15 स्मितव्याकरणपरिवर्तः

स्मितव्याकरणपरिवर्तः।
अथ खलु भगवांस्तस्यां वेलायां मैत्रेयं बोधिसत्त्वं महासत्त्वमाभिः सारूप्याभिर्गाथाभिः प्रत्यभाषत- चन्द्रप्रभो एष कुमारभूतः संस्तुत्य बुद्धमतुलीय प्रीतिया।
भाषित्व बुद्धान विशिष्ट वर्णं प्रशंसनीयः सद कालि भेष्यति॥

१॥

इहैव चो राजगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोटयः।
सर्वेष चानेन जिनान अन्तिके अयं वरः शान्तसमाधि पृच्छितः॥

२॥

सर्वत्र चो एष ममासि पुत्रो इमां चरन्तो वरबोधिचारिकाम्।
सर्वत्र चासीत् प्रतिभानवन्तः सर्वत्र चासीत् सद ब्रह्मचारी॥

३॥

स पश्चिमे कालि महाभयानके त्वमेव साक्षी अजिता ममात्र।
स्थिहित्व शुद्धे सद ब्रह्मचर्ये वैस्तारिकं एष समाधि काहिते॥

४॥

समाधिमेषन्तु इदं प्रणीतं एतेन मार्गेण स बोधि लप्स्यते।
परिगृहीतो बहुबुद्धकोटिभिः पूजां वरां काहिति नायकानाम्॥

५॥

ज्ञाने स्थिहित्वा अहु व्याकरोमि चन्द्रप्रभस्याचरितं विशिष्टम्।
न पश्चकालेऽस्य भवेऽन्तरायो न ब्रह्मचर्यस्य न जीवितस्य॥

६॥

हस्ते यथा आमलकानि पञ्च प्रजानाति बुद्धसहस्रकोटयः।
तदुत्तरे यात्तिक गङ्गवालिका अनागता येष्विय पूजना होति॥

७॥

देवान नागान अशीतिकोटयः यक्षाण चो कोटिसहस्र सप्ततिः।
औत्सुक्यमेषन्ति य पश्चकाले पूजां करोन्ता द्विपदोत्तमानाम्॥

८॥

स पूज कृत्वा द्विपदान उत्तमान् समुदाचरि ज्ञानमिमं निरुत्तरम्।
स पश्चिमे चोच्छ्रयि लोकनाथो विमलप्रभो नाम जिनो भविष्यति॥

९॥

इदं स्वकं व्याकरणं श्रुतित्वा प्रीतिस्फुटो आसि कुमारभूतः।
चन्द्रप्रभो उद्गत सप्त ताल उदानुदानेति नभे स्थिहित्वा॥

१०॥

अहो जिना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीबले स्थिता।
सुनिश्चिते उत्तमज्ञानि तिष्ठसि अनाभिभूतोऽसि परप्रवादिभिः॥

११॥

विवर्जिता सङ्ग विमुक्ति स्पर्शिता विभावितं वस्तु भवे न सज्जसि।
प्रपञ्च सर्वे सकला न भोन्ति ते असङ्गज्ञानं त्रिभवेऽभिवर्तते॥

१२॥

सर्वप्रपञ्चेभिरनोपलिप्ता दृष्टिः प्रपञ्चाः सकलाः प्रहीणाः।
सुभाविते मार्ग निकेतु नास्ति अनाभिभूता अविरुद्ध केनचित॥

१३॥

निकेतु त्रैधातुकि नास्ति तुभ्यं ओघाश्च ग्रन्थाश्च प्रहीण सर्वे।
तृष्णालताबन्धन सर्वि छिन्ना भव प्रहीणो भवसंघि नास्ति॥

१४॥

स्वभावु धर्माणमभावु जानसे अनाभिलप्या गिर संप्रभाषसे।
सिंहेन वा क्रोष्टुक तीर्थ नाशिता ये ते विपर्यासस्थिता अविद्वसु॥

१५॥

निधान श्रेष्ठं मयि लब्धमद्य धर्मं निधानं सुगतेन देशितम्।
प्रहीण सर्वा विनिपातु दुर्गति काङ्क्षा न मेहास्ति भविष्य नायकः॥

१६॥

मूर्धस्मि पाणिं प्रतिस्थापयित्वा सुवर्णवर्णं रुचिरं प्रभास्वरम्।
अभिषिञ्च बोधाय नरर्षभस्तं सदेवकं लोक स्थपेत्व साक्षिणम्॥

१७॥

इति श्रीसमाधिराजे स्मितव्याकरणपरिवर्तो नाम पञ्चदशः॥

१५॥