18 समाध्यनुपरिन्दनपरिवर्तः

समाध्यनुपरिन्दनपरिवर्तः।
तत्र भगवांश्चन्द्रप्रभकुमारमामन्त्रयते स्म-तस्मात् तर्हि कुमार यो बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तेन भावनायोगमनुयुक्तेन च भवितव्यम्। तस्यैतं प्रतिपद्यमानस्य चत्वारो गुणानुशांसाः प्रतिकाङ्क्षितव्याः। कतमे चत्वारः ? यदुत अनभिभूतो भविष्यति पुण्यैः॥

अनवमर्दनीयो भविष्यति प्रत्यर्थिकैः। अप्रमेयो भविष्यति ज्ञानेन। अनन्तश्च भविष्यति प्रतिभानेन। यो हि कश्चित् कुमार बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तस्येमे चत्वारो गुणानुशंसाः प्रतिकाङ्क्षितव्याः॥

अथ खलु भगवांस्तस्यां वेलायामि गाथा अभाषत- अनाभिभूतः पुण्येहि नित्यकालं भविष्यति।
समाधिं शान्तुभावेन सर्वबुद्धान गोचरम्॥

१॥

पुण्येहि रक्षितः शूरो नित्यकालं भविष्यति।
चरन् स परमां शुद्धां विशिष्टां बोधिचारिकाम्॥

२॥

नास्य प्रत्यर्थिको जातु विहेठां कश्चित् करिष्यति।
परिगृहीतो बुद्धेहि नित्यकालं भविष्यति॥

३॥

अप्रमेयश्च ज्ञानेन नित्यकालं भविष्यति।
अनन्तः प्रतिभानेन धारेन्तः शान्तिमां गतिम्॥

४॥

सततमनभिभूतपुण्यस्कन्धो भविष्यति श्रेष्ठतरं तु बोधिचर्याम्।
न भविष्यति प्रत्यर्थिंकान धृष्यो इमु वरु शान्त समाधि धारयित्वा॥

५॥

ज्ञानु विपुलु तस्य भोति तीक्ष्णं तथ प्रतिभानमनन्त चक्षु शुद्धम्।
भविष्यति सद तस्य पण्डितस्य स्मृतिबलमेव च धारणीबलं च॥

६॥

परम प्रियु मनापु पण्डितानां भविष्यति चार्थपदं प्रभाषमाणः।
ज्ञानु बहुजनस्य प्रज्ञवन्तो इमु वरु शान्त समाधि भाषमाणः॥

७॥

लाभि परम श्रेष्ठ चीवराणां शय्य निमन्त्रणमा(खा ?) द्यभोजनानाम्।
भविष्यति सुकुमार दर्शनीयो इमु वरु शान्त समाधि धारयन्तो॥

८॥

द्रक्ष्यति बहु बुद्ध लोकनाथान् अतुलिय काहिति पूज नायकानाम्।
न च भविष्यति तस्य अन्तरायो इमु वरु शान्त समाधिमेषतो हि॥

९॥

भाषिष्यति पुरतः स्थित्व लोकनाथान् सुरुचिर गाथशतेहि तुष्टचित्तः।
न च भविष्यति तस्य जातु हानी इमु वरु शान्त समाधि धारयित्वा॥

१०॥

स्थास्यति पुरतोऽस्य लोकनाथः सुरुचिर-लक्षण-कायु व्यञ्जनेभिः।
न च भविष्यति तस्य ज्ञानहानी इमु वरु शान्त समाधि धारयित्वा॥

११॥

न कदाचि भविष्यति दीनचित्तः सतत भविष्यति आढ्यु नो दरिद्रः।
न च भविष्यति उद्गृहीतचित्तो इमु वरु शान्त समाधि धारयित्वा॥

१२॥

न च भविष्यति वा अक्षणेषु महीपति भेष्यति राजचक्रवर्ती।
सद भविष्यति राज्य तस्य क्षेमं इमु वरु शान्त समाधि धारयित्वा॥

१३॥

ज्ञानु विपुलु नात्र संशयोऽस्ति क्षपयितु कल्पशतेहि भाषमाणैः।
श्रुत इमु समाधि शान्तभूमी यथ उपदिष्ट तथा स्थिहेत धीरो॥

१४॥

अपरिमित अनन्त कल्पकोट्यो दशबल तस्य भणेयुरथानुशंसाम्।
न च परिकीर्तिता कला भवेय्या यथ जलबिन्दु ग्रहीतु सागरातो॥

१५॥

हर्षितु स कुमारु तस्मि काले उत्थितु प्राञ्जलिको नमस्यमानः।
दशबलभिमुखो स्थितो उदग्रो गिरवराय उदानुदानयति॥

१६॥

अचिन्तियो महावीरो लोकनाथ प्रभाकरः।
यावच्चेमे नरेन्द्रेण अनुशंसाः प्रकाशिताः॥

१७॥

आख्याहि मे महावीर हितैषी अनुकम्पकः।
को नाम पश्चिमे काले इदं सूत्रं श्रुणिष्यति॥

१८॥

तमेनमवदच्छास्ता कलविङ्करुतस्वरः।
असङ्गज्ञानी भगवानिमां वाचं प्रभाषते॥

१९॥

कुमार शृणु भाषिष्ये प्रतिपत्तिमनुत्तराम्।
यो धर्माननुशिक्षन्तो इदं सूत्रं श्रुणिष्यति॥

२०॥

पूजां कुर्वन् जिनेन्द्राणां बुद्धज्ञानगवेषकः।
मैत्रचित्तं निषेवन्तो इदं सूत्रं श्रुणिष्यति॥

२१॥

धूतान् गुणांश्च संलेखान् गुणान् श्रेष्ठान् निषेवतः।
प्रतिपत्तौ स्थिहित्वा च इदं सूत्रं श्रुणिष्यति॥

२२॥

न पापकारिणां हस्तादिदं सूत्रं श्रुणिष्यति।
न यैर्विरागितं शीलं लोकनाथानमन्तिके॥

२३॥

ब्रह्मचारीण शूराणां येषां चित्तमलोलुपम्।
अधिष्ठितानां बुद्धेहि तेषां हस्ताच्छ्रुणिष्यति॥

२४॥

ये हि पुरिमका बुद्धा लोकनाथा उपस्थिताः।
तेषां हस्तादिदं सूत्रं पश्चात्काले श्रुणिष्यति॥

२५॥

ये तु पूर्वासु जातीसु अभूवन्नन्यतीर्थिकाः।
तेष्विमं श्रुत्व सूत्रान्तं सौमनस्यं न भेष्यति॥

२६॥

मम च प्रव्रजित्वेह शासने जीविकार्थिकाः।
लाभसत्काराभिभूता अन्यमन्यं प्रतिक्षिपि॥

२७॥

अध्योषिता परस्त्रीषु बहु भिक्षु असंयता।
लाभकामाश्च दुःशीला इदं सूत्रं न श्रद्दधी॥

२८॥

पुण्यानुप्राप्ता बुद्धेषु ध्यानप्राप्त्याप्यनर्थिकाः।
निश्रिताश्चात्मसंज्ञायामिदं सूत्रं न श्रद्दधे॥

२९॥

लौकिक ध्यानफलसंज्ञी भेष्यते कालि पश्चिमे।
अर्हत्पिण्डं च ते भुक्त्वा बुद्धबोधिं प्रतिक्षिपि॥

३०॥

यश्चैव जम्बुद्वीपस्मि भिन्देयात् सर्व चेतिया।
यश्च प्रतिक्षिपेत् सूत्रमिदं पापं विशिष्यते॥

३१॥

यश्चार्हतो निहनेय्या यथा गङ्गाय वालुकाः।
यश्च प्रतिक्षिपेत् सूत्रमिदं पापं विशिष्यते॥

३२॥

क उत्सहन्ति युष्माकं पश्चिमे कालि दारुणे।
सद्धर्म लोके वर्तन्ते इदं सूत्रं प्रकाशितुम्॥

३३॥

रोदन्तो उत्थितस्तत्र कुमारो जिनमब्रवीत्।
सिंहनादं नदत्येवं पुत्रो बुद्धस्य औरसः॥

३४॥

अहं निर्वृते संबुद्धे पश्चिमे कालि दारुणे।
सूत्रं वैस्तारिकं कुर्यां त्यजित्वा कायु जीवितम्॥

३५॥

सहिष्याम्यत्र बालनामभूतां परिभाषणाम्।
आक्रोशांस्तर्जनां चैव अधिवासिस्ये नायक॥

३६॥

क्षपेयं पापकं कर्म यन्मया पुरिमे कृतम्।
अन्येषु बोधिसत्त्वेषु व्यापादो जनितो मया॥

३७॥

स्थपेत्व पाणिं मूर्धस्मि बुद्धः काञ्चनसंनिभम्।
शास्ता चन्द्रप्रभं प्राह मञ्जुघोषस्तथागतः॥

३८॥

करोमि ते अधिष्ठानं कुमार कालि पश्चिमे।
न ब्रह्मचर्यान्तरायो जीवितस्य च भेष्यति॥

३९॥

अन्ये चाष्टौ शतान्यत्र उत्थिता धर्मधारकाः।
वयं हि पश्चिमे काले अस्य सूत्रस्य धारकाः॥

४०॥

देवनागान यक्षाण अशीतिकोट्युपस्थिता।
अन्ये च नयुताः षष्टि वन्दन्ते लोकनायकम्॥

४१॥

वयमिमेषां भिक्षूणां य इमे अद्य उत्थिताः।
तस्मिंश्च पश्चिमे काले रक्षां काहाम नायक॥

४२॥

अस्मिन् सूत्रे प्रभाष्यन्ते बुद्धक्षेत्राः प्रकम्पिताः।
यथा वालुक गङ्गाया अधिष्ठानेन शास्तुनः॥

४३॥

ये च प्रकम्पिताः क्षेत्राः सर्वेषु बुद्धनिर्मिताः।
प्रेषिता लोकनाथेन ये हि धर्माः प्रकाशिताः॥

४४॥

एकैकशश्च क्षेत्रातः सत्त्वकोट्यो अचिन्तियाः।
एवं धर्मं तदा श्रुत्वा बुद्धज्ञाने प्रतिष्ठिताः॥

४५॥

इतश्च बुद्धक्षेत्रातो नवतिर्देवकोटियः।
बोधिचित्तं समुत्पाद्य बुद्धं पुष्पैरवाकिरन्॥

४६॥

ते व्याकृता नरेन्द्रेण कल्पकोटेरशीतिभिः।
सर्वेऽप्येकत्र कल्पेऽस्मिन् भविष्यन्ति विनायकाः॥

४७॥

भिक्षुभिक्षुणिकाश्चैव उपासक उपासिकाः।
षट्सप्तति प्राणकोट्यो येहि सूत्रमिदं श्रुतम्॥

४८॥

तेऽपि व्याकृत बुद्धेन द्रक्ष्यन्ते लोकनायकान्।
यथा वालुक गङ्गायाश्चरन्तो बोधिचारिकाम्॥

४९॥

सर्वेषां पूज काहिन्ति बुद्धज्ञानगवेषकाः।
तत्र तत्र श्रुणिष्यन्ति इदं सूत्रं निरुत्तरम्॥

५०॥

अशीत्या कल्यकोटीभि भेष्यन्ते लोकनायकाः।
सर्वे एकत्र कल्पेऽस्मिं हितैषी अनुकम्पकाः॥

५१॥

मैत्रेयस्य च बुद्धस्य पूजां कृत्वा निरुत्तराम्।
सद्धर्म श्रेष्ठं धारित्वा गमिष्यन्ति सुखावतीम्॥

५२॥

यत्रासौ विरजो बुद्धो अमितायुस्तथागतः।
तस्य पूजां करिष्यन्ति अग्रबोधीय कारणात्॥

५३॥

त्रिसप्ततिरसंख्येया कल्पा ये च अनागताः।
न दुर्गतिं गमिष्यन्ति श्रुत्वेदं सूत्रमुत्तमम्॥

५४॥

ये केचित् पश्चिमे काले श्रोष्यन्ते सूत्रमुत्तमम्।
अश्रुपातं च काहिन्ति सर्वैस्तैः सत्कृतो ह्यहम्॥

५५॥

आरोचयामि सर्वेषां यावन्तः पुरतः स्थिताः।
परिन्दामि इमां बोधिं या मे कृछ्रेण स्पर्शिता॥

५६॥

इति श्रीसमाधिराजे समाध्यनुपरिन्दना नाम परिवर्तोऽष्टादशः।