03 भूतगुणवर्णप्रकाशनपरिवर्तः

भूतगुणवर्णप्रकाशनपरिवर्तः।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हिं कुमार यो बोधिसत्त्वो महासत्त्व आकाङ्क्षति तथागतस्यार्हतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रकाशयितुं नो चार्थतो वा व्यञ्जनतो वा पर्यादानं गन्तुं सर्वं च मे वचनं बुद्धपरिगृहीतं निश्चरितुमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामर्थाय अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः। कतमे च ते कुमार तथागतस्य भूता बुद्धगुणाः ? इह कुमार बोधिसत्त्वो महासत्त्वोऽरण्यगतो वा वृक्षमूलगतो वा अभ्यवकाशगतो वा शून्यागारमध्यगतो वा एवं प्रतिसंशिक्षते-एवं स भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। निष्यन्दः स तथागतः पुण्यानाम्। अविप्रणाशः कुशलमूलानाम्। अलंकृतः क्षान्त्या। आगमः पुण्यनिधानानाम्। चित्रितोऽनुव्यञ्जनैः। कुसुमितो लक्षणैः। प्रतिरूपो गोचरेण। अप्रतिकूलो दर्शनेन। अभिरतिः श्रद्धाधिमुक्तानाम्। अनभिभूतः प्रज्ञया। अनवमर्दनीयो बलैः। शास्ता सर्वसत्त्वानाम्। पिता बोधिसत्त्वानाम्। राजा आर्यपुद्गलानाम्। सार्थवाह आदिकर्मिकाणाम्। अप्रमेयो ज्ञानेन। अनन्तः प्रतिभानेन। विशुद्धःस्वरेण। आस्वादनीयो घोषेण। असेचनको रूपेण। अप्रतिसमः कायेन। अलिप्तः कामैः। अनुपलिप्तो रूपैः। असंसृष्ट आरूप्यैः। विमुक्तो दुःखेभ्यः। विप्रमुक्तः स्कन्धेभ्यः। विसंयुक्तो धातुभिः। संवृत आयतनैः। प्रतिच्छन्नो ग्रन्थैः। विमुक्तः परिदाहैः। परिमुक्तस्तृष्णायाः। ओघादुत्तीर्णः। परिपूर्णो ज्ञानेन। प्रतिष्ठितोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने। अप्रतिष्ठितो निर्वाणे। स्थितो भूतकोट्याम्। स्थितः सर्वसत्त्वोल्लोकनीयायां भूमौ। इमे ते कुमार तथागतस्य भूता बुद्धगुणाः। एभिर्बुद्धगुणवर्णैः समन्वागतो बोधिसत्त्वो महासत्त्व इमं समाधिमागम्य अनाच्छेद्येन प्रतिभानेन तथागतस्याहतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रकाशयन् नो चार्थतो नो व्यञ्जनतश्च पर्यादानं गच्छति। सर्वं चास्य वचनं बुद्धपरिगृहीतं निश्चरति॥

अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत- न सुकरु जिनवर्ण सर्वि वक्तुं बहुमपि कल्पसहस्र भाषमाणैः।
तथ गुण समुदानिता जिनेभिः इमु वरु शान्त समाधिमेषमाणैः॥

१॥

परमसु-अभिरूपदर्शनीयाः कन्य अलंकृतगात्र प्रेमणीयाः।
दत्त पुरि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे॥

२॥

तथ मयि धनधान्यदासिदासा तथ मणिमुक्तिसुवर्णरूप्यकं च।
त्यक्त मयि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे॥

३॥

मणिरतनविचित्रमुक्तहारा रुचिर पु वसन शङ्खसुवर्णसूत्रा।
त्यक्त मयि पुरा विनायकेषु इमु वरु शान्त समाधिमेषता मे॥

४॥

अपरिमित अनन्त कल्पकोट्यः परमसुगन्धिक वार्षिकाश्च।
त्यक्त मयि जिनान चेतियेषु परमनिरुत्तरु चित्तु संजनित्वा॥

५॥

तथरिव मयि दत्तु धर्मदानं पर्षगतेन जनित्व चित्रिकारम्।
न च मम समुत्पन्न जातु चित्तं सिय मम ज्ञात्रु ददित्व धर्मदानम्॥

६॥

एत गुण समुदानितुं मि पूर्वा वन वरु सेवित नित्यमल्पशब्दम्।
कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानम्॥

७॥

न च मम क्वचिदाग्रहो अभूषि प्रियतरवस्तुन आत्मनोऽपि भोक्तुम्।
ददमि अहु प्रभूत देयधर्मं सद मम चित्तु लभेय बुद्धज्ञानम्॥

८॥

अखिलमधुरसंविभागशीलः स्मितवदनः श्रुतिधारि स्निग्धघोषः।
सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्त दर्शनेन॥

९॥

क्षणमपि च न मत्सरी भवामि भवनियुतेन न जातु ईर्ष्यमासीत्।
सद अहु परितृप्त पिण्डपाते सकल निमन्त्रण वर्जितान्यशेषा॥

१०॥

बहुश्रुत श्रुतधारि ये भवन्ति गाथ इतो धरये चतुष्पदां पि।
ते मयि सद सत्कृता अभूवन् परम निरुत्तर प्रेम संजनित्वा॥

११॥

बहुविधमनन्त दानु दत्तं तथपि च रक्षितु शीलु दीर्घरात्रम्।
पूज बहु कृता विनायकेषु इमु वरु शान्त समाधिमेषता मे॥

१२॥

पृथु विविध अनन्त लोकधातून् मणिरतनैः परिपूर्य दानु दद्यात्।
इतु धरयि समाधितश्च गाथाम् इमु तत्पुण्य विशिष्यते उदारम्॥

१३॥

यावत् पृथु केचिदस्ति पुष्पा तथरिव गन्ध मनोरमा उदाराः।
तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान्॥

१४॥

यावत् पृथु केचिदस्ति वाद्या तथ बहु भोजन अन्नपानवस्त्राः।
तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान्॥

१५॥

यश्च नरु जनित्व बोधिचित्तम् अहु जिनु भेष्यु स्वयंभु धर्मराजः।
गाथमिमु धरे समाहितैकां ततो विशिष्यते पुण्यमुदारम्॥

१६॥

यावत पृथु गङ्गवालिकाः स्यु- स्तावत कल्प भणेय आनुशंसा।
न च परिक्षय शक्यु कीर्त्यमाने बहुतर पुण्यसमाधि धारयित्वा॥

१७॥

तस्मात्तर्हि कुमार बोधिसत्त्वेन् महासत्त्वेन उद्ग्रहीतव्यो धारयितव्यो वाचयितव्यः पर्यवाप्तव्यः। उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य अरणाभावनायोगमनुयुक्तेन च भवितव्यम्। तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च। अथ खलु भगवास्तस्यां वेलायामिमा गाथा अभाषत- तस्माच्छ्रुत्वेति बुद्धानामानुशंसान् सुभद्रकान्।
क्षिप्रमुद्दिशथा एतं समाधिं बुद्धवर्णितम्॥

१८॥

त्रिसप्ततिबुद्धकोट्यः पूर्वजातिषु सत्कृताः।
सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम्॥

१९॥

महाकरुणजेतारमिदं सूत्रं निरुच्यते।
बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः॥

२०॥

भेष्यन्ति पश्चिमे काले निर्वृते लोकनायके।
बहु असंयता भिक्षु बाहुश्रुत्ये अनर्थिकाः॥

२१॥

शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः।
समाधिवर्णं वक्ष्यन्ति समाधिय अनर्थिकाः॥

२२॥

प्रज्ञाय वर्णं वक्ष्यन्ति प्रज्ञाय च अनर्थिकाः॥

विमुक्त्या बहु भाषन्ते विमुक्त्या च अनर्थिकाः॥

२३॥

चन्दनस्य यथा कश्चिद् भाषते पुरुषो गुणान्।
ईदृशं चन्दनं नाम गन्धजातं मनोरमम्॥

२४॥

अथान्यः पुरुषः कश्चिदेवं पृच्छेत तं नरम्।
गृहीत चन्दनं किंचिद् यस्य वण प्रभाषसे॥

२५॥

स नरं तं प्रतिब्रूयाद् गन्धवर्णं ब्रवीम्यहम्।
जीविकां येन कल्पेमि तं च गन्धं न वेद्म्यहम्॥

२६॥

एवं योगेऽप्ययुक्तानां शीलवर्णेन जीविका।
पश्चिमे भेष्यते काले शीलं चैषां न भेष्यते॥

२७॥

एवं योगेऽप्ययुक्तानां समाधिवर्णेन जीविका।
पश्चिमे भेष्यते काले समाधिश्चैषां न भेष्यते॥

२८॥

एवं योगेऽप्ययुक्तानां प्रज्ञावर्णन जीविका।
भेष्यते पश्चिमे काले प्रज्ञा चैषां न भेष्यते॥

२९॥

एवं योगेऽप्ययुक्तानां विमुक्तिवर्णेन जीविका।
भेष्यते पश्चिमे काले विमुक्तिश्चैषां न भेष्यते॥

३०॥

यथ पुरुषु दरिद्रु कश्चिदेव सचे परिभूतु भवेन्महाजनस्य।
स च लभति निधानु पश्चकाले धनपति भूत्व जनान सत्करेय्या॥

३१॥

एवमिमु न समाधि याव लब्धो न च बहुमतो भवतीह बोधिसत्त्वः।
मरुमनुजकुम्भाण्डराक्षसा नो यथ पुरुषु दरिद्रु अर्थहीनः॥

३२॥

यद पुनरिय लब्ध भोति भूमी अतुलियु धर्मनिधानु पण्डितेन।
मरु मनुज स्पृहं जनेन्ति तत्र स च धनु देति निरुत्तरं प्रजानाम्॥

३३॥

तस्म इमि श्रुणित्व आनुशंसां परमप्रणीतयः कीर्तिता जिनेन।
सर्व जहिय ज्ञात्रलाभसौख्य- मिमु वरमुद्दिशथा समाधि शान्तम्॥

३४॥

ये केचि बुद्धा दिशता सुनिर्वृता अनागता येऽपि च प्रत्युत्पन्नाः।
सर्वे च शिक्षित्व इह समाधौ बोधिं विबुद्धा अतुलामचिन्तियाम्॥

३५॥

चन्द्रप्रभः कुमारु हृष्टचित्तः पुरतु जिनस्य स्थिहित्व वाच भाषी।
अहु पुरुषवरस्य निर्वृतस्य सुकिसरि कालि इदं धरिष्ये सूत्रम्॥

३६॥

काय अहु त्यजित्व जीवितं च तथपि च सौख्य यदस्ति लोके।
तत्र अहु महाभयेऽपि काले इमु वरु शान्त समाधि धारयिष्ये॥

३७॥

महकरुण जनित्व सत्त्वकाये सुदुखित सत्त्व अनाथ प्राप्त दृष्ट्वा।
तेष्वहमुपसंहरित्व मैत्री- मिमु वर शान्त समाधि देशयिष्ये॥

३८॥

पञ्चशत अनून तस्मिन् काले य उत्थित तत्र समाधिधारकाणाम्।
पूर्वंगम कुमार तेष आसी- दिह वरसूत्रपरिग्रहे उदारे॥

३९॥

इति श्रीसमाधिराजे भूतगुणवर्णप्रकाशनपरिवर्तो नाम तृतीयः॥