खलु भगवांस्तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म, यत्तेभ्यः पञ्चभ्यस्तूर्यशतेभ्यः संप्रयुक्तेभ्यः प्रवादितेभ्यो यथानकुम्पोपसंहृतः शब्दो निश्चरति धर्मप्रतिसंयुक्तः। इमाश्च बुद्धधर्मनिध्यप्तिगाथा निश्चरन्ति बुद्धानुभावेन-
एकहि वालपथे बहुबुद्धा
यात्तिक वालिक गङ्गनदीये।
क्षेत्रं तात्तिक तेष जिनानां
ते च विलक्षण ते विसभागाः॥
१॥
पञ्चगतीगत बालपथस्मिन्
नैरयिका पि च तिर्यगताश्च।
ते यमलौकिक देवमनुष्या
नापि च संकरु नो च उपीडो॥
२॥
तत्र पदे ससराः ससमुद्राः
सर्व नदी तथ उत्स तडागाः।
नो पि च संकरु नो च उपीडो
एवमचिन्तियु धर्म जिनानाम्॥
३॥
तत्र पदेऽपि च पर्वत नेके
चक्रवाल अपि मेरु सुमेरु।
ये मुचिलिन्द महामुचिलिन्द
विन्ध्यथ गृध्रकूटो हिमवांश्च॥
४॥
तत्र पदे निरयाश्च सुघोरा-
स्तपन प्रतापन आनभिरम्याः।
तत्र च ये निरये उपपन्ना
वेदन ते पि दुखां अनुभोन्ति॥
५॥
तत्र पदेऽपि च देवविमाना
द्वादशयोजन ते रमणीयाः।
तेषु बहू मरुतान् सहस्रा
दिव्यरतीषु सुखान्यनुभोन्ति॥
६॥
तत्र पदे च बुद्धान उत्पादो
शासनु लोकविदून ज्वलेति।
तं च न पश्यति ज्ञानविहीनो
येन न शोधित चर्य विशुद्धा॥
७॥
तत्र पदेऽपि च धर्म निरुद्धो
निर्वृतु नायकु श्रूयति शब्दः।
तत्र पदेऽपि च केचि शृणोन्ति
तिष्ठति नायकु भाषति धर्मम्॥
८॥
तत्र पदेऽपि च केषचिदायु-
र्वर्ष अचिन्तिय वर्तति संज्ञा।
तत्र पदेऽपि वा कालु करोन्ति
नो चिरु जीवति श्रूयति शब्दः॥
९॥
तत्र पदेऽपि च केषचि संज्ञा
दृष्टु तथागतु पूजितु बुद्धो।
तोषितु मानसु संज्ञग्रहेण
नो पि च पूजितु नो च उपन्नो॥
१०॥
स्वस्मि गृहे सुपिनेव मनुष्यो
कामगुणेषु रतीरनुभूय।
स प्रतिबुद्धु न पश्यति कामां -
स्तच्च प्रजानति सो सुपिनो ति॥
११॥
यत् तथ दृष्टु श्रुत मत ज्ञातं
सर्वमिदं वितथं सुपिनो वा।
यस्तु भवेत समाधिय लाभी
सो इमु जानति धर्मस्वभावान्॥
१२॥
सूसुखिताः सद ते नर लोके
येष प्रियाप्रियु नास्ति कहिंचित्।
ये वनकन्दरकेऽभिरमन्ति
श्रामणकं सुसुखं अनुभोन्ति॥
१३॥
येष ममापि तु नास्ति कहिंचिद्
येष परिग्रहु सर्वशु नास्ति।
खङ्गसमा विचरन्तिमु लोके
ते गगने पवनेव व्रजन्ति॥
१४॥
भावितु मार्ग प्रवर्तितु ज्ञानं
शून्यक धर्म निरात्मनु सर्वे।
येन विभावित भोन्तिमि धर्मा-
स्तस्य भवेत् प्रतिभानमनन्तम्॥
१५॥
सूसुखिता बत ते नर कोले
येष न सज्जति मानसु लोके।
वायुसमं सद तेष्विह चित्तं
नो च प्रियाप्रियु विद्यति सङ्गो॥
१६॥
अप्रियु ये दुखितेहि निवासो
ये हि प्रिया दुखि तेहि वियोगो।
अन्त उभे अपि एति जहित्वा
ते सुखिता नर ये रत धर्मे॥
१७॥
ये अनुनीयति श्रुत्विमि धर्मान्
स प्रतिहन्यति श्रुत्व अधर्मम्।
सो मदमानहतो विपरीतो
मानवशेन दुखि अनुभोति॥
१८॥
ये समताय प्रतिष्ठित भोन्ति
नित्यमनुन्नत नावनताश्च।
ये प्रियतोऽप्रियतश्च सुमुक्ता-
स्ते सद मुक्तमना विहरन्ति॥
१९॥
शीले प्रतिष्ठितु सूपरिशुद्धे
ध्याने प्रतिष्ठितु नित्यमचिन्त्ये।
ये वनकन्दरि शान्ति रमन्ते
तेष न विद्यति वीमति जातु॥
२०॥
ये च पुनर्वितथे प्रतिपन्नाः
कामगुणेषु रताः सद बालाः।
गृध्रु यथा कुणपेष्वधिमुक्ता
नित्यवशानुगता नमुचिस्य॥
२१॥
अस्मिन् खलु पुनर्गाथाभिनिर्हारे भाष्यमाणे चन्द्रप्रभः कुमारभूतः अचिन्त्येषु बुद्धधर्मेषु गम्भीरनिध्यप्तिनिर्देशकौशल्यमनुप्राप्तः, सूत्रान्तनिर्हारावभासं च प्रतिलब्धवान्। पञ्चशिखस्य च गन्धर्वपुत्रस्य घोषानुगायाः क्षान्तेः प्रतिलम्भोऽभूत्। अप्रमेयाणां च सत्त्वानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि। अप्रमेयाणां च सत्त्वानामर्थः कृतोऽभूत॥
इति श्रीसमाधिराजे अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तो नामोनविंशतितमः॥