समाधिनिर्देशपरिवर्तः।
तत्र खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिनिर्देशकुशलेन भवितव्यम्। तत्र कुमार कतमः समाधिनिर्देशः ? या यथावत्तता सर्वधर्माणां समता अविषमता। अकल्पना अविकल्पना। अविठपना असमुत्थापना। अनुत्पादः अनिरोधः। कल्पविकल्पपरिकल्पसमुच्छेदः। चित्तानालम्बनता। अमनसिकारः। प्रज्ञप्तिसमुच्छेदः। वितर्कविकल्पसमुच्छेदः। रागद्वेषमोहसमुच्छेदः। नान्तानन्तमनसिकारः। मनसिकारसमुच्छेदः। स्कन्धधात्वायतनस्वभावज्ञानम्। स्मृतिमतिगतिह्रीधृतिचारित्राचारगोचरप्रतिपत्तिस्थानम्। अरणाभूमिः। शान्तभूमिः। सर्वप्रपञ्चसमुच्छेदः। सर्वबोधिसत्त्वशिक्षा। सर्वतथागतगोचरः। सर्वगुणपरिनिष्पत्तिः। अयमुच्यते कुमार समाधिनिर्देशः। यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्त्वो महासत्त्वोऽविरहितो भवति समाधिना, अभ्रान्तचित्तश्च भवति, महाकरुणासमन्वागतोऽप्रमेयाणां च सत्त्वानमर्थं करोति॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-
समाध्यविषमा भूमिः शान्ता सूक्ष्मा सुदुर्दृशा।
सर्वसंज्ञासमुद्धातः समाधिस्तेन चोच्यते॥
१॥
अकल्पश्चाविकल्पश्चाग्राह्यत्वमनिदर्शनम्।
अनुपलब्धिश्चित्तस्य समाधिस्तेन चोच्यते॥
२॥
समाहितो यदा भोति सर्वधर्मा न मन्यते।
अमन्यना यथाभूतं समाधिरिति शब्दितः॥
३॥
न धर्मेऽस्ति रजोमात्र रजश्चापि न विद्यते।
अनुपलब्धिर्धर्माणां समाधिस्तेन चोच्यते॥
४॥
चित्तस्यानुपलब्धिश्च विकल्पो ह्येष चोच्यते।
अविकल्पिताश्च ते धर्मा समाधिरेष जानथः॥
५॥
शब्देन सूचितो ह्यर्थः स च शब्दो अवस्तुकः।
प्रतिश्रुत्कोपमः शब्दो अन्तरीक्षं यथा नभः॥
६॥
अस्थिता हि इमे धर्माः स्थितिरेषां न विद्यते।
अस्थितिः स्थितिशब्देन स्वभावेन न लभ्यते॥
७॥
च्यवते अगतीत्येवं गतिश्चासौ न विद्यते।
अगतिर्गतिशब्देन समाधिर्नदितस्तथा॥
८॥
असमाहितो वुच्यति एष मन्यना
समाहितो एष द्वितीय मन्यना।
अमन्यमाना विचरन्ति बोधये
अमन्यमाना स्पृशि बोधिमुत्तमाम्॥
९॥
समविषम एष शान्तभूमिः
शमथविपश्यनानिमित्त एषा।
सेविय इमु शान्त बुद्धबोधिं
स इह प्रयुक्त समाधिभावनायाम्॥
१०॥
न च पुनरियमक्षरेहि शक्यं
प्रविशितु अर्थगति प्रवेशे।
सर्वरुत जहित्व भाष्यघोषं
भवति समाहित नो च मन्यनास्य॥
११॥
यश्च इह समाधि बोधिसत्त्वो
यथ-उपदिष्टु तथा स्थिहेत युक्तः।
सचेदिह भवि कल्पदाहु क्षेत्रे
गिरिवरमध्यगतं न तं दहेऽग्निः॥
१२॥
यथ गगनु न जातु दग्धपूर्वं
सुबहुकल्पशतेहि दह्यमानम्।
गगनसमा अधिजानमान धर्मां-
स्ते न जातु दह्यति सोऽग्निमध्ये॥
१३॥
सचि पुन ज्वलमान बुद्धक्षेत्रे
प्रणिधि करोति समाधिये स्थिहित्वा।
ज्वलनु अयु प्रशाम्यतामशेषं
पृथिवी विनश्यि न चास्य अन्यथात्वम्॥
१४॥
ऋद्धिबलु अनन्तु तस्य भोति
खगपथि गच्छति सो असज्जमानः।
इमि गुण अनुभोति बोधिसत्त्वो
यथ-अनुशिष्टु समाधिये स्थिहित्वा॥
१५॥
जायते च्यवते वापि न च जाति न च्युतिः।
यस्य विजानना एषा समाध्यस्य न दुर्लभा॥
१६॥
न च्युतिर्नापि चो जाति लोकनाथेन देशिता।
लोकनाथं विदित्वैवं समाधिं तेन जानथ॥
१७॥
अनोपलिप्ता लोकेन लोकधर्मे न सज्जति।
असज्जमानः कायेन बुद्धक्षेत्राणि गच्छति॥
१८॥
क्षेत्रेषु पश्यते नित्यं संबुद्धान् लोकनायकान्।
धर्मं च शृणुते तत्र बुद्धक्षेत्रेषु भाषितम्॥
१९॥
न जातु तस्य अज्ञानं धर्मधातुं च भाषते।
गतिज्ञः सततो धर्मे धर्मधातुमयो हि सः॥
२०॥
भाषतः कल्पकोट्योऽपि प्रतिभानं न हीयते।
निर्मिणोति बहूनन्यान् बोधिसत्त्वान् विचक्षणः॥
२१॥
क्षेत्रातः क्षेत्र गच्छन्ति बोधिसत्त्वान निर्मिताः।
सहस्रपत्रपद्मेषु पर्यङ्केन निषण्णकाः॥
२२॥
बुद्धबोधिं प्रकाशेन्ति धारणीसूत्रशोभनम्।
अन्याश्च सूत्रकोटीयो समाधिं शान्त भावयन्॥
२३॥
अविवर्तिकपथे स्थापेन्ति बहून् सत्त्वानचिन्तियान्।
प्रतिभानं क्षयं नैति बुद्धबोधिं प्रकाशिय॥
२४॥
कूटागारे हि गच्छन्ति रतनेहि विचित्रिते।
ओकिरन्ति च पुष्पेहि गन्धवद्भिर्विनायकम्॥
२५॥
ओकिरन्ति च चूर्णेहि गन्धवन्तेहि नायकम्।
कुर्वन्ति विपुलां पूजां सर्वे ते बोधिकारणात्॥
२६॥
अप्रमेया गुणा एते बोधिसत्त्वान तायिनाम्।
निष्किलेशा यदा भोन्ति तदा ऋद्धिं लभन्ति ते॥
२७॥
अनुपत्तिकिलेशान अच्छाः शुद्धाः प्रभास्वराः।
असंस्कृता अकोप्याश्च बोधिसत्त्वान गोचराः॥
२८॥
प्रशान्ता उपशान्ताश्च निष्किलेशा अनङ्गनाः।
अप्रपञ्चा निष्प्रपञ्चाः प्रपञ्चसमतिक्रमाः॥
२९॥
अप्रचारोऽक्षराणां च सर्वधर्माण लक्षणम्।
दुर्विज्ञेयश्च घोषेण समाधिस्तेन चोच्यते॥
३०॥
अक्षया उपशान्ता च अनाभोगा अदर्शना।
गोचरः सर्वबुद्धानां भूतकोटिरनाविला॥
३१॥
सर्वबुद्धानियं शिक्षा सर्वधर्मस्वभावता।
इह शिक्षित्व संबुद्धा गुणानां पारमिं गताः॥
३२॥
न संपारं न वापारं पूर्वान्तो न विकल्पितः।
तेन ते सर्व संबुद्धा गुणानां पारमिं गताः॥
३३॥
अनागतानगतिकान् धर्मान् ज्ञात्वा स्वभावतः।
निष्प्रपञ्चाननाभोगांस्तत्र ते पारमिं गताः॥
३४॥
इति श्रीसमाधिराजे समाधिनिर्देशपरिवर्तस्त्रयोदशः॥
१३॥