सद्धर्मस्मृत्युपस्थानसूत्र(Second Chapter)<1.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: कथम् अनुक्रमेणास्रवान् प्रजहमानस्य भिक्सोः प्रथ-मम् अकुशलान् धर्मान् प्रजहाति, कुशलांश् च धर्मान् भावयतिसम्पश्यति संविचिनोति मनसा भावयति प्रतिष्ठापयति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:<1.2> स भिक्षुर् आदित एव यैर् विषयैर् इन्द्रियैः परस्परहेतु-प्रत्ययभूतैः कृत्स्नं जगद् अनादिकालप्रवृत्तं संसारे भ्र-मति, तम् एनं जन्मनिदानभूतं विषयसमुद्रम् अवलोकयति:“बाह्याध्यात्मिकैर् विषयैर् इदं जगद् भ्राम्यते। “<1.3> स आदित एव तावद् विवेकाभिरामताम् अभ्यस्यति। विविक्तेष्व्अरण्यवनान्तरारामपलावपुञ्जवृक्षमूलश्मशानेषु चित्तमर्कट-बन्धनार्थम् अभ्यस्यति। विवेकाभिरतस्य चित्तं प्रसीदति। स(१)ग्रामेषु हसितलुडितक्रीडितेषु नाभिरमते। न स्त्रीदर्शनतत्परोभवति, न सङ्गणिकाभिरतिर् भवति। द्वे गणिके मये ब्रह्मच-र्यस्य: गणिका सङ्गणिका च। स द्वे गणिके प्रजहात्य् आदौ, अस्यै-काग्रतरं मनः प्रसीदति। <1.4.1> स सम्प्रतर्कयति: “कथम् आदित एव शक्यते चित्तं सङ्-क्षेप्तुं धारयितुम्?” स आदित एव पश्यति: “अष्टादशैर् मनो-व्यभिचारैर् मनः प्रतिसरति कुशलाकुशलाव्याकृतम्। “<1.4.2> कतमैर् अष्टादशभिः? तद्यथा: चक्षुषा रूपाणि दृष्ट्वा, सौमनस्यस्थानीयं भवति, साङ्क्लेशिकं अकुशलविपाकं भ-वति, प्रतिवेदयति सम्प्रतर्कयते। दौर्मनस्यस्थानीयं भवति,विरागयति। तद् अस्य कुशलविपाकम्। उपेक्षास्थानीयं भवति,अव्याकृतविपाकं भवति। (२)<1.4.3> एवं श्रोत्रेण शब्दं श्रुत्वा, सौमनस्यस्थानीयं भवति, साङ्क्लेशिकम् अकुशलविपाकम्। दौरमनस्यस्थानीयं भवति, व्यवदानालम्बनं कुशलविपाकं भवति। उपेक्षास्थानीयं भवति, अव्याकृतविपाकं भवति। <1.4.4> एवं घ्राणेन गन्धान् घ्रात्वा, सौमनस्यस्थानीयंभवति, साङ्क्लेशिकम् अकुशलविपाकं भवति। दौर्मनस्यस्था-नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्था-नीयं भवति, अव्याकृतविपाकं भवति। <1.4.5> एवं जिह्वया रसान् आस्वादयित्वा, सौमनस्यस्थानीयंभवति, साङ्क्लेशिकम् अकुशलविपाकं भवति। दौर्मनस्यस्था-नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्था-नीयं भवति, अव्याकृतविपाकं भवति। <1.4.6> एवं कायेन स्प्रष्टव्यं स्पृष्ट्वा, सौमनस्यस्थानीयंभवति, साङ्क्लेशिकम् अकुशलविपाकं भवति। दौर्मनस्यस्था-नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्था-नीयं भवति, अव्याकृतविपाकं भवति। (३)<1.4.7> एवं मनसा धर्माङ् ज्ञात्वा, सौमनस्यस्थानीयंभवति, साङ्क्लेशिकम् अकुशलकर्मविपाकं भवति। दौर्मनस्यस्था-नीयं भवति, व्यवदानिकं कुशलविपाकं भवति। उपेक्षास्थानीयं भवति, अव्याकृतविपाकं भवति। (४)<1.4.8> एवम् अष्टादशमनोव्यभिचारैस् त्रिविपाकैः संसारे च्युत्युपपत्तिर् भवति। <1.5.1> स यदा भिक्षुर् अष्टादशमनोव्यभिचारान् पश्यति, तदान-न्दिततरा अन्तरीक्षचरा यक्षा भौमानां यक्षानाम् अभिनिवेद-यन्ति। भौमाश् चान्तरीक्षचरा यक्षाश् चतुर्णाम् महारज्ञां प्र-मुदितमनसोऽभिनिवेदयन्ति। ते चत्वारो महाराजानश् चातुर्महा-राजकायिकानां देवानां निवेदयन्ति: “योऽसौ जम्बूद्वीपात् कुल-पुत्रो अमुष्माद् ग्रामाद् अमुष्मान् निग्रमाद् अमुष्माद् विषयाद्अमुष्मात् कुलात् केशश्माश्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य,श्रद्धया आगाराद् अनगारिकां प्रव्रजितः, सोऽष्टादशमनोव्य-भिचारान् प्रतर्कयति साक्षीकुरुते विवेकाभिरत एकान्तचारी। “<1.5.2> तच् छ्रुत्वा चतुर्णां महाराज्ञां सकाशात्, आनन्दिततरा भवन्तिदेवाश् चातुर्महाराजकायिकाः: “हीयते मारपक्षः। अभ्युद्द्-ह्रियते सद्धर्मपक्षः। “<1.5.3> ते देवाश् चातुर्महाराजकायिकास् त्रिदशेश्वराय शक्रायाभिनि-वेदयन्ति: “योऽसौ, देव, जम्बुद्वीपात् कुलपुत्रो …. यावत्….अमुकात् कुलात् केशश्मश्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य,(५)श्रद्धया अगाराद् अनगारिकां प्रव्रजितः, स विविक्ताभिरतो भवति…. यावत् ….. श्माशाणिकोऽष्टादशमनोव्यभिचारान् प्रतर्कयति,साक्षीकृत्वोपसम्पद्य विहरति। " तच् च श्रुत्वा चातुर्महाराजका-यिकानां देवानां सकाशात्, प्रीततरमना भवति देवः कौशिकस्त्रिदशेश्वरः।
भवन्ति चात्र गाथाः॥
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः। मनसा सुप्रसन्नेन भाषते वा करोति वा। निर्धूतपापकल्माषश् च्युत्युपपत्तिविजानकः। कर्मणाम् फलतत्त्वज्ञः प्राप्नोति पदम् अच्युतम्॥
<2.10.1>सर्वेन्द्रियविधाता यः सर्वभूतहिते रतः। शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर् भवति तादृशः॥
<2.10.2>(१२)षडिन्द्रियरथारूढो रागशत्रुनिवर्तकः। प्राज्ञो धीरः क्रियावान् यः स शान्तं पदम् आप्नुते॥
<2.10.3>अरण्यवासी सन्तुष्टो भूमिशायी समाहितः। धुनोति पापकान् धर्मान् वायुर् मेघान् इवाम्बरे॥
<2.10.4>शुभवाग्देहकर्मान्तः शुभचर्यासु संरतः। तत्त्वदृष्टिः क्रियादक्षो नाशयेन् मारसादनम्॥
<2.10.5>रागादयो न बाधन्ते शुभचित्तम् अलोलुपम्। मैत्र्याकारुण्यबहुलं भिक्षुर् नैर्याणिके स्थितः॥
<2.10.6>यस्य रूपा दयो नेष्टा विषया बन्धहेतवः। स याति परमां शान्तिं यत्र गत्वा न शोचते॥
<2.10.7>(१३)<3.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: किम् असौ भिक्षुः प्रथमम् अष्टादशमनोव्यभिचार-भूम्यन्तरात् प्रथमाद् द्वितीयं भूम्यान्तरम् आरूढः षड्-धातुतत्त्वज्ञभूमिम् इदानीं किन्धर्मानुस्मृतिभूमिन् आक्रमेत्?स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:(१४)<3.2> तृतीयं भूम्यन्तरम् आक्रामति स भिक्षुः तत्त्वदर्शी। कतरं भूम्यन्त्ररम्? चित्तपुरःष रभूम्यन्तरम्। ससुखम् उत्पद्यमानं विजानाति। दुःखम् उत्पद्यमानं विजानाति। सौमनस्यं जानाति। दौर्मनस्यं जानाति। उपेक्षां विजानाति। <3.3.1> किं सुखं विजानाति? सुखवेदनीयं स्पर्शं प्रतीत्यो-त्पद्यते सुखा वेदना। असौ सुखां वेदनां वेदयमानः, “सुखवेदनां विन्दामीति” यथाभूतं प्रजानाति। अथ तस्य सुख-वेदनीयस्य स्पर्शस्य निरोधधातुः। सुखवेदनीयं स्पर्शंप्रतीत्योत्पन्नां वेदनां वेदयमानः, “सुखा मे वेदनास्तङ्गता,” अस्तङ्गतां वेदनां प्रत्यभिजानीते। “व्युपशान्ता मेसुखा वेदना। दुःखा मे वेदना उत्पन्ना,” प्रतीत्यसमुत्पन्नांतां दुःखवेदनां प्रत्यभिजानीते। <3.3.2> " उत्पन्ना मे सुखा वेदना” प्रत्यभिजानीते सद्भूतो विस्त-रेण यथैव सुखवेदनीयः स्पर्शो विहितः, तथैव दुःख-वेदनीयेऽपि वाच्यः। <3.3.3> किं सौमनस्यं विजानाति? “सौमनस्यस्थानीयंस्पर्शं प्रतीत्योत्पन्नं सौमनस्यम्। " कथं दौर्मनस्यंप्रत्यभिजानीते? “दौर्मनस्यस्थानीयं स्पर्शं प्रतीत्योत्प-(१५)न्नं दौर्मनस्यम्। " अथ तस्यैव सौमनस्यस्थानीयां वेद-नां यथावद् अनुपश्यतः, सौमनस्यस्थानीयं निरोधं दृष्ट्वा,सौमनस्याद् विरज्यते: “या सा मे सौमनस्यवेदना प्राग् उत्पन्ना,सा नष्टा शान्ता व्युपगता। " ततोऽस्य वैराग्यम् उत्पद्यते, यथा- भूतं प्रतिवेदयति। <3.3.4-5> एवं दौरमनस्येऽपि वाचयम्। उपेक्षायाम् अप्य् एवं वाच्यम्। <3.4> तस्यास्य तृतीयं भूम्यन्तरम् आक्रमतो नन्दिततरा भौमायक्षा अन्तरी क्षचराणां यक्षाणाम् अभिनिवेदयन्ति। तेऽपि चतु-र्णां महाराज्ञाम् अभिनिवेदयन्ति। तेऽपि चातुर्महाराजिकानांदेवानां अभिनिवेदयन्ति। तेऽपि कौशिकशक्रस्य देवानाम् इन्द्र-स्याभिनिवेदयन्ति: “योऽसौ जम्बूद्वीपाद् अमुष्माद् विषयाद्अमुष्माद् ग्रामाद् अमुष्मात् कुलाद् अमुको ना म कुलपुत्रः केश-श्मश्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य, श्रद्धया आगाराद्अनगारिकां प्रव्रजितः, स तृतीयभूम्यन्तरम् आरूढ इच्छतिमारेण सह योद्धुम्। हीयते मारपक्षः। अभ्युद्ध्रियते सद्-धर्मपक्षः। “<3.5> तच् च श्रुत्वा, प्रीततरमनाः कौशिकः शक्रो देवानाम् इन्द्रऐरावणम् आरुह्य, महर्द्धिकप्रमुखं देवगणं गृह्य,यामानां देवानां निवेदयति: “जम्बुद्वीपात् कुलपुत्रो… विस्त-रेण यावत् …. तृतीयं भूम्यन्तरम् आरूढ इच्छति मारेणसह योद्धुम्। हीयते मारपक्षः। अभ्युच्चीयते सद्धर्मपक्षः। “<3.6> तच् च श्रुत्वा साक्रस्य देवानाम् इन्द्रस्य सकाशात्, प्रीततर-मनसो यामा देवा भवन्ति। (१६)<4.1.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: कथं स भिक्षुस् तृतीयभूमयन्तराच् चतुर्थं चभूम्यन्तरम् अवगाहति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:<4.1.2> स चतुर्थभूम्यन्त्रम् आक्रामति: " स्पर्शप्रत्यया मे सुखा वेदनोत्पन्ना सुखहेतुका सुखनिदाना सुखाप्र-त्यया। सा निरुद्धा व्युपशान्तान्तर्हिता। तस्याः समनन्तरं मे दुःखा वेदना उत्पन्ना दुःस्पर्शा दुःखनिदाना दुःखसमुदयादुःखा एव दुःखप्रत्यया। “<4.1.3> एवं स्पर्शप्रत्ययां वेदनां प्रत्यभिजानीते: क्षणेक्षणे ममोत्पद्यते वेदना स्पर्शसहाया स्पर्शप्रभवा। " ससुखायां वेदनायां न हृष्यते न संरज्यते। तां वेदनांनाभिनन्दति न बहुलीकुरुते नास्वादयति। एवं दुःखायाम् अपिवेदनायां न पीड्य ते न विहेठ्यते नाविलीक्रियते। <4.1.4> उपेक्षकः स विहरति स्मृतिमान् सम्प्रजानकः। इमाभिस्तिसृभिर् वेदनाभिर् यदात्यन्तिकं चित्तं विरक्तं भवति, अथपरम् उपेक्षणैवावशिष्टा भवति, सुपरिशुद्धा भवति सुपर्य्-अवदाता। तस्यैवं भवति: " अहो बताहम् इमाम् उपेक्षाम्, एवं(१७)परिशुद्दाम् एवं पर्यवदाताम्, आकाशायतन उपसंहरेयम्,तत्प्रतिरूपं मे चित्तं भवेत्, साक्षीकृता मया उपेक्षा निष्ठ-आन्ता प्रतिबद्धा तदत्यन्तमध्यवसिता तदुपा दत्ता। सोऽहम् उपेक्षं आकाशानन्त्यायतन उपसंहरेयम्। अहम् अप्य्एताम् उपेक्षाम्, एवं परिशुद्धाम् एवं पर्यवदाताम्, विज्ञानान-न्त्यायतन आकिञ्चन्यायतने नैवसञ्ज्ञासञ्ज्ञायतन उप-सम्हरेयम्। " अनेनैवं नैवसञ्ज्ञानासञ्ज्ञायतनम् उपसम्-पद्य, विहरति: “तत्प्रतिरूपं मे चित्तं भवेत्, तन्निश्रिता उपेक्षातिष्ठेत्, तदध्यवसिता तदुपादानात्। सोऽहम् उपेक्षां नैव-सञ्ज्ञानासञ्ज्ञायतन उपसंहरेयम्। “<4.1.5> यथापि नाम दक्षः कर्मकारो वा कर्मकारान्तेवासीवा उल्कामुखे जातरूपं प्रक्षिपेत। प्रक्षिप्य, नाडिकासन्-(१८)दंशम् आदाय, एवम् एतत् सुकर्मण्यं कुर्यात्। तच् च सुवर्ण-रूपं कल्याणं शोभनं प्रशस्तवर्णं सर्वकर्मकरण-प्रशस्यवर्णनीयं सर्वदेशानुशंससृतं सन्निहितं निकृत-मलकल्माषकषायं मृदुकर्मणीयं प्रशस्तं च रत्नं प्र-भयावगुण्ठयति। तम् एव स दक्षः कर्मकारो वा कर्मकारान्ते-वासी वा सुपरिकर्मकृतं जातरूपं विदित्वा, यत्राकाङ्क्षतेऽपिब-न्धनविकृतौ- यदि वा घण्टाकाय यदि वा सन्दर्शनकाययदि वा केयूराय यदि वा चक्षुषि शोभायै यदि वा पुस्तकशो-भायै यदि वा हस्तशोभायै यदि वाङ्गुलिशोभायै यदि वाङ्गु-लेयकमुद्रायै यदि वा जातरूपमालायै यदि वा मुकुटालङ्का-राय- यत्र यत्रोपनामयति, तत्र तत्रैव कर्मण्यं भवति। <4.1.6> एवम् एव प्रज्ञासुशीलो भिक्षुः: " अहम् एताम् उपेक्षाम्, एवंपरिशुद्धाम् एवं पर्यवदाताम्, सचेद् आकाशायतन उपसंह-रेयम्, तत्प्रतिरूपं मे चित्तं स्यात्, उपेक्षा तिष्ठेत्, तन्निश्रिता(१९)तत्प्रतिबद्धा तदध्यवसिता तदुपादानात्। " स ताम् उपेक्षाम्आकाशायतन उपसंहरति। विज्ञानानन्त्यायतन आकिञ्चन्यायतनेनैवसञ्ज्ञानासञ्ज्ञायतन उपसंहरति। तस्यैवं भवति: " या मेइयम् उपेक्षा नित्या ध्रुवा शाश्वताऽविपरिणामधर्मिणी स्यात्?” सतत्त्वम् उपलब्धायतनचतुर्थः: “आरूप्येषु मे उपेक्षास्य न नित्या न नित्यालम्बना, न ध्रुवा न ध्रुवालम्बना, संस्कृताबोद्धव्या। न नित्यालम्बना, आकाशानन्त्यातनालम्बना विज्ञानान-न्त्यायतनालम्बना आकिञ्चन्यायतनालम्बना नैवसञ्ज्ञानासञ्ज्ञा-यतनालम्बना। उपेक्षाव्यञ्जितम् एतत्, शिवम् एतत्, उपेक्षाहितम्एतत्। ‘(२०)<4.1.7> स कायपर्यन्तिकां वेदनां वेदयमानः, उत्पद्यमानंप्रत्यभिजानीते, निरुध्यमानां प्रत्यभिजानीते। चक्षुःसंस्प-र्शजां वेदनां प्रत्यभिजानीते। श्रोत्रसंस्पर्शजां वेदनां प्र-त्यभिजानीते। घ्राणसंस्पर्शजां वेदनां प्रत्यभिजानीते। एवंजिह्वाकायमनःसंस्पर्शजां वेदनां प्रत्यभिजानीते। <4.1.8.1> स वेदनासाक्षी भिक्षुस् ताम् एव वेदनां सूक्ष्मातराम्अवलोकयते। स चक्षुःसंस्पर्शजां वेदनाम् उत्पद्यमानाम् उत्प-न्नाम् अवस्थितां वेदयति। निरुद्धां निरुध्यमानां प्रत्यभि-जानीते :” निरुद्धा मम वेदना। “<4.1.8.2> पुनर् अन्यां श्रोत्रसंस्पर्शजां वेदनां प्रत्यभिजानीते:“या सा चक्षुःसंस्पर्शजा मम वेदना, सा निरुद्धासतङ्गतावान्तीभूता, न पुनर् एष्यति। तस्यान् निरुद्धायाम् इयम् अपराश्रोत्रसंस्पर्शजा वेदना उत्पन्ना सुखालम्बेनेन दुःखाल-म्बनेन नैवसुखदुःखालम्बनेन। " स तां श्रोत्रसंस्प-र्शजां वेदनां यथायथावद् अनुपश्यञ् जानन्, न श्रोत्रप्रति-बद्धायां वेदनायां संरज्यते। स तां वेदनां वेदयमानोविरज्यते विमुच्यते। <4.1.8.3> श्रोत्रसंस्पर्शजायां वेदनायां तस्यां निरुद्धायांघ्राणालम्बना वेदना उत्पद्यते। स तां घ्राणसमुत्थां वेद-नां प्रतिवेदयति: “उत्पन्ना मे घ्राणसंस्पर्शजा वेदना,सुखालम्बना सुखा, दुःखालम्बना दुःखा, नैवसुखदुःखा-लम्बना नैवसुखदुःखा। " स घ्राणालम्बनां वेदनां(२१)यथावत् प्रतिवेदयते, अस्तङ्गताम् अपि प्रतिवेदयति। तस्यान् निरु-द्धायां घ्राणालम्बना वेदना उत्पद्यते सुखा दुःखा अदुःखा-सुखा। ताम् असौ प्रतिवेदयति: " उत्पत्स्यते हि मम घ्राणाल-म्बना वेदना। उत्पन्ना यथैवाध्यवसिता, तथैवोत्पन्ना एषापिनिरोत्स्यते। “<4.1.8.4-6> तस्यां निरुद्धायां जिह्वालम्बना वेदनोत्पत्स्यतेत्रिविधा …. पूर्ववत् ….. मनोवेदनालम्बना त्रिविधा। <4.1.9> स सद्भूत वेदनाधिविशालं चतुर्थं भूम्यन्त-रम् आक्रामति। <4.1.10> तस्यास्यारब्धवीर्यस्य सहोत्साहस्य मारबन्धनम्आस्थातुकामस्य हृष्टतरा भौमा यक्षा अन्तरीक्षचराणां यक्षाणाम्अभिनिवेदयन्ति। तेऽपि चतुर्णां महाराज्ञां अभिनिवेदयन्ति। तेऽपिचातुर्महाराजकायिकानां देवानाम् अभिनिवेदयन्ति। तेऽपि शक्रस्यदेवानाम् इन्द्रस्य नेवेदयन्ति। शक्रोऽपि यामानां देवानाम् अभि-निवेदयति: " योऽसौ जम्बुद्वीपात् कुलपुत्रो अमुष्माद् विषयात्अमुष्माद् ग्रामाद् अमुको नामा कुलपुत्रः, स केशश्मश्रूण्य्अवतार्य काषायाणि वासांस्य् आच्छाद्य, श्रद्ध्या आगाराद् अनगारिकांप्रव्रजितः। स घटन् व्यायच्छन्, अनुपूर्वेण सद्भूतं वेद-नाविशालं चतुर्थं भूम्यन्तरम् आरूढः। सोऽहं देवानाम्(२२)आवेदयामि। हीयते मारपक्षः। अभ्युद्ध्रियते सद्भूतो देवसद्-धर्मपक्षः। “<4.1.11> तम् ऐरावणारूढं शक्रं दृष्ट्वा, यामा देवा हृष्टाःशक्रस्यारोचयन्ति: “प्रियं नः, शक्र, यद् धार्मिका धर्मानु-परिवर्तिनो जम्बूद्वीपका मनुष्याः। तद् एवं सद्धर्मप्रति-रूपभूतस् त्वं शक्रः। “< II-४.२><4.2.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: कथं स भिक्षुर् मारबन्धनं जहन् प्रजहन्,वेदनाम् अवलोकयति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:<4.2.2> स भिक्षुर् वेदनां सद्भूत एवावलोकयति: “चक्षुर्-विज्ञानालम्बनाकुशला उत्पन्ना। सा उत्तिष्ठमाना द्वितीयेन कुशला-लम्बनेन निरोधिता, कुशला जाता। साव्याकृतेनालम्बनेन निरो-धिताव्याकृता जाता। " एवं श्रोत्रसंस्पर्शजां वेदनां घ्राणसं-(२३)स्पर्शजाम् वेदनां जिह्वासंस्पर्शजां वेदनां कायसंस्पर्श-जां वेदनां मनःसंस्पर्शजां वेदनां प्रतिवेदयति। प्रति-वेदयमानस्य कुशला धर्माः परिपूरिं गच्छन्ति। तन्वीभवन्तिचास्य क्लेशाः। <4.2.3> तथैवं भावयतः, सुक्ष्मतस् ताम् एव वेदनां प्रत्य-वेक्षते। स पश्यति धर्मवेदनां धर्मवेदनया सहनिरुध्यमानाम्। यथा प्रदीपप्रभादित्यप्रभया विरुद्धा, इत्य् एवं वेदनाद्वयं निरुध्यते। <4.2.4> पुनर् अपि वेदनां कुशलाकुशलाम् पुष्यमाणां प्रति-वेदयते। तद्यथा दीपप्रभा द्वितीयां दीपप्रभां पुष्णाति। <4.2.5> पुनर् अपि वेदनां प्रविचिनोति: “का वेदनान्यया सह वेद-नयात्यन्तविरुद्धा?” स पश्यति: “कुशला वेदनाकुशलया वेदनयासहात्यन्तविरुद्धा। तद्यथा दीपप्रभा नक्षत्रप्रभया सह वि-रुद्धा। “<4.2.6> पुनर् अपि स भिक्षुः प्रविभजति: " का वेदनान्यांवेदनाम् अत्यन्तम् एव हन्ति? स पश्यति: " अनास्रवालम्बनावेदना सास्रवालम्बनां वेदनां अत्यन्तम् एव हन्ति। तद्यथा-ग्निप्रभया हिमप्रभा हन्यते। “(२४)<4.2.7> “का वेदना कया वेदनयाभिभूता पुनर् एवाप्यायते?” सपश्यति: “अकुशला वेदना यदा कुशलां वेदनाम् अभिभवति, सापुनर् एवाप्यायते। यथादित्येन दिवा चन्द्रप्रभाभिभूता भवति,सा चन्द्रप्रभा रात्राव् आप्यायते। “<4.2.8> पुनर् अपि स भिक्षुर् वेदनां प्रविभजति वेदनैकाग्र-स्मृतिः: “का बह्व्यो वेदनाः सम्पृक्ताः कया एकया वेदनयासह विरुद्धाभिभूयन्ते?” स पश्यति: “बह्व्यो वेदना लौकिक-क्रिया लोकोत्तरयानास्रवया वेदनयाभिभूयन्ते। तद्यथा रात्रौबह्व्यो नक्षत्रग्रहताराणां प्रभा एकया चन्द्रप्रभयाभि-भूयन्ते। “<4.2.9> पुनर् अपि स भिक्षुर् वेदनानुपश्यी क्षयव्ययानुपश्यीवेदनां सूक्ष्मतरम् अवलोकयति: " का बह्व्यो वेदनाश् चक्षुः-श्रोत्रघ्राणजिह्वा कायसमुत्थाः सास्रवाः किं कुशलम् आर-भन्ते? स पश्यति: " लौकिकाः सास्रवा वेदना बह्व्योऽपिनानास्रवालोकनसमर्था भवन्ति। यथा रात्रौ नक्षत्रग्रह-ताराणां प्रभाश् चन्द्रविरहान् नालोकनसमर्था भवन्ति। “(२५)<4.2.10> पुनर् अपि स भिक्षुस् तां वेदनाम् अवलोकयति : " कियत्काला-वस्थायिन्यो मम वेदनाः?” स पश्यति: “उत्पादव्ययक्षणाव-स्थायिन्यो मम वेदनाः, तद्यथा विद्युतः। “<4.2.11> पुनर् अपि स भिक्षुर् एवं प्रवितर्कयति: " किं चक्षुर्-वेदना घ्राणवेदनायाः प्रत्यंशं प्रयच्छति?” स पश्यति: “बुद्बुदकालादिभिन्नेन्द्रियालम्बना वेदना सर्वेषाम् इन्द्रि-याणाम्। तद्यथा गौरश्वोष्ट्रखरमहिषाणां भिन्नजातीयानांनैकप्रत्ययो भवति, एवम् एव पञ्चेन्द्रियसमुत्थानाम् अनादि-विरचितानां नैकालम्बनं भवति। विषयभेदेन भिन्नविष-यानीन्द्रियाणि, यथा गौरश्वोष्ट्रखरमहिषवराहाः। “<4.2.12> तस्यैवं वेदनानुपश्यिनो भिक्षोः सूक्ष्मतरं ज्ञानम्उत्पद्यते। स तं ज्ञानम् आसेवते भावयते बहुलीकरोति। <4.2.13> तस्यासेवमानस्य वेदनानुपश्यिनः क्षयव्ययानुपश्यिनएवं भवति: “चक्षुःश्रोत्रघ्राणजिह्वाकायमनःसमुत्था मे वे-दनाः कुतोऽभ्यागच्छमाना आगच्छन्ति? निरुध्यमाना वा कुत्रसन्निचयं गच्छन्ति ?"(२६)<4.2.14> तस्य भिक्षोर् वेदनाक्षयव्ययानुपश्यिनः प्रचिन्तयतोमार्गगतस्यैवं भवति: “नापि चक्षुर्वेदना कुतश्चिद् उत्प-द्यमानाऽभ्यागच्छति, निरुध्यमाना कुत्रचित् सन्निचयं गच्छति। इति चक्षुर्वेदना अभूत्वा भवति। भूत्वा च प्रतिविगच्छति। नाक-राच् चक्षुवेदनागच्छति, यथा समुद्रालयात् सलिलम्। न निरु-ध्यमाना क्वचिन् निचयं गच्छति, यथा निम्नगमना नद्यःसमुद्रम् अनुगच्छन्ते। इति चक्षुर्वेदना अभूत्वा भवति। भू-त्वा च प्रतिविगच्छति। प्रतीत्यसमुत्पन्नाश् चक्षुःश्रोत्रघ्रा-णजिह्वाकायमनो वेदनाः। <4.2.15> “तद्यथा कुशलः कुम्भकारः कुम्भकारान्तेवासी वाचक्रं च प्रतीत्य, मृत्पिण्डं च प्रतीत्य, व्यायामं च प्रतीत्य,उदकं च प्रतीत्य, मृत्पिण्डहेतुको घट उत्पद्यते। तत्रस घटो न कुतश्चिद् आगच्छति आकरात्। न निरुध्यमानः क्वचित्सन्निचयं गच्छति। इति घटो हेतुप्रत्ययसमुत्पन्नः। एवं मेचक्षुः प्रतीत्य, रूपं प्रतीत्यालोकं प्रतीत्याकाशं प्रतीत्य, मन-सिकारं च प्रतीत्य, चक्षुर्वेदना उत्पद्यते, सुखा दुःखाअदुःखासुखा। यथा घटस्य यदि शोभना हेतुप्रत्यया भवन्ति,तच् छोभनस्यैव घटस्योत्पादो भवति। अथाशोभनाः, तदा-शोभनो घटो भवति। एवम् एव यदि शोभना हेतुप्रत्ययाल-(२७)म्बना भवन्ति, तच् छोभनाश् चक्षुराद्या वेदना उत्पद्यन्ते,सधर्मसहीयाः कुशलाः, अनुक्रमेण निर्वाणगामिन्यः। यथा-शोभना हेतुप्रत्ययालम्बना भवन्ति, तथाशोभना चक्षुराद्या वेदना उत्पद्यन्ते, रागद्वेश मोहालम्बनाः संसारनरकप्रेत-तिर्यग्गामिन्यः। “<4.2.16> सर्वकर्मफलकुशलानुबद्धचेतनो भिक्षुः वेदनाम्अन्वेषमाणः, नैकाश्रितां वेदनां पश्यति, न कारकाधिष्ठिताम्,नापि हेतुसमुत्थाम्, न यादृच्छिकाम्, न कूटस्थाम्, न नित्याम्, न ध्रुवाम्, न शाश्वताम्, नाविपरिणामधर्मिणीम्। तस्य सा वेद-नास्कन्धदर्शिनस् तृष्णा पौनर्भविकी परिहीयते, नन्दीरागसह-गता मलिनी। <4.2.17> सर्वसंस्कारस्यानित्या नुपश्यी स भिक्षुर् मार्गम्आसेवते भावयति बहुलीकुरुते। तस्यैवं भावयतः, संयोजनानि प्रहीयन्ते, अनुशया वान्तीभवन्ति। <4.2.18> कतमानि संयोजनानि? तद्यथा: अनुनयसंयोजनंप्रतिघसंयोजनं मानसंयोजनम् अविद्यासंयोजनं दृष्टिसं-(२८)योजनं परामर्शसंयोजनं विचिकित्सासंयोजनम् ईर्ष्यासं-योजनं मात्सर्यसंयोजनम्। इमानि संयोजनानि प्रहीयन्ते। <4.2.19> कतमे अनुशया वान्ती भवन्ति? तद्यथा: कामरागानुशयोभवरागानुशयो दृष्ट्यनुशयः प्रतिघानुशयो मानानुशयोऽवि-द्यानुशयो विचिकित्सानुशयः। त एतेऽस्य यथाप्रधानास् त्रिभ-वपरिवर्तकास् त्रिभूमिसञ्चारिणस् त्रिदोषपरिवर्तकास् त्रिकालानु-सारिणस् त्रिमध्यमास् त्रिवेदनानुभ वितास् त्रिजन्मपरिवर्तकाःसंसारहेतुभूता भवन्ति। <4.2.20> पुनर् अपि स योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: कथं स भिक्षुश् चक्षुष एवं सहेतुप्रत्ययम् अव-बुध्यते? किम्प्रत्ययं चक्षुः, किंहेतुजं किन्निदानं अवलो-कयति? स पश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:<4.2.21> कर्महेतुजं चक्षुः। कर्मणा जन्माभिनिवर्त्यते। यथावटकणिकया वृक्षो भवति। वृक्षात् पुनर् वटकणिका या हेतु-प्रत्ययैः संवर्धते। एवम् एवाज्ञानात् कर्माभिनिवर्त्यते। कर्मणापि जन्माभिनिवर्त्यते। सति जन्मनि जरामरणशोकपरि-देवदुःखदौरमनस्योपायासा उत्पद्यन्ते। तदेवम् अयं कर्म-हेतुतृष्णापाशबद्धः सर्वबालपृथग्जनसमुद्रो भवति। चक्रवत्परिभ्रमते। तद् एतत् कारणम्, अयं प्रत्ययः, सर्वासां वेदनानां(२९)सञ्ज्ञानां तु। न क्रियते कर्म, कर्माभा वात् तृष्णाया अप्य्अभावो भवति। तदभावाद् वेदनाभावो भवति, हेतुप्रत्ययात्। <4.2.22> तद्यथा: वर्तिं च प्रतीत्य, स्थालकं च प्रतीत्य, तैलं चप्रतीत्य, अग्निं च प्रतीत्य, प्रदीपस्यार्चिषः क्षणिका अभिनि-वर्तन्ते। एवम् एव स भिक्षुः वेदनाहेतुप्रत्ययदर्शी तत्त्वान्वेषी:“कर्महेतुजाः कर्मप्रतिशरनाः कर्मप्रभवाः सर्ववेदनाउत्पद्यन्ते। " तत् स्थालकम् एवं भूतं शरीरम्। तैलभूतानीन्द्रि-याणि वर्तिभूता तृष्णा। अग्निभूता रागद्वेषमोहाः। क्षणिकंज्ञानं दीपाचिवत्। प्रभासदृशं ज्ञानं येन पश्यति तत्त्वान्वेषीयोगाचरः: “सर्वत्रिभवगता वेदना। “<4.2.23> तद्यथा जातरूपकारो जातरूपम् उपादाय, कर्मण्यंकर्मक्षमं च तच् च जातरूपम् आदाय, शोभनम् अलङ्कार-जातम् अभिनिवर्तयति। एवम् एव जातरूपकारसमो योगाचारः। सजातरूपसदृशम् आलम्बनम् आदाय, यदि शोभनम् आलम्बनंभवति, तच् छोभनं कर्माभिनिवर्तयति निर्वाणगामिकम्। यथाशोभनं भवत्य् आलम्बनम्, तथाशोभनं कर्माभिनि-वर्तयति। ॥
भवन्ति चात्र गाथाः॥
हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः। मोक्षस्रोतस्य् अभिरतस् तृष्णया नैव वाह्यते॥
<4.2.24.1>(३०)कर्मप्रतिसराः सर्वे देहिनः कर्मयोनिजाः। कर्मणा फलसम्बद्धा भ्रमन्ति भवसङ्कटे॥
<4.2.24.2>यो नादत्तेऽशुभं कर्म शुभकर्मरतः सदा। चन्द्रांशुनिर्मलरतिर् योगी भवति तादृशः॥
<4.2.24.3>प्रदहन् पापकान् धर्मान् शुष्केन्धनम् इवानलः। विभ्राजते त्रिभुवने मुक्तपापो जितव्यथः॥
<4.2.24.4>मोक्षाय यस्य तु मनो न संसारे कथं चन। नासौ बध्यति संसारे मुक्तः पक्षी यथाम्बरे॥
<4.2.24.5>वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः। स “मुक्त” इति विज्ञेयस् तत्त्ववित् त्रिभवस्य सः॥
<4.2.24.6>(३१)सुखदुःखे न बाधेते दृष्टादृष्टैर् न लिप्यते। दीप्तं पश्यति संसारं यः स योगी सतां मतः॥
<4.2.24.7>अव्यामूढमतिर् नित्यं नित्यं धर्मपरायणः। भिक्षुवृत्ताव् अभिरतो भिक्षुर् भवति तादृशः॥
<4.2.24.8>न ज्ञातिदर्शनारामः साधूनां दर्शने रतः। निःक्रान्तगृहकल्माषो भिक्षुर् भवति तादृशः॥
<4.2.24.9>प्रशान्तेन्द्रियसर्वस्वो विषयेषु न लोलुपः। युगमात्रादर्शनावेक्षी भिक्षुर् भवति तादृशः॥
<4.2.24.10>नाक्रुष्टगृहसञ्चारी न पण्यक्रयविक्रयी। न वीथीचत्वररतिर् भिक्षुर् भवति तादृषः॥
<4.2.24.11>(३२)न गीतनृत्यसन्दर्शी संरम्भेषु न रज्यते। संरज्यते श्मशाने यो भिक्षुर् भवति तादृशः॥
<4.2.24.12>एकाहपरमं पिण्डम् आदत्ते श्वो न काङ्क्षते। द्विभागकुक्षिसन्तुष्टो भिक्षुर् भवति तादृशः॥
<4.2.24.13>वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते। युक्ताहारविहारो यो भिक्षुर् भवति तादृशः॥
<4.2.24.14>यो नारभति कर्माणि निराशः सर्वकर्मसु। निरुत्सुको नावरूढो भिक्षुर् भवति तादृषः॥
<4.2.24.15>(३३)कामाक्रोधविनिर्मुक्तो मोहपङ्कविवर्जितः। न लिप्तः पापकैर् धर्मैर् भिक्षुर् भवति तादृशः॥
<4.2.24.16>सर्वसंयोजनातीतः सर्वानुशयवर्जितः। सर्वाशयविनिर्मुक्तो भिक्षुर् भवति तादृशः॥
<4.2.24.17>आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः। सर्वान् विधमते क्लेशान् भिक्षुर् भवति तादृशः॥
<4.2.24.18>शान्तेन्द्रियो दृढमतिः कामपङ्कविवर्जितः। एकाग्रसंस्थितमना भिक्षुर् भवति तादृशः <4.2.24.19>भूमिसङ्क्रमणज्ञो यो भूमितत्त्वविदर्शकः। भूमेः परापरज्ञो यो भिक्षुर् भवति तादृशः॥
<4.2.24.20>(३४)सास्रवानास्रवान् धर्मान् हेतुप्रत्ययसम्भवान्। जानीते विधिवत् सर्वान् भिक्षुर् भवति तादृशः॥
<4.2.24.21>ब्रह्मचारी ऋजुः शान्तः स्त्यानमिद्धविवर्जितः। कालोत्थायी शुचिर् दक्षो भिक्षुर् भवति तादृशः॥
<4.2.24.22>शमथाविपश्यनरतिश् चतुर्ध्यानरतिश् च यः। अरण्यमुदितारामो भिक्षुर् भवति तादृशः॥
<4.2.24.23>पक्षिणो गगनस्थस्य छायेवानुगता सदा। सद्धर्मे च मतिर् यस्य भिक्षुर् भवति तादृशः॥
<4.2.24.24>क्लेशोपक्लेशवधकः स मदर्शी शुभामतिः। आनापानविधिज्ञो यो भिक्षुर् भवति तादृशः॥
<4.2.24.25>(३५)अनुक्रमविधिज्ञो यो योगवित् तत्त्वदर्शकः। मार्गामार्गविधिज्ञो यो भिक्षुर् भवति तादृशः॥
<4.2.24.26>यो न हृष्यति हर्षेषु भयेषु न बिभेति च। समहर्षभयो वीरो भिक्षुर् भवति तादृशः॥
<4.2.24.27>जरामरणतत्त्वज्ञः सुरासुरनमस्कृतः। परापरज्ञः सत्त्वानां भिक्षुर् भवति तादृशः॥
<4.2.24.28>सङ्घाटीपात्रसन्तुष्टः सञ्चयेषु न रज्यते। अल्पेच्छो ब्रह्मचारी यो भिक्षुर् भवति तादृशः॥
<4.2.24.29>एकासनाशी विमलो रसगृद्ध्या न मुह्यते। लाभसत्कारविरतो भिक्षुर् भवति तादृशः॥
<4.2.24.30>(३६)उपेक्षाकरुणारामो म्रक्षदोषविवर्जितः। निर्दग्धदोषसर्वस्वो भिक्षुर् भवति तादृशः॥
<4.2.24.31><4.2.25> स आध्यात्मिके धर्मे धर्मानुपश्यी भिक्षुस् ताम् एववेदनां यथावद् अनुपश्यमानः, स पश्यति सूक्ष्मतरेणज्ञानेन चक्षुःसंस्पर्शजां वेदनाम् आलम्बनानुचराम्। प-श्यति द्वितीयेनालम्बनेन सह निरुध्यमानाम्, ध्वस्ताम्: “चक्षु-ःस्पर्शजा वेदनालम्बना व्यतीता, शब्दालम्बनसहीया मे इष्टावाऽनिष्टा वा वेदना सञ्जाता। तत्सहीयम् मे चित्तं मा विकृतिम्आपद्यते। " स तच् चित्तम् आलम्बनस्तम्भे कृत्वा, सन्धारयति। तस्यां निरुद्धायां शब्दालम्बनसहीयायां श्रोत्रवेदनायांघ्राणवेदना गन्धालम्बना सञ्जाता। स ताम् अपि घ्रा णवे-दनाम् अवलोकयति सन्तर्कयति:“उत्पन्ना मे गन्धसहीया घ्राण-वेदना, कुशला वा अकुशला वा व्याकृता वा अव्याकृता वा। तस्य ममघ्राणवेदनायाश् चित्तं विकृतिम् आपन्नम्। " स यदा चित्तविकृतिम् अव-लोकयति, स पुनर् अपि तद् एवालम्बनम् अध्यवसति चरति घटति(३७)व्यायाच्छति। कर्मण्यं कुरुते चित्तम्, भावयति कुशलैर् धर्-मैर् अनास्रवैः। अथ न विकम्पते, जिह्वालम्बनम् आलम्ब्-अनं कुरुते, कुशलम् अकुशलं व्याकृतम् अव्याकृतं वा, स तदाप्य्आलम्बनं साक्षीकृत्वा, वेदनां अवलोकयति, सुखा दुःखा अदुः-खासुखा: “किं ममानया चित्तं विकृतिम् आपन्नं नेति?” यदिरसालम्बनायां सञ्जातायां वेदनायां चित्तं विकृतिम् आपन्नंपश्यति, स पुनर् अपि तद् एव चित्तम् आलम्बनस्तम्भे बद्ध्वाधृतिरज्ज्वा, तथा चरति घटति व्यायच्छति यथास्य चित्तं जिह्वा-वेदनया सहीय या रसतृष्णया नापह्रियते। पुनर् अपि स भिक्षुःकायस्प्रष्टव्यसहीयां स्प्रष्टव्यवेदनाम्, आलम्बनस्तम्भे ब-द्ध्वा, अवलोकयति कुशलाम् अकुशलां व्याकृताम् अव्याकृताम्। स यदि तया स्प्रष्टव्यवेदनया चित्तं विकृतिम् आपन्नम् अवलोक-यति, तदालम्बनस्तम्भे पुनर् अपि बद्ध्वा, कर्मण्यं कुरुतेयथा पुनर् नैव विकृतिम् आपद्यते। स पुनर् भिक्षुर् मना-गतां मनःसम्प्रतिबद्धां धर्मवेदनाम् अवलोकयति, कुश-लाम् अकुशलां व्याकृताम् अव्याकृताम्। यदि ताभिर् वेदनाभिर्मनसो वैकृत्यम् अवचारयति, स तदालम्बनसतम्भे बद्ध्वाधृतिरज्ज्वा, कर्मण्यं कुरुते यथा नैव विकृतिम् आपद्यते। (३८)<4.2.26> स षड्विषयकायगतां वेदनाम् अवलोकयति, भिक्षुःपञ्चवेदनातत्त्वोदयदर्शिनं स्थानं नामारोहते। <4.2.27.1> स चक्षुःसंस्पर्शजां वेदनां ज्ञानप्रदीपेन विमृ-शति: " का इमां वेदनां वेदयते: ‘वेदनेयम्’ इति?"<4.2.27.2> स पश्यति: “मनोविज्ञाणं प्रतीत्य, समुत्पन्नेयंवेदना मनसः सम्प्रतिबद्धा मनोवितर्केणापह्रियते। सर्वबालपृथग्जनाः सङ्कल्पाग्निना दह्यन्ते। नात्र कश्चित् कारकोवा वेदको वा। संस्कारपुञ्ज एवोत्पद्यते, संस्कारपुञ्ज एवनिरुध्यते, हेतुप्रत्यय्सम्बद्धः। " स चक्षुःसंस्पर्शजां वे-दनां यथावद् अनुपश्यन्न् अनुविधावन्, न तयापह्रियते। चित्तं न विकम्पते न सुषिरीक्रियते नाविलीक्रियते। <4.2.27.3> पुनर् अपि स भिक्षुः श्रोत्रवेदनाम् अवलोकयति: " कोऽयं श्रोत्रवेदनाम्: ‘वेदनेयम्’ इति विन्दति वेदयति?"(३९)<4.2.27.4> स पश्यति: " मनोविज्ञानानुसम्प्रतिबद्धेयं श्रोत्र-वेदना, मनसः सम्प्रतिबद्धा तन्निश्रया। नेह कारको वावेदको वा। प्रतीत्यसमुत्पन्नेयं श्रोत्रवेदना। नेह कारको वावेदको वा स्यात्। शून्यः संस्कारपुञ्जोऽयं हेतुप्रत्ययवशाद्उत्पन्नो निरुध्यते च। “<4.2.27.5> पुनर् अपि स भिक्षुः घ्राणवेदनाम् अवलोकयते:“कोऽयं विन्दति वेदनाम्: ‘वेदनेयम्ऽ इति?"<4.2.27.6> स पश्यति: “वेदना मनोविज्ञानसम्प्रतिबद्धा, तदा-लम्बना तन्निश्रया तद्धेतुका तत्प्रत्ययानुभवलक्षणा भ-वति शुन्योऽयं संस्कारपुञ्जो न कारकाधिष्ठितो न वेदका-धिष्ठितः, सन्तानानुविद्धः प्रवर्तते। " घ्राणवेदनाम्अवलोकयित्वा, " नेह कारको वा वेदको वार्थान्तरभूतः। “<4.2.27.7> पुनर् अपि स भिक्षुः जिह्वावेदनाम् अवलोकयति:“कोऽयं विन्दति जिह्वावेदनाम्: ‘जिह्वावेदनेयम्’ इति?<4.2.27.8> स पश्यति: “मनोविज्ञानसम्प्रतिबद्धेयं जिह्वावेदना। तन्निश्रया तत्प्रतिबद्धा तदालम्बना तद्धेतुत उत्पद्यते, तद-धिष्ठाना। नेह कारको वा वेदको वार्थान्तरभूतः। शून्यः सं-स्कारपुञ्जोऽयं हेतुप्रत्ययवशाद् उत्पद्यते। “(४०)<4.2.27.9> पुनर् अपि स भिक्षुः कायस्प्रष्टव्यवेदनां अवलो-कयते: “कोऽयं विन्दति कायवेदनाम्: ‘वेदनेयाम्ऽ इति ?"<4.2.27.10> स पश्यति: “मनोविज्ञानसम्प्रतिबद्धेयं काय-वेदना। नेह कारको वा वेदको वार्थान्तरभूतोऽस्ति। शून्योऽयंसंस्कारपुञ्जः प्रवर्तते हेतुप्रत्ययवशात्। <4.2.27.11> पुनर् अपि स भिक्षुर् मनोवेदनाम् अवलोकयति: “मनो-वेदनां को विन्दति: ’ मनोवेदनेयम्’ इति?"<4.2.27.12> स पश्यति: “मनः प्रतीत्य धर्मांश् चोत्पद्यतेमनोविज्ञानम्। त्रयाणां सन्निपातानां स्पर्शः, स्पर्शसहजा वेदना। तद्यथा: अनेकसुगन्धिद्रव्यसमुदायाद् गन्धः शोभनउत्पद्यते। तस्य च गन्धस्य भवहेतुर् नास्त्य् एकः। तद्वद् धे-तुप्रत्ययसमुदायात् सर्वा वेदना उत्पद्यन्ते, न कारकाधिष्ठितान वेदकाधिष्ठिताः। <4.2.28> " तद्यथा पत्रं च प्रतीत्य, केशरं च प्रतीत्य, नाडिं चप्रतीत्य, किञ्जल्कं च प्रतीत्य, पद्मं नाम पुष्पं उत्पद्यते। तस्य च पद्मस्य हेतुर् एको न विद्यते। तथा चक्षुः प्रतीत्या-लम्बनं च प्रतीत्याकाशं च प्रतीत्य, मनसिकारं च प्रतीय,आलोकं च प्रतीत्य, चक्षुःसंस्पर्शजा वेदना उत्पद्यते। चक्षुर्-जातीया चक्षुःसन्निश्रया वेदना नैकजातीयानेकद्रव्यानेक-सम्भवा न कूटस्था न निर्मिता। “<4.2.29> स यथा यथा तत्त्वान्वेषी भिक्षुर् भवति, तथा तथास्यशुक्ला धर्माः प्रादुर्भवन्ति। तद्यथा इक्षुरसः स्थाल्यां चितोऽग्निना क्वाथ्यते। तस्य प्रथमो मलो द्रवको भवति फाणि-तसञ्ज्ञको। मलिनो गुडो द्वितीयः क्वाथो गुडसञ्ज्ञकः शुक्लतरो(४१)भवति तृतियः शुक्लतरो भवति। एवं यथा यथा क्वा-थ्यते इक्षुरसः, तथा तथा निर्मलतरो भवति। एवम् एव आलम्ब्-अनस्थाल्यां ज्ञानाग्निना परितापितचित्तसन्तानेक्षुरसं क्वाथ-यति। तस्य फाणितसदृशः प्रथमध्यानलाभो भवति। गुड-सदृशः शुक्लतरोऽस्य द्वितीयो ध्यानलाभो भवति। शर्करस-दृशोऽस्य तृतीयध्यानलाभो भवति। एवम् एव यथा भिक्षुश् चित्त-सन्तानं ज्ञानाग्निना क्वाथयते, तथा तथानास्रवा धर्माःशुक्लतरा विमलतरा निष्कल्मषतरा उत्पद्यन्ते, संसारविमुखाःशुक्ला विगतमला धौता उत्पद्यन्ते। <4.2.30> पुनर् अपि स भिक्षुः तां वेदनाम् अन्येन प्रकारेणसूक्ष्मतराम् अवलोकयते: सूक्ष्मौदारिका चक्षुःसंस्पर्शजामला मोहसहीया अमुकस्य सत्त्वस्य वेदना उत्पन्ना। सा अमु-कया औदारिकया वेदनया उपहता, सावशेषा कृतावलीना। एवं श्रो-त्रवेदना घ्राणवेदना जिह्वावेदना कायमनोवेदना। (४२)<4.2.31> तस्यैवं घटमानस्य भिक्षोर् युज्यमानस्य मार-सैन्यं विधममानस्य हृष्टतरमनसो भौमा यक्षा आन्तरी-क्षाणां यक्षाणाम् अभिनिवेदयन्ति। ते च भौमा यक्षा अन्तरीक्ष-चराश् च यक्षाश् चतुर्णां महाराज्ञाम् अभिनिवेदयन्ति। ते चभौमा यक्षास् ते चान्तरीक्षचरा यक्षास् ते च चत्वारो महाराजानश्चातुर्महाराजकायिकानां देवानाम् अभिनिवेदयन्ति। ते च भौमायक्षाः, ते चान्तरीक्षचरा यक्षास् ते च चत्वारो महाराजानस् ते चचातुर्महाराजकायिका देवाः शक्रस्य अभिनिवेदयन्ति। त्रिदशे-श्वरोऽयं शक्रोऽपि देवराज ऐरावणम् आरुह्य, प्रीततरमनायामानां देवानाम् अभिनिवेदयति…. पूर्ववत्…..<4.2.32> तेऽपि तुष्टा यमा देवाः शक्रस्यान्तिकात्, नानावर्णरत्न-धरा दिव्यमाल्यगन्धविभूषितशरीरा नानाविध्याना इष्टशब्द-स्पर्शरसरूपगन्धा नष्टोपमसौख्याः प्रहृष्टाः सत्वरा देव-निकायाः। तुषितेषु चत्वारिंशद्योजनसहस्राणि सप्तरत्नमयैर्मन्दिरैर् उद्द्योतितं विविधविमानं नगरं मानससङ्-कल्पं नाम। तत्र बोधिसत्त्ववीथी दशयोजनसहस्राणि निरा-स्रवरतिर् नाम्ना। तस्यां भगवान् मैत्रेयः प्रतिवसति सन्नि-कृष्टैर् बोधिसत्त्वशतैः पञ्चभिः। तस्य च तुष्टतरमनसो यामादेवा निवेदयन्ति, पृथिव्यां जानुमण्डलेन प्रणिपत्यैकांशेनदिव्यानि वासांसि कृत्वा शिरोगतेनाञ्जलिना यथा: “देव, जम्बुद्वीपात्कर्मभूमिसन्निश्रयाद् अमुष्माद् ग्रामाद् अमुष्माद् विषयाद्(४३)अमुष्मान् निगमाद् अमुष्मात् कुलाद् अमुकः कुलपुत्रः केशश्म-श्रूण्य् अवतार्य काषायाणि वासांस्य् आच्छाद्य, श्रद्धया आगाराद्अनगारिकां प्रव्रजितः, स चरन् घटन् पर्युपासमानो गुरून्,निरास्रवकुशलतत्त्वान्वेषी ’ वेदनातत्त्वदर्शिनं’ नाम चतुर्थंभूम्यन्तरम् आरूढो विध्वंसति मारपक्षम्, दृढीकुरुते सद्-धर्मसेतुम्, प्रकाशयति शुक्लान् धर्मान्। मन्दीभवति मार-पक्षः। प्रबलीभवति देवपक्षः। ते वयं देवानाम् अभिनि वे-दयामः। “<4.2.33> तच् छ्रुत्वा मैत्रेयो यामानां देवानां सकाशात्, “प्रबली-भवति देवपक्षः,” कथयति यथा: “प्रहृष्टोऽस्मि, देवाः, यद्धीयते मारपक्षः, अभ्युच्चीयते सद्धर्मपक्षः। प्रशिथिली-क्रियन्ते क्लेशाः। विद्राव्यते मारसैन्यम्। “< II-5.1 ><5.1.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विह-रति: कथम् असौ भिक्षुः षड् वेदनाकायान् यथावद् दृष्ट्वासङ्क्षेपेण वेदनास्कन्धभूमिभागेन, पञ्चमं भूम्यन्त-रम् आरोहति ?(४४)<5.1.2> पुनर् अपि स भिक्षुर् वेदनातत्त्वदर्शी षड्वेदनाकायकृत-कर्मान्तः सञ्ज्ञास्कन्धं सम्प्रविभजति निमित्तीकरोति: “कत-रं भूम्यन्तरं सञ्ज्ञासहायोऽयं शुक्लधर्मविविक्तचारीसञ्चिन्तयन्, हिताहितविविक्तचारी सञ्ज्ञायाः सञ्ज्ञी स्यात्?"<5.1.3> स निमित्तीकरोति शुक्लधर्मनिमित्तम्। आदित एव धर्मान्प्रविभजति: “कथं सनिदर्शनसप्रतिघालम्बनानाम् अद-र्शनाप्रतिघसञ्ज्ञा उत्पाद्यते?” स विविक्ततरां ताम् सञ्ज्ञाम् आलो-कयति। स तया सञ्ज्ञया निमित्तम् आलम्बते एकादशप्रकारंरूपम्। तद्यथा: दीर्घं ह्रस्वं चतुरश्रं मण्डलं त्रिकोणंनीलं पीतं लोहितावदातमाञ्जिष्ठम्। <5.1.4.1> तत्र दीर्घीकुरुते सञ्ज्ञानिमित्तम्: “दीर्घो बत संसारोबालानां मन्दबुद्धीनाम् अनवराग्रः। जन्ममरणकर्मफल-च्युत्युपपत्तिप्रियविप्रयोगशीतोष्णक्षुत्पिपासाश्रमग्लानिपरप्रेष्य-परिभवदासभावपरस्परभक्षणानिचयभूतः सर्वानर्थ-भूतोऽयम् अपरिमितदुर्विषहः। अपरिमितशतस हस्रकोटीन-युतैर् देहवाग्मनससमुत्थैर् दुष्करकृतैः कर्मविशेषैर् अलङ्-कृता विडम्बिता असकृद् असकृद् बालपृथग्जनाः। (४५)<5.1.4.2> “तत्र मनुष्यभूतानां पर्येष्टिव्यसनपरवञ्चना-कूटमानव्यवहारवाणिज्यराजकुलसेवासमुद्रप्रपातप्रवासकल-हकृषिपशुपाल्यम्लेच्छजन्ममिथ्यादृष्टिविकलेन्द्रियसद्धर्मवि-रहबुद्धोत्पादविरहितप्रत्ययवैकल्याक्षन मद्यपानादत्तादा-नमृषावदकाममिथ्याचाराभिध्याव्यापादानृतपिशुनपरुषाबद्ध-प्रलापव्यासक्तमनसां दीर्घोऽयं संसारः,” सञ्ज्ञानिमितम्अनुलम्बति। <5.1.4.3> दीर्घः संसारो देवानां, सञ्ज्ञानिमित्तम् अनुलंबति:” विषयविषयप्रसक्तेष्टशब्दरसस्पर्शगन्धरागद्वेषमोहप्र-मादस्त्रीव्यसनपारिजातकचैत्ररथवनोपवनतडागपद्मिन्या-क्रीडागन्धपुष्पसुधारसविविधक्रीडाहारविहारप्रसक्तचन्दन-दिव्यस्रक्चूर्णानुलेपन मान्दारपुष्पदिव्यवादित्रगन्धर्वगीत-प्रसक्तचेतसां सद्धर्मविमुखानां दीर्घः संसारो देवा-नां। “<5.1.4.4> प्रेतानां अपि दीर्घः संसारः सञ्ज्ञानिमित्तम् अनुलम्बति:“दुःकृतकर्मगामिनां क्षुत्पिपासाश्रमदौर्बल्याग्निवृष्टिप्रपत-नसूचीकण्ठपर्वतकुक्षि कभल्लिकासञ्जातेर्ष्यामात्सर्यपरस्पर-(४६)शस्त्रनिकृन्तनतमोमयश्वभ्रप्रपतननदीतडागोत्ससरनिर्धा-वितानां यमपुरुषासियष्टिकुद्दालप्रहारप्रहतदुःखानां वान्त-निष्ठीविताशानाम् अनेकवर्षशतसहस्रसञ्जाताहारदौर्विषह्यविवि-धदुःखास्रुपतनसञ्जातदुर्दिनकेशसञ्छन्नमुखगात्राणांकृमिशतसहस्रव्याप्तशरीरं सर्वव्याधिनिकरभूतशरीरम् उद्व-हमानानां दीर्घसंसारप्रपन्नानाम् आयसैः काकैः प्रदीप्त-तुण्डैर् उद्धृतनयनानां वनदावदग्धपादपसदृशानां परैर्आक्रम्य परस्परेण भक्ष्यमाणानां षट्त्रिंशद्योजनशतसह-स्रकोटिकान्तारप्रपन्नानाम् अनाथानां क्षुत्पिपासाग्निदग्ध-शरीराणां तमसि मज्जमानानां प्रेतानां सद्धर्मश्रवण-विमुखानां मिथ्यादृष्टिवञ्चितानां दीर्घः संसारः,” सञ्ज्ञानि-मित्तम् उपलभ्यते। <5.1.4.5> " परस्परभक्षणागम्यागम्याज्ञानविमुखानां जल-चराणां नित्यं पिपासार्दितानां « परिशुष्कहृदयग्रहणभीतानांशिशुमारलुब्धकोद्रतिमितिमिङ्गिलकुम्भीरनक्रमकरशुक्ति-शङ्खप्रमुखानां नित्यं परस्परस्थूलसूक्ष्मभक्षणतत्प-राणां वागुरावरोहणग्रहणभीतानाम्, तथा स्थलचराणां मृग-महिषवराहनागराजवृषभाश्वखरगवयरुरुरिक्षगण्डकप्र-(४७)भृतीनां विविधदुःखबन्धनशस्त्रमारणव्याधिजरामर-णपरस्परपीडाशतसहस्रार्दिता»नाम्, तथान्तरीक्षचराणां काको-लूकहंसबर्हिकुक्कुटकोयष्टिकपारापतकपोतदात्यूहवासशतप-त्रछायावलीनजीवजीवकसम्पातपरभृतानाम् अन्येषां च शकु-निजातीनाम्, वैषवधबन्धनशस्त्रक्षुत्पिपासापरस्परभक्षण-शीतोष्णपीदितानां त्रिस्थानगतानां स्थलजलजान्तरीक्षचराणां तिर्यग्-गतानां दारुणप्रतिभयानां दीर्घः संसारः,” सञ्ज्ञानिमित्तम्आलम्बति। <5.1.4.6> " तथा सञ्जीवनकालसूत्रसङ्घातरौरवमहारौरवतप-नप्रतापनावीचिसोत्सेधेषु परमदुर्विचिन्त्यमनानेकशतसहस्र-प्रतिभयाग्निशस्त्रप्रपातवैतरणीलोहितप्रविलीनाङ्गप्रत्यङ्गानाम्असिपत्त्रप्र वेशाङ्गारप्रत्यनुभवनक्षारनदीप्रपातप्रदीप्त-भूमिसङ्क्रमणकारणाव्ययधूमदहनखरासदृशानेकप्रका-रदुर्विषहकारणापीडिताना नारकेयाणां दीर्घः संसारः,” सञ्-ज्ञानिमित्तम् आलम्बति। <5.1.4.7> स भिक्षुः सञ्ज्ञास्कन्धप्रविचारी सनिदर्शनं सप्रति-घं दीर्घरूपं- कर्मफलहेतुनिदानालम्बने सत्यचतुष्टये-नानाप्रकारयोजनशतसहस्राण्य् अपि गतिगतान् सत्त्वान् अवलोकयति(४८)निमित्तयति विभजयति। निदानालम्बनं सञ्ज्ञाप्रदीपितं पश्यति, संसाराच् चोद्विजति। <5.1.5.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यी विह-रति: कथम् असौ भिक्षुर् ह्रस्वं विभजते साक्षीकुरुते? स पश्यतिश्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा: स भिक्षुः, मारसैन्यंविद्रावयन्, कथं ह्रस्वं विभजति?<5.1.5.2> " ह्रस्वः संसारो व्रतनियमदानशिलज्ञानाचारगुरु शु-श्रूषा-ऋजुमनोभिरामसम्यग्दृष्टिमातृपितृगौरवबुद्धधर्मदर्श-नश्रवणाचार्योपासनाशठचर्यानिरतानां विरतानां कूटमान-वञ्चनात् कल्याणमित्रचारित्र्याढ्य-ऋजुमनोदयाकार्पण्यालङ्कृतदेह-वाङ्मनसालङ्कृतहृदयानां मनुष्याणां ह्रस्वः संसारः,“सञ्ज्ञानिमित्तम् आलम्बति। <5.1.5.3> “तथा प्रमादे ह्य् उपपन्ने ये ते नन्दनवैभ्राजता-चैत्ररथ पारिजातकोपवनतडागपद्मिनीविविधचन्दनहारोपहा-रोपशोभितकल्पवृक्षनदीप्रस्रवणवनसुद्धाहारविशेषान् म-र्षयित्वा, ये विविधाहारविहारा ध्यानाध्ययनसाधुदर्शनाध्य-यनदानदमसंयमब्रह्मचर्यशान्तेन्द्रियपरिमितभाष्यवच-नधर्मलोलुपशान्ताहारविहारा ये देवाः, ह्रस्वस् तेषां संसारः। “(४९)<5.1.5.4> " यथोक्ता दुःखविविधक्षुत्पिपासापरिशुष्क वदनादी-नवा दावाग्निदाहावलीढतनूरुहवदनदवदग्धपादपसदृश-देहा ये, ते दुःखमरणम् अगणयित्वा, ये क्षणम् अपि प्रस-न्नेन्द्रिया ह्रस्वप्रसादा बुद्धधर्मसङ्घेषु, ह्रस्वस् तेषांसंसारः,” सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.5.5> " परस्परभक्षणतर्जनताडनशीतोष्णदुर्दिनभयभीतास्ते, यदि शक्नुवन्ति, क्षणविष्कम्भम् अगणयित्वा, क्षणम् अप्य्एकं चित्तप्रसादं बुद्धधर्मसङ्घं प्रति कर्तुम्, ह्रस्वस्तेषां तिर्यक्षु संसारः,” सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.5.6> “सञ्जीवनकालसूत्रसङ्घातरौरवमहारौरवतपनप्र-तापनावीचिप्रमुखेषु नरकेषु उपपन्ना ये नानाविकारपरम-दुःखपीडितास् तद् दुःखम् अगणयित्वा, क्षणम् अपि चित्तं प्रसा-दयन्ति शीलं प्रति, ह्रस्वस् तेषां संसारो नारकेयानाम्,” सञ्ज्ञा-निमित्तम् अनुलम्बति। स एवं ह्रस्वं चिन्तयति संसारे। <5.1.6> केषां चतुरस्रः संसारः? स पश्यति: “उत्तरकौरवाणांच पुरुषाणां निर्ममनिरहङ्कारनियतोर्ध्वगामिनां चतुर-स्रस् तेषु संसारः,” सञ्ज्ञानिमित्तम् अनुलम्बति। (५०)<5.1.7> “नरकप्रेततिरश्चाम् अज्ञानपरिवर्तिनां न सच्चित्तानु-वर्तिनां मण्डलः संसारः,” सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.8> “शुभाशुभाव्याकृतामिश्रकर्मणां नरकदेवव्यामि-श्राणां मनुष्येषूपपन्नानां - तत्राशुभेन कर्मणा नरकेषु,शुभेन कर्मणा देवेषु, व्यामिश्रेण मनुष्येषु - त्रिकर्मोपगाये त्रिस्थानजातिजाः, त्रिकोणस् तेषु संसारः,” सञ्ज्ञानिमित्तम् अनु-लम्बति। <5.1.9> “चातुर्महा राजकायिकास् त्रिदशा यामाः परनिर्मितव-शवर्तिकर्मसदृशोपपन्ना देवभ्यश् च्युता देवेषूपपद्यन्ते,मनुष्येभ्यश् च्युता ये मनुष्येष्व् एवोपपद्यन्ते नाक्षणभूमिषु,मण्डलस् तेषां संसारः,” सञ्ज्ञानिमित्तम् अनुलम्बति। (५१)<5.1.10> " नीलाशुभकर्मपरिगृहीता नारकेयाः। ते हि तमोमयेषुनरकेषु मज्जन्ति,” सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.11> “पीतवर्णकर्मसङ्गृहीताः प्रेताः। ते हि परस्परद्रोह-ताडनतर्जनतत्पराः प्रेताः,” सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.12> “लोहितकर्मसङ्गृहीतास् तिर्यञ्चः। ते हि परस्परभक्ष-णलोहिततत्प्रियाः,” सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.13> “शुक्लवर्णकर्मसङ्गृहीता देवमनुष्या हि कुशल-शुभकर्मपथा रत्नमयेन मूल्येन देवमनुष्योपपत्तिं परि-गृह्नन्ति। च्यवमाने देवे अन्ये देवाः कथयन्ति: ’ सुगतिं मनु-ष्यलोकं गच्छ। ’ तथा म्रियमाणः, ज्ञातिमित्रकलत्राः सबाष्प-नयनदुर्दिनमुखाः कथयन्ति: ‘सुगतिं मनुष्यलोकम्,प्रिय, गच्छास्मान् त्यक्त्वा,”’ सञ्ज्ञानिमित्तम् अनुलम्बति। <5.1.14> स एवं चिन्तयति: “तत् प्राप्य मनुष्यत्वम्, यो न कुशल-दानशीलज्ञानाय घटते, स वञ्चितो नरकप्रेततिर्यग्नत्यां भ्र-मति कर्मपथसञ्चितो बालिशः पृथग्जनः। “<5.1.15> स भिक्षुर् वेदनातत्त्वदर्शी सञ्ज्ञास्कन्धयोनिशोमनस्-कारालम्बनतत्त्वदर्शी तत्त्वम् एवान्वेषते:(५२)<5.1.16> चक्षुश् च प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम्। त्र-याणां सन्निपा तानाम् स्पर्शः। तत्र सञ्ज्ञां विभजते। रूपंदृष्टं शोभनम् अशोभनं सन्निकृष्टविप्रकृष्टदीर्घह्रस्व-चतुरस्रमण्डलावदातत्रिकोणं रूपसंस्थानम्, सञ्ज्ञां सं-विभजति निमित्तीकरोति निदानम् अवेक्षते। स्कन्धधात्वायतन-निदानं सञ्ज्ञीकुरुते विभजति। शुभाशुधकर्मविपाकसंवि-भागं साक्षीकुरुते। हेतुयुक्तम् अवलम्बति। अहेतुयुक्तम् अव-बुद्ध्वा, विवर्जयति। हिताहिततद्विलक्षणम् अतीतं सञ्ज्ञा-पयतो «यथा: “तेन मम कृतं सुकृतम् अनेन मम कृतंदुःकरं …. पूर्ववत् …..” सञ्ज्ञायां सञ्ज्ञापयति: “यदि सञ्ज्ञा नस्यात्, स्मृतिर् अपि न स्यात्। सा हि स्मृतिः सञ्ज्ञाप्रतिबद्धा, तदा-लम्बना तत्प्रत्यया। तद्यथा प्रदीपप्रभा प्रदिपप्रत्यया,तन्निदाना तद्धेतुका। एवम् एव मे स्मृतिः सञ्ज्ञाहेतुकासञ्ज्ञाप्रभवा सञ्ज्ञाधिपतिः। " स पञ्चमं भूम्यन्त-रं आरोहति स भिक्षुः सञ्ज्ञास्पर्शं नाम। सञ्ज्ञापयति»सद्भूततो देवानां सौख्यं तत्र न संहृष्यते, नारके-यानां कर्मकृतदुःखं ततोऽपि न बिभेति। (५३)<5.1.17> स समदर्शी कल्याणजातरूपसदृशसञ्ज्ञी भिक्षुस् ताम् एवसञ्ज्ञाम् अन्येन प्रकारेणावलोकयति। स सञ्ज्ञाविनिर्मुक्तम्अन्यपुरुषं मृतम् अवलोकयति: “किम्प्रत्ययेयं मम सञ्ज्ञा,किंहेतुका किन्निदाना?” स पश्यति: “प्रतीत्यसमुत्पन्नेयंमम सञ्ज्ञा प्रत्ययसामग्र्यतयैवोत्पद्यते। तन्निरोधान् निरु-ध्यते। (५४)<5.1.18> “यथा चन्द्र मसं च प्रतीत्य, चन्द्रकान्तमणिं चप्रतीत्य, चन्द्रकान्तमणेर् उदकं प्रसन्नं प्रादुर्भवति। एवम्एव निदानप्रत्ययांश् च प्रतीत्य, सञ्ज्ञा निष्पद्यते। नेयं सञ्ज्ञा निर्हेतुका, न कारेकेन कृता, न वेदकेन, न यादृच्छिकीया उत्प-द्यते। “<5.1.19> स तत्त्वत एव भिक्षुर् अन्वेषते सञ्ज्ञास्कन्धम्। स सञ्-ज्ञातत्त्वदर्शी, स उदयव्ययतत्त्वज्ञः सूक्ष्मतरक्रमान्वेषी। नदी-कूलस्रोतःप्रवृत्तसञ्ज्ञा कुशलम् उत्पद्यमाना, प्रत्ययनिदान-वशद् अकुशलपरिणामा। अकुशलम् उत्पद्यमान, प्रत्ययनिदान-वशात् कुशलपरिणामा। जाता सा पुनः प्रतिहता चित्तमर्कटेन,अव्याकृता जाता। परिणामसुखम् अवेक्ष्यते। निरास्रवसुखेषुसुखसञ्ज्ञी, सुखे चासञ्ज्ञी: “तस्याम् एव सुखायां परीत्तसञ्ज्ञाः। “<5.1.20> कथं कुशलस्कन्धधात्वायतननिरोधोदयदर्शी नवेदनायाम् अभिसंरज्यते? न वेदनास्तङ्गमनेन सञ्ज्ञायाम्अभिरमते। न सञ्ज्ञास्तङ्गमनेन संस्काराणाम् उदयम् अभि-रोचते, न स्थितिं न व्ययं नान्यथात्वम्। न विज्ञानस्योदयम्(५५)अभिरोचते, न स्तिथिं न भङ्गं नान्यथा भावम्। एवम् अयंस्कन्धतत्त्वज्ञो भिक्षुर् न मारस्य विषये वसति। स राग-द्वेषमोहैर् नाबाध्यते। न नित्यसुखशुच्यात्मकदर्शी भ-वति। न संसारिण्या जालिन्या संसार इष्टशब्दस्पर्शरूपगन्ध-रसमयैः पाशैर् बध्यते। न नष्टस्मृतिर् भवति। स स्मृत्य्-उपस्थितिविजानकः शक्त आस्रवक्षयाय निर्वाणाभिमुखाय गन्तुम्। ॥
भवन्ति चात्र गाथाः॥
मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय यः। नोद्योगाभिरतो नित्यं भिक्षुर् भवति तादृशः॥
<5.1.21.1>न शय्यासनसम्भोजी भिक्षुर् बुद्धेन भाषितः। कौसीद्याभिरतो यस् तु नासौ कल्याणम् अर्हति॥
<5.1.21.2>(५६)क्लेशाणां मूलम् एकं ह् इ कौसीद्यं यस्य विद्यते। कौसीद्यम् एकं यस्यास्ति तस्य धर्मो न विद्यते। केवलं वस्त्रमात्रेण ‘भिक्षुः स’ इति कथ्यते॥
<5.1.21.3>नाध्येतव्ये मतिर् यस्य न ध्याने नास्रवक्षये। केवलं कुहमात्रेण भिक्षुर् भवति सादृशः॥
<5.1.21.4>विहारारामनिरतो न रतो धर्मगोचरे। स्त्रीमद्यलोलुपमतिर् न भिक्षुस् तादृशो भवेत्॥
<5.1.21.5>यो मारबन्धनच्छेत्ता च्छेत्ता पापस्य कर्मणः। स भिक्षुर् देशितो बुद्धैर् न भोक्ता सङ्घगोचरे॥
<5.1.21.6>(५७)वरम् आशीविषविषं क्वथितं ताम्रम् एव वा। भुक्तं स्यान् न तु दुःशीलैः साङ्घिकं पानभोजनं॥
<5.1.21.7>यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्प्यते। यस्य पिण्डीकृताः क्लेशा नारकाय स कल्प्यते॥
<5.1.21.8>येन वान्ता हताः क्लेशाः सर्पा इव बिलेशयाः। स भिक्षुः पिण्डभोजी स्यान् न स्त्रीदर्शनतत्परः॥
<5.1.21.9>बन्धकं यदि चात्मानं कृत्वा पापेषु रज्यते। कथं स भिक्षुर् विज्ञेयः सङ्घरत्नप्रदूषकः॥
<5.1.21.10>यस्येष्टौ लाभसत्कारौ विषया यस्य संमताः। नारीदर्शनतत्काङ्क्षी न भिक्षुर् न गृही शठः॥
<5.1.21.11>(५८)दग्धं क्लेशवनं यैर् हि वनं दग्धं यथाग्निना। ते द्विजास् ते च कल्याणा न रक्ताः पानभोजने॥
<5.1.21.12>नित्यं ग्रामोत्सुका गन्तुं नित्यं स्नानोत्सुकाः शठाः। परात्मवञ्चका मूढा मूढाः सद्धर्मवर्त्मनि॥
<5.1.21.13>अरण्ये शान्तमनसो नित्यं ध्यानपरायणाः। ते द्विजास् ते च कल्याणाः कल्याणपथगोचराः॥
<5.1.21.14>रमणीयाण्य् अरण्यानि न चात्र रमते मनः। वीतरागात्र रंस्यन्ते न तु कामगवेषिणः॥
<5.1.21.15>(५९)साङ्कथयाभिरतो यस् तु रतो विषयतृष्णया। न यास्यति पुरं शान्तं यत्र मृत्युर् न विद्यते॥
<5.1.21.16>राजसेवी सुमृष्टाशी मद्यपः क्रोधनः सदा। भिक्षुनाम्ना वञ्चयते दायकान् ऋतचेतसः॥
<5.1.21.17>उपायम् अभ्युपादाय राज द्वाराश्रिता हि ये। संरब्धा गृहिभिः सार्धं यन्नाशाद् वनम् आश्रिताः॥
<5.1.21.18>तत्स्वास्थ्यम् एव पुष्णन्ति वान्ताशैस् तैः समा मताः। पुत्रदारं परित्यज्य ये शन्तं वनम् आश्रिताः॥
<5.1.21.19>(६०)<5.1.22> स भिक्षुर् एतान् दोषान् प्रहाय, तत्त्वदर्शनतत्परो रूपा-दिस्कन्धतत्त्वदर्शी मोक्षाय घटते चरति, परिपृच्छति गुरुम्। मार्गामार्गतत्त्वज्ञ आर्याष्टाङ्गेन मार्गेण तं मोक्षपुरम्अन्वेषमाणः, मार्गारम्भशीलः समदर्शी निर्मलचित्तः शान्त-चित्तस् तम् एव मार्गम् आसेवते भावयते बहुलीकुरुते। <5.1.23> तस्यास्य कुशलानास्रवकर्मपथसंयुक्तस्य “हीयतेमारपक्षः। वर्धते सद्धर्मपक्षः,” इति ज्ञात्वा, भौमा यक्षाअन्तरीक्षचराणां यक्षाणां अभिनिवेदयन्ति। <5.1.24> तेऽपि चतुर्णां महारज्ञां अभिनिवेदयन्ति। तेऽपि चत्वारोमहाराजानः…. पूर्ववद् यावत् ….. तुषितसंस्थितस्य मैत्रेयस्या-भिनिवेदयन्ति यामा देवाः। तुषिते ततोऽप्य् एको बोधिसत्त्वोऽतीवानन्दतत्परः परनिर्मितवशवर्तिनां देवानाम् अभिनिवे-दयति: “अमुको जम्बूद्वीपात् कुलपुत्रः केशश्मश्रूण्य् अवतार्यकाषायाणि वासांस्य् आच्छाद्य …. पूर्ववत् ……” अथ तुष्टतरमनसःपरनिर्मितवशवर्तिनो देवाः: " …… पूर्ववत् …."(६१)<5.2.1> पुनर् अपि योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: कथं स भिक्षुः पञ्चमं भूम्यन्तरम् आरोहोति? सपश्यति श्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:<5.2.2> दश रूपीण्य् आयतनाण्य् अवलोकयति। कतराणि दश? तद्यथा:चक्षुरायतनं रूपायतनं श्रोत्रायतनं शब्दायतनं घ्राणा-यतनं गन्धायतनं जिह्वायतनं रसायतनं कायायतनंस्पर्शायतनं च। एतानि रूपिण्य् आयतनानि। <5.2.3.1> अत्रावलोकयति: “कथं मम चक्षुरायतनं प्रतीत्य,रूपायतनं च प्रतीत्य, सञ्ज्ञा भवति?"<5.2.3.2> स पश्यति: “चक्षुः प्रतीत्य, रूपं च प्रतीत्य, चक्षुर्-विज्ञानम् उत्पद्यते। त्रयाणां सन्निहितात् स्पर्शः, स्पर्शसहजावेदनासञ्ज्ञाचेतना। तत्र या वेदना सा विन्दति। या चेतना सा चेतयति। तत्र या सञ्ज्ञा सा सञ्जानाति, यथा: ‘दीर्घम् इदं रूपम्। ‘‘ह्रस्वम् इदं रूपं। ’ ‘प्रियम् इदं रूपम्। ’ ‘अप्रियम् इदंरूपम्। ’ ‘सनिदर्शनं सप्रतिघम् इदं रूपम्। ’ ‘अनिदर्शनम्अप्रतिघम् इदं रूपम्। ‘” एवम् एकादशप्रकारं यावद्अविज्ञप्तिसञ्ज्ञकं रूपं विभजति। (६२)<5.2.3.3> एवं त्रयाणां सन्निपातात् स्पर्श उत्पद्यते, संस्प-र्शसहजा वेदनासञ्ज्ञाचेतना। तत्र चक्षुसंस्पर्शजा वेदनासञ्-ज्ञाचेतना: विन्दमानार्थो वेदनार्थः। सञ्जाननार्थः सञ्ज्ञार्थः। सञ्ज्ञा हि वेदनाकालं सञ्जानाति। मनः प्रतीत्य, एते धर्मा उत्प-द्यन्ते अन्योन्यलक्षणा अन्योन्यस्वभावाः। यथा दश महा-भौमा धर्माः, अन्यद् एव लक्षणं चेतनायाः: वितर्कमनसि-कारविचारस्मृतिवेदनासञ्ज्ञासञ्चेतनास्पर्शच्छन्दवीर्यसमाधिश्(६३)च। एत एकालम्बना अन्योन्यलक्षणाः। एवं लक्षणं वेदनायाअन्याद् एव लक्षणं सञ्ज्ञायाः। तद्यथा: सूर्यस्यैकालम्बनारश्मयोऽथवान्यस्वभावाः। एवम् एवान्यः स्वभावो वेद-नायाः, अन्यः स्वभावश् चेतनायाः। <5.2.3.4> स चक्षुःसंस्पर्शजवेदनासञ्ज्ञाचेतनातत्त्वज्ञश् च-क्षुर् एव रिक्तकं पश्यति, तुच्छकं पश्यति, असारकं पश्यति। सद्भूतदर्शी भिक्षुर् मार्गतत्त्वज्ञो मिथ्यादृष्टिविरहितः सम्यग्-दृष्टिपुरःसरस् तद् एव चक्षुःसहगतं मोहम् आविलीस्वभाव-भूतं प्रजहाति। मांसपिण्डतत्त्वदर्शी " मेदपूयरुधिरा-श्रुनिलयम्” इति मत्वा, रागं प्रजहाति। “न नित्यम्” इति मत्वानित्यदर्शी भवति। “मांसपिण्डम्” इति मत्वा, “अस्थिच्छिद्रगतं"विरज्यते। “स्नायुबन्धनम्” इति मत्वा। “परस्परायत्तम् इदंचक्षुरायतनम्” अवगच्छति। “नेह सारम् अस्ति,” निरात्मकम्अवैति। स " सङ्क्षेपतो दुःखभूतम् इदं चक्षुः,” इति विजानन्पश्यन्, चक्षुरायतनाद् विरज्यते। (६४)<5.2.3.5> स चक्षुरायतनं यथावद् अवगच्छन्, रूपम् अपिविचारयति: " सचेत् तद् रूपं प्रियाप्रियाव्याकृतम् अभूतं परि-कल्प्यते, किम् अत्र सारम् अस्ति? किं शुचिं किं नित्यं किं सुखम्अस्ति?” स रूपं पश्यञ् जानन् विमृशं लभते: “नेहरूपं सारम् अस्ति। सङ्कल्पमात्रकम् एवेदं रूपं प्रियाप्रियम्। नेह प्रियो वाप्रियो वा भावोऽस्ति। केवलम् अयं लोकः प्रीतिक्रोध-सङ्कल्पगृहीतः ‘प्रियं द्वेष्यम्’ इति वा मन्यते। “<5.2.4.1> स चक्षुरूपायतनम् अवलोक्य, श्रोत्रशब्दायतनम् अवलो-कयति। स शब्दं प्रत्यवेक्षते: शब्द उत्पन्न इन्द्रियविषयेप्रपतति। ततः श्रोत्रं च प्रतीत्य, शब्दं च प्रतीत्य, तज्जं चमनसिकारं प्रतित्य, श्रोत्रविज्ञानम् उत्पद्यते। त्रयाणांसन्निपातात् स्पर्शः स्पर्शसहजा वेदनासञ्ज्ञाचेतना। तत्र स्पर्श-सहजा वेदना यश् चेतयति सञ्ज्ञावत्, यथा: “दीर्घम् इदंलक्षणम्। विप्रकर्षात् प्रत्ययाच् छोब्दोऽयम् आगतः कर्म-(६५)शोभनः सूक्ष्म औदारिकः प्रियाप्रियो वा। " शब्दम् आगतंप्रतिवेदयति सञ्चेतयति, सञ्ज्ञया विभजति, मनोविज्ञानेनविजानाति, वेदनाया वेदयति, काङ्क्षया विचारयति। स श्रोत्र-शब्दायतनम् अभिनिवेशयमानो विमृशति। विमृशमाणो विचारयति। विचारयमाणः प्रतिसंवेदयते: “नेह स्वभावतः शब्दः प्रियोवाप्रियो वा संविद्यते। केवलं सङ्कल्पकमात्रम् एवेदम्। प्रिया-प्रियोऽयं शब्द इति नायं शब्दः स्वभावतो नित्यो वा ध्रुवो वाशाश्वतो वा सुखो वा सारो वा सात्मको वा निरात्मको वा। केवलंरागद्वेषमोहाः प्रियापिर्योऽयं शब्द” इति। <5.2.4.2> स शब्दश्रोत्रायतनम् अभिसंतर्कयन्, शब्दं श्रुत्वा,न संमुह्यते न संरज्यते, न रागम् अवगच्छति। स श्रोत्र-शब्दायतनम् अभिसमीक्ष्य, न श्रोत्रविज्ञाने संरज्यते, नापिरागम् उपैति: " न हि श्रोत्रविज्ञानस्य, न मम श्रोत्रविज्ञानम्। “एवं स्पर्शो वेदनासञ्ज्ञाचेतना च। <5.2.5.1> पुनर् अपि स भिक्षुः घ्रा नगन्धायतनम् अवैति:“घ्राणं प्रतीत्य, गन्धं प्रतीय, तज्जं च मनस्कारंप्रतीत्य, घ्राणविज्ञानम् उत्पद्यते। " सन्निकृष्टविप्रकृष्टप्रिया-प्रियं सुगन्धं दुर्गन्धं वातसंश्लेषविश्लेषं प्रतिग-न्धं जिघ्रते। तत्र घ्राणायतनं गन्धो बहिर्धस् तम् उपैति। त्रयाणां सन्निपातात् स्पर्शः स्पर्शसहजा वेदना सञ्ज्ञा संस्का-राणां चेतना। तत्रानुभवलक्षणा वेदना। सञ्जाननालक्षणा(६६)सञ्ज्ञा। घ्राणगन्धायतन अवलोक्याध्यात्मिकः स्पर्शलक्ष-णः स्पर्शः। स्पर्शसञ्जाननालक्षणा सञ्ज्ञा। सञ्ज्ञासञ्चेतनल-क्षणा चेतना: “एकक्षणावलम्बना एते धर्माः पृथक्-कार्याण्य् आरभन्ते, तद्यथान्योन्यनिःस्वभावात्। यथा दशमहाभौमा धर्माः …. पूर्ववत् …. तथा सर्व एते धर्माःपृथग्लक्षणाः, न चैकस्मिन् क्षेणे एकं कार्यम् आरभन्ते। “<5.2.5.2> स भिक्षुर् घ्राणगन्धायतनतत्त्वज्ञस् तत्त्वत एवान्वे-षयति: " किम् अत्र सारं नित्यं ध्रुवं शाश्वतम्? विपरिणाम-धर्मिकस्यायतनस्यानित्यदुःखशून्यानात्मकम्। " घ्राणग-न्धायतनं ज्ञात्वा,“सर्वं नैतन् मम। नास्याहम्,” इति मत्वा,“केवलं सङ्कल्पमात्रकम् एवेदं घ्राणगन्धायतनं येनबाध्यन्ति सर्वबालपृथग्जनाः मन्दबुद्धयः,” प्रकारोऽयंप्रत्यवेक्ष्यते। <5.2.6.1> पुनर् अपि स भिक्षुर् जिह्वायतनम् अन्वेषयते: “जिह्वांच प्रतीत्य, रसं च प्रतीत्य, तज्जं च मन्सिकारं प्रतीत्य,जिह्वाविज्ञानम् उत्पद्यते। त्रयाणां सन्निपातात् स्पर्शः, स्पर्शसहजा(६७)वेदनासञ्ज्ञाचेतना। तत्रानुभवलक्षणा वेदना। सञ्जाननालक्षणासञ्ज्ञा निमित्तावलम्बनी। तद् एते धर्माः स्वलक्षणसामान्य-लक्षणसम्भूताः पृथक्कार्याण्य् आरभन्ते, सर्वे चैकार्थप्रसा-धकाः। तद्यथा: नाडिं च प्रतीत्य, सन्दंशं च प्रतीत्य,तुषोदकं च प्रतीत्य, सुवर्णकारं च प्रतीत्य, एकम् अङ्गुली-यकम् वा क्रियते, हस्ताभरणं वा। विलक्षणाश् च ते सर्वेधर्माः। तद्वद् एते हि जिह्वायतने,” जिह्वाधर्मायतनं रसाय-तनं च लभते। <5.2.6.2> पुनर् अपि जिह्वायतनतत्त्वदर्शी स भिक्षुर् एवं प्रत-र्क यति: “अस्ति जिह्वारसायतने नित्यसुखशुचिसात्मकं वा किञ्चित्?” सर्वथा विचिन्वन्, सूक्ष्मम् अप्य् एकं धर्मं न लभते। सएवं लक्षणयुक्तः स्यात्, स जिह्वारसायतनाद् विरज्यते: “स यत्रकृत्स्नोऽयं सत्त्वसमुद्रो मज्जते संरज्यते, परस्परेणमनुष्यदेवनरकतिर्यक्प्रेताः पञ्चगतयो निरुध्यन्ते मज्जन्तेविरुध्यन्ते। " स जिह्वारसायतननिर्मुक्तः: “न मम जिह्वा-यतनम्, नाहं जिह्वारसायतनस्य। नाहं नित्यो ध्रुवःशाश्वतो वाविपरिणामधर्मः, नापि जिह्वारसायतनम्। " तस्माद्अपि विरज्यते। (६८)<5.2.7> पुनर् अपि स भिक्षुः कायस्प्रष्टव्यायतनम् अवलोकयति। सपश्यति: “कायं प्रतीत्य, स्प्रष्टव्यं चोत्पद्यते कायविज्ञानम्। त्रयाणां सन्निपातात् स्पर्शः, स्पर्शसहजा वेदना सञ्ज्ञा चेतना च। “एते धर्माः पूर्ववज् ज्ञेयाः। यथा चक्षुरिन्द्रियेष्व् आयतनेषु लोकः,तथैव कायस्पर्शायतनेऽपि बोद्धव्याः। <5.2.8.1> पुनर् अपि स योगाचार आध्यात्मिके धर्मे धर्मानुपश्यीविहरति: कथं स भिक्षुर् दश रूपीण्य् आयतनानि अवलोक्य,धर्मायतनतत्त्वदर्शी धर्मायतनम् अवलोकयति? स पश्यतिश्रुतमयेन ज्ञानेन दिव्येन वा चक्षुषा:<5.2.8.2> " धर्मायतनसङ्गृहीतास् त्रयो धर्माः: प्रतिसङ्ख्याय-निरोधोऽप्रतिसङ्ख्यायनिरोध आकाशं च। तत्र धर्मो यत् किञ्चिद्अविद्यमानम्, तद् धर्मसङ्गृहीतं कृत्वा, आकाशायतनंभवति। प्रतिसङ्ख्यानिरोधो निर्वाणम्। प्रतिसङ्ख्या नाम प्र-ज्ञाम् अनेकविधां साक्षीकृत्वा, विहरति। प्रतिसङ्ख्यानं कृत्वा,क्लेशान् विधमति क्षपयति नाशयति, पर्यावृणीकुरुते सर्वान्आस्रवान्। अप्रतिसङ्ख्यानिरोधः: अप्रतिसङ्ख्या नाम यद् अज्ञ-नं यन् न जानाति न सम्प्रतिवेदयति न जानीते न संबु-ध्यते न प्रतर्कयते। परम्परविज्ञानशतसहस्राण्य् उत्पन्नानिनश्यन्ति, चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानानि। तेषां ध्व-स्तानां न पुनरुत्पादः, एष अप्रतिसङ्ख्यायनिरोधः। तृतीयम्(६९)आकाशम्। एते त्रयो धर्मा अजाता नित्या। अध्वनाप्य् एते न जाता नजनिष्यन्ते न जायन्ते। “<5.2.9> पुनर् अपि स भिक्षुः कथं धर्मायतनं द्विविधंविभजति, रूपं चारूपं च?<5.2.10> “तत्र रूपिजगद् दश रूपीण्य् आयतनानि। तत्र कथम्अनिदर्शनाप्रतिघेन चक्षुर्विज्ञानेन सप्रतिघं सनिदर्शनंरूपं उपलभ्यते? एवं श्रोत्रविज्ञानेनानिदर्शनाप्रतिघेन क-थं शब्दो गृह्यते? एवं घ्राणविज्ञानेनानिदर्शनेनाप्रति-घेन कथं गन्धो गृह्यते? एवं जिह्वाविज्ञानेनाप्रतिघेना-निदर्शनेन कथं रसो गृह्यते? एवं कायविज्ञानेनानिदर्शने-नाप्रतिघेन कथं स्प्रष्टव्यो गृह्यते? एवं एतानि बाह्यानिपञ्चायतनानि अध्यात्मिकानि पञ्चायतनानि। कथम् अनिदर्शना-प्रतिघानां सनिदर्शनसप्रतिघानां चायतनानां उपलब्धिर्भवति?"<5.2.11.1> स पश्यति भिक्षुः: “यावद् विविधम् आलम्बनं भ-वति, तावद् विविधम् एव विज्ञानम् उत्पद्यते, मुद्राप्रति-मुद्रकवत्। तत्र विसदृशा मुद्रायस्य् अकठिनं मुद्रकम्। मृदु सातप्तकठिनम्। कठिनाकठिनयोः प्रतिमुद्रा उत्पद्यते। (७०)एवम् एवानिदर्शनाप्रतिघं विज्ञानं सनिदर्शनप्रतिघम्आलम्बनं गृह्णीते। तृतीयं प्रतिमुद्रकम् उत्पद्यते। विसदृश्-आनां सर्वेषां विसदृशम् उपलभ्यते। एवं विसदृशे विस-दृशम् उत्पद्यते। प्रथमा कोटिः। <5.2.11.2> “द्वितीया कोटिः: सदृशैः सदृशम् उत्पद्यते। तद्यथा:शुक्लैस् तन्त्रभिः शुक्लं वस्त्रं पटसञ्ज्ञकम्। <5.2.11.3> “तृतीया कोटिः: विधुराद् विधुरम् उत्पद्यते। तद्यथा-रणिभ्यो वह्निः, काष्ठाग्न्योर् विरोधो दृष्टः। <5.2.11.4> “चतुर्थी कोटिः: अच्छाद् घनं जायते। यथा क्षीराद्अच्छाद् घनं दधि, तदेवम् असदृशैर् अपि भावैश् चक्षुर्-विज्ञानादिभिर् हेतुप्रत्ययविशेषैश् चक्षुर्विज्ञानादय उत्पद्यन्ते। “॥
भवन्ति चात्र गाथाः॥
धर्मावबोधाभिरतो ध्यानारामविहारवान्। तत्त्वलक्षणसम्बोधात् प्राप्नुयात् पदम् उत्तमम्॥
<5.2.12.1>मैत्रारामो हि सततम् उद्युक्तो धर्मगोचरे। कायलक्षणतत्त्वज्ञो भिक्षुर् भवति तत्त्वतः॥
<5.2.12.2>(७१)योनिशे तु मतिर् यस्य कामक्रोधैर् न हन्यते। स “भिक्षुर्” इति विज्ञेयो विपरीतस् ततोऽन्यथा॥
<5.2.12.3>सर्वभूतदयाशान्तः सर्वसङ्गविवर्जितः। सर्वबन्धननिर्मुक्तो भिक्षुर् भवति तत्त्ववित्॥
<5.2.12.4>कर्मण्यं यस्य विज्ञानं विषयैर् यो न हन्यते। निर्मलः स्यात् कनकवत् सन्तुष्टो भिक्षुर् उच्यते॥
<5.2.12.5>प्रियाप्रियैर् मनो यस्य न लेपम् अनुगच्छति। स कल्याणविधिर् ज्ञेयः सर्वदोषविवर्जितः॥
<5.2.12.6>अनुपाक्रुष्टचारित्रो धर्मशिलो जितेन्द्रियः। अहीनस्त्वो मतिमान् भिक्षुर् भवति तादृशः॥
<5.2.12.7>(७२)शास्त्रे शास्त्रार्थविज्ञाने मतिर् यस्य सदा रता। न पानभोजनरतः स भिक्षुः शान्तमानसः॥
<5.2.12.8>वनारण्यविहारेषु श्मशानतृणसंस्तरे। रमते यस्य तु मनो भिक्षुर् भवति तादृशः॥
<5.2.12.9>दोषाणां कर्मतत्त्वज्ञः फलविच् च विशेषतः। हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद् वीतकिल्बिषः॥
<5.2.12.10>हतकिल्बिषकान्तारो हतदोषो जितेन्द्रियः। पुनर्भवविधिज्ञो यः स भिक्षुः शान्तमानसः॥
<5.2.12.11>नोत्कर्षे हृष्टहृदयो निन्दया नैव कम्प्यते। समुद्रतुल्यगाम्भीर्यो योगविद् भिक्षुर् उच्यते॥
<5.2.12.12>अविकत्थको दृढमतिः शलक्ष्णवादी न लोलुपः। कालवादी समो दक्षः स भिक्षुः शान्त उच्यते॥
<5.2.12.13>(७३)कामधातूपगान् हेतून् रूपधातौ तथैव च। आरूप्येषु च तत्त्वज्ञः शास्त्रविद् भिक्षुर् उच्यते॥
<5.2.12.14>न लौकिककथासक्तः सक्तो दोषवधे सदा। विषवद् यस्य विषयाः स भिक्षुर् देशितो जिनैः॥
<5.2.12.15>पङ्कवद् यस्य कामेषु मतिर् भवति नित्यशः। स निर्मुक्तमतिर् धीमान् मुक्तः संसारबन्धनैः॥
<5.2.12.16>ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः। हितकारि च सत्त्वानाम् आरण्यो भिक्षुर् उच्यते॥
<5.2.12.17>प्रश्नोत्तरमतिर् यस् तु प्रतिभावञ् जितेन्द्रियः। स धार्मकथिको ज्ञेयो विपरीतस् तृणैः समः॥
<5.2.12.18>(७४)कायक्लमैर् यस्य मतिः सर्वथा नैव खिद्यते। सर्वकृत्यकरो ज्ञेयः सङ्घोपचयतत्परः॥
<5.2.12.19>न पङ्यार्थं न भोगार्थं यशोर्थं कुत एव तु। सङ्घकार्ये मतिर् यस्य स मुक्तः सर्वबन्धनैः॥
<5.2.12.20>न सर्वगार्थं व्रतं यस्य न लाभार्थं यशे न च। निर्वाणार्थक्रियाः सर्वाः स भिक्षुः शान्त उच्यते॥
<5.2.12.21>पापेभ्यो नित्यविरतः सत्क्रियासु रतः सदा। न पापमित्रसंसर्गी भिक्षुः स्याद् बुद्धशासने॥
<5.2.12.22>मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः। शिक्षापदेष्व् अखण्डस्य निर्वाणं नातिदूरतः॥
<5.2.12.23>(७५)जरामरणभीतस्य संसारविमुखस्य च। ध्यायिनो ह्य् अप्रमत्तस्य निर्वाणं नातिदूरतः॥
<5.2.12.24>अनित्यताविधिज्ञस्य शूयानात्मक्रियासु च। ध्यानोत्कर्षविधिज्ञस्य निर्वानं नातिदूरतः॥
<5.2.12.25>
भवन्ति चात्र गाथाः॥
शुभानाम् अशुभानां च कर्मणां फलनिश्चयः। भुज्यते स्वकृतं सर्वं कर्मबद्धा हि देहिनः॥
<10.5.1>मधुरादौ विपाके तु कटुकाः क्लेशभूमयः। वर्जनीया हि विषवत् सर्वानर्थकरा हि ताः॥
<10.5.2>(१०७)न क्लेशानां वशं गच्छेद् अन्ज्ञानस्य चो गोचरम्। ज्ञानवान् इहलोके च परे च सुखम् अश्नुते॥
<10.5.3>ज्ञान वध्याः सदा क्लेशा अग्निवध्यं यथा तृणम्। तस्माज् ज्ञानं परं ब्रह्म रत्नत्रयविदर्शकम्॥
<10.5.4>ये ज्ञानगोचररतास् ते शान्ते वर्त्मनि स्थिताः। क्लेशोरगैस् तु ये दष्टास् ते सर्वे विलयं गताः॥
<10.5.5>परापरज्ञा ये धीराः साधवस् तत्त्वदर्शिनः। ते यान्ति परमं स्थानं जरामरणवर्जितं॥
<10.5.6>संसाराभिरता ये तु रमन्ते क्लेशशत्रुभिः। नित्यबन्धनबद्धास् ते भ्रमन्ति भवसङ्कटे॥
<10.5.7>यस्य नैर्याणिकी बुद्धिर् यस्य चर्या शिवा सदा। तस्य देवनिका यस्य ब्रह्मलोको विधीयते॥
<10.5.8>यस्य रागादयो द्वेष्याः पूज्या बुद्धादयः सदा। स नाशयति संसारं शुष्केन्धनम् इवानलः॥
<10.5.9>(१०८)यो न चित्तस्य वशगश् चित्तं यस्यानुगं सदा। स निर्नाशयति क्लेशांस् तमः सूर्योदये यथा॥
<10.5.10>चित्तशत्रुः परं शत्रुर् न शत्रुर् अपरः स्मृतः। चित्तदग्धाः सदा सत्त्वाह् कालदग्धा यथा नगाः॥
<10.5.11>यश् चित्तवशम् आपन्नो बालो मूढोऽजितेन्द्रियः। तस्य दुःखशमो नास्ति निर्वाणं तस्य दूरतः॥
<10.5.12>दुःखं दुःखविपाकं च दुःखहेतुं विजानतः। नश्यन्ति बन्धनाः सर्वे क्लेशवृन्दाः समन्ततः॥
<10.5.13>आलोकानां परं ज्ञानं तमसां मोह उच्यते। तस्माद् आलोकनिरतो यः स पण्डित उच्यते॥
<10.5.14>मोहं विवर्जयेद् धीमान् सर्वानर्थकरो हि यः। यो मोहवशम् आपन्नस् तस्य शान्तिर् न विद्यते॥
<10.5.15>संस्पृशेत वरं वह्निं संवासेद् उरगैर् वरम्। न क्लेशैः सह संयुज्येद् यदीच्छेच् छ्रेयम् आत्मनः॥
<10.5.16>(१०९)अमृतानां परं ज्ञानं श्रेय सां निधिर् उत्तमः। बन्धूनां च परो बन्धुर् धनानां धनम् उत्तमम्॥
<10.5.17>तस्माज् ज्ञानाग्निना नित्यं निर्दहेत् क्लेशपर्वतान्। क्लेशपर्वतदग्धस्य सुखं पदम् अवस्थितम्॥
<10.5.18>अन्धास् तमसि मज्जन्ते पुरुषा मन्दमेधसः। ये नोद्विजन्ति संसाराद् अधर्मरणपञ्जरात्॥
<10.5.19>तेषां हि सफलं जन्म येषां बुद्धिर् अवञ्चिता। ते च पूज्याः सदा सद्भिर् येषां धर्मे सदा मतिः॥
<10.5.20>(११०)<10.6> इति स भिक्षुर् एवं धर्माधर्मविधिज्ञः सद्भूत्वाविहरति। तस्यैवं सुनिर्मलचेतसः: “अनेकानि जन्मशतसहस्राणिशिखराणि संसारपर्वताद् विशीर्यन्ते वान्तीभवन्ति नश्यन्ति,अपुनर् भवतीति। " नश्यन्ति चास्य क्लेशशत्रवः, अन्तिके चास्यभवति निर्वाणम्। (१११)