16 पूर्वयोगपरिवर्तः

पूर्वयोगपरिवर्तः॥

स्मरामि पूर्वं चरमाणु चारिकां सिंहध्वजस्य सुगतस्य शासने।
अभूषि भिक्षु विदु धर्मभाणको नामेन सो उच्यति ब्रह्मदत्तः॥

१॥

अहं तदासीन्मति राजपुत्रो आबाधिको बाढ गिलान दुःखितः।
मह्यं च सि आचरियो अभूषि यो ब्रह्मदत्तस्तद धर्मभाणकः॥

२॥

पञ्चोत्तरा वैद्यशता अनूनका व्याधिं चिकित्सन्ति उद्युक्तमानसाः।
व्याधिं न शक्नन्ति मम चिकित्सितुं सर्वे मम ज्ञातय आसि दुःखिताः॥

३॥

श्रुत्वा च गैलान्यु स मह्य भिक्षु गिलानपृच्छो मम अन्तिकागतः।
कृपां जनेत्वा मम ब्रह्मदत्तो इमं समाधिं वरु तत्र देशयी॥

४॥

तस्य ममा एतु समाधि श्रुत्वा उत्पन्न प्रीति अरिया निरामिषा।
स्वभावु धर्माण प्रजानमानो उच्छ्वासि व्याधी तुहु तस्मि काले॥

५॥

दीपंकरः सो चरमाणु चारिका- मभूषि भिक्षुर्विदु धर्मभाणकः।
अहं च आसीन्मतिराजपुत्रः समाधिज्ञानेन हु व्याधि मोचितः॥

६॥

तस्मात् कुमारा बहु पश्चकाले अनुस्मरन्तो इमु पारिहाणिम्।
सहेसि बालान दुरुक्त वाक्यं धारेन्तु वाचेन्तु इमं समाधिम्॥

७॥

भेष्यन्ति भिक्षु बहु पश्चकाले लुब्धाश्च दुष्टाश्च असंयताश्च।
पापेच्छ अध्योषित पात्रचीवरे प्रतिक्षिपिष्यन्ति इमं समाधिम्॥

८॥

ईर्ष्यालुका उद्धत प्राकटेन्द्रियाः कुलेषु चाध्योषित लाभकामाः।
प्रायोगिके संस्तवि नित्य संश्रिताः प्रतिक्षिपिष्यन्ति इमं समाधिम्॥

९॥

हस्तांश्च पादांश्च तथ विद्यमाना हास्ये च लास्ये च सदा प्रयुक्ताः।
परस्परं कण्ठित श्लिष्यमाणा ग्रामेषु चर्यापथि अन्यु भेष्यति॥

१०॥

अयुक्तयोगानिमि भोन्ति लक्षणाः परकुमारीषु च नित्य ध्योषिताः।
रूपेण रक्ता ग्रथिता भवन्ति हिण्डन्ति ग्रामान्निगमांश्च राष्ट्रान्॥

११॥

ते खाद्यपेयस्मि सदा प्रयुक्ता नाट्ये य गीते च तथैव वादिते।
क्रयविक्रये चो सद भोन्ति उत्सुकाः पानेऽपि चाध्योषित नष्टलज्जाः॥

१२॥

लेखान पिष्यन्ति अयुक्तयोगाः शीलं तथेर्यापथु छोरयित्वा।
मर्याद भिन्दित्व गृहीभि सार्धं ते भिन्नवृत्ता वितथप्रतिष्ठिताः॥

१३॥

ये कर्म बुद्धेहि सदा विवर्जिता- स्तुलमानकूटे च सदा प्रयुक्ताः।
तत्कर्म कृत्वान किलिष्टपापकान् अपायु यास्यन्ति निहीनकर्माः॥

१४॥

प्रभूतवित्तं मणिहेमशंखं गृहांश्च ज्ञातींश्च विहाय प्रव्रजि।
ते प्रव्रजित्वानिह बुद्धशासने पापानि कर्माणि सदाचरन्ति॥

१५॥

धने च धान्ये च ते सारसंज्ञिनो धेनूश्च गावः शकटानि सज्जयी।
किमर्थ तेहि इम केश छोरिता शिक्षाय येषां प्रतिपत्ति नास्ति॥

१६॥

मया च पूर्वे चरियां चरित्वा सुदुष्करं कल्पसहस्र चीर्णम्।
अयं च मे शान्त समाधिरेषितो यत्तेष श्रुत्वा तद हास्यु भेष्यति॥

१७॥

चिरं मृषावादि अब्रह्मचारिणो अपायनिम्नाः सद कामलाभाः।
ते ब्रह्मचारीण ध्वजं गृहीत्वा दुःशील वक्ष्यन्ति न एष धर्मः॥

१८॥

भेदाय स्थास्यन्ति च ते परस्परं अयुक्तिभिर्लाभ गवेषमाणाः।
अवर्ण भाषित्व त अन्यमन्यं च्युता गमिप्यन्ति अपायभूमिम्॥

१९॥

शतःसहस्रेषु सुदुर्लभास्ते क्षान्तीबलं येषु तदा भविष्यति।
अतो बहू ये कलहस्मि उत्सुकाः प्रपञ्च काहिन्ति जहित्व क्षान्तिम्॥

२०॥

वक्ष्यन्ति वाचा वय बोधिसत्त्वाः शब्दोऽपि तेषां व्रजि देशदेशे।
अभूतशब्देन मदेन मत्ता विपन्नशीलान कुतोऽस्ति बोधिः॥

२१॥

न मे श्रुतं नापि कदाचि दृष्ट- मध्याशयो यस्य विशुद्ध नास्ति।
इमेषु धर्मेषु च नास्ति क्षान्तिः स लप्स्यते बोधि क्षिपित्व धर्मान्॥

२२॥

भीताश्च त्रस्ताश्च गृहं त्यजन्ति ते प्रव्रजि दृढतरा भवन्ति।
विशेषकामा विलयं प्रयान्ति क्षिपित्व यानं पुरुषोत्तमानाम्॥

२३॥

निहीनप्रज्ञा गुणविप्रहीना वक्ष्यन्ति दोषं सद अग्रयाने।
यस्मै च ते तच्छरणं प्रपन्ना- स्तत्रैव ये दोषशतान् वदन्ति॥

२४॥

आजीवका ये बहु प्रव्रजित्वा अनर्थिकाः सर्वसुबुद्धबोधये।
ते आत्मदृष्टीय स्थिहित्व बाला उत्त्रस्त भेष्यन्ति श्रुणित्व शून्यताम्॥

२५॥

विहारु कृत्वान त अन्यमन्यं व्यापाददोषांश्च खिलं जनेत्वा।
अभ्याख्य दत्वा च परस्परेण लप्स्यन्ति प्रामोद्य करित्व पापकम्॥

२६॥

यः शीलवन्तो गुणवन्तु भेष्यति मैत्रीविहारी सद क्षान्तिकोविदः।
सुसंवृतो मार्दवसूरतश्च परिभूत सो भेष्यति तस्मि काले॥

२७॥

यो खो पुनर्भेष्यति दुष्टचित्तः सुदारुणो रौद्रातिहीनकर्मा।
अधर्मचारी कलहे रतश्च स पूजितो भेष्यति तस्मि काले॥

२८॥

आरोचयामि प्रतिवेदयामि सचेत् कुमारा मम श्रद्ध गच्छसि।
इमां स्मरित्वा सुगतानुशासनीं मा जातु विश्वस्तु भवेसि तेषाम्॥

२९॥

ते तीव्ररागास्तथ तीव्रदोषा- स्ते तीव्रमोहाः सद मानमत्ताः।
अदान्तकायाश्च अदान्तवाचः अदान्तचित्ताश्च अपायनिम्नाः॥

३०॥

अहं च भाषेय्य गुणान वर्णान् न चो गुणान् भिक्षु समाचरेय्या।
न घोषमात्रेण च बोधि लभ्यते प्रतिपत्तिसाराण न बोधि दुर्लभा॥

३१॥

इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम षोडशः॥

१६॥