04 बुद्धानुस्मृतिपरिवर्तः

४ बुद्धानुस्मृतिपरिवर्तः।
अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत्-समाधिः समाधिरिति भगवन्नुच्यते। कतमस्यैतद्धर्मस्याधिवचनं समाधिरिति ? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत्-समाधिः समाधिरिति कुमार उच्यते यदुत चित्तनिध्याप्तिः। अनुपपत्तिः। अप्रतिसंधिः। प्रतिसंधिज्ञानम्। अपहृतभारता। तथागतज्ञानम्। बुद्धवृषभिता। रागचिकित्सा। दोषव्युपशमः। मोहस्य प्रहाणम्। युक्तयोगिता। अयुक्तविवर्जनता। अकुशलधर्मच्छन्दः। संसारान्मोक्षकामता। अध्याशयप्रतिपत्तिः। जागरिकाया आसेवनम्। प्रहाणस्यानुत्सर्गः। आरक्षा शुक्लधर्माणाम्। उपपत्तिष्वविश्वासः। अनभिसंस्कारः। कर्मणामाध्यात्मिकानामायतनानाममनसिकारः। बाह्यानामायतनानामसमुदाचारः। आत्मनोऽनुत्कर्षणम्। परेषामपंसनता। कुशलेष्वनध्यवसानम्। पृथग्जनेष्वविश्वासः।
शीलस्य निष्यन्दः। दुरासदता। महौजस्कता। आत्मज्ञानम्। अचपलता। ईर्यापथसंपदवस्थानम्। अव्यापादः। अपारुष्यम्। परेष्वनुत्पीडा। मित्राणामनुरक्षणा। गुह्यमन्त्राणामारक्षणा। अविहिंसा। शीलवतामनुत्पीडना। श्लक्ष्णवचनता। सर्वत्रैधातुके अनिःश्रितता। सर्वधर्मेषु शून्यता। आनुलोमिकी क्षान्तिः। सर्वज्ञज्ञाने तीव्रच्छन्दता समाधिः समाधिरिति कुमार उच्यते। या एवेष्वेवंरूपेषु धर्मेषु प्रतिपत्तिरप्रतिपत्तिः, अयं स कुमार उच्यते समाधिरिति॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत- अपावृतं मे अमृतस्य द्वारम् आचक्षितो धर्मस्वभावु यादृशः।
निदर्शिता मे उपपत्ति यादृशी प्रकाशिता निर्वृति सानुशंसा॥

१॥

विवर्जनीयाः सद पापमित्राः कल्याणमित्राश्च निषेवितव्याः।
वनेषु वस्तव्य गणान् जहित्वा मैत्रं च चित्तं सद भावनीयम्॥

२॥

शुद्धं च शीलं सद रक्षितव्यं धूतेषु पुष्टिः सद विन्दितव्या।
त्यागश्च प्रज्ञा च निषेवितव्या।
न दुर्लभो एष समाधि भेष्यति॥

३॥

ततो लभित्वा इम शान्तभूमि यस्यामभूमिः पृथु श्रावकाणाम्।
प्रत्यक्षभूता सुगतस्य धर्म प्रतिलप्स्यथा बुद्धगुणानचिन्तियान्॥

४॥

दृष्ट्वा नरान् भाजनबुद्धिमन्तान् तान् बोधिचित्तस्मि समादहेथ।
अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधिराजः॥

५॥

यस्यार्थि ईर्षा पुन संजनेय्या आहारि निष्यन्दिह प्रत्यवेक्षतः।
पर्येष्टितश्चो परिभोगतश्च न दुर्लभो एष समाधि भेष्यते॥

६॥

समाधिराजो यदि वैष शून्यतो विशुद्धशीलानयु मूर्ध्नि तिष्ठति।
स्वभावतो धर्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः॥

७॥

येषामयं शान्त समाधिरिष्टो न तेष जातु भयबुद्धि तिष्ठति।
सदानुपश्यन्ति नराणमुत्तम- मिमां निषेवित्व प्रशान्तभूमिम्॥

८॥

आकारतो यः स्मरते तथागतान् स भोति शान्तेन्द्रियु शान्तमानसः।
अभ्रान्तचित्तः सततं समाहितः श्रुतेन ज्ञानेन च सागरोपमः॥

९॥

अस्मिन् समाधौ हि प्रतिष्ठिहित्त्वा यश्चंक्रमे चंक्रमि बोधिसत्त्वः।
स पश्यति बुद्धसहस्रकोटिय- स्तदुत्तरे यात्तिक गङ्गवालुकाः॥

१०॥

उन्मादु गच्छेय नरस्य चित्तं यो बुद्धधर्माण प्रमाणु गृह्णीयात्।
नैवाप्रमाणस्य प्रमाणमस्ति अचिन्तिया सर्वगुणेहि नायकाः॥

११॥

न सोऽस्ति सत्त्वो दशसु दिशासु यो लोकनाथेन समः कुतोत्तरि।
सर्वे हि सर्वज्ञगुणरुपेत- माकाङ्क्षथ लप्स्यथ बुद्धज्ञानम्॥

१२॥

सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः।
यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्वः॥

१३॥

असंस्कृतं संस्कृतु ज्ञात्व विज्ञो निमित्तसंज्ञाय विभाविताय।
सो आनिमित्ते भवति प्रतिष्ठितः प्रजानती शून्यक सर्वधर्मान्॥

१४॥

यो धर्मकाये भवति प्रतिष्ठितो अभाव जानाति स सर्वभावान्।
अभावसंज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यति॥

१५॥

आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः।
तथा तथा भवति तन्निमित्तचित्त- स्तेहि वितर्केहि तन्निश्रितेहि॥

१६॥

एवं मुनीन्द्रं स्मरतो नरस्य आकारतो ज्ञानतो अप्रमेयतः।
अनुस्मृतिं भावयतः सदा च तन्निम्नचित्तं भवती तत्प्रोणम्॥

१७॥

स चंक्रमस्थो न निषद्यमाश्रित आकाङ्क्षते पुरुषवरस्य ज्ञानम्।
आकाङ्क्षमाणः प्रणिघेति बोधये भविष्यहं लोकि निरुत्तरो जिनः॥

१८॥

स बुद्ध संजानति बुद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते।
इह समाधिस्मि प्रतिष्ठिहित्वा नमस्यते बुद्ध महानुभावान्॥

१९॥

कायेन वाचा च प्रसन्न मानसा बुद्धान वर्णं भणती अभीक्ष्णम्।
तथाहि सो भावितचित्तसंतती।
रात्रिंदिवं पश्यति लोकनाथान्॥

२०॥

यदापि सो भोति गिलान आतुरः प्रवर्तते वेदन मारणान्तिका।
न बुद्धमारभ्य स्मृतिः प्रमुष्यते न वेदनाभिरनुसंहरीयति॥

२१॥

तथा हि तेन विचिनित्व ज्ञाता अनागता आगत धर्मशून्यता।
सो तादृशे धर्मनये प्रतिष्ठितो न खिद्यते चित्त चरन्तु चारिकाम्॥

२२॥

तस्माच्छ्रुणित्वा इमु आनुशंसा जनेथ छन्दमतुलाय बोधये।
मा पश्चकाले परितापु भेष्यत सुदुर्लभं सुगतवराण दर्शनम्॥

२३॥

अहं च भाषेय प्रणीत धर्मं यूयं च श्रुत्वान समाचरेथाः।
भैषज्य वस्त्रां च गृहीत्व आतुरो- ऽपनेतु व्याधिं न प्रभोति आत्मनः॥

२४॥

तस्माद्विधिज्ञेन विचक्षणेन इमं समाधिं प्रतिकाङ्क्षता सदा।
शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति॥

२५॥

इति श्रीसमाधिराजे बुद्धानुस्मृतिपरिवर्तो नाम चतुर्थः॥