17 बहुबुद्धनिर्हारसमाधिमुखपरिवर्तः

बहुबुद्धनिर्हारसमाधिमुखपरिवर्तः॥

अथ खलु भगवांस्तां महतीं सागरोपमां पर्षदं धर्मकथया संदर्श्य समुत्तेज्य संप्रहर्ष्य समादाप्य उत्थायासनात् प्राक्रामत्। येन च गृध्रकूटपर्वतराजस्तेनैव उपसमक्रामत्। उपसंक्रम्य च प्रज्ञप्त एवासने न्यषीदत्। भिक्षुसंघपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यनमस्कृतः सागरोपमायां पर्षदि धम संदेशयति स्म। अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं निर्गतं विदित्वा अशीत्या प्राणिकोटीशतैः सार्धं सर्वैर्देवभूतैरन्यलोकधात्वागतैश्च संबहुलैर्बोधिसत्त्वमहासत्त्वनियुतैः सार्धं पुष्पधूपगन्धमाल्यविलेपनं गृहीत्वा तूर्यशतैर्वाद्यमानैश्छत्रध्वजघण्टापताकाभिरत्युच्छ्रिताभिः महामाल्याभिनिर्हारमादाय भगवतः पूजाकर्मणे येन गृध्रकूटपर्वतो येन च भगवांस्तेनोपजगाम। उपेत्य च भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य तैः पुष्पधूपगन्धमाल्यविलेपनैस्तूर्यतालावचरैः प्रवाद्यमानैर्महतीं पूजां कृत्वा एकान्ते न्यषीदत् सगौरवः सप्रतीशो धर्मपरिपृच्छायै॥

अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत्-पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय। एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत्-पृच्छ त्वं कुमार तथागतमर्हतं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि। नित्यकृतस्ते कुमार तथागतेनावकाशः। एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत्-कतिभिर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते ? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत्-चतुर्भिः कुमार धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते। कतमैश्चतुर्भिः ? इह कुमार बोधिसत्त्वो महासत्त्वः सूरतो भवति सुविसंवासो दान्तो दान्तभूमिमनुप्राप्तः। स परैराक्रुष्टो वा परिभाषितो वा दुरुक्तानां दुर्भाषितानां वचनपथानां क्षमो भवत्यधिवासनजातीयः कर्मदर्शी निहतमानो धर्मकामः। अनेन कुमार प्रथमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमः समाधिं प्रतिलभते। पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः शीलवान् भवति। परिशुद्धशीलः अखण्डशीलः अच्छिद्रशीलः अशबलशीलः अकल्मषशीलः अच्युतशीलः अनाविलशीलः अगर्हितशीलः अभ्युद्गतशीलः अनिश्रितशीलः अपरामृष्टशीलः अनुपलम्भशीलः आर्यप्रशस्तशीलो विज्ञप्रशस्तशीलः। अनेन कुमार द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इम समाधिं प्रतिलभते। पुनरपरं कुमार बोधिसत्त्वो महासत्त्वस्त्रैधातुके उत्त्रस्तचित्तो भवति संत्रस्तचित्तो निर्विण्णचित्तो निःसरणचित्तः। अनर्थिकः अनभिरतः अनध्यवसितः अनभिषक्तः। सर्वत्रैधातुके उद्विग्नमानसः। अन्यत्र त्रैधातुकात् सत्त्वानि मोचयिष्यामीति व्यायमते। समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ। अनेन कुमार तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते। पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः श्राद्धो भवति। अतृप्तो भवति धर्मपर्येष्ट्याम्। बहुश्रुतो भवति। विशारदो भवति। धर्मकामश्च धर्मगुरुकः। न लाभसत्कारश्लोकगुरुको न ज्ञानगुरुकः। यथाश्रुतांश्च धर्मान् यथापर्यवाप्तान् परेभ्यश्च विस्तरेण देशयति संप्रकाशयति हितवस्तुपूर्वगमेन चित्तेन न ज्ञात्रलाभकामनया। अपि तु खलु पुनः किमितीमे सत्त्वा इमान् धर्मान् श्रुत्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति। अनेन कुमार चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमं समाधिं प्रतिलभते॥

एभिः कुमार चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिभभिसंबुध्यते। तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यं यथायं समाधिर्बहुबुद्धदेशितो बहुबुद्धवर्णितो बहुबुद्धसंप्रकाशितो बहुबुद्धप्रविचितः। बहूनां च बुद्धानां भगवतामन्तिकान्मया प्रव्रजित्वा अयं कुमार सर्वधर्मस्वभावसमताविपञ्चितः समाधिर्विस्तरेण श्रुत उद्गृहीतः पृष्टो धारितो वाचितः प्रवर्तितोऽरणभावनया भावितो बहुलीकृतः परेभ्यश्च विस्तरेण संप्रकाशितः। अथ खलु भगवानिममेव बहुबुद्धनिर्हारसमाधिमुखं पूर्वयोगकथानिर्देशं भूयस्या मात्रया तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य विस्तरेण गाथाभिगीतेन संप्रकाशयति स्म - स्मरामि कल्पेऽतुलियाप्रमेये यदा जिनो आसि स्वराङ्गघोषः।
स्वराङ्गघोषस्य तथागतस्य वर्षं शता षष्टि अभूषि आयुः॥

१॥

तस्यानु बुद्धो परिमेण आसीत् ज्ञानेश्वरो नाम नराणमुत्तमः।
ज्ञानेश्वरस्य द्विपदोत्तमस्य वर्षं सहस्रा दश द्वौ च आयुः॥

२॥

ज्ञानेश्वरस्यापि परेण बुद्धो तेजेश्वरो नाम जिनो अभूषि।
तेजेश्वरस्य द्विपदोत्तमस्य षट्सप्तती वर्षसहस्र आयुः॥

३॥

तेजेश्वरस्योपरतेन बुद्धो मतीश्वरो नाम जिनो अभूषि।
मतीश्वरस्य द्विपदोत्तमस्य वर्षाण कोटी परिपूर्ण आयुः॥

४॥

मतीश्वरस्योपरतेन बुद्धो ब्रह्मेश्वरो नाम जिनो अभूषि।
ब्रह्मेश्वरस्य द्विपदोत्तमस्य चतुर्दशो वर्षसहस्र आयुः॥

५॥

ब्रह्मेश्वरस्योपरतेन बुद्धो अग्नीश्वरो नाम जिनो अभूषि।
अग्नीश्वरस्य द्विपदोत्तमस्य षष्टिस्तदा वर्षसहस्र आयुः॥

६॥

अग्नीश्वरस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि।
ब्रह्माननस्य द्विपदोत्तमस्य रात्रिंदिवा सप्त अभूषि आयुः॥

७॥

ब्रह्माननस्योपरतेन बुद्धो गणेश्वरो नाम जिनो अभूषि।
गणेश्वरस्य द्विपदोत्तमस्य षड्वर्षकोट्यः परिपूर्ण आयुः॥

८॥

गणेश्वरस्योपरतेन बुद्धो घोषेश्वरो नाम जिनो अभूषि।
घोषेश्वरस्य द्विपदोत्तमस्य नववर्षकोट्यः परिपूर्ण आयुः॥

९॥

घोषेश्वरस्योपरतेन बुद्धो घोषाननो नाम जिनो अभूषि।
घोषाननस्य द्विपदोत्तमस्य दशवर्षकोट्यः परिपूर्ण आयुः॥

१०॥

घोषाननस्योपरतेन बुद्ध- श्चन्द्राननो नाम जिनो अभूषि।
चन्द्राननस्य द्विपदोत्तमस्य रात्रिंदिवा एक अभूषि आयुः॥

११॥

चन्द्राननस्योपरतेन बुद्धः सूर्याननो नाम जिनो अभूषि।
सूर्याननस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः॥

१२॥

सूर्याननस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि।
ब्रह्माननस्य द्विपदोत्तमस्य त्रिविंशति वर्षसहस्र आयुः॥

१३॥

ब्रह्माननस्योपरतेन बुद्धो ब्रह्मश्रवो नाम जिनो अभूषि।
ब्रह्मश्रवस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः॥

१४॥

एकस्मि कल्पस्मि इमे उपन्ना दुवे शते लोकविनायकानाम्।
श्रुणोहि नामानिह कीर्तयिष्ये अनाभिभूतान् तथागतानाम्॥

१५॥

अनन्तघोषश्च विघुष्टघोषो विघुष्टतेजश्च विघुष्टशब्दः।
स्वराविघुष्टश्च स्वरार्चितश्च स्वराङ्गशूरश्च स्वराङ्गशब्दः॥

१६॥

ज्ञानाबलो ज्ञानविशेषगश्च ज्ञानाभिभूर्ज्ञानसमुद्गतश्च।
ज्ञानार्चिमान् ज्ञान-अभ्युद्गतश्च विघुष्टज्ञानस्तथ ज्ञानशूरः॥

१७॥

ब्रह्माबलो ब्रह्मवसुः सुब्रह्म ब्रह्मा च देवस्तथ ब्रह्मघोषः।
ब्रह्मेश्वरो ब्रह्मनरेन्द्रनेत्रे ब्रह्मस्वराङ्गः स्वरब्रह्मदत्तः॥

१८॥

तेजोबलस्तेजवतिः सुतेजाः तेजेश्वरस्तेजसमुद्रतश्च तेजोविभुस्तेजविनिश्चितश्च।
तेजस्वरेन्द्रः सुविघुष्टतेजाः॥

१९॥

भीष्मो बलो भीष्ममतिः सुभीष्मो भीष्माननो भीष्मसमुद्रतश्च।
भीष्मार्चि र्भीष्मोत्तरु र्भीष्मघोषा एते जिना लोकविनायकाऽभूत्॥

२०॥

गम्भीरघोषः शिरिधारणश्च विशुद्धघोषेश्वरु शुद्धघोषः।
अनन्तघोषः सुविमुक्तघोषो मारो बलो मारवित्रासनश्च॥

२१॥

सुनेत्र शुद्धाननु नेत्रशुद्धो विशुद्धनेत्रश्च अनन्तनेत्रः।
समन्तनेत्रश्च विघुष्टनेत्रो नेत्राभिभूर्नेत्र अनिन्दितश्च॥

२२॥

दान्तोत्तरो दान्त सुदान्तचित्तः सुदान्त शान्तेद्रिय शान्तमानसः।
शान्तोत्तरः शान्तशिरी प्रशान्तः शान्तीय पारंगतु शान्तिशूरः॥

२३॥

स्थितोत्तरः शान्त सुदान्तचित्तः सुदान्तशान्तेन्द्रियु शान्तमानसः।
शान्तोत्तरः शान्तश्रिया ज्वलन्तः शान्तप्रशान्तेश्वरु शान्तिशूरः॥

२४॥

गणेन्द्र गणमुख्यु गणेश्वरश्च गणाभिभूर्गणिवर शुद्धज्ञानी।
महागणेन्द्रश्च गणेन्द्रशूरो अन्यो पुनो गणिवर प्रमोचकः॥

२५॥

धर्मध्वजश्चो तथ धर्मकेतुः धर्मोत्तरो धर्मस्वभाव उद्गतः।
धर्मबलश्चैव सुधर्मशूरः स्वभावधर्मोत्तरनिश्चितश्च॥

२६॥

स्वभावधर्मोत्तरनिश्चितस्य अशीतिकोट्यः सहनामधेयाः।
द्वितीयकल्पस्मि उत्पन्न नायका एते मया पूजित बोधिकारणात्॥

२७॥

स्वभावधर्मोत्तरनिश्चितस्य यो नामधेयं शृणुते जिनस्य।
श्रुत्वा च धारेति विघुष्ट नाम स क्षिप्रमेतं लभते समाधिम्॥

२८॥

एतेष बुद्धान् परेण अन्यो अचिन्तिये अपरिमितस्मि कल्पे।
अभूषि बुद्धो नरदेवपूजितः स नामधेयेन नरेन्द्रघोषः॥

२९॥

नरेन्द्रघोषस्य तथागतस्य षट्सप्तती वर्षसहस्रमायुः।
त्रयश्च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो अभूषि॥

३०॥

षडभिज्ञ त्रैविद्य जितेन्द्रियाणां महानुभावान महर्द्धिकानाम्।
क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि प्रभाकरस्य॥

३१॥

अशीति कोटीनियुता सहस्रा यो बोधिसत्त्वान गणो अभूषि।
गम्भीरबुद्धीन विशारदानां महानुभावान महर्द्धिकानाम्॥

३२॥

अभिज्ञप्राप्ताः प्रतिभानवन्तो गतिगताः सर्वित शुन्यतायाः।
ऋद्धीय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यात्तिक गङ्गवालुकाः॥

३३॥

पृच्छित्व प्रश्नं द्विपदाननुत्तमान् पुनेन्ति तस्यैव जिनस्य अन्तिके।
सूत्रान्तनिर्हारनिरुक्तिकोविदा आलोकभूता विचरन्ति मेदिनीम्॥

३४॥

सत्त्वानमर्थाय चरन्ति चारिकां महानुभावाः सुगतस्य पुत्राः।
न कामहेतोः प्रकरोन्ति पापं देवा पि तेषां स्पृह संजनेन्ति॥

३५॥

अनर्थिका भवगतिषु न निश्रिताः समाहिता ध्यानविहारगोचराः।
विनिश्चितार्थाश्च विशारदाश्च निरामगन्धाः सद ब्रह्मचारिणः॥

३६॥

अच्छेद्यवाक्याः प्रतिभानवन्तो निरुक्तिनिर्देशपदार्थकोविदाः।
सर्वत्रसंदर्शक बुद्धपुत्राः परिगृहीताः कुशलेन कर्मणा॥

३७॥

अनन्तकल्पाश्चरियाय उद्गताः स्तुताः प्रशस्ताः सद नायकेहि।
विमोक्षतत्त्वार्थपदान देशकाः असंकिलिष्टाः सुविशुद्धशीलाः॥

३८॥

अनोपलिप्ताः पदुमेन वारिणा विमुक्त त्रैधातुकतोऽप्रमत्ताः।
अनोपलिप्ताष्टहि लोकधर्मै- र्विशुद्धकायाः परिशुद्धकर्माः॥

३९॥

अल्पेच्छ संतुष्ट महानुभावा अगृद्ध ते बुद्धगुणाः प्रतिष्ठिताः।
सर्वेष सत्त्वान गतिः परायणा न घोषमात्रप्रतिपत्तिसाराः॥

४०॥

यत्र स्थितास्तं च परेषु देशयु सर्वेहि बुद्धेहि परिगृहीताः।
वैश्वासिकाः कोशधरा जिनानां ते सर्वि त्रैधातुकि त्रस्तमानसाः॥

४१॥

प्रशान्तचित्ताः सद रण्यगोचरा अधिष्ठिता लोकविनायकेभिः।
भाषन्ति सुत्रान्तसहस्रकोटियो यं चैव भाषन्ति त बुद्धवर्णितम्॥

४२॥

विवर्जिताः सर्वपदेभि लौकिकाः शून्याधिमुक्ताः परमार्थदेशकाः।
अनन्तवर्णा गुणसागरोपमाः बहुश्रुताः पण्डित विज्ञवन्तः॥

४३॥

सचेत् कुमारो बहुकल्पकोटिय अधिष्ठिहन्तः प्रवदेय वर्णम्।
स अल्पकं तत् परिकीर्तितं भवेद् यथा समुद्रादुदबिन्दुरेकः॥

४४॥

तस्मिंश्च काले स नरेन्द्रघोषो देशेतिमं शान्त समाधि दुर्दृशम्।
महात्रिसाहस्रिय लोकधातु देवेहि नागेहि स्फुटो अभूषि॥

४५॥

तस्यो इमं शान्त समाधि भाषतः प्रकम्पिता मेदिनि षड्विकारम्।
देवा मनुष्या यथ गङ्गवालिका अविवर्तिकाये स्थित बुद्धज्ञाने॥

४६॥

तत्रासि राजा मनुजान ईश्वरः शिरीबलो नाम महानुभावः।
पुत्राण तस्यो शत पञ्च आस- न्नभिरूप प्रासादिक दर्शनीयाः॥

४७॥

अशीति कोटीशत इस्त्रियाणा- मन्तःपुरं तस्य अभूषि राज्ञः।
चतुर्दशो कोटिसहस्र पूर्णा दुहितरो तस्य अभूषि राज्ञः॥

४८॥

स कार्तिकायां तद पूर्णमास्या- मष्टाङ्गिकं पोषधमाददित्वा।
अशीतिकोटीनियुतेहि सार्ध- मुपागमल्लोकगुरुस्य अन्तिकम्॥

४९॥

वन्दित्व पादौ द्विपदोत्तमस्य न्यषीदि राजा पुरतो जिनस्य।
अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि॥

५०॥

स पार्थिवः श्रत्व समाधिमेत- मुत्सृज्य राज्यं यथ खेटपिण्डम्।
परित्यजित्वा प्रिय ज्ञातिबान्धवान् स प्रव्रजी तस्य जिनस्य शासने॥

५१॥

पुत्राण पञ्चाशत प्रव्रजिंसु अन्तःपुरं चैव तथैव धीतरो।
अन्ये च तत्र पुत्रज्ञातिबान्धवाः षट्सप्ततिर्नयुत त्रयश्च कोट्यः॥

५२॥

स प्रव्रजित्वेह सपुत्रदारं स्थपेत्व आहारनिर्हारभूमिम्।
अधिष्ठितश्चंक्रमि अष्टवर्षं स चंक्रमे वस्थितु काल कार्षीत्॥

५३॥

स कालु कृत्वा तद राजकुञ्जरो समाधिचित्तो सुसमाहितः सदा।
तत्रैव सो राजकुले उपन्नो उपपादुको गर्भमलैरलिप्तः॥

५४॥

दृढबलो नाम पितास्य भूषि महामती नाम जनेत्रि आसीत्।
स जातमात्रो अवची कुमारो कच्चिन्नु सो तिष्ठति लोकनाथः॥

५५॥

जानाति मे आशयु लोकनाथो येनो ममा शान्त समाधि देशितः।
अप्रत्यया अपगतप्रत्यया च यो एक निर्देशु भवे गतीनाम्॥

५६॥

या सर्वधर्माण स्वभावमुद्रा यः सूत्रकोटीनियुतान आगमः।
यो बोधिसत्त्वान धनं निरूत्तरं कच्चिज्जिनो भाषति तं समाधिम्॥

५७॥

कायस्य शुद्धी तथ वाच शुद्धी चित्तस्य शुद्धिस्तथ दृष्टिशुद्धिः।
आरम्बणानां समतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम्॥

५८॥

अविप्रणाशः फलधर्मदर्शनं अष्टाङ्गिका मार्गवरस्य भावना।
तथागतैः संगमु तीक्ष्णप्रज्ञता सत्यप्रवेशः सद धर्मज्ञानम्॥

५९॥

स्कन्धपरिज्ञा समता च धातुना- मपकर्षणं चायतनान सर्वशः।
अनुत्पाद साक्षात्क्रिययावतारः कच्चिज्जिनो भाषति तं समाधिम्॥

६०॥

प्रतिसंविदा शान्त्यवतारज्ञानं सर्वाक्षराणां च प्रभेदज्ञानम्।
वस्तुनिवेशसमतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम्॥

६१॥

घोषः परिज्ञाथ प्रामोद्यलाभः प्रीतिश्च भोती सुगतान वर्णम्।
आर्या गतिर्मार्दवता च उज्जुका कच्चिज्जिनो भाषति तं समाधिम्॥

६२॥

ना जातु कुर्याद्भुकुटिं स सूरतः साखिल्य माधुर्य स्मितं मुखं च।
दृष्ट्वा च सत्त्वान् प्रथमालपेति कच्चिज्जिनो भाषति तं समाधिम्॥

६३॥

अनालस्यता गौरवता गुरूणां शुश्रूषणा वन्दन प्रेमदर्शना।
उपपत्ति संतुष्टित शुक्लता च कच्चिज्जिनो भाषति तं समाधिम्॥

६४॥

आजीवशुद्धिस्तथ रण्यवासो धूते स्थितानुस्मृतेरप्रमोषः।
स्कन्धेषु कौशल्यमथापि धातुषु कच्चिज्जिनो भाषति तं समाधिम्॥

६५॥

आयतनकौशल्यमभिज्ञज्ञानं किलेश-अपकर्षण दान्तभूमि।
पृथुसर्वमन्त्राणमसावुच्छेदः कच्चिज्जिनो भाषति तं समाधिम्॥

६६॥

समतिक्रमः सर्वभवग्गतीनां जातिस्मृति धर्मनिष्काङ्क्षता च।
धर्मे च चित्तं श्रुत एषणा च कच्चिज्जिनो भाषति तं समाधिम्॥

६७॥

विशेषगामी सद भावनारति आपत्ति कौशल्यत निःसृतौ स्थितः।
यत्र स्थितोऽनुशयितां जहाति कच्चिज्जिनो भाषति तं समाधिम्॥

६८॥

तीक्ष्णस्य ज्ञानस्य वरागमो यतो अचालियो शैलसमो अकम्पितः।
अविवर्तितालक्षण धारणीमुखं कच्चिज्जिनो भाषति तं समाधिम्॥

६९॥

शुक्लान धर्माण सदा गवेषणा पापान धर्माण सदा विवर्जना।
संक्लेशपक्षस्य सदा प्रचारु यो कच्चिज्जिनो भाषति तं समाधिम्॥

७०॥

सर्वासु शिक्षासु गतिंगतो विदुः समाध्यवस्थानगतिंगतश्च।
सत्त्वान चो आशयु ज्ञात्व चोदको देशेति धर्मं वरबुद्धबोधौ॥

७१॥

विशेषज्ञानं उपपत्तिज्ञानं अनन्तज्ञानं सुसमाप्तज्ञानम्।
सर्वग्गतीनां प्रतिसंधिज्ञानं कच्चिज्जिनो भाषति तं समाधिम्॥

७२॥

गृहान् समुत्सृज्य प्रव्रज्यचित्तं त्रैधातुके अनभिरती ननुग्रहः।
चित्तस्य संप्रग्रहणं सहर्षणा देशेति धर्मं द्विपदानमुत्तमः॥

७३॥

धर्मेषु चो नाभिनिवेश तायि परिग्रहो धर्मवरे सदा च।
कर्मविपाके च दृढाधिमुक्तिं देशेति धर्म द्विपदानमुत्तमः॥

७४॥

विनयस्मि कौशल्य विपाकज्ञानं कलहं विवादान तथोपशान्तिः।
अविग्रहं वाप्यविवादभूमिं देशेति धर्म द्विपदानमुत्तमः॥

७५॥

क्षान्तीसमादानमक्रोधस्थानं विनिश्चये धर्मि सदा च कौशलम्।
पदप्रभेदेषु च ज्ञानदर्शनं देशेति धर्मं करुणां जनेत्वा॥

७६॥

पूर्वान्तज्ञानमपरान्तज्ञानं त्रियध्व-समता सुगतान शासने।
परिच्छेद उक्तः स त्रिमण्डलस्य एवं जिनो देशयि धर्मस्वामी॥

७७॥

चित्तव्यवस्थान एकाग्रता च कायव्यवस्थान यथार्यभूमिः।
ईर्यापथस्थो सद कालि रक्षणा देशेति धर्मं पुरुषर्षभो मुनिः॥

७८॥

हिरिश्च ओत्राप्यु प्रासादिकं च युक्तां गिरं भाषति लोकज्ञानम्।
प्रवृत्तिधर्मं प्रकृतिं च प्राणिनां देशेति धर्मं वरबोधिमग्र्याम्॥

७९॥

अनुग्रहं चो हिरिमोत्राप्यं च चित्तस्य चाकुशलता जुगुप्सना।
धूतस्यानुत्सर्गत पिण्डचर्यां देशेति धर्मं द्विपदानमुत्तमः॥

८०॥

हिरिश्च ओत्राप्यु सदाचरेता गुरूणाभिवादन प्रत्युत्थानम्।
मानस्य चो निग्रह आदितैव एवं जिनो देशयि धर्मस्वामी॥

८१॥

चित्तसमुत्थानत चित्तकल्यता ज्ञानप्रतीवेधु तथानुबोधम्।
अज्ञानपक्षस्य सदा विवर्जना देशेति धर्मान् वरबुद्धबोधिम्॥

८२॥

चित्तप्रवेशं च रूतस्य ज्ञानं निरुक्त्यवस्थान विनिश्चितार्थम्।
सर्वेष्वनर्थान सदा विवर्जनम् एवं जिनो देशयि धर्मस्वामी॥

८३॥

ससङ्गता सत्पुरुषेहि नित्यं विवर्जना कापुरुषान चैव।
जिने प्रसादं सद प्रेमतां च एवं जिनो देशयि धर्म श्रेष्ठम्॥

८४॥

संकेतप्रज्ञप्तिव्याहारतां च संसारदुःखानि सदा विवर्जना।
अलाभि लाभे च असक्तभाव- मेवं जिनो देशयि धर्ममुत्तमम्॥

८५॥

सत्कारु लब्ध्वा च न विस्मयेय्या असत्कृतश्चापि भवेदुपेक्षकः।
भूतेऽपि वर्णं न कदाचि मोदिये इय देशना लोकहितस्य ईदृशी॥

८६॥

आक्रोशनां पंसन सर्वशो सहे- दसंस्तवः सर्वगृहीहि सार्धम्।
संसर्गतां प्रव्रजितेन कुर्या- देवं जिनो देशयि धर्मस्वामी॥

८७॥

बुद्धान चो गोचरि सुप्रतिष्ठितो अगोचरं सर्व विवर्जयित्वा।
आचारसंपन्न सुदान्तचित्तो इय धर्मनेत्री सुगतेन देशिता॥

८८॥

ये बालधर्माः सद तान् विवर्जयेत् कुलदूषणं सर्व विवर्जयेच्च।
आरक्षितव्यं सद बुद्धशासनं एवं जिनो देशयि धर्मस्वामी॥

८९॥

अल्पं च भाष्ये मधुरं सुयुक्तं कल्याणतां मृदुवचनं परेषाम्।
प्रत्यर्थिकानां सहधर्मनिग्रहो इयं जिने ईदृश आनुशासनी॥

९०॥

प्रतिक्रमेत् कालि न चो अकाले न विश्वसेत् सर्वपृथग्जनेषु।
दुःखेन स्पृष्टो न भवेत दुर्मना इयं जिने ईदृश आनुशासनी॥

९१॥

दरिद्र दृष्ट्वा सधनं करेय्या दुःशील दृष्ट्वा अनुकम्पितव्या।
हितवस्तुतायां सद ओवदेय्य इयं जिने ईदृश आनुशासनी॥

९२॥

धर्मेण सत्त्वा अनुगृह्णितव्या लोकामिषत्यागु सदा च कार्यो।
न संचयं नो निचयं च कुर्या- दियं जिने ईदृश आनुशासनी॥

९३॥

शीलप्रशंसा च कुशीलकुत्सना अशाठ्यता शीलवतां निषेवणम्।
सर्वस्वकात्यागि धनेऽप्यनिश्रितो इयं जिने ईदृश आनुशासनी॥

९४॥

अध्याशयेनो गुरुणा निमन्त्रणा यथा च भाषे तथ सर्व कुर्याम्।
अभीक्ष्ण सेवेय्य च धर्मभाणकं इयं जिने ईदृश आनुशासनी॥

९५॥

सगौरवः प्रीतमनाः सदा भवेत् सोम्याय दृष्टीय सदा स्थितो भवेत्।
पूर्वासु चर्यासु सुनिश्चितः सदा इयं जिने ईदृश आनुशासनी॥

९६॥

पूर्वंगमः कुशलचरीषु नित्य- मुपायकौशल्य निमित्तवजने।
संज्ञाविवर्ते तथ वस्तुलक्षणे इयं जिने ईदृश आनुशासनी॥

९७॥

सूत्रान्तनिर्हारपदेषु कौशलं सत्यान निर्देशपदेषु निश्चयः।
विमुक्तिज्ञानस्य च साक्षिकारिता इयं जिने ईदृश आनुशासनी॥

९८॥

शून्याश्च धर्माः सद सेवितव्या विशारदाः शीलबले प्रतिष्ठिताः।
समाधिस्थानेन समोत्तरेय्या इयं जिने ईदृश आनुशासनी॥

९९॥

न ज्ञात्रलाभं पि कदाचि देशये- च्चित्तस्य चापी कुहनां न कुर्यात्।
दृष्टीकृतां सर्व विवर्जयेच्च इयं जिने ईदृश आनुशासनी॥

१००॥

प्रतिभानु श्रेष्ठं वर धारणीये ज्ञानस्य चोभासु अनन्तपारो।
अधिष्ठानमन्त्र प्रतिभानयुक्ति- रियं जिने ईदृश आनुशासनी॥

१०१॥

शीलस्य द्वारमिम मार्गभावना प्रतिपत्ति-ओवाद-नयश्च भद्रको।
अनुशासनी अत्र चरित्व शासनी इयं जिने ईदृश आनुशासनी॥

१०२॥

अनुलोमिकी क्षान्ति य बुद्धवर्णिता क्षान्तिस्थितो दोष विवर्जयेत।
अज्ञान वर्जेय्य स्थिहित्व ज्ञाने इयं जिने ईदृश आनुशासनी॥

१०३॥

ज्ञानप्रतिष्ठा तथ योगभूमी योगेश्वरी बोधयि प्रस्थितानाम्।
निषेवणा सत्पुरुषाण नित्यं इयं जिने ईदृश आनुशासनी॥

१०४॥

अयुक्तयोगीन सदा विवर्जना तथागतैर्भाषित बुद्धभूमि।
अनुमोदिता सर्विहि पण्डितेहि इयं जिने ईदृश आनुशासनी॥

१०५॥

बालैः प्रतिक्षिप्त अज्ञातकेहि अभूभिरत्र पृथुश्रावकाणाम्।
परिगृहीताः सद बोधिसत्त्वैः इयं जिने ईदृश आनुशासनी॥

१०६॥

तथागतेहि अनुबुद्धमेतं देवेहि चो सत्कृतु पूजितं च।
अनुमोदितं ब्रह्मसहस्रकोटिभिः कच्चिज्जिनो भाषति तं समाधिम्॥

१०७॥

नागसहस्रेहि सदा सुसत्कृतं सुपर्णयक्षेहि च किन्नरेहि।
या भाषिता बोधिवरा जिनेभिः कच्चिज्जिनो भाषति तं समाधिम्॥

१०८॥

पर्याप्त या नित्यु सुपण्डितेहि धनं च श्रिष्ठं प्रवरं सुलब्धम्।
निरामिषं ज्ञान चिकित्स उत्तमा कच्चिज्जिनो भाषति तं समाधिम्॥

१०९॥

ज्ञानस्य कोषः प्रतिभानमक्षयं सूत्रान्तकोटीन प्रवेश एषः।
परिज्ञ त्रैधातुकि भूतज्ञानं कच्चिज्जिनो भाषति तं समाधिम्॥

११०॥

नौका इयं देशित पारगामिनां नावा पि चो ओघगतान एषा।
कीर्तिर्यशो वर्धति वर्णमाला येषामयं शान्त समाधि देशितः॥

१११॥

प्रशंस एषा च तथागतानां स्तवश्च एषो पुरुषर्षभाणाम्।
स्तव बोधिसत्त्वान नयश्च अक्षयो येही अयं शान्त समाधि देशितः॥

११२॥

मैत्री इयं दोषशमे प्रकाशिता उपेक्षियं कारुणिकान भूमिम्।
आश्वासयन्तेष महाशयानां येषां कृतेनैष समाधि भाषितः॥

११३॥

प्रतिपत्तियं देशित सिंहनादिना- मितु बुद्धज्ञानस्य वरस्य आगमः।
सर्वेष धर्माण स्वभावमुद्राः समाध्ययं देशितु नायकेहि॥

११४॥

सर्वज्ञज्ञानस्य च आहरित्रिमा चर्या इयं बोधयि प्रस्थितानाम्।
वित्रासनं मारचमूय चापि समाध्ययं शान्त जिनेन देशितः॥

११५॥

विद्या इयं धर्मस्थितान तायिनां अमित्रमध्ये परमा च रक्षा।
प्रत्यर्थिंकानां सहधर्मनिग्रहाः समाध्ययं शान्त जिनेन देशितः॥

११६॥

प्रतिभानभूमी इय संप्रकाशिता बला विमोक्षा तथ इन्द्रियाणि।
विशिष्ट अष्टादश बुद्धधर्माः समाधि शान्तेष निषेवमाणाः॥

११७॥

दशान पर्येष्टि बलान भूता पूर्वनिमित्तं पि च बुद्धज्ञाने।
ये बुद्धधर्माः पुरुषोत्तमेन प्रकाशिता लोकहितानुकम्पिना॥

११८॥

बुद्धान पुत्रेभिरयं प्रतीहितो विमोक्षकामानयु मार्गु देशितः।
प्रीतिश्च तस्मिन् सुगतात्मजानां श्रुणित्विमं शान्त समाधि दुर्दृशम्॥

११९॥

या बुद्धज्ञानस्य च पारिपूरिता याभेषते पण्डितु बोधिसत्त्वः।
विशुद्धचित्तश्च शुचिर्निरङ्गणो इमं निषेवेत समाधि शान्तम्॥

१२०॥

परिशुद्ध कायोऽस्य यथा जिनान विमोक्षज्ञानं च विमुक्तिदर्शनम्।
असंकिलिष्टः सद रागबन्धनैः इमं निषेवेत समाधि भद्रकम्॥

१२१॥

अभूमि दोषे विगमश्च मोहे ज्ञानस्य चो आगमु मुक्तिमिच्छतः।
विद्याय उत्पादु अविद्यनाशकम् इमं निषेवेत समाधि शान्तम्॥

१२२॥

विमुक्तिसाराणिय तृप्ति भाषिता ध्यायीनयं शान्त समाधि देशितः।
चक्षुश्च बुद्धानमनिन्दिताना- मिमं निषेवेत समाधि शान्तम्॥

१२३॥

अभिज्ञ एषा बहुक्षेत्रे दर्शिता ऋद्धिश्च बुद्धान अनन्त दर्शिता।
या धारणी सापि ततो न दुर्लभा निषेवमाणस्य समाधिमेतम्॥

१२४॥

शान्तेन्द्रियस्यो इह स्थानु बोधये इदमधिष्ठानमनन्तदर्शितम्।
सूक्ष्मं च ज्ञानं विपुलं विशुद्धं निषेवमाणस्य इमं समाधिम्॥

१२५॥

सु बुध्यते नैष अयुक्तयोगै- र्विवर्तनं सर्वसु अक्षराणाम्।
न शक्यु घोषेण विजाननाय येनो अयं शान्त समाधि न श्रुतः॥

१२६॥

ज्ञातं तु विज्ञैरयु बोधिसत्त्वै- र्यथा व यं देशितु धर्मस्वामिना।
प्रतिबुद्धु शान्तेहि अनिन्दितेहि इमं समाधिं प्रतिषेवमाणैः॥

१२७॥

आरब्धवीर्येहि समुद्गृहीत- मुपस्थितं च सापि सदा सुधारितम्।
दुःखक्षयो जातिनिरोधज्ञान- मिमं समाधिं प्रतिषेवमाणैः॥

१२८॥

सर्वेष धर्माणमजाति भाषिता एवं च सर्वासु भवग्गतीषु।
ज्ञानाग्रु बुद्धान महाशयानां कच्चिज्जिनो भाषति तं समाधिम्॥

१२९॥

तस्यो कुमारस्यिमि गाथ भाषतो अष्टाशीतिनियुतसहस्र पूर्णाः।
घोषानुगा क्षान्ति लभिंसु तत्र अविवर्तिकाये स्थितु बुद्धज्ञाने॥

१३०॥

दृढबलस्तमवदी कुमार- मद्यापि सो तिष्ठति लोकनाथः।
पृच्छामि त्वं दारक एतमर्थं कुतस्त्वया एष श्रुतः समाधिः॥

१३१॥

कुमारु राजन् अवदी शृणोहि दृष्टस्मि कोटीनियुतं जिनानाम्।
एकस्मि कल्पस्मि ते सर्वि सत्कृता अयं च मे शान्त समाधि पृच्छितः॥

१३२॥

चत्वारि कल्पा नवतिं च अन्ये कल्पान कोटीनियुता सहस्राः।
जातिस्मरो भोम्यहु तत्र तत्र न चापि गर्भे उपपद्यि जातु॥

१३३॥

ततो मया एषा समाधि भावितः शुद्धं श्रुतस्तेष जिनान भाषताम्।
श्रुत्वा च उद्दिष्टु जनेत्व छन्दं निष्काङ्क्षआप्तेन स्पृशिष्यि बोधिम्॥

१३४॥

ये भिक्षु मह्यं परिपृच्छदेन्ति पर्यापुणन्तस्य इमं समाधिम्।
उपस्थपेमी अहु तत्र गौरवं यथैव लोकार्थकराण अन्तिके॥

१३५॥

येषां मया अन्तिक एक गाथा उद्दिष्ट चर्यां चरतानुलोमिकीम्।
मान्यामि तानप्यहु शान्तु एते उपस्थपेमी अहु बुद्धगौरवम्॥

१३६॥

यश्चापि मां पृच्छितु कश्चिदेति पर्यापुणन्तं इमु सत्समाधिम्।
स्वप्नान्तरेऽपीह न मेऽस्ति काङ्क्षा नाहं भविष्ये जिनु लोकनायकः॥

१३७॥

वृद्धेषु मध्येषु नवेषु भिक्षुषु सगौरवो भोम्यहु सुप्रतीतः।
सगारवस्यो मम वर्धते यशः पुण्यं च कीर्तिश्च गुणास्तथैव॥

१३८॥

कलीविवादेषु न भोमि उत्सुको अल्पोत्सुको भोम्यहु तत्र काले।
अन्या गतिर्भोति करित्व पापकं अन्या गतिर्भोति करित्व भद्रकम्॥

१३९॥

अयुक्तयोगान असंयताना- ममनोज्ञ तेषां वचनं श्रुणित्वा।
कर्मस्वको भोम्यहु तस्मि काले कृतस्य कर्मस्य न विप्रणाशः॥

१४०॥

न ह्यत्र क्रोधो भवती परायणं क्षान्तीबलं गृह्णयहु बुद्धवर्णितम्।
क्षान्तिः सदा वर्णित नायकेहि क्षान्तिं निषेवित्व न बोधि दुर्लभा॥

१४१॥

अहं च भोमी सद शीलवन्तो अन्यांश्च शीलस्मि प्रतिष्ठपेमि।
शीलस्य वर्णु सदहं भणामि वर्णं च भोति मम तत्र भाषितम्॥

१४२॥

अरण्यवर्णं च सदा पि भाषे शीलस्मि चो भोमि सदा प्रतिष्ठितः।
समादपेमि अहु अन्य पोषधे तांश्चैव बोधाय समादपेमि॥

१४३॥

तान् ब्रह्मचर्येऽपि समादपेमि अर्थस्मि धर्मस्मि प्रतिष्ठपेमि।
तेषां च बोधिम्यहु बोधिमार्गं यस्मिन्निमे भोन्ति अनन्त सङ्गाः॥

१४४॥

स्मराम्यहं कल्पमतीतमध्वनि यदा जिनो आसि स्वराङ्गघोषः।
प्रतिज्ञ तस्यो पुरतः कृता मे क्षान्तीबलो भोम्यहु नित्यकालम्॥

१४५॥

तत्र प्रतिज्ञाय प्रतिष्ठिहित्वा वर्षाण कोटी चतुरो अशीतिम्।
मारेणहं कुत्सित पंसितश्च न चैव चित्तं मम जातु क्षुब्धम्॥

१४६॥

जिज्ञासनां तत्र करित्व मारो ज्ञात्वान मह्यं दृढ क्षान्तिमैत्रीम्।
प्रसन्नचित्तश्चरणानि वन्द्य मे पञ्चशता बोधिवराय प्रस्थिताः॥

१४७॥

अमत्सरी भोम्यहु नित्यकालं त्यागस्य चो वर्ण सदा प्रभाषे।
आढ्यश्च भोमी धनवान् महात्मा दुर्भिक्षकाले बहु भोमि दायकः॥

१४८॥

ये भिक्षु धारेन्ति इमं समाधिं ये चापि वाचेन्ति य उद्दिशन्ति।
करोमि तेषां अहु पारिचर्यां सर्वे च भेष्यन्ति नराणमुत्तमाः॥

१४९॥

कर्मणा तेनाहमनुत्तरेण पश्यामि बुद्धान् बहु लोकनाथान्।
लभित्व प्रव्रज्य जिनानुशासने भवामि नित्यं विदु धर्मभाणकः॥

१५०॥

धूताभियुक्तो अहु भोमि नित्यं कान्तारमारण्य सदा निषेवी।
नाहारहेतोः कुहनां करोमि संतुष्टु भोमी इतरेतरेण॥

१५१॥

अनीर्षुको भोम्यहु नित्यकालं कुलेषु चाहं न भवामि निश्रितः।
कुलेषु सक्तस्य हि ईर्ष्य वर्धते अनीर्ष्युकस्तुष्टि वनेषु विन्दमि॥

१५२॥

मैत्रीविहारी अहु भोमि नित्य- माक्रुष्टु सन्ता न जनेमि क्रोधम्।
मैत्रीविहारिष्यमि सूरतस्य चतुर्दिशं वर्धति वर्णमाला॥

१५३॥

अल्पेच्छु संतुष्टु भवामि नित्य- मारण्यकश्चैव धुताभियुक्तः।
न चोत्सृजामी अहु पिण्डपातं दृढं समाधान धुतेषु विन्दमि॥

१५४॥

श्राद्धश्च भोमी मनसः प्रसादो बहुप्रसादः सद बुद्धशासने।
प्रसाद बहु लप्स्यमि आनुशंसा प्रासादिको भोमि अहीन इन्द्रियः॥

१५५॥

यश्चैव भाषाम्यहु तत्र तिष्ठे प्रतिपत्तिसारो अहु नित्यु भोमि।
प्रतिपत्तिसारस्यिमि देवनागाः कुर्वन्त्युस्थानु प्रसन्नचित्ताः॥

१५६॥

गुणा इमे कीर्तित यावता मे एते च अन्ये च बहू अनेके।
ये शिक्षितव्याः सद पण्डितेन यो इच्छती बुध्यितु बुद्धबोधिम्॥

१५७॥

स्मराम्यतो बहुतरु दुष्कराणि ये पूर्वकल्पे चरितान्यनेके।
बहुं पि दानीं भणितु न शक्यं गच्छामि तावत् सुगतस्य अन्तिकम्॥

१५८॥

सुतीक्ष्णप्रज्ञो विदु बोधिसत्त्वो तस्मिन् क्षणे स्पर्शयि पञ्चभिज्ञा।
ऋद्धीय सो गच्छि जिनस्य अन्तिके स प्राणिकोटीभिरशीतिभिः सह॥

१५९॥

दृढबलो परमु उदग्र आसीत् सार्धं तदा कोटिशतेहि षष्टिभिः।
उपसंक्रमी मूलु तथागतस्य वन्दित्व पादौ पुरतो न्यषीदत्॥

१६०॥

अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि।
श्रुत्वा च सो पार्थिविमं समाधिं उज्झित्व राज्यं निरपेक्षु प्रव्रजी॥

१६१॥

स प्रव्रजित्वान इमं समाधिं भावेति वाचेति प्रकाशयेति।
स षष्टिभिः कल्पसहस्रु पश्चात् पद्मोत्तरो नाम जिनो अभूषि॥

१६२॥

षष्टिस्तदा कोटिशत अनूनका ये राज्ञ सार्धं उपसंक्रमी जिनान्।
ते चापि श्रुत्वैव समाधिमेतं तुष्टा उदग्रास्तद प्रव्रजिंसु॥

१६३॥

ते प्रव्रजित्वान इमं समाधिं धारेंसु वाचेंसु प्रकाशयिंसु।
षष्टीन कल्पानि नयुतान अत्यया स्पृशिंषु बोधिं वरमेककल्पे॥

१६४॥

अनन्तज्ञानोत्तरनामधेया अभूषि बुद्धा नरदेवपूजिताः।
तदेकमेके द्विपदानमुत्तमो मोचेन्ति सत्त्वान्यथ गङ्गवालिकाः॥

१६५॥

शीरीबलो राजु अहं अभूषि इमां चरन्तो वरबोधिचारिकाम्।
ये मम पुत्राः शत पञ्च आसन् इममेव एते अनुधर्मपापाः॥

१६६॥

एवं मया कल्पसहस्रकोटयो आरब्धवीर्येण अतन्द्रितेन।
समाधि पर्येष्ट अयं विशुद्धः समुदानयन्नेति तमग्रबोधिम्॥

१६७॥

कुमार तस्माद्धि ये बोधिसत्त्वा आकाङ्क्षते एतु समाधिमेषितुम्।
आरब्धवीर्यो निरपेक्षु जीविते ममा कुमारा अनुशिक्षते सदा॥

१६८॥

इति श्रीसमाधिराजे बहुबुद्धनिर्हारसमाधिमुखपरिवर्तो नाम सप्तदशः॥