11 सूत्रधारणपरिवर्तः

सूत्रधारणपरिवर्तः।
अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य निविशनरथ्यामवगाहमानश्चन्द्रप्रभस्य कुमारभूतस्य निवेशनं प्रविष्टोऽभूत्। प्रविश्य च न्यषीदत् प्रज्ञप्त एवासने। यथार्हे चासने बोधिसत्त्वसंघो भिक्षुसंघश्च निषण्णोऽभूत्। अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं बोधिसत्त्वसंघं भिक्षुसंघं च निषण्णं विदित्वा स्वयमेव शतरसेन भोजनेन प्रणीतेन प्रभूतेन खादनीयेन भोजनीयेन लेह्येन चोष्येण पेयेन भगवन्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तमपनीतधौतपाणिं विदित्वा दिव्येन नवनवतिकोटीशतसहस्रमूल्येन दूष्ययुगेन भगवन्तमभिच्छादयामास। तेषां च बोधिसत्त्वानां भिक्षुसंघस्य च प्रत्येकं प्रत्येकं त्रिचीवरमदातू॥

अथ खलु चन्द्रप्रभः कुमारभूत एकांसमुत्तरासङ्ग कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसाभिवन्द्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति स्म - कथं चरन्तो विदु बोधिसत्त्वः स्वभावु धर्माण सदा प्रजानते।
कथं क्रियामाचरते विचक्षणः क्रियामाचरते भोतारु वदाहि नायक॥

१॥

कथं च जातिस्मरु भोति नायक न चापि गर्भे उपपद्यते कथम्।
कथं परीवारु भवेदभेद्य प्रतिभानु भोतीह कथमनन्तकम्॥

२॥

सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ति ज्ञानु वर्तते।
अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं मम व्याकरोहि॥

३॥

स्वभाव धर्माणमभावु जानसे अनाभिलप्यां गिर संप्रभाषसे।
सिंहेन वा धर्षित सर्व क्रोष्टका स्तथैव बुद्धेनिह अन्यतीर्थिकाः॥

४॥

सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ज्ञानानुवर्तते।
असङ्गज्ञानी परिशुद्धगोचरा तं व्याकरोहि मम धर्मस्वामी॥

५॥

अतीतु जानासि तथा अनागतं यच्च इहा वर्तति प्रत्युत्पन्नम्।
त्रियध्वज्ञानं ति असङ्गु वर्तते तेनाहु पृच्छामिह शाक्यसिंहम्॥

६॥

त्रियध्वयुक्तान जिनान धर्मता त्वं धर्मतां जानसि धर्मराज।
धर्मस्वभावकुशलः स्वयंभू- स्तेनाहु पृच्छामिह ज्ञानसागरम्॥

७॥

यत् किंचि धर्मं स्खलितं न तेऽस्ति ततो ति चित्तं निखिलं प्रहीणम्।
प्रहीण ग्रन्था खिलमोहसादका देशेहि मे बोधिचरिं नरेन्द्र॥

८॥

यल्लक्षणा धर्म जिनेन बुद्धा - स्तल्लक्षणं धर्म मम प्रकाशय।
यल्लक्षणं धर्ममहं विदित्वा तल्लक्षणं बोधि चरिष्यि चारिकाम्॥

९॥

विलक्षणां सत्त्वचरीमनन्तां कथं चरन्तश्चरिमोतरन्ति।
चरीप्रवेशं मम देशय स्वयं श्रुत्वा च सत्त्वान चरिं प्रजानियाम्॥

१०॥

विलक्षणं धर्मस्वभावलक्षणं स्वभावशून्यं प्रकृतीविविक्तम्।
प्रत्यक्ष भोन्ति कथ बोधिसत्त्वः प्रकाशयस्व मम बुद्धनेत्रीम्॥

११॥

सर्वेषु धर्मेष्विह पारमिंगताः सर्वेषु निर्देशपदेषु शिक्षिताः।
निःसंशयी संशयकाङ्क्षक्षछेदके प्रकाशयाही मम बुद्धबोधिम्॥

१२॥

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य चेतसैव चेतःपरिवितर्कमाज्ञाथ चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-एकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्वः एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते। कतमेनैकेन धर्मेण इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं यथाभूतं प्रजानाति ? कथं च कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं जानाति ? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माननामकान् नामापगतान् प्रजानाति। घोषापगतान् वाक्पथापगतान् अक्षरापगतान् उत्पादापगतान् निरोधापगतान् हेतुविलक्षणान् प्रत्ययविलक्षणान् विपाकलक्षणानारम्भणलक्षणान् विवेकलक्षणान् एकलक्षणान् यदुतालक्षणान् निमित्तापगतान् अचिन्त्यांश्चिन्तापगतान् मनोपगतान् सर्वधर्मान् यथाभूतं प्रजानाति। अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत- एकु निर्देश धर्माणां सर्वधर्मा अलक्षणाः।
देशिता वरप्रज्ञेन यथाभूतं प्रजानता॥

१३॥

य एवं धर्मनिर्देशं बोधिसत्त्वः प्रजानति।
न तस्य भोति विष्ठानं सूत्रकोट्या प्रभाषतः॥

१४॥

अधिष्ठितो नायको हि भूतकोटीं प्रजानति।
प्रजानाति च तां कोटीं न चात्रो किंचि भाषितम्॥

१५॥

एकेन सर्वं जानाति सर्वमेकन पश्यति।
कियद् बहुं पु भाषित्वा न तस्योत्पद्यते महः॥

१६॥

तथास्य चित्तं निध्याप्तं सर्वधर्मा अनामकाः।
शिक्षितो नामनिर्देशे भूतां वाचं प्रभाषते॥

१७॥

शृणोति घोषं यं कंचित् पूर्वान्तं तस्य जानति।
ज्ञात्वा घोषस्य पूर्वान्तं घोषेण ह्रियते न सः॥

१८॥

यथा घोषस्य पूर्वान्तं एवं धर्माण लक्षणम्।
एवं धर्मान् प्रजानन्तो न गर्भेषूपपद्यते॥

१९॥

अजातिः सर्वधर्माणामनुत्पत्तिं प्रजानति।
प्रजानन् जातिनिर्देशं भवेज्जातिस्मरः सदा॥

२०॥

यदा जातिस्मरो भोति तदा च चरते क्रियाम्।
क्रियामोतरमाणस्य परिवारो न भिद्यते॥

२१॥

यं एवं शून्यकान् धर्मान् बोधिसत्त्वः प्रजानति।
न तस्य किंचिदज्ञातमेषा कोटिरकिंचना॥

२२॥

अकिंचनायां कोट्यां हि किंचिद् बालैर्विकल्पितम्।
येन ते कल्पकोटीयः संसरन्ति पुनः पुनः॥

२३॥

सचेत्ते कल्प जानीयुर्यथा जानति नायकः।
न तेषां दुःखु जायेत नापि गच्छेयु दुर्गतिम्॥

२४॥

एवं पृथग्जनाः सर्वे अजानन्त इमं नयम्।
क्षिपन्ति ईदृशान् धर्मान् यत्र दुःखं निरुध्यते॥

२५॥

अलब्धिः सर्वधर्माणां धर्मसंज्ञा प्रवर्तते।
सा एवंजातिका संज्ञा संज्ञामेव विजानथ॥

२६॥

विजानना च संज्ञा च बालैरेतद्विकल्पितम्।
प्रकल्पितेषु धर्मेषु नात्र मुह्यन्ति पण्डिताः॥

२७॥

पण्डितानामियं भूमिर्बालानां नात्र गोचरः।
गोचरो बुद्धपुत्राणां शून्या धर्मा अनाविलाः॥

२८॥

बोधिसत्त्वानामियं भूमिर्बुद्धपुत्रचरी इयम्।
बुद्धधर्माणलंकारो देशिता शान्त शून्यता॥

२९॥

यदा च बोधिसत्त्वानां प्रहीणा भोति वासना।
न ते ह्रियन्ति रूपेहि बुद्धगोत्रस्मि ते स्थिताः॥

३०॥

अस्थान सर्वधर्माणां स्थानमेषां न विद्यते।
य एवं स्थान जानाति बोधिस्तस्य न दुर्लभा॥

३१॥

दानं शीलं श्रुतं क्षान्तिं सेवित्वा मित्र भद्रकान्।
इमां क्रियां विजानन्तः क्षिप्रं बोधिं स बुध्यते॥

३२॥

देवाथ नागाः सद सत्करोन्ति गन्धर्व यक्षा असुरा महोरगाः।
सर्वे च राजान सुपर्णि किन्नरा निशाचराश्चास्य करोन्ति पूजाम्॥

३३॥

यशोऽस्य भाषन्ति च बुद्धकोटियो बहुकल्पकोट्योऽपि अधिष्ठिहन्तः।
धर्म प्रकाशन्तिय भोति वर्णो न शक्यु पर्यन्तु क्षपेतु तस्य॥

३४॥

यः शून्यतां जानति बोधिसत्त्वः करोति सोऽर्थं बहुप्राणिकोटिनाम्।
देशेति धर्मं पर्यायसूत्रतो श्रुत्वास्य प्रेम जनयन्ति गौरवम्॥

३५॥

ज्ञानं च तेषां विपुलं प्रवर्तते येनेति पश्यन्ति नरोत्तमान् जिनान्।
क्षेत्रे च पश्यन्ति वियूह शोभनं धर्मं च देशेन्ति ते लोकनाथाः॥

३६॥

मायोपमान् जानथ सर्वधर्मान् यथान्तरीक्षं प्रकृतीय शून्यम्।
प्रकृतिं पि सो जानति तेष तादृशी- मेवं चरन्तो न कहिंचि सज्जति॥

३७॥

ज्ञानेनासङ्गेन करोति सोऽर्थं लोके चरन्तो वरबोधिचारिकाम्।
ज्ञानेन ते वीक्षिय सर्वधर्मान् प्रेषेन्ति ते निर्मित अन्यक्षेत्रान्॥

३८॥

ते बुद्धकृत्यं करियाण निर्मिता प्रकृतीय गच्छन्ति यथैव धर्मताम्।
यथाभिप्रायं च लभन्ति तेऽर्थं ये बोधिचित्तस्मि नराः प्रतिष्ठिताः॥

३९॥

स भोति बुद्धान् सदा कृतज्ञो यो बुद्धवंशस्य स्थितीय युज्यते।
विरोचमानेन समुच्छ्रयेण द्वात्रिंश कायेऽस्य भवन्ति लक्षणाः॥

४०॥

अन्याननन्तान् बहु आनुशंसान् श्रेष्ठं समाधौ चरमाणु लप्स्यते।
महाबलो भोति सदा अकम्पियो राजान् तस्यो न सहन्ति तेजः॥

४१॥

प्रासादिको भोति महाभिषट्कः पुण्येन तेजेन शिरीय चोद्गतः।
देवापि नो तस्य सहन्ति तेजो यो बुद्धधर्मेषु चरेय पण्डितः॥

४२॥

मित्रं स भोति सद सर्वप्राणिनां यो बोधिचित्तस्मि दृढं प्रतिष्ठितः।
न चान्धकारोऽस्य कदाचि भोति प्रकाशयन्तस्मि स बुद्धबोधिम्॥

४३॥

अपगतगिरवाक्पथा अनभिलप्या यथ गगनं तथ ताः स्वभावधर्माः।
इम गति परमां विजानमानो तथ तु भवति प्रतिभानु अक्षयं से॥

४४॥

सूत्रशतसहस्र भाषमाणः सूक्ष्म प्रजानति पूर्विकां स कोटिम्।
सद विदु भवती असङ्गवाक्यः सुसुखुम धर्मस्वभावु जानमानः॥

४५॥

नयशतकुशलश्च नित्यु भोति बहुविधघोषनिरुक्तिकोविदश्च।
कर्मफलविभक्ति निश्चिताश्चो भोन्ति विशिष्ट विशेष एवरूपाः॥

४६॥

अविकलवेशधारी भोति दशबलआत्मज पण्डितो महात्मा।
सद स्भृति परिशुद्ध तस्य भोति सुसुखुम धर्मस्वभावु जानमानः॥

४७॥

न श्रुणति अमनोज्ञ शब्द जातु श्रुणति प्रणीत मनापु नित्य शब्दान्।
सद भवति मनोज्ञ तस्य वाचा सुसुखुम धर्मस्वभावु जानमानः॥

४८॥

स्मृतिमतिगतिप्रज्ञवन्तु भोति तथपि च चित्तमनाविलं प्रसन्नम्।
सूत्रशतसहस्रु भाषते अनेकान् सुसुखुम धर्मस्वभावु जानमानः॥

४९॥

अक्षरपदप्रभेदकोविदश्चो रुत बहु जानति नैक अन्यमन्ये।
अर्थकुशल भोति व्यञ्जनो च इम गुण धर्मस्वभावु जानमानः॥

५०॥

देवमनुजनागराक्षसानाम् असुरमहोरगकिन्नराण नित्यम्।
तेष सद प्रिय मनाप भोति सुसुखुम धर्मस्वभावु जानमानः॥

५१॥

भूतगणपिशाचराक्षसाश्चो परमसुदारुण ये च मांसभक्षाः।
तेऽस्य भयु न जातु संजनेन्ति सुसुखुम धर्मस्वभावु जानमानः॥

५२॥

विपुल कथं श्रुणित्व पण्डितानां विपुल प्रजायति रोमहर्ष तेषाम्।
विपुल तद जनेन्ति बुद्धप्रेमं विपुल अचिन्तियु तेषु भोति अर्थः॥

५३॥

पुण्यबल न शक्यु तेष वक्तुं बहुमपि कल्पसहस्र भाषमाणैः।
अपरिमित अनन्त अप्रमेय इमु सुगतान धरेत्व धर्मगञ्जम्॥

५४॥

सर्व जिन अतीत पूजितास्ते अपरिमिता य अनागताश्च बुद्धाः।
दशसु दिशासु ये स्थिताश्च बुद्धा इम वर शान्त समाधि धारयित्वा॥

५५॥

यथ नरु इह कश्चि पुण्यकामो दशबल कारुणिकानुपस्थिहेय्या।
अपरिमित अनन्त कल्पकोटी- रपरिमितं च जनेतु प्रेम तेषु॥

५६॥

द्वितीय नरु भवेत पुण्यकामो इतु परमार्थनयात्तु गाथमेकाम्।
धरिय चरिमकालि वर्तमाने परिमकु पुण्यकला न भोति तस्य॥

५७॥

परम इयं विशिष्ट बुद्धपूजा चरिमकि दारुणि कालि वर्तमाने।
चतुपदमित गाथमेकु श्रुत्वा धारयि पूजित तेन सर्वबुद्धाः॥

५८॥

परम सद सुलब्ध तेहि लाभा परम सुभुक्तु सदा व राष्ट्रपिण्डम्।
परम दशबलस्य ज्येष्ठपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम्॥

५९॥

अहमपि इह दृष्ट गृघ्रकूटे तथ मय व्याकृत तेऽपि बुद्धज्ञाने।
अपि च मय परीतु मैत्रक स्यां पुनरपि व्याकरणाय तस्मि काले॥

६०॥

तथ पुनरमितायु तेष तत्रो भाषते बुद्ध अनेक आनुशंसाम्।
सर्वि इमि सुखावतीं प्रविष्टो अभिरति गत्व अक्षोभ्य पश्यि बुद्धम्॥

६१॥

कल्पशतसहस्र अप्रमेया न च विनिपातभयं कदाचि भोति।
इमु वरु चरमाणु बोधिचर्या - मनुभवति स हि नित्य सौमनस्यम्॥

६२॥

तस्य इमु विशिष्ट एवरूपा य इमु प्रकाशित श्रेष्ठ आनुशंसाम्।
प्रतिपदमनुशिक्षमाण मह्यं पश्चिमि कालि धरेयु एत सूत्रम्॥

६३॥

इति श्रीसमाधिराजे सूत्रधारणपरिवर्तो नामैकादशः॥

११॥