02 शालेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः

शालेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः।
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म - स्मरति दशबलान षष्टिकोटी पुरिमभवे निवसिंसु गृध्रकूटे।
पुरि मम चरमाणु बोधिचर्या- मिम वरशान्त समाधि देशयिंसु॥

१॥

तेषां पश्चिमको आसील्लोकनाथः प्रभंकरः।
शालेन्द्रराज नामेन स मया परिपृच्छितः॥

२॥

अहं च क्षत्रियो आसं राजश्रेष्ठो महीपतिः।
मंम चो शत पुत्राणां पञ्चाभूवन्ननूनकाः॥

३॥

कोटीमया विहारणां तस्य बुद्धस्य कारिता।
चन्दनस्य विशिष्टस्य केचिद्रत्नमया अभूत॥

४॥

प्रियो मनापश्च बहुजनस्य भीष्मोत्तरो नाम अभूषि राजा।
अकार्षि बुद्धस्य विशिष्टपूजा अष्टादशवर्षसहस्रकोट्यः॥

५॥

जिनस्य तस्य द्विपदोत्तमस्य शालेन्द्रराजस्य विनायकस्य।
षटूसप्ततिवर्षसहस्रकोटियो आयुस्तदा आसि अनिन्दितस्य॥

६॥

नियुतान्तशीतिसहस्र श्रावकाणां त्रैविद्य षडभिज्ञ जितेन्द्रियाणाम्।
क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि नरोत्तमस्य॥

७॥

बहुप्रकारा मयि तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य।
अर्थाय लोकस्य सदेवकस्य इमं समाधिं प्रतिकाङ्ता सदा॥

८॥

सपुत्रदारेण मि प्रव्रजित्वा शालेन्द्रराजस्य जिनस्य अन्तिके।
चतुर्दशवर्षसहस्रकोटियो अयं समाधिः परिपृच्छितो मया॥

९॥

अशीति गाथा नियुता सहस्रा- ण्यन्ये च कोटीशत बिम्बराणाम्।
तस्योद्गृहीतः सुगतस्य अन्तिका- दितः समाधेः परिवर्त एषः॥

१०॥

हस्ता शिरा भार्य तथैव पुत्रा रत्नं प्रभूतं तथ खाद्यभोज्यम्।
न किंचि द्रव्यं मि न त्यक्तपूर्वम्
इम समाधिं प्रतिकाङ्क्षता वरम्॥

११॥

स्मरामि बुद्धान सहस्रकोटियो तदुत्तरे यत्तिक गङ्गवालुकाः।
येहि स्थिहित्वा इह गृध्रकूटे अयं समाधिर्वरु शान्त देशितः॥

१२॥

सर्वे च शाक्यर्षभनामघेयाः सर्वेषु चो राहुल नाम पुत्राः।
आनन्दनामा परिचारकाश्च कपिलाह्वयाः प्रव्रजिताश्च सर्वे॥

१३॥

अग्रेयुगं कोलितशारिपुत्रा समनाम सर्वे च अभूषि तायिनः।
समनामिका चो तद लोकधातुः सर्वेऽपि चोत्पन्न कषायकाले॥

१४॥

सर्वे मया सत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम्।
यावन्ति चो काचि जिनान पूजा सर्वा कृता एतु समाधिमेषता॥

१५॥

प्रतिपत्तिय एष समाधि लभ्यते बहुप्रकारा प्रतिपत्तिरुक्ता।
गुणेषु सर्वेषु प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः॥

१६॥

रसेष्वगृध्रस्य अलोलुपस्य कुलेष्वसक्तस्य अनीर्षुकस्य।
मत्रीविहारस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः॥

१७॥

सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य।
विशुद्धशीलस्य विशारदस्य न दुर्लभस्तस्य समाधिरेषः॥

१८॥

आरब्धवीर्यस्य अतन्द्रितस्य रण्याधिमुक्तस्य धुते स्थितस्य।
नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः॥

१९॥

सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य।
त्यागाधिमुक्तस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः॥

२०॥

अनुव्यञ्जनलक्षणा बुद्धधर्मा येऽष्टादशा कीर्तित नायकेन।
बलाविशारद्य न तस्य दुर्लभा धारेति यः शान्तमिमं समाधिम्॥

२१॥

बुद्धेन ये चक्षुष दृष्ट सत्त्वा- स्त एककालस्मि भवेयु बुद्धाः।
तेषैक एकस्य भवेयुरायुः अचिन्तियाकल्पसहस्रकोटियः॥

२२॥

तेषैक एकस्य शिरो भवेयुः सर्वु समुद्रेषु यथैव वालुकाः।
यावन्ति ते सर्व शिरो भवेयुः शिरे शिरे जिह्व भवेयु तात्तिकाः॥

२३॥

ते तस्य सर्वे भणि आनुशंसा यो गाथ धारेय्य इतः समाधितः।
न किंचिमात्रं परिकीर्तितं भवेत् किं वा पुनर्यो हि शिक्षित्व धारये॥

२४॥

धूतान् समादाय गुणांश्च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यकाः।
राजान भोन्ति अनुयात्रु तस्य धारेति यः शान्त समाधि दुर्लभम्॥

२५॥

परिगृहीतो भवति जिनेभि- र्देवाश्च नागाः सद आनुयात्राः।
प्रत्यर्थिकास्तस्य श्रिय नो सहन्ति धारेति यः शान्त समाधि दुर्लभम्॥

२६॥

अनन्तु तस्य प्रतिभानु भोति अनन्त सूत्रान्तसहस्र भाषते।
न तस्य विष्ठा नु कदाचि भोति धारेति यः शान्तमिमं समाधिम्॥

२७॥

द्रक्ष्यन्ति बुद्धममिताभु नायकं सुखावतीं चाप्यथ लोकधातुम्।
ये पश्चिमे कालि महाभयानके समाधि श्रुत्वा इमु धारयेयुः॥

२८॥

प्रकाशयित्वा इमु आनुशंसा अध्येषते शास्तु स्वयं स्वयंभूः।
परिनिर्वृतस्य मम पश्चिकाले समाधि धारेथ इमं विशुद्धम्॥

२९॥

ये केचि बुद्धा दशसु दिशासु अतीतकालेऽपि च प्रत्युत्पन्नाः।
सर्वे जिना अत्र समाधिशिक्षिता बुध्यन्ति बोधिं विरजामसंस्कृताम्॥

३०॥

इति श्रीसमाधिराजे शालेन्द्रराज(पूर्वयोग)परिवर्तो नाम द्वितीयः॥