08 अभावसमुद्गतपरिवर्तः

अभावसमुद्गतपरिवर्तः।
तत्र पुनरपि भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-भूतपूर्वं कुमार अतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलरैप्रमेयैरचिन्त्यैरपरिमाणैर्यदासीत्। तेन कालेन तेन समयेन अभावसमुद्गतो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तत् किं मन्यसे कुमार केन कारणेन स तथागतोऽभावसमुद्गत इत्युच्यते ? स खलु पुनः कुमार तथागतो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा इमामेवंरूपां वाचमभाषत-अभावसमुद्गताः सर्वधर्माः, अभावसमुद्गताः सर्वधर्मा इति। तेन च कुमार शब्देन त्रिसाहस्रमहासाहस्रो लोकधातुः स्वरेणाभिविज्ञप्तोऽभूत्। तत्र भौमान् देवानुपादाय यावद् ब्रह्मलोकं परंपरया शब्दमुदीरयामासुः घोषमनुश्रावयामासुः-अभावसमुद्गतो बतायं तथागतो भविष्यति, यो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा अभावशब्दमुदीरयति। इति ह्यभावसमुद्गतोऽभावसमुद्गत इति तस्य तथागतस्य नामधेयमुदपादि। तस्य च भगवतो बोधिप्राप्तस्य सर्ववृक्षपत्रेभ्यः सर्वतृणगुल्मौषधिवनस्पतिभ्यः सर्वशैलशिखरेभ्यश्चाभावसमुद्गतशब्दो निश्चरति। यावति च तत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतोऽभावसमुद्गतविज्ञप्तिशब्दो निश्चरति। तेन च कुमार कालेन तेन समयेन तस्य भगवतोऽभावसमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचिन्ती नाम राजकुमारोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः। अथ खलु कुमार स महाकरुणाचिन्ती नाम राजकुमारो येन भगवान् अभावसमुद्गतस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोसंक्रामत्। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात्॥

अथ खलु कुमार स भगवान् अभावसमुद्गतस्तथागतोऽर्हन् सम्यक्संबुद्धो महाकरुणाचिन्तिनो राजकुमारस्याध्याशयं विदित्वा इमं समाधिं देशयामास। अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारः इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रसीदति स्म। प्रसन्नचित्तश्च केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितोऽभूत्। स प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान्। उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत्। स तैनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्। विंशतीनां कल्पानामत्ययेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभूत्। सुविचिन्तितार्थो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि। सर्वेषु च तेषु कल्पेषु विशतिं च बुद्धकोटीरारागयामास। पश्य कुमार यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत- स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराणमुत्तमः।
उत्पन्नु लोकार्थकरो महर्षि- र्नाम्ना हि सोऽभावसमुद्गतोऽभूत्॥

१॥

स जातमात्रो गगने स्थिहित्वा सर्वेष धर्माण अभावु देशयी।
तदानुरूपं कृतु नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञपी॥

२॥

देवापि सर्वे प्रमुमोच शब्दं अभावु नाम्नेति जिनो भविष्यति।
यो जातमात्रः पद सप्त प्रक्रम- न्नभावु धर्माण ब्रवीति नायकः॥

३॥

बुद्धो यदा भेष्यति धर्मराजः सर्वेष धर्माण प्रकाशको मुनिः।
तृणवृक्षगुल्मौषधिशैलपर्वते अभावु धर्माण रवो भविष्यति॥

४॥

यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः।
तावन्ति खो तस्य तथागतस्य स्वरु निश्चरी लोकविनायकस्य॥

५॥

तस्मिंश्च काले अभु राजपुत्रः करुणाविचिन्ती सद नामधेयः।
अभिरूप प्रासादिक दर्शनीय उपागमी तस्य जिनस्य अन्तिकम्॥

६॥

वन्दित्व पादौ मुनिपुंगवस्य प्रदक्षिणं कृत्य च गौरवेण।
प्रसन्नचित्तो निषसाद तत्र श्रवणाय धर्मं विरजमनुत्तरम्॥

७॥

स चो जिनो आशयु ज्ञात्व धीरः प्रकाशयामास समाधिमेतम्।
श्रुत्वा च सो इमु विरजं समाधिं लघु प्रव्रजी जिनवरशासनेऽस्मिन्॥

८॥

स प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वा।
कल्पान कोट्यः परिपूर्ण विंशतिं न जातु गच्छे विनिपातभूमिम्॥

९॥

स तेन चैवं कुशलेन कर्मणा आरागयी विंशति बुद्धकोट्यः।
तेषां च सर्वेषु जिनान अन्तिका- दिमं वरं शान्त समाधि भावयी॥

१०॥

स पश्चिकाले अभु बुद्ध लोके सुचिन्तितार्थो सदनामधेयः।
कृत्वा च अर्थं बहुप्राणकोटिनां स पश्चकालस्मि शिखीव निर्वृतः॥

११॥

तस्माद्धि य इच्छति बोधि बुद्धितुं सत्त्वांश्च उत्तरायितुं भवार्णवात्।
धारेत सूत्रमिमु बुद्धवर्णितं न दुर्लभा भेष्यति सोऽग्रबोधिः॥

१२॥

इति श्री समाधिराजे अभावसमुद्गतपरिवर्तो नामाष्टमः॥

८॥