मैत्रेयव्याकरण

मैत्रेयव्याकरणनमो बुद्धाय॥

एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म। वेणुवनेकलन्दकनिवापे तत्र भगवान् भिक्षून् आमन्त्रयते स्म। अथायुष्मान् शारिपुत्रो महाप्राज्ञो धर्मसेनापतिर् विभुःत्रिलोकस्यानुकम्पार्थं शास्तारं परिपृच्छति॥

(1)यो (ऽ)साव् अनागतो बुद्धो निर्द्दिष्टो लोकनायकःमैत्रेय इति नाम्ना[सौ] सूत्रे पूर्व्वापरान्तके॥

(2)(1)तस्याहं विसतरं सर्व्वं श्रोतुम् इच्छामि नायकऋद्धिञ् चास्यानुभावञ् च तन् मे ब्रूहि नरोत्तम॥३॥

अथैनम् अवदच् छास्ता शृणुम् अन्धो महामतो। विस्तरं तस्य बुद्धस्य मैत्रेयस्य महात्मनः॥

(4)उदधिस् तेन कालेन द्वात्रिंशत् शतयोजनः। शोषम् आयास्यते यस्माच् चक्रवर्त्ती यथो ह्य् असौ॥

(5)दशयोजनसाहस्रो जन्बूदीपो भविष्यति। आलयः सर्व्वभूतानां विस्तराय समन्ततः॥

(6)ऋद्धिस्फीता जनपदा अदण्डा अनुपद्रवाः। तत्र काले भविष्यन्ति नरास् ते शुभकारिणः॥

(7)अकण्ट[का] वसुमती समाहरितशाद्वला। उन्नमन्ती नमन्ती च मृदुतूलपिचूपमा॥

(8)अकृष्टोत्पद्यते शालिः मधुराञ् च सुगन्धिकं। चैलवृक्षा भविष्यन्ति नानारङ्गोपशोभिताः॥

(9)पुष्पपत्रफलोत्पता वृक्षाः क्रोशत्रयोच्छ्रिताः। अशीतिवर्षसहस्राण्य् आयुस् तेषां भविष्यति॥

(10)निरामयाश् च ते सत्वा वीतशोका महोत्सवाः। वर्ण्णवन्तो महेशाख्या महानग्नबलान्विताः॥

(11)त्रयो रोगा भविष्यन्ति इच्छा अनसनं जरा। (2)पञ्चवर्षशता कन्या स्वामिनो वरयिष्यति॥

(12)तदा केतुमती नाम राजधानी भविष्यति। [आवासस् शुद्धस]त्वानां प्राणिनां शुभकर्म्मिणाम्॥

(13)योजनद्वादशायामं सप्तयोजनविस्[त]रं ः। नगरं कृतपुण्यानां भविष्यति मनोरमं॥

(14)[सप्त]रत्नमयाश् चैव प्रकाराः क्रोशम् उच्छ्रिताः। ईषिका द्वारषण्डाश् च नानारत्नविभूषिताः॥

(15)परिखाश् च भविष्यन्ति रत्न इष्टकसंचिताः। पद्मो[त्पला]समा कीर्ण्णाश् चक्रवाकोपशोभिताः॥

(16)समन्ततः परिवृताः सप्तभिस् तलापङ्क्तिभिः। चतूरत्नमयास् तालाः किंकिणी जालशोभिताः॥

(17)तेनैव तालशब्देन क्रीडिष्यन्ति प्रमोदिताः। पुष्करिण्यो भविष्यन्ति कुमुदोत्पलसञ्चेताः॥

(18)उद्यानवनसम्पन्नं भविष्यति च तत् पुरं। राजा भविष्यति तत्र सङ्खो नाम महाद्युतिः॥

(19)महाबलश् चक्रवर्त्ती चतुर्द्द्वीपेश्वरः प्रभुः। चतुरङ्गबलोपेतः सप्तरत्नसमन्वितः॥

(20)पूर्ण्णं सहस्रं पुत्राणां तस्य राज्ञो भविष्यति। इमां समुद्रपर्यन्ताम् अदण्डेन वसुन्धरां॥

(21)प्रसादयिष्यति धर्म्मेण समेन स नराधिपः। महानिधयश् चत्वारो नियुताः शतलक्षिताः॥

(22)(3)भविष्यन्ति तदा तस्य राज्ञः संखस्य भूपतेः। पिङ्गलश् च कलिङ्गेष्व मिथिलायाञ् च पाण्डुकः॥

(23)एलपत्रश् च गान्धारे संखो वाराणसीपुरे। चतुर्भिर् एभिर् न्निधिभिः स राजा सुसमन्वितः॥

(24)भविष्यति महावीरः शतपुण्यवलोदितः। ब्रह्मणस् तस्य राज्ञस्य सुब्रह्मा नाम पुरोहितः॥

(25)बहुश्रुतश् चतुर्व्वेद उपाध्यायो भविष्यति। अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः॥

(26)कैटाभे स निघण्टे च पदव्याकरणान्वितः। तदा ब्रह्मवती नाम तस्य भार्या भविष्यति॥

(27)प्रासादिका दर्शनीया अभिरूपा यसस्विनी। तुषितेभ्यश् च्यवित्वा मैत्रेयो ह्य् अग्रपुद्गलः॥

(28)तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहिष्यति। दशमासांश् च निखिलां धारयित्वा महाद्युतिम्॥

(29)सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरः। महत्या राज-ऋद्ध्या च नानापक्षिनि नादिते॥

(30)(4)न निषण्णा निपन्ना वा स्थिता सा धर्म्मचारिणी। द्रुमशाखाम् आलम्ब्य मैत्रेयं जनयिष्यति॥

(31)निष्क्रमिष्यति पार्श्वाच् च दक्षिणांसे नरोत्तमः। अभ्रकूटाद् यथा सूर्यो निर्गतश् च प्रभास्यते॥

(32)करिष्यति जगालोकं सनरामरवन्दितः। अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्बुना॥

(33)त्रैधातुकम् इदं सर्व्वं प्रभया पूरयिष्यति। प्रीतोऽथ तं सहस्राक्षो देवराजा शचीपतिः॥

(34)ग्रहीष्यति कुमारं तं जायमानं नरोत्तमं। श्रिया ज्वलन्तं मैत्रेयं द्वात्रिंशद्वरलक्षणं॥

(35)मुञ्च मुञ्च सहस्राक्ष जातमात्रो वदिष्यति। पदानि सप्त सप्तासौ क्रमिष्यति चतुर्द्दशं॥

(36)पदे पदे निधानञ् च पद्मं पद्मं भविष्यति। दिशश् चतस्रश् चोद्वीक्ष्य वाचं प्रव्याहरिष्यति॥

(37)इयम् मे पश्चिमा जाति नास्ति भूयः पुनर्भवः। न पुनर् आगमिष्यामि निर्व्वाष्यामि निरास्रवः॥

(38)शीतोष्ण वारिधाराभिः स्नापयिष्यन्ति पन्नगाः। (5)दिव्यास्वराणि पुष्पाणि प्रक्षेप्स्यन्ति दिवौकसः॥

(39)स्वेतञ् चास्य महच्छत्त्रं हेमदण्डं मनोरमं। विचित्रं रत्नखचितं दारयिष्यन्ति मूर्द्धनि॥

(40)पुसर् गृहीत्वा मैत्रेयं देवराजा सचीपतिः। प्रसादजातो जगन्नाथं मातुहस्ते प्रदास्यति॥

(41)मनोरमां च शिविकां नानारत्नविभूषितां। आरूढां पुत्रसहितां अयं नेष्यन्तं देवताः॥

(42)ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरं। प्रविष्टमात्रे मैत्रेये पुष्पवृष्टिः पतिष्यति॥

(43)तस्मिन् दिने सुभे नार्यः प्रसविष्यन्ति तत्पुरे। सर्व्वास् ता ज जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना॥

(44)दृष्ट्वैव पुत्रं सुब्रह्मा द्वात्रिङ्शद्वरलक्षणं। प्रत्यवेक्ष्य सुमन्त्रेषु ततः प्रीतो भविष्यति॥

(45)गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते। नराधिपश् चक्रवर्त्ती बुद्धो वा द्विपदोत्तमः॥

(46)स च यौवनसंप्राप्तो मैत्रेयः पुरुषोत्तमः। (6)चिन्तयिष्यति धर्म्मात्मा दुःखिता खल्व् इयं प्रजा॥

(47)ब्रह्मस्वरो महाघोषो हेमवर्ण्णो महाद्युतिः। विशालचक्षुः पीनांसः पद्मपत्रनिभेक्षणः॥

(48)अशी«त»हस्तम् उच्छ्रयस् तस्य कायो भविष्यति। विस्तरं विङ्शहस्तानि ततो (ऽ)र्द्धम् मुखं मण्डलं॥

(49)अशीतिभिश् चतु<र्>भिश् च सहस्रैः संपुरस्कृतः। माणवानां स मैत्रेयो मन्त्रान् अध्यापयिष्यति॥

(50)ततः संखो महाराजा यूपम् उच्छ्रापयिष्यति। षोडशव्याम विस्तारम् ऊर्द्ध्वं व्यामसहस्रकं॥

(51)सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति। तञ् च रत्नमयं यूपं दत्तमात्रम् मनोरमं॥

(52)ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणं। तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनाम् अनित्यताम्॥

(53)कृत्स्नं विचिन्त्य संसारं प्रव्र[ज्या]ं रोचयिष्यति। (7)यत्व् अहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम्॥

(54)विमोचयेयं जनतां व्याधि मृत्युजराभ्यात्॥

अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृतः॥

(55)निःक्रमिष्यति मैत्रेयः प्रव्रज्याम् अग्रपुद्गलः। नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति॥

(56)पञ्चाशद्योजनास् तस्य ऊर्द्ध्व[ं] शाखाः समुद्गताः <। >षट्क्रोशविटपान्यानि विवृतानि समन्ततः॥

(57)तस्य मूले निषण्णो (ऽ)सौ मैत्रेयो द्विपदोत्तमः। अनुत्तरां शिवां बोधिं जित्वा मारान् अवाप्स्यति॥

(58)अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः। देशयिष्यति सद्धर्मं सर्व्वदुःखापहं शिवं॥

(59)दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम्। आर्यां चाष्टाङ्गिकं मार्ग्गं क्षेमनिर्व्वाणगामिनम्॥

(60)प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति। तं चास्य धर्म्मं संश्रुत्य प्रतिपद्यन्ति शासने॥

(61)सुपुष्पिते ता च उद्याने सन्निपातो भविष्यति। (8)परिपूर्ण्णं योजनशतं पर्यन्तस्य भविष्यति॥

(62)ततः श्रुत्वा नरपतिः संखो राजा महायशाः। दत्त्वा दानम् असंख्येयं प्रव्रज्यां रोचयिष्यति॥

(63)अशीतिभिश् चतुर्भिश् च सहस्रैः परिवारितः। नराधिपो (ऽ)पि निष्क्रम्य प्रव्रज्याम् उपयास्यति॥

(64)अनेनैव प्रमाणेन मानवानां पुरस्कृतः। मैत्रेयस्य पिता चैव प्रव्रज्यान् निष्क्रमिष्यति॥

(65)ततो गृहपतिस् तस्य सुधनो नाम विश्रुतः। प्रव्रजिष्यति धर्म्मात्मा सहस्रैः परिवारितः॥

(66)स्त्रीरत्नम् अथ संखस्य विशाखा नाम विश्रुता। अशीत्या च चतुर्भिश् च सहस्रैः संपुरस्कृता॥

(67)नारी म भि«ः सह» निष्क्रम्य प्रव्रज्याम् उपयास्यति। प्राणिनां तत्र समये सहस्राणि शतानि च॥

(68)प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने। ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः॥

(69)समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यति। (9)सर्व्वे ते शाक्यसिंहेन मुनिश्रेष्ठे<न> तायिना॥

(70)अर्थतो लोकनाथेन स्पृष्टाः सद्धर्म्मधातुना। रोपिता मोक्षमार्ग्गेव निक्षिप्ता मम शासने॥

(71)च्छत्त्र ध्वजपताकाभिर् ग्गन्धमाल्यानुलेपनैः। कृत्वा शाक्यमुनेः पूजाम् आगता मम शासने॥

(72)कुंकुमोदकसेकेन चन्दनेन विलेपनम्। कृत्वा शाक्यमुनेः स्तूपे आगता मम शासने॥

(73)दत्वा संघाय दानानि चीवरं पानभोजनं <। >विचित्रं ग्लानभैषज्यम् आगता मम शासने॥

(74)बुद्धं धर्म्मञ् च संघञ् च गत्वा तु शरणत्रयं सदा। कृत्वा कुशलं कर्म्म आगता मम शासने॥

(75)शिक्षापदां समादाय शाक्यसिंह«स्य» शासने॥

प्रतिपाल्य यथाभूतम् आगता मम शासने <॥

(76)चतुर्द्दशीं पञ्चदशीं पक्षस्येहाष्टमीन् तथा। प्रातिहारकप«क्ष»ञ् च अष्टाङ्गं सुसमाहिताः। उपवासम् उपोषित्वा आगता मम शासने॥

(77)(10)तेनैव प्रेरिताः सर्व्वे ममाप्य् एते प्रतीच्छिताः। गणश्रेष्ठेन मुनिना परीत्ता भूरिमेधसा॥

(78)प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति। श्रुत्वा च ते तदा धर्म्मं प्राप्स्यन्ति पदम् उत्तमं॥

(79)प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति। सर्व्वे ते सास्रवान् धर्म्मान् क्षपयिष्यन्ति सूरताः॥

(80)प्रथमः सन्निपातो (ऽ)स्य श्रावकाणां भविष्यति। पूर्ण्णा षण्नवतिः कोट्यः श्रावकाणां भवच् छिदां॥

(81)द्वितीयः सन्निपातोऽस्य श्रावकाणां भविष्यति। पूर्ण्णाश् चतुर्न्नवति कोट्यो मुक्तानां क्लेशबन्धनात्॥

(82)तृतीय सन्निपातोऽस्य श्रावकाणां भविष्यति। पूर्ण्णा द्वानवति कोट्यो दान्तानां शान्तचेतसां॥

(83)धर्म्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान्। सार्द्धं श्रावकसंघेन पुरे पिण्डं चरिष्यति॥

(84)ततः प्रविशतस् तस्य रम्यां केतुमतीं पुरीं। मान्दारवाणि पुष्पाणि प्रक्षेप्स्यन्ति दिवौकसः॥

(85)चत्वारश् च महाराजाः शक्रश् च त्रिदशाधिपः। (11)ब्रह्मा देवगणैः सार्द्धं पूजान् तस्य करिष्यति॥

(86)उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकं। अगुरुं चन्दनं चैव दिव्यं माल्यं पतिष्यति॥

(87)चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः। तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमं॥

(88)पथि भूम्यास्तरणं तत्र मृदुस् तूलपिचूपमा। विचित्रं च शुभं माल्यं प्रकरिष्यन्ति ते पथि॥

(89)छत्त्रध्वजपताकाभिर् अर्च्चयिष्यन्ति नायकं। शुभैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः॥

(90)शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः। स च शक्रः सहस्राक्षो देवराजा महाद्युतिः॥

(91)प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकं। नमस् ते पुरुषाजन्य नमस् ते पुरुषोत्तम॥

(92)अनुकम्पस्व जनतां भगवान् अग्रपुद्गल। (12)शुद्धावाससहस्रैश् च बहुभिः परिवारितः॥

(93)प्रवेक्षते केतुमती<ं> मैत्रेयो लोकनन्दनः। ब्राह्मे णे नपरिवारेण ब्रह्माश् चैव पुरस्कृतः॥

(94)कथयिष्यति सद्धर्म्मं ब्रह्मघोषम् उदीरयन्। आकीर्ण्णा पृथिवी सर्व्वा अर्हद्भिश् च भविष्यति॥

(95)क्षीणास्रवैर् व्वान्तदोषैः प्रहीणभवबन्धनैः॥

हृष्टा देवमनुष्याश् च गन्धर्व्वा यक्षराक्षसाः॥

(96)शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः। ते वै नूनं भविष्यन्ति अखिलाश् छिन्नसंशयाः॥

(97)चिन्नस्रोतोऽन्यदाना उत्तीर्ण्णा भवसागराः॥

ब्रह्मचर्यञ् चरिष्यन्ति मैत्रेयस्यानुशसने। ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः॥

(98)अजातरूपरजता अनिकेता असंभवाः। ब्रह्मचर्यञ् चरिष्यन्ति मैत्रेयस्यानुशसने॥

(99)ते वै नूनं भविष्यन्ति च्छित्वा जालम् इवाण्डजाः। ये ध्यानान्य् उपसम्पाद्य प्रीतिसौख्यसमन्विताः॥

(100)ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने। षष्टिं वर्षसहस्राणि मैत्रेयो द्विपदोत्तमः॥

(101)देशयिष्यति सद्धर्म्मं सर्व्वभूतानुकम्पकः। शतं लक्षसहस्राणि प्राणिनां स विनायकः॥

(102)(13)विनयित्वा च सद्धर्म्मे ततो निर्व्वाणम् एष्यति। तस्मिंश् च निर्व्वृते धीरे मैत्रेये द्विपदोत्तमे॥

(103)दशवर्षसहस्राणि सद्धर्म्मः स्थास्यति सदा। प्रसादयिष्यति चित्तानि तस्मिञ् छाक्यमुनौ जिने॥

(104)ततो द्रक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम्। इदम् आश्चर्यकं श्रुत्वा इमाम् ऋद्धिम् अनुत्तमाम्॥

(105)न प्रसीदे त को विद्वान् अपि कृष्णाहि जातिकः। तस्माद् इहात्मकामेन माहात्म्यम् अभिकांक्षता। सद्धर्म्मो गुरुकर्त्तव्यः स्मरता बुद्धशासनं॥

(106)आरभध्व निष्क्रामत युज्यध्व बुद्धशासने। धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः॥

यो ह्य् अस्मिन् धर्म्मविनये अप्रमत्तश् च भविष्यति। प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥॥

मैत्रेयव्यकारणं समाप्तं॥॥

(14)