काश्यपपरिवर्त सूत्रम्

काश्यपपरिवर्त सूत्रम् एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म। गृधकूटे पर्वते महता भिक्षुसंघेन सार्द्धम् अष्टाभिर्भिक्षुसहस्रैः षोदशभिश्च बोधिसत्त्वसहस्रैः नानाबुद्धक्षेत्रसंनिपतितैरेकजातिप्रबद्धैर्यदुतानुत्तरस्यां सम्यक्संबोधौ।
१ तत्र भगवान् आयुष्मन्तं महाकाश्यपमामंत्रयति स्म। चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य प्रज्ञापारिहाणाय संवर्तन्ते। कतमे चत्वारः ? यदुत अगौरवौ भवति धर्मे च धर्मभाणके च। धर्म XXX च भवन्ति। धर्माचार्यमुष्टिञ्च करोति धर्मकामानां च पुद्गलानां धर्मान्तरायं करौति विच्छन्द XX विक्षिपति। न देशयति। प्रतिच्छादयति। आभिमानिकश्च भवत्यात्मोत्कर्षी परपंसकः। इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्य प्रज्ञापारिहाणाय संवर्तते। तत्रेदम् उच्यते॥

अगौरवो भवति च धर्मभाणके।
धर्मेषु मात्सर्यरतो च भोति।
आचार्यमुष्टिंच्चा करोति विघ्नम् विच्चदयन्तो विविधं क्षिपन्तो धर्मं न देशयति जिनप्रशस्तान् सो आत्मोत्कर्षणि नित्त्ययुक्तो परपंसने चाभिरतः कुसिदौ।
चतुरो इमे धर्मा जिनेन प्रोक्ता प्रज्ञाप्रहाणाय जिनोरसानाम् एतां हि चत्वारि जहित्वा धर्माश् चतुरौ परां धर्म जिनोक्त भावयेत्।
२ चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य महाप्रज्ञातायैः संवर्तंते। कतमे चत्वारः ? यदु सगौरवो भवति धर्मे च धर्मभाणके च। यथाश्रुतांश्च धर्मान् यथापर्याप्तान् परेभ्यो विस्तरेण संप्रकाशयति। निरामिषेण चित्तेनाप्रतिकांक्षयतिX ३ च सत्त्वानां अवर्णायशं कीर्तिशब्दश्लोकनिश्चारणतया। मायाशाट्ठ्येन च परमुपचरति नाध्याशये न। एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्त्वस्य बोधिचित्तं मुह्यति। इदम् uv.XXX वां तत्रेदमुच्यते॥

गुरु दाक्षिनीये न करोति प्रोक्तुं परेषु कौकृत्यपसंहरन्ति।
बोधा XXX स्थित ये च सत्त्वास् तेषामवर्णमयशं भणन्ति।
मायाय शठ्येन च केतवेन पर् XXX ति च नाश्येन।
च्। X O इमे धर्मा निषे X मा आ मोहे इ चित्तं वर बुद्धबोधयेः X स्माद् इमा XXXX वमाणो वराग्रब्। ध्। य्। सुदूर्। व्। त्। त्॥

XXXXXX निषेवमाण्।
वराग्रब्। ध्। पृश्। त्। ः प्रशा X ४ चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्य। सर्वासु जातिषु जतमात्रस्य बोधिचित्तम् आमुखी भवति न चान्तरा X ह्यति यावद् बोधिमण्डनिषदनात्। कतमैश्चतुर्भिः ? यदुता जीवितहेतोरपि। संप्रजान मृषावादं न भाषते। अन्तमश हास्यप्रेक्ष्यमपि। अध्याशयेन सर्वसत्त्वानां अंतिके तिष्ठत्यपगतमायाशाट्ठ्यतया। सर्वबोधिसत्त्वेषु च शास्तृसंज्ञां उत्पादयति। चतुर्दिशं XXXXXXXX चारयति। याश्च सत्त्वान् परिपाचयति तान्, सर्वानुत्तरस्यां सम्यक्संबोधौ समादापयXXXXXX कायानस्पृहाणतया। एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्त्वस्य सर्वासु जातिषु जातमात्रस्य बोधिचित्तम् आमुखीभवति न चान्तरा म्मुह्यति यावद् बोधिमण्डनिषदनात् तत्रेदमुच्यते।
न जिवितार्थे अनृतं वदन्ति भाषंति वाचं सद अर्थयुक्तां।
मायाय शट्ठ्ये XXX त्य वर्जिता अध्याशयेन सद सत्त्व पश्यति।
बोधाय ये प्रस्थित शुद्धसत्त्वा शास्तेति तान् मन्यति बोधिस X वर्णं च तेषां भणते चतुर्दिशं शास्तार संज्ञां सदुपस्थपित्व। २।
यांश्चापि सत्त्वान् परिपाचयति अनुत्तरे ज्ञाने समादपेति एतेषु धर्मेषु प्रतिष्ठितानां चित्तं न बोधाय कदाचि मुह्यतिः॥३॥

५ चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्योत्पन्नोत्पन्नाम कुशला धर्माः पर्यादीयंते यैर्न विवर्धन्ति XXXXX र्धर्मैः कतमैश्चतुर्भिः ? यदुत अभिमानिकस्य लोकायतनमन्त्रपर्येष्ट्या। लाभसत्काराध्य् XXX स्वकुलप्रत्यवलोकनेन। बोधिसत्त्वविद्वेषाभ्याख्यानेन। अश्रुतानाम् अनुद्दिष्टानाम् च सू XXXXXXX ण एभिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्योत्पन्नोत्पन्ना कुशलान् ध XXXXXXXX विवर्धते कुशलैर्धर्मैः तत्रैदम् उच्यते।
लोकायिकां एषति आभिमानिको कुलानि च् XXXXXXXX 2 बुद्धौरसा द्विषते च बोधिसत्त्वांस् तेषाम् अवर्णं भणते समंतात् नोद्दिष्टतो चापि श्रुता XXXXX क्षीप्त इमि जिनेन प्रोक्तात् तमेहि धर्मेहि समन्वितस्य कुशलेषू धर्मेषु न वृद्धिरस्ति।
तस्माद् XXXX त बोधिसत्त्वो दूरान् विजह्याच्चतुरो पि धर्मान् इमा निषेवन्त सुदूरि बोधये नभं व भूमिय सुदूरदूरं ६ चतुर्भिः काश्यप धर्मैः समन्वागते बोधिसत्त्वः अपरिहाणधर्मा भवति विशेषगामितायैः कतमैश्चतुर्भिःसुश्रुतं पर्येषते न दुश्रुतं। यदुत षट्पारमिताबोधिसत्त्वपिटकपर्येष्ट श्वसदृशश्च भवति निर्माणतया सर्वसत्त्वेषु धर्मलाभसंतुष्ट च भवति। सर्वमिथ्याजीवपरिवर्जितः आर्यवंशसंतुष्ट्। .XXXXX ताय्चापत्या न परांश्चोदय्ति। न च दोषान्तरस्खलितगवेसी भवति। येष्चास्य बुद्धिर्न गाहते तत्र तथागतम् एव साक्षिति कृत्वा न प्रतिक्षपति। तथागत एव जानाति नाहं XXXXX धिर्नानाधिमुक्तिकानां सत्त्वानां यथाधिमुक्तिकतया धर्मदेशना प्रवर्तते। एभि काश्यप चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वः अपरिहाणधर्म भवति विशेषगमितायै। तत्रेदम् उच्यते।
नित्यं च सो ……….. युक्तो उपायकौशल्यथ बोधिपीटके।
निर्मानतायाश्च श्वचित्तसादृशो सर्वे च सत्त्वेषु नि …………….. तुष्टश्च लाभेन सद्धार्मिकेन आजिवशुद्धो स्थित आर्यवंशे।
परं च नापत्तिषु चोदयंतो स्खलिता …… न गवेषमाणो। २।
न गाहते यत्र च बुद्धिरस्य तथागतं साक्षिकरोति तत्र।
नाहं परजानामि जिनो प्रजा …. अनन्त बोधि सुगतेन भाषिता। ३।
इमा तु धरमाश्चतुरो विदित्वा न हापये जातु विशेषम् उत्तमम्।
इमेषु धर्मेषु प्रतिष्ठितस्य न दुर्लभा बोधि जिनप्रशस्तान्॥

७ चत्वार इमे काश्यप कुटिलाश्चित्तोत्पादास्तेन बोधिसत्त्वेन परिवर्जितव्याः कतमेश्चत्वारर्यदुता कांक्षा विमतिर्विचिकित्सा सर्वबुद्धधर्मेषु। मानमदम्रक्षक्रोधव्यापदाः सर्वसत्त्वैषु इर्ष्यामात्सर्यं परलाभेषु अवर्णायशोकीर्तिशब्दश्लोकनिश्चारणतया …………… इमे काश्यप चत्वाराः कुटिलाश्चित्तोत्पादस्ते बोधिसत्त्वेन परिवर्जितव्याः तत्रेदमुच्यते।
धर्मेषु कांक्षां विमतिं च कुर्वति सत्त्वेषु मामंमथा क्रोधं सेवति।
मात्सर्यमिर्ष्या परलाभ कुर्वते जिने प्रसादं च न ……………………. अकीर्त्यवर्णं अयशं च चारयी सो बोधिसत्त्वेषु सदा अविद्वात् चत्वारि चित्ता कुटिला विवर्जये ………….. …………… पक्षं सद बोधिसत्त्वः॥

२॥

8 चत्वार इमे काश्यप ऋजुकस्य बोधिसत्त्वस्य ऋजुकलक्षणानि भवन्ति कतमानि चत्वारिर्यदुत आपत्तिआपन्नो न प्रच्छादायताचष्टे विवृणोति निष्पर्युत्थानो भवति। येन सत्यवचनेन राजपारिहाणिर्वा धनपारिहाणिर्वा कायजीवितान्तरायो भवेत् तत् सत्यवचनं न विगूहति नान्येनान्यं प्रति निसृत्य वाचा भाषते। सर्वपरोपक्रमेषु चाक्रोशपरिभाषणकुंसनपंसन्ताडन तर्जनवधबन्धनापराधेष्वात्मापराधी भवति। कर्मविपाकप्रतिसरणो न परेषां कुप्यति ना नुशयं वहति। स श्रद्धाप्रतिष्ठितश्च भवति। सर्वाश्रद्धेयानपि बुद्धधर्मा श्रद्दधाति आशयशुद्धताम् उपादाय। इमे काश्यप चत्वारो ऋजुकस्य बोधिसत्त्वस्य ऋजुकलक्षणानि भवन्ति। तत्रेदमुच्यते॥

८॥

आपत्तिम् आपन्न न च्छादयन्ति कथेन्ति विवरन्ति च एति दोषात्।
धनराज्यहेतो न च जीवि XX XX वदंते विददीयसंज्ञाम्।
आक्रोशनाकुन्सनपंसनासु वधेषु बन्धेष्ववरोधनेषु।
आत्मापराधी न परे X कुप्यते कर्मस्वको नानुशयं वहंतोः॥२॥

स श्रद्दधाति सुगतान बोधिं श्रद्धास्थितो आशयिशुद्धियुक्तो ऋजुकलक्षणा ह्येति जिनेन प्रोक्ता वराग्रसत्त्वेन निषेवितव्याः॥३॥

9 चत्वार इमे काश्यप बोधिसत्त्व– खडुंकाः कतमे चत्वारः श्रुतोद्धतधर्मविहारी च भवति न च प्रतिपद्यते। धर्मानुधर्मप्रतिपत्तिं अनुशासने नुद्धतधर्मविहारी च भवति। न च शुश्रूषत्याचार्योपाध्यायानां। श्रद्धादेयं विनिपातयति च्युतप्रतिज्ञश्च श्रद्धादेयं परिभुंक्ते। दान्ताजानेयप्राप्तांश्च बोधिसत्त्वां दृष्ट्वा अगोरवो भवति मानग्राही। इमे काश्यप चत्वारो बोधिसत्त्वाखडुंकाः तत्रेदमुच्यते 9॥

श्रुतेन ओद्धत्यविहारि भोति न चोद्धतो गच्चति आनुशासनिं।
सो उद्धतो सेवति सर्वधर्मान् शुश्रूषते न च आर्यां कथंचित् च्युतप्रतिज्ञो परिभुंजते सदा श्रद्धाय दिन्नानि सुभोजनानि।
आजन्यप्राप्तान् अपि बोधिसत्त्वान् पश्यित्वा नो गौरवता करोति॥२॥

मानं च सो बृंहयते खडुंको निर्माण तो सेवति बोधिसत्त्वान् एते खडुंका सुगतेन प्रोक्ता जिनात्मजास्ते परिवर्जनीयात्॥३॥

10 चत्वार इमे काश्यप आजानेया बोधिसत्त्वाः कतमे चत्वारः सुश्रुतं श्रुणोति तत्र च प्रतिपद्यते। अर्थप्रतिसर्णश्च भवति न व्यंजनप्रतिसरणः प्रदक्षिणग्राही भवत्यववादानुशासने। सुवचासुकृतकर्मकारी च भवति। गुरुशुश्रूषनिर्यातः आजानेयभोजनानि च परिभूंक्ते। अच्युतशीलसमाधिर्दान्ताजानेयप्राप्तश्च बोधिसत्त्वान् दृष्ट्वा सगौरवो भवति सप्रतीशः तन्निम्नः तत्प्रवणः तत्प्राग्भारः तद्गुणप्रतिकांक्षी। इमे काश्यप चत्वारो आजानेया बोधिसत्त्वाः तत्रेदं उच्यते। १०।
श्रुणोति यं सुश्रुत तं करोति धर्मार्थसारो प्रतिपत्तिसुस्थितः प्रदक्षिणं गृह्णति आनुशासनीं सुवचो गुरु सेवति धर्मकाम।
शीले समाधौ च सदा प्रतिष्ठितो।
सुभोजनं भुंजति शीलसंवृतः सगौरवो भवति च सप्रदेशो तन्निम्न तत्प्रोणु गुणाभिकांक्षि। २।
आजन्यप्राप्ताश्च जिनोरसा ये प्रेमेण तां पश्यति नित्यकालम् चत्वार एतन् सुगतो दिष्टा आजन्यप्राप्ता सुगतस्य पुत्राः ३॥

चत्वार इमे काश्यप बोधिसत्त्वस्खलितानि। कतमानि चत्वारि अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्त्वस्य स्खलितं। अभाजनीभूते सत्वेषूदारबुद्धधर्मसंप्रकाशनता बोधिसत्त्वस्य स्खलितं उदाराधिमुक्तिकेषु सत्त्वेषु हीनयानसंप्रकाशना बोधिसत्त्वस्य स्खलितं सम्यक्प्रत्युपस्थितेषु सत्त्वेषु शीलवत्सु कल्याणधर्मप्रति मानना दुःशीलपापधर्मसंग्रहो बोधिसत्त्वस्य स्खलि इमा काश्यप चत्वारो बोधिसत्त्वस्खलितानि। तत्रेदम् उच्यते 10॥

न विश्वसेयापरिपाचितेषु अभाजने धर्म उदार नो भणे।
उदारधर्मेषु न हीनयाने प्रकाशये जातु स बोधिसत्त्वो।
सम्यक्स्थितां शीलगुणोपपेतान् कल्याणधर्मा न विमानयेत।
दुःशीलसत्वा न परिग्रहेया पापं च धर्मान् परिवर्जयेतः स्खलितानि चत्वारि इमानि ज्ञात्वा विवर्जयेद् दूरत बोधिसत्त्वाः इमा निषेवं तु न बोधि बुद्ध्यते तस्माद् विवर्जेद् इमि धर्म पण्डितः 3॥

12 चत्वार इमे काश्यप बोधिसत्त्वमार्गाः कतमे चत्वारः समचित्तता सर्वसत्त्वेषु। बुद्धज्ञानसमादापनता सर्वसत्त्वेषु सम धर्मदेशना सर्वसत्त्वेषु सम्यक्प्रयोगता सर्वसत्त्वेषु। 4 इमे काश्यप चत्वारो बोधिसत्वमार्गाः तत्रेदम् इदम् उच्यते 12॥

समचित्त सत्त्वेषु भ X त नित्यं समादपेयाद् इह बुद्धयाने।
धर्मं च देशेता जिनप्रशस्तं सर्वेषु सत्त्वेषु प्रसन्नचित्तो।
सम्यक्प्रयुक्ता प्रतिपत्तिसुस्थितो सर्वेषु सत्वेषु समं चरेत।
मार्गान् इमांश्चतुर जिनप्रशस्तां जिनोरसा सद तं भावयन्ति॥

३॥

13 चत्वार इमे काश्यप बोधिसत्त्वस्य कुमित्राणि कुसहायास्ते बोधिसत्त्वेन परिवर्जयितव्या। कतमानि चत्वारि। श्रावकयानीयो भिक्षु आत्महिताय प्रतिपन्नः प्रत्येकबुद्धयानीयोल्पार्थो ल्पकृत्यः लोकायतिको विचित्रमन्त्रप्रतिभानः यं च पुद्गलं सेवमान ततो लोकामिषसंग्रहो भवति न धर्मसंग्रहः इमे काश्यप चत्वारो बोधिसत्त्वस्य कुमित्राणि कुसहायास्ते बोधिसत्त्वेन परिवर्जयितव्याः तत्रेदम् उच्यते॥

ये श्रावका आत्महिताय युक्ता योगं च ये प्रव्रजिताश्चरंति।
प्रत्येकबुद्धापि च येल्पकृत्या अल्पार्थसंसर्गा विवर्जयंति।
लोकायतं ये च पठंति बाला विग्राहिका यत्र कथोपदिष्टा।
यं सेवमानामिषसंग्रहो भवेद् भवेन्न धर्मस्य च संग्रहो यहिम् 2 तान् बोधिसत्त्वाश् चतुरो प्रहाय कल्याणमित्राश्चतुरो भजंति।
एते कुमित्रा कुसहाययुक्ता जिनेन दूरात् परिवर्जनीया। 3॥

14 चत्वार इमे काश्यप बोधिसत्त्वस्य भूतकल्याणमित्राणि। कतमानि चत्वारि। याचनको बोधिसत्त्वस्य भूतकल्याणमित्रं बोधिमार्गोपस्तंभाय संवर्तते धर्मभाणको बोधिसत्त्वस्य भूतकल्याणमित्रं श्रुतप्रज्ञोपस्तंभाय सम्वर्ते। प्रव्रज्यासमादपको बोधिसत्त्वस्य भूतकल्याणमित्र सर्वकुशलमूलोपस्तंभाय। संवर्तते। बुद्धा भगवन्तो बोधिसत्त्वस्य भूतकल्याणमित्र सर्वबुद्धधर्मोपस्तंभाय संवर्तते। इमे काश्यप बोधिसत्त्वस्य भूतकल्याणमित्राणि तत्चेदम् उच्यते। 12॥

कल्याणमित्रं स च दायकानां प्रतिग्राहको बोधिपरिग्रहाय।
धर्मार्थवादी श्रुतप्रज्ञकरी कल्याणमित्रं सुगतेन प्रोक्तं।
प्रव्रज्य ये चापि समादपेन्ति ते मित्रामूलं सुगतस्य वुक्ताः बुद्धश् च मित्रं सुगतात्मजानां संबुद्धमार्गस्युपस्तंभनायः एते हि चत्वारि जिनप्रशस्ता कल्याणमित्रा सुगतात्मजानां।
एत निषेव सदाप्रमन्ता प्राप्नोति बोधि सुगतोपदिष्टा। 3॥

15 चात्वार इमे काश्यप बोधिसत्त्वप्रतिरूप…. कतमे चत्वार। लाभसत्कारार्थिको भवति न धर्मार्थिकाः कीर्तिशब्दश्लोकार्थिको भवति न गुणार्थिकः आत्मसुखार्थिको भवति न सत्त्वदुःखा पनयनार्थिकाः पर्षद्गुणार्थिको भवति न विवेकार्थिकः इमे काश्यप चत्वारो बोधिसत्त्वप्रतिरूपकाः तत्रेदम् उच्यते॥

14॥

लाभार्थिको भवति न धर्म- कामो कीर्त्यर्थिको न्नेव गुणैभिरर्थिकः न सत्त्वदुःखापनयेन चार्थिको यो चात्मनो नित्य सुख्….. र्थिकः पर्षद्गुणार्थी न विवेककामो सुखे प्रसक्तो न गुणेषु सक्तो।
चत्वार एते प्रतिरूपकोक्ताः ते बोधिसत्वान् परिवर्जनीया 2॥

16 चत्वार इमे काश्यप बोधिसत्त्वस्य भूता बोधिसत्वगुणा। कतमे चत्वार शुन्यतां चाधिमुच्यते। कर्मविपाकं चाभिश्रद्दधाति। नैरात्म्यं चास्य क्षमते सर्वसत्त्वेषु महाकरुण्। निर्वाणगतश्चास्याशयः संसारगतश्च प्रयोगः सत्त्वपरिपाकाय च दानं विपाकाप्रतिकांक्षनता च। इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्य भूता बोधिसत्त्वगुणा तत्रेदम् उच्यते 15॥

शुन्याश्च धर्मान् अधिमुच्यते सदा विपाक पत्तीयति कर्मणं च।
नैरात्मक्षान्त्या समताप्रतिष्ठितो करुणां च सत्त्वेषु जनेति नित्यं।
निर्वाणि भावो सत तस्य भोति प्रयोग संसारगतश्च तस्य।
परिपाचनार्थं च ददाति दानं विपाक नाकांक्षति कर्मणां च॥

2॥

17 चत्वार इमे काश्यप बोधिसत्त्वस्य महानिदानप्रतिलम्भाः कतमे……….. बुद्धोत्पादारागणता। षद्पारमिताश्रवणः अप्रतिहतचित्तस्य धर्मभाणकदर्शनं। अप्रमत्तस्यारण्यवा साभिरतः इमे काश्यप चत्वारो बोधिसत्त्वस्य महानिधानप्रतिलम्भा। तत्रेदम् उच्यते। 16॥

बुद्धानम् आरागण सर्वजातिषु श्रवश् च षण्णाम् अपि पारमीणाम्।
प्रसन्नचित्तो पि च धर्मभाणकं संपश्यते गौरव जातु नित्यम् सदाप्रमत्तस्य चारण्यवासो तत्रेव सो भोति रतिः सदास्य।
चत्वार धर्मा सुगतेन प्रोक्ता महानिधानानि जिनात्मजानाम् 2॥

18 चत्वार इमे क्श्यप बोधिसत्वमारपथसमतिक्रमणा धर्माः कतमे चत्वारः बोधिचित्तस्यानुत्सर्गः सर्वसत्वेष्वप्रतिहतचित्तता। सर्वदृष्टीकृतानाम् अवबोधाना। अनति- मन्यना सर्वसत्त्वेषु इमे काश्यप चत्वारो बोधिसत्त्वस्य मारपथसमतिक्रमणा धर्मा। तत्रेदम् उच्यते 17॥

बोधाय चित्तं न परित्यजंति सत्त्वेषु च प्रतिघ जहंति नित्यम् सर्वाश् च दृष्टिगतन् उत्सृजं… न चाधिमन्यन्ति ह सत्वकायम् चत्वार एते सुगतेन प्रोक्ता धर्माहि मारस्य अतिक्रमाय।
……. निषेवित्व जिना भवंति अंगीरसा अप्रतिमा विनायका 2॥

19 चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य सर्वकुशलधर्मसंग्रहाय संवर्तन्ते। कतमे चत्वारः निष्कुहकस्यारण्यवासाभिरतिः प्रतिकाराप्रातिकांक्षिणश् च्………. संग्रहवस्तूनि सर्वसत्त्वेषु कायजीवितोत्सर्गः सद्धर्मपर्येष्टिम् आरभ्यातृप्तिता सर्वकुशलमूल- समुदाननाय। इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्य सर्वकुसलधर्मसंग्रहाय संवर्तंते तत्रेदम् उच्यते। 18॥

अरण्यवासे कुहनाविवर्जितो सत्त्वेषु च संग्रह यो जिनोक्ता।
उत्सर्ग कायस्य च जीवितस्य सद्धर्मपर्येष्टि समारभि…………. समुदाननायाश् च सदा अतृप्तो कुशलान मूलान अनल्पकानां।
कुशलान धर्माण च संग्रहार्थे चत्वारो धर्मा सुगतेन प्रोक्ता 2॥

20 चत्वार इमे काश्यप बोधिसत्त्वस्याप्रमेया पुण्यसंभाराः कतमे चत्वारः निरामिषचित्तस्या धर्मदानं दुःशीलेषु च सत्त्वेषु महाकरुणा सर्वसत्त्वेषु बोधिचित्तारोचनता दुर्बलेषु सत्त्वेषु क्षान्त्या सेवनता। इमे काश्यप चत्वारो बोधिसत्त्वस्याप्रमेया पुण्यसम्भाराः तत्रेदम् उच्यते 19॥

दानं च धर्मस्य जिनप्रशस्तं शित्तेन शुद्धेना निरामिषेण अपेतशीले करुणा च तीव्रा परेषु बोधाय जनेति चित्तम् क्षान्त्याधिसेवेति च दुर्बलेषु धर्मेष्व् अ…… संग्रहता……चोक्ता।
एता निषेवित्वा जिना भवंति ते बोधिसत्त्वे सद सेवितव्याः चतुष्कका अष्ट जहि…….. का।
बोधाय ये आवरणं करोन्ति।
तथापरा द्वादश सेव्य पण्डिता प्राप्नोति बोधिम् अमृतं स्पृचित्व्…………… ये चाग्रसत्त्वा इम ध्रमनेत्री धारेन्ति वाचेन्ति प्रकाशयन्ति।
तेषां जिनो पुण्यम् अनन्तु भाषते ये…… म् अप्रमाणं जिन वर्णयंति 4 ये क्षेत्रकोट्यो यथ गंगवालिका रत्नान पूरित्वन तेषु दद्यात् यो वा इतो गाथ चतुष्पदी पठेद् इमस्य पुण्यस्य न एति संख्या। 5॥

21 चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य अविद्या- भागीयाक्लेशसमति क्रमाय संवर्तंते। कतमे चत्वारः शीलसंवरः सद्धर्मपरिग्रह प्रदीपदानम् अन्तमशः संस्तुतेभ्यः इमे काश्यप चत्वारो धर्मा बोधिसत्वास्य अविद्यभागीयाक्लेशसमतिक्रमाय संवर्तते॥

22 चत्वार इमे काश्यप धर्मा बोधिसत्त्वस्य अनावरणज्ञानताये संवर्तंते। कतमे चत्वारः यदुत इन्द्रियसंवरः गंभीरार्थविवरणता स्वलाभेनावमन्यना। परलाभेस्वनध्य………. नता। इमे काश्यप चत्वारो धर्मा बोधिसत्त्वस्यानावरणज्ञानताये संवर्तंते। 22॥

23 न खलु……. काश्यप नाममात्रेण बोधिसत्त्वो महासत्त्व इत्युच्यते धर्मचर्यया समचर्यया कुशलचर्यया धर्म्…… रिताभिः काश्यप समन्वागतो बोधिसत्त्वो महासत्त्व इत्युच्यते। द्वात्रिंशद्भिकाश्यप धर्मैः समन्वागतो बोधिसत्त्वो इत्युच्यते। कतमे द्वात्रिंशद्भिः यदुत हितसुखाध्याशयतया सर्वसत्त्वेषु। सर्वज्ञज्ञानावतारणतया किनहंम् अर्गामीति परेषां ज्ञानाकुन्सनता निरधिमानतया। दृढाध्याशयतया। अकृत्रिमप्रेमतया। अत्यंतमित्रता। मित्रामित्रेषु समचित्ततया। यावन् निर्वाणपर्यंतताये।
24 अनृतवाक्यता स्मितमुखपूर्वाभिभाषणता नुपादत्तेषु भारेष्व् . व्. ष्. द्. न्……….. सर्वसत्त्वेष्व् अपरिचिन्नमहाकरुणता अपरिखिन्नमानसतया सद्धर्मपर्येष्टिम् आरभ्यातृ……. श्रुतार्थतया। आत्मस्खलितेषु दोषदर्शनतया। परस्खलितेस्वरुष्टापत्तिचोदनतया। सार्वर्यपथेषु बोधिचित्तपरिकर्मतया। विपाकाप्रतिकांक्षिण त्यागल् सर्वभवगत्युपप…….. निःश्रितं शीलम् सर्वसत्वेष्व् अप्रतिहत् क्षांतिः॥

25 सर्वकुशलमूलसमादाननाय वीर्यं। आरूप्य…….. परिकर्षितं ध्यानम्। उपायसंगृहीता प्रज्ञा। चतुःसंग्रहवस्तुसंप्रयुक्ता उपाय। शीलवद्दूःशी………… यतया मैत्रता। सत्कृत्य धर्मश्रवणं। सत्कृत्यारण्यवासः सर्वलोकविचित्रिकेष्वनभिरतिः…… दृष्टिविगतं। हीनयानस्पृहणता। महायाने चानुशंससंदर्शिताया। पापमित्रविवर्जनत्……….. कल्याणमित्रसेवनता। चतुब्रह्मविहारनिष्पादनता। पंचाभिज्ञविक्रीडनता। ज्ञानप्रतिसरणता। प्रतिपत्तिविप्रतिपत्तिस्थिताना सत्त्वानाम् अनुत्सर्गः एकांसवचनता। सत्यगुरुकता। ………………… कुशलमूलसमुदानतया अतृप्तता। बोधिचित्तपूर्वंगमता॥

26 एभिः काश्यप द्वास्त्रिंशद्भिर् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इत्युच्यते॥

तत्रेदम् उच्यते॥

सर्वेषु सत्त्वेषु हितं सुखम् च अध्याशयेनाप्यधिमुच्यमानाः सर्वज्ञाज्ञानोत्तरणाय किं नु अर्घामि नार्घाम्यहं ज्ञानमाना।
अकुत्सन्। यानधिमानताया दृढाशयाकृत्रिमप्रेमतायाः सत्वेषु चात्यन्तसुमित्रताया यावन् न निर्वाणपरायणत्वं 2 मित्रे अमित्रे समचित्तताया स्मितोमुखत्वं अनृता च वाणी।
उपातभारे…………..दार्यणत्वं करुणापरिच्चिन्न तथेव सत्त्वे 3 27 सद्धर्मपर्येष्टिय नास्ति खेदः श्रुतेष्वतृप्ते स्खलितेत्मदोष्…….. …….. रश्च रुष्टेन न चोदनीयाः ईर्यापथे चित्तसुकर्मताया 4 त्यागो विपाकाप्रतिकांक्षणं च अन………… तं शीलद्भवं गतीषु सत्त्वेषु क्षांति प्रतिघातवर्जिता समुदाननाया कुशलस्य वीर्य 5 आरूप्यधा…….. वकृष्टं च ध्यानं उपायतो संगृहीता च प्रज्ञाः चतुःसंग्रहेः संग्रहीतोपायो दुःशीलशीले द्वया………. च मैत्र्या 6 सत्कृत्य धर्मश्रवणं च काले सत्कृत्य वासो च अरण्यशान्ते।
लोकेषु चित्रेषु रतिर्न कार्यम् हीनेषु यानेषु रतिर्न कार्यम् 7 उदारयानेषु स्पृहा जनेया पापाणि मित्राणि विवर्जयेया।
कल्याणमित्राणि सदा च सेवेश् चत्वार ब्रहाश्च विहार भावयेत् 8 28 क्रीडेताभीज्ञेहि च पंचभिः सदा ज्ञानानुसारि च भवेत…….. न उत्सृजेया प्रतिपत्तियुक्ता न च द्वितीयापि कदाचिद् अन्याः 9 एकांतवादी च भवेत नित्यं सत्ये च सेगौरव नित्य भोति।
भावेति धर्माम्श्च जिनप्रशस्ता पूर्वंगमं बोधयि चित्त कृत्वा 10 द्वास्त्रिंशद् एते सुगतेन प्रोक्ता धर्मा निषेव्या सुगतोरसेति।
इमेहि धर्मेहि समन्विता ये ते बोधिसत्त्वा सुगतेन प्रोक्ता 11॥

29 उपमोपन्यासनिर्देशास्ते काश्यप निर्देक्ष्यामि। यैरुपमोपन्यासनिर्देशेभिः बोधिसत्त्वो महासत्त्वगुणान् विज्ञापय्….. तद्यथा काश्यप इयं महापृथिवी सर्वसत्वोपजीव्या निर्विकारा निष्प्रतिकारा। एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वो यावद् बोधिमण्डनिषदनातावत् सर्वसत्त्वोपजीव्यो निर्विकारो निष्प्रतिकारो भवति। तत्रेदम् उच्यते॥

पृथिवी यथा सर्वजानोपजीव्या प्रतिकार नाकांक्षति निर्विकारा।
चित्ते तथाद्ये स्थिता बोधिसत्त्वो यावन् न बुद्धो भविता जिनोत्तम।
अनुत्तरा सर्वजनोपजीव्यो प्रतिकार नाकांक्षति निर्विकारो।
पुत्रे च शत्रुं हि च तुल्यमान सो पर्येषते नित्य वराग्रबोधिम् २॥

30 तद्यथा काश्यप अब्धातु सर्वतृणगुल्मोषधिवनस्पतयो रोहापयति। एवम् एव काश्यप आशयशुद्धो बोधिसत्वः सर्व- सत्वानि मैत्रतया स्फरित्वा विहरन् सर्वसत्त्वानां सर्वशुक्लधर्मान् विरोहयति। तत्रेदम् उच्यते यथापि आब्धातु तृणगुल्ममौषधी वनस्पतीनौषधिधान्यजातम् एमेव शुद्धाशयबोधिसत्त्वो - मैत्र्याय सत्त्वान् स्फरते अनंतात् स्फरित्व धर्मान् विविधा क्रमेण शुक्लेहि धर्मेहि विवर्धमानः अ……………. र्व प्राप्नोति जिनान बोधिं निहत्य मारां सबलाम् ससैन्यम् 2॥

31 तद्यथा काश्यप तेजोधातुः सर्वसस्यानि परिपा X यति। एवमेव काश्यप बोधिसत्वस्य प्रज्ञा सर्वसत्वानां सर्वशुक्लधर्मान् परिपाचयति। तत्रेदम् उच्यते 3॥

यथापि तेज परिपाचयंति सस्याणि सर्वाणि तृणौषधींश् च।
एमेव प्रज्ञा सुगतात्मजानाम् धर्मान् शुभा वर्धयते जनस्य 1॥

32 अद्यथा काश्यप वायुधातुः सर्वबुद्धक्षेत्राणि विठपय ति एवमेव काश्यप बोधिसत्वस्योपायकौशल्यं सर्वबुद्धधर्मान् विठपयति। तत्रेदम् उच्यते।

वायुर्यथेव विठपेति क्षेत्राद् बुद्धान नानाविध आशयतो।
उपाय एवं हि जिनोरसानान् विठपंति धर्मान् सुगतोक्तम् अग्रान्॥

33 तद्यथापि नाम काश्यप मारस्य पापीमतश्चतुरंगं बलसैन्य सर्वदेवैर्न शक्यम् अभिभवितुं पर्यादतुं वा। एवमेव्काश्यप शुद्धाशयो बोधिसत्व सर्वमारैर्न शक्यम् अभिभवितु पर्यादत्तुं वा।
34 ॥

तद्यथापि नाम काश्यप शुक्लपक्षे चन्द्रमण्डलं परिपूर्यते वर्धते च। एवमेव काश्यप आशयशुद्धो बोधिसत्वः सर्वशुक्लधर्मैर्वर्धते। तत्रेदम् उच्यते 4 ॥

शुक्लपक्षे यथा चन्द्रमण्डलं………… पूर्यते वर्धति नो च हीयते।
एमेव शुद्धाशयबोधिसत्वोः शुद्धेहि धर्मेहि सदा विवर्धते। ॥

35 तद्यथापि नाम काश्यप सूर्यमण्डलम् एकप्रमुक्ताभि सूर्यरश्मिभिः सत्वानाम् अवभासं करोति। एवमेव काश्यप बोधिसत्त्वम् एकप्रमुक्ताभिः प्रज्ञारश्मिभिः सत्वानाम् ज्ञानावभासं करोति। तत्रेदम् उच्यते 7 ॥

मेकप्रमुक्ताभि यथेव सूर्यो रश्मीभि सत्त्वान्न करोति भासम् एवं जिनानां सुत ज्ञानरश्मिभि प्रज्ञाय सत्त्वानवभास कुर्वति॥

36 तद् यथापि नाम काश्यप सिञ्हो मृगराजा यतो यत। एव प्रक्रमते सर्वत्रा भितो नुत्रस्त एवं प्रक्रमति। एवम् एव काश्यप शीलश्रुतगुणधर्मप्रतिष्ठितो बोधिसत्वो यतो यत एव प्रक्रमते सर्वत्राभीतो नुत्रस्त एव प्रक्रमते। तत्रेदम् उच्यते 8 ॥

यथा हि सिंहो मृगराज केसरी येनेच्चकं याति असंत्रसंतो।
एमेव शीलंश्रुतज्ञानसुस्थितो येनेच्चकं गच्चति बोधिसत्त्वो॥

37 तद्यथापि नाम काश्यप सुदान्तः कुंजरो नागस्सर्वभारवहानतया न परिखिद्यते। एवमेव काश्यप सुदान्तचित्तो बोधिसत्त्व सर्वसत्त्वानां सर्वभारवहनता न परिखिद्यते। तत्रेदम् उच्यते ……….. यथापि नामगो बलवान् सुदान्तो भारं वहंतो न दुपेति खेदं।
सुदान्तचित्तो तथा बोधिसत्त्वो सत्वान भारेण न खेदमैति॥

38 तद्यथापि नाम काश्यप पद्मम् उदके जातमुदकेन न लिप्यते। एवमेव काश्यप बोधिसत्त्वो लोके जातो लोकधर्मे न लिप्यते। तत्रेदम् उच्यते 10 ॥

पद्मं यथा कोकनदं जलेरुहं जलेने नो लिप्यति कर्दमेन वा।
लोके स्मि जातो तथा बोधिसत्त्वो न लोकधर्मेहि कदाचि लिप्यते॥

39 तद्यथापि नाम काश्यप विटपच्चिन्नो वृक्षो मूले नुपहते पुनर् एव विरोहति। एवं एव काश्यप उपायकौशल्यक्लेशच्चिन्नो बोधिसत्त्वः सर्वकुशलमूलसंयोजने नुपहते पुनर् एव त्रैधातुके विरोहति। तत्रेदम् उच्यते 11 ॥

यथापि वृक्षो विटपस्मि च्चिन्नो विरोहते मूल दृढे नुपद्रुते।
एवं उपायोपहतो विरोहते मूलस्मि संयोजन सुप्रहीणे। ॥

40 अद्यथापि नाम काश्यप नानादिग्विदिक्षु महानदीष्वाप्स्कन्धो महासमुद्रे प्रविष्टः सर्वम् एकरसो भवति यदुत लवणरसः एवम् एव काश्यप नानामुखोपचितं कुशलमूलं बोधिसत्त्वस्य बोधाय परिणामितं सर्वमेकरसं यदिद विमुक्तिरसं। तत्रेदमुच्यते 12 ॥

नानानदीनाम् उदकं प्रविष्टं महासमुद्रेकरसं यथा स्यत् कुशलानि नानामुखसंचितानि परिनामितान्येकरसानि बोध्ये॥

41 तद्यथापि नाम काश्यप सुमेरुप्रतिष्ठिता चतुर्महाराजकायिकास्त्रयस्त्रिंशाश्च देवाः एवमेव काश्यप बोधिचित्ताकुशलमूलप्रतिष्ठिता बोधिसत्त्वस्य सर्वज्ञता तत्रेदमुच्यते 13 ॥

चतुर्महाराजिकस्त्रायस्त्रिंचा यथ् सुमेरुस्थित देवसंघा।
तथ बोधिसत्त्वा कुशले प्रतिष्ठाः सर्वज्ञता प्राप्य वदंति धर्मान्॥

42 तद्यथापि नाम काश्यप आमात्यसंगृहीता राजानः सर्वराजकार्याणि कुर्वन्ति। एवमेव काश्यप उपायसंग्रहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति। तत्रेदम् उच्यते। 14 ॥

यथा हि राजान आमात्यसंग्रहा सर्वाणि कार्याणि करोति नित्यं।
तथ बोधिसत्त्वस्य उपायसंग्रहो बुद्धार्थ प्रज्ञाय करोन्ति नित्य॥

43 तद्यथापि नाम काश्यप व्यभ्रे देवे विगतवलाहके नास्ति वर्षस्यायद्वारं एवम् एव काश्यप अल्पश्रुतस्य बोधिसत्त्वस्यान्ति कानास्ति सद्धर्मवृष्टेरायद्वरं। तत्रेदम् उच्यते 15 ॥

व्यभ्रे यथा विगतवलाहके नभे वर्षस्य आ………… न कदाचि विद्यते।
अल्पश्रुतस्यान्तिकद् धर्मदेशना न बोधिसत्त्वस्य कदाचि लभ्यते॥

44 तद्यथापि नाम काश्यप………. भ्रघनमेघसमुत्थिता वर्षधारा सस्यान्यभिवर्षति। एवमेव काश्यप महाकरुणाधर्ममेघसमुत्थ्……… बोधिसत्त्वस्य सद्धर्मवृष्टिस्सत्त्वानाम् अभिवर्सति। तत्रेदम् उच्यते 16 यथापि मेघो विपुलो सविद्युतो ……….. स्यानुवर्षेण करोति तृप्तिम् सद्धर्ममेघोत्थितवर्षधारा तर्पेति सत्त्वा तथ बोधिसत्त्वः॥

45 तद्यथापि नाम काश्यप यत्र राजा चक्रवर्ति उत्पद्यते तत्र सप्तरत्नान्युत्पद्यंते एवमेव काश्यप यत्र बोधिसत्त्व उत्पद्यते तत्र सप्तात्रिंशद् बोधपक्ष्या धर्मा उत्पद्यंते। तत्रेदम् उच्यते 17 ॥

उत्पद्यते यत्र हि चक्रवार्ति तत्रास्य रत्नानि भवंति सप्त उत्पद्यते यत्र च बोधिसत्वस् तत्रास्य बोध्यंग भवंति सप्त॥

46 तद्यथापि नाम काश्यप यत्र मणिरत्नायद्वारं भवति बहूनां तत्र कार्षापणशतसहस्राणाम् आयद्वारं भवति। एवमेव काश्यप यत्र बोधिसत्त्वस्यायद्वारं भवति। बहूनाम् तत्र श्रावकप्रत्येकबुद्धशतसहस्त्राणामायद्वारं भवति। तत्रेदम् उच्यते 18 ॥

यथापि यस्मिं मणिरत्न भोति।
कर्षापणायो बहु………… त्र भोति संबोधिचित्तस्य च यत्र आयो आयो बहू तत्र च श्रावकानाम्॥

47 तद्यथापि नाम काश्यप मिश्रकावनप्रतिष्ठिताना त्रायस्त्रिंशानां देवानाम् उपभोगपरिभोगाः समाः संतिष्ठंते। एवमेव काश्यप आशयशुद्धस्य बो- धिसत्वस्य सर्वसत्वानाम् अन्तिके सम्यक्प्रयोगो भवति। तत्रेदम् उच्यते 19 ॥

यथापि देवान समा प्रयोगा मिश्रावने संस्थिहते स्थिताना एवम् एव शुद्धासय बोधिसत्वो सत्वेषु सम्यक्कुरुते प्रयोगम्॥

48 तद्यथापि नाम काश्यपा मंत्रौषधपरिगृहीतं विषं न विनिपातयति। एवम् एव काश्यप ज्ञानोपायकौशल्यपरिगृहीतो बोधिसत्त्वस्य क्लेशविषं न शक्नोति विनिपातयितुम्। तत्रेदम् उच्यते 20 ॥

यथा विषाम् मंत्रपरिग्रहेण जनस्य दोषां क्रिययासमर्थं एवं हि ज्ञानी इह बोधिसत्त्वो क्लेशैर्न शक्यं विनिपातनाय। ॥

49 तद्यथापि नाम काश्यप यं महानगरेषु संकरकूतं भवति स इक्षुक्षेत्रेषु शालिक्षेत्रेषु मृद्वीकाक्षेत्रेषु चोपकारी भूतो भवति। एवमेव काश्यप यो बोधिसत्त्वस्य क्लेशः स सर्वज्ञातायाम् उपकारीभूतो भवति। तत्रेदम् उच्यते॥

21 ॥

नगरेषु संकारुर्यथा सुचोक्षो सो इक्षुक्षेत्रेषुपकार कुर्वति।
एमेव क्लेशो उपकारा कुर्वति यो बोधिसत्त्वस्य जिनान धर्मे। ॥

50 तद्यथापि नाम काश्यप इष्वस्त्रे अशिक्षितस्य शस्त्रग्रहणं एवमेव काश्यप अल्पश्रुतस्य बोधिसत्त्वस्य धर्मप्रविचयकौशल्यमीमासदर्थग्रहणज्ञानं द्रष्टव्यः 22॥

51 तद्यथापि नाम काश्यप कुंभकारस्य बालभाजनेषूदाराग्निदानां एवम् एव काश्यप बालप्रज्ञेषु बो- सत्त्वस्योदारधर्मदेशना वेदितव्यः 22॥

52 तस्मिन् तर्हि काश्यप इह महारत्नकूटे धर्मपर्याये शिक्षितु कामेन बोधिसत्त्वेन योनिशो धर्मप्रयुक्तेन भवितव्यं। तत्र काश्यप कतमो योनिशधर्मप्रयोगः यदुत सर्वधर्माणां भूतप्रत्यवेक्षा। कतमा च काश्यप सर्वधर्माणां भूतप्रत्यवेक्षा। यत्र काश्यप नात्म प्रत्यवेक्षा नासत्त्वानजीवनपोषानापुद्गलनामनुजनमानवाप्रत्यवेक्षा। इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
53 पुनरपरं काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा या रुपस्य न नित्यम् इति प्रत्यवेक्षा नानित्यानीति प्रत्यवेक्षा। या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न नित्यम् इति प्रत्यवेक्षा। नानित्यमिति प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
54 या पृथिवीधातोर्न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा याब्धातोस्तेजोधातोर्वायुधातो न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा। या आकाशधातोर्विज्ञानधातो न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
55 पुनरपरं काश्यप मध्यमा प्रतिपद् धर्माणां भूत प्रत्यवेक्षा। या चक्षुरायतनस्य न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा। एवं यावच्छ्रोत्रघ्राणजिह्वाकायमनायतनस्य न नित्यम् इत्यम् इति। प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
56 नित्यमिति काश्यप अयमेकोन्तः अनित्यम् इति काश्यप अयं द्वितीयोन्तः यदेतयोर्द्वयो नित्यानित्ययोर्मद्ध्यं तदरूप्यनिदर्शनम् अनाभासम् अविज्ञप्तिकम् अप्रतिष्ठम् अनिकेतमियमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
57 आत्मेति काश्यप अयम् एकोन्तः नैरात्म्यमित्ययं द्वितीयोन्तः यदात्मनेरात्म्ययोर्मध्यं तदरूप्यनिदर्शनमनाभासम् अविज्ञप्तिकम् अप्रतिष्ठम् अनिकेतम् इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
58 भूतचित्तमिति काश्यप अयमेकोन्तः अभूतचित्तमिति काश्यप अयं द्वितीयोन्तः यत्र काश्यप न चेतना न मनो न विज्ञानमियमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भुतप्रत्यवेक्षा 59 एवं सर्वधर्माणां कुशलाकुशलानां लोकिकलोकोत्तराणां सावद्यानवद्यानां सास्रवानास्रवानां संस्कृतासंस्कृतानां संक्लेश इति काश्यप अयमेकोन्तः व्यवदानम् इत्ययम् काश्यप द्वितीयोन्तः यो स्यान्तद्वयस्यानुगमोनुदाहारो प्रव्याहार इयमुच्यते। काश्यप मध्यामा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा।
60 अस्तीति काश्यप अयमेको न्तः नास्तित्ययं द्वितीयो न्तः यदेतयोर्द्वयोरन्तयोर् मद्ध्यम् इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भुतप्रत्यवेक्षत् 61 यदपि काश्यप युष्माकं मयाख्यात। यदुत अविद्याप्रत्यया संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययन् नामारूपन् नामरूपप्रत्ययं षडायतनं षडायतनप्रत्यय स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरोणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवं त्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति।
62 अविद्यानिरोधा संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधः विज्ञाननिरोधान् नामरूपनिरोधाः नामरूपनिरोधात् षडायतनानि ………………………………………………………………………………………………………. च्यते काश्यप मध्यमा प्रतिपद्धरमाणां भूतप्रत्यवेक्षा॥

63 पुनरपरं काश्यप धर्माणां भूतप्रत्यवेक्षा यन्न शून्यताया धर्मा शून्या करोति धर्मा एव शून्या। यन्नानिमित्तेन धर्माननिमित्तान् करोति धर्मा चैवानिमित्ताः यन्नाप्रणिहितेन धर्मा। प्रणिहितान् करोति धर्मा एवाप्रणिहिताः यन्नानभिसंस्कारेण धर्मान् अभिसंस्करोति धर्मा चवानभिसंस्कृताः एवं नानुत्पादेन धर्मान्न् आनुत्पादा करोति धर्मा चैवानुत्पन्नाः एवं नजाता धर्मान् अजातीकरोति धर्मा चैवाजातः एव यन्न अग्राह्या धर्मान्न् अग्राह्या करोति धर्मा चावाग्राह्या। एवम् अनास्रवा धर्मान् अनास्रवा करोति धर्मा चैवानास्रवा। एवं योनस्वभावेन धर्मान् अस्वभाविकरोति धर्मा चैवास्वभावा। एवं यन्न स्वभावेन धर्मास्वभावता धर्माणां यत् स्वभावं नोपलभते या एवं प्रत्यवेक्षा इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षाः॥

64 न खलु पुनः काश्यप पुद्गलभावविनाशाय शून्यता पुद्गल चैव शून्यता शून्यता चैव शून्यता। अत्यन्तशून्यता। पुर्वान्तशुन्यता। अपरान्तशुन्यता प्रत्युत्पन्नशून्यता। शून्यता काश्यप प्रतिसरथ मा पुद्गलम् ये खलु पुन काश्यपः शून्यतोपलंभेन शून्यता प्रतिसरंति। तानहं काश्यप नष्टप्रनष्टानिति वदामि इतो प्रवचनात् वरं खलु पुन काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता नत्येवाधिमानिकस्य शून्यतादृष्टिमालिना। तत् कस्माद्धेतो पुद्गलदृष्टि गतानाम् काश्यप शून्यता निःसरणं शून्यतादृष्टि पुन काश्यप केन निःसरिष्यंतिः॥

65 तद्यथापि नाम काश्यप कश्चिद् एव पुरुषो ग्लानो भवेत्। तस्मै वैद्यो भैषज्यं दद्यात् तस्य तद् भैषज्यं सर्वदोषानुचाल्य कोष्ठगत न निर्गच्छेत् तत्किं मन्यसे काश्यप अपि नु स ग्लानपुरुषस्तस्माद् ग्लान्या परिमुक्तो भवेत्। यस्य तद्भैषज्यं सर्वकोष्ठगता दोषान् उच्चाल्य कोष्ठगतो न निःसरेत् । आह नो भगवान्। गाढतरश्च तस्य पुरुषस्य तद्गेलान्यं भवेत्। यस्य तद्भैषज्यं सर्वदोषानुचाल्य सकोष्ठगतं न निःसरेत्। भगवानाह। एवमेव काश्यप सर्वदृष्टिगतानां शून्यता निःसरणं यस्य खलु पुनः काश्यप शून्यतादृष्टिस्तमहमचिकित्स्यमिति वदामि। तत्रेदमुच्यते। ॥

यथा हि वैद्यो पुरुषस्य दद्याद्द् विरेचनं रोगविनिग्रहाय उच्चाल्य दोषाश्च न निःसरेत ततो निदानं च न चोपशान्ति।

इमेव दृष्टिगहनाशृतेषु या शून्यता निःसरणं परं हि।
साशु ………………………….. …………………………………………….. 66 67 68 69 70 ………………………………………………………………………….. ये पि शून्यं। ॥

तद्यथापि नाम काश्यप तैलप्रदीपस्यैवं भवत्यहम् अन्धकारं विधमामीति। अथा च पुनस्तैलप्रद्योते कृते आलोकं प्रतीत्य तमोन्धकारं विगच्छति। यश्च काश्यप तैलप्रद्योतो यश्च तमोन्धकारमुभयम् एतच् शून्यता। अग्राह्या शून्य निश्चेष्टाः एवमेव काश्यप यं च ज्ञानं चाज्ञानं चाज्ञानं च उभयमेतच्छून्यदग्राह्या शून्या निश्चेष्ट्या 7।
71 ॥

तद्यथापि नाम काश्यप गृहे वा लयने वा अववरके वा वर्षासहस्रस्यात्ययेन न तत् कदाचित् तैलप्रद्योतः कृतो भवेत्। अथ च तत्र कश्चिदेव पुरुषः तैलप्रदीपं कुर्यात्। तत्किं मन्यसे काश्यप मैवां तस्य तमोन्धकारस्य भूद्वर्षासहस्रसंचितोऽहं नाहम् इतो विगमिष्यामीति। आह नो हीदं भगवन् न……. तस्य तमोन्धकारस्य शक्तिरस्ति यस्तैलप्रद्योत कृते न विगंतुम् अवश्यं तेन विगतव्यं भगवानाह एवमेव काश्यप कल्पकोटीनयुतशतसहस्रसंचितोऽपि कर्मक्लेश एकेन योनिशोमनसिकारप्रज्ञाप्रत्यवेक्षणेन विगच्छति। तैलप्रद्योत इति काश्यप आर्यस्यैतत् प्रज्ञेन्द्रियस्याधिवचनं। तमोन्धकार इति काश्यपत्कर्मक्लेशस्याधिवचनम्। तत्रेदमुच्यते 8 ॥

यथापि दीपो लयने चिरस्य कृतो भवेत पुरुषेण केनचित् ………………………………………………… 72 73 74 75 76 77 ………………………………………….. वालम् उद्धरेत्।
कुशलान्वितं श्रावकम् एव पश्यथ कुशलेन युक्तं अभिसंस्कृतेन।
78 ॥

तद्यथापि नाम काश्यप घुण्णखादितस्य सर्षपम् अभ्यंतरे आकाशधातु एवमेव काश्यप श्रावकस्याभिसंस्कृतं ज्ञानं द्रष्टव्य। तत्रेदमुच्यते 14 ॥

घुणखादितस्यैव हि सर्षपस्य आकाशम् अभ्यंतरितोपरिक्तं।
अभिसंस्कृतं ज्ञान तथा विजानथ यं श्रावकस्य लघुकं परिक्तक्तं॥

79 तद्यथापि नाम काश्यप दशासु दिक्ष्वाकाशधातुरेवं बोधिसत्त्वस्याभिसंस्कृतं ज्ञानं द्रष्टव्यं। तत्रेदमुच्यते 15 ॥

यथापि आकाश दशदिशासु अनावृतं तिष्ठति सर्वलोके।
अभिसंस्कृतं पश्यथ बोधिसत्त्वे ज्ञानं तथा सर्वजगत्प्रधान। ॥

80 तद्यथापि नाम काश्यप राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्याग्रमहिषि दरिद्रपुरुषेण सार्धं विप्रतिपद्येत तस्य ततः पुत्रो जायेतः तत्किं मन्यसे काश्यप अपि नु स राजपुत्र इति वक्तव्यः आह नो हीदं भगवन् भगवान् आह। एवमेव काश्यप किंचापि मम श्रावकार्धर्मधातुनिर्जाता न च पुनस्ते तथागतस्याभिषेक्यपुत्रा इति वक्तव्याः तत्रदमुच्यते 16 ॥

यथापि राज्ञो महिषी मनापी दरिद्रसत्त्वेन सहावसेत।
तस्या सुतस्तेन च जायते यो स राजपुत्रो न तु राजा भेष्यति।
एवमेव ये श्रावका वीतरागा न ते भिषेक्या मम जातु पुत्राः तथा हि ते आत्महिताय युक्ता स्वपरोभयार्थेकरबुद्धपुत्राः॥

81 । तद्यथापि नामा काश्यप राजा क्षत्रियो मूर्धाभिषिक्तः प्रत्यवरया चेटिकया सहप्रतिपद्येत। तस्य तत पुत्र उत्पद्येत। किंचापि काश्यप स प्रत्यवरया चेटिकया सांतिकादुत्पन्नो थ च पुन स राजपुत्र इति वक्तव्यः एवमेव काश्यप किंचापि प्रथमचित्तोत्पादिको बोधिसत्त्वः अप्रतिबलः संसारे संसरन् सत्त्वान् विनयि काममथा च पुन स तथागतपुत्रो इति वक्तव्यः तत्रेदमुच्यते 17 ॥

चेतिया सार्धं यथा चक्रवर्त्ती संवासं गत्वा जनयेत पुत्रं।
किंचापि चेटियसकाशजातो तं राजपुत्रेति वदेति लोके।
चित्ते तथा प्रथमे बोधिसत्त्वो बलेन हीनो त्रिभवे भ्रमंतो।
दानेन सत्त्वाविनयंनुपायैर् जिनात्मजो वुच्चति शुद्धसत्त्वोः 3॥

82 तद्यथापि नाम काश्यप राज्ञा चक्रवर्तिनः पुत्रसहस्रं भवेत्। न चात्र कश्चिचक्रवर्तिलक्षणसमन्वागतो भवेत्। न तत्र राज्ञश्चक्रवर्तिनः पुत्रसंज्ञा मन्येत। एवमेव काश्यप किंचापि तथागतो कोटिशतसहस्रपरिवारः श्रावकेर्न चात्र कश्चिद् बोधिसत्त्वो भवति न तत्र तथागतस्य पुत्रसंज्ञोत्पद्यते। तत्रेदमुच्यते 18 ॥

यथा सहस्रं नृपते सुतानां न चेक पुत्रोऽपि सलक्षणः स्यात्।
न तत्र संज्ञा नृवरस्य तेषु वोढू यतस्ते न धुरं समर्थाः तथा हि बुद्धो बहुकोटिनिर्वृतः स्यात् तेषु कश्चिन्न च बोधिसत्त्वः न पुत्रसंज्ञा सुगतस्य तेषु न बोधिसत्त्वोऽस्ति यतो त्र कश्चित् 2॥

83 तद्यथापि नाम काश्यप राज्ञश्चक्रवर्तिनो अग्रमहिष्या कुक्षे सप्तरात्रोपपन्नः कुमारश्चक्रवर्तिलक्षणसमन्वागतः तस्य कुक्षिगतस्यापरिपक्वेन्द्रियस्य कललमहाभूतगतस्य बलवन्ततरा तत्र देवता स्पृहामुत्पादयंति। न त्वेव तेषु बलजवनवेगस्थामप्राप्तेषु कुमारेषु तत्कस्माद्धेतो स हि चक्रवर्तिवंशस्यानुपच्छेदाय स्थास्यति। एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः अपरिपक्वेन्द्रिय कललमहाभूतगत एव समानोदथ च पुनर्बलवंततरा तत्र पूर्वदर्शनो देवा स्पृहाम् उत्पादयंति। न त्वेवाष्टविमोक्षध्यायीष्वर्हत्सु। तत्कस्माद्धेतोः स हि बुद्धवंशस्यानुपच्छेदाय स्थास्यति। तत्रेदमुच्यते 19 ॥

यथाग्रदेवीय तु चक्रवर्तिनो कुक्षिस्थितो लक्षणपुण्यसत्त्वो।
बलवंतरं देव स्पृहा करोन्ति न स्थामप्राप्तान कुमारकानां एकाग्रचित्ते स्थितबोधिसत्वे संसारसंस्थे घटमानबोधये।
जनेन्ति तस्य स्पृह देवनागा न श्रावकेषु त्रिविमोक्षध्यायिषु॥

84 तद्यथापि नाम काश्यप करविङ्कपोतक आण्डकोशप्रक्षिपतः अनिर्भिन्ने नयने सर्वपक्षिगणम् अभिभवति। यदुत गंभीरमधुरनिर्घोषरुतरवितेत्। एवमेव काश्यपः प्रथमचित्तोत्पादिको बोधिसत्त्वो अविद्याण्डकोशप्रक्षिप्त कर्मक्लेशतमस्तिमिरपटलपर्यवनद्धःनयनोऽपि सर्वश्रावकप्रत्येकबुद्धाम् अभिभवति। यदुत कुशलमूलपरिणामनाप्रयोगनिर्हाररुतरवितेन 20॥

तद्यथापि नाम काश्यप राज्ञश्चक्रवर्तिन अग्रमहिष्या तत्क्षणजातं कुमारं सर्वश्रेष्ठिनैगमजानपतयः कोट्टराजानश्च नमस्यंत्येवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सदेवको लोको नमस्करोन्ति 21॥

85 तद्यथापि नाम काश्यप एकं वैडुर्यं मणिरत्नं सुमेरुमात्रं राशि काचमणिकानभिभवति एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति। तत्रेदमुच्यते 22 ॥

यथापि वैडूर्यमणि प्रभास्वरः काचामणीन् अभिभवते प्रभूतान्।
इमेव चित्ते प्रथमे बोधिसत्त्वो अभीभवति पृथक्च्छ्रावकान् गुणान्॥

86 तद्यथापि नाम काश्यप राज्ञो ग्रमहिष्याः तत्क्षणजातं कुमार सर्वश्रेष्ठिनैगमजानपदा कोट्टराजानश्च नमस्यन्ति। एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सदेवको लोको नमस्यन्ति। तत्रेदमुच्यते 23 ॥

यथापि राज्ञ पृथिवीश्वरस्य पुत्रो भवेल्लक्षणचित्रिताङ्गं दृष्त्वेव तं जातमात्रं कुमारं सकोट्टराजा प्रणमंति पौराः उत्पन्नमात्रे तथा बोधिसत्त्वे सल्लक्षणं तं जिनराजपुत्रं लोकस्सदेवोऽपि नमस्करोन्ति प्रसन्नचित्तं बहुमानपूर्वं॥

87 तद्यथापि नाम काश्यप यानि हिमवन्तः पर्वतराजा भैषज्यानि विरोहन्ति सर्वान्यममान्यपरिग्रहान्यविकल्पानि। यत्र च पुनर्व्याध्या व्युंपनाम्यन्ते तं व्याधिं प्रशमयंति। एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वो यज्ञानभैषज्यं समुदानयति तत्सर्व निर्विकल्प समुदानयति समचित्तता सर्वसत्त्वेषु चिकित्सा प्रयति। तत्रेदमुच्यते 24 ॥

हिमवंत ये परवतराज भेषजा रोहंति ते निर्ममनिर्विकल्पा।
यत्रोपनाम्यंति च तं शमेन्ति व्याधिं जरा चापनयन्ति केचित् जिनात्मजापि समुदानयंति यं ज्ञानभैषज्य विकल्प मुक्त्वा।
हितार्थ सर्वं समुदानयंति समचित्त सत्त्वेषु चिकित्स कुर्वन्॥

88 तद्यथापि नाम काश्यप नवचन्द्रो नमस्कृयते सा पूर्णचन्द्रो न तथा नमस्कृयते। एवमेव काश्यप ये मम श्रद्दधंति ते बलवंततरं बोधिसत्त्वं नमस्कर्तव्य। न तथागत तत्कस्य हेतो बोधिसत्त्वनिर्जाता हि तथागताः तत्रेदमुच्यते 25 ॥

चन्द्रं नवं सर्व नमस्करोन्ति तमेव पूर्णं न नमस्करोन्ति।
इमेव यः श्रद्दधतै जिनात्मजो स बोधिसत्त्वं नमता जिना न तु। ॥

89 तद्यथापि नाम काश्यप मात्रिका सर्वशास्त्रग्रहणज्ञाने पूर्वंगमा। एवमेव काश्यप प्रथमचित्तोत्पादिको बोधिसत्त्वः सर्वबुद्धविकुर्विताधिष्ठानेऽनुत्तरे पूर्वंगमः॥

90 तद्यथापि नाम काश्यप न जातु केनचिच्चन्द्रमण्डलम् उत्सृज्य तारकरूपं नमस्कृत पूर्वं। एवमेव काश्यप न जातु पण्डितो मम शिक्षाप्रतिपन्न बोधिसत्त्वं रिञ्चित्वा श्रावकं नमस्करोति। तत्रेदमुच्यते 26 ॥

न केनचि चन्द्र विवर्जयि त्वा नमस्कृता तारगणा कदाचित्।
न जातु शिक्षाप्रतिपन्न एवं ममात्मजं त्यज नमेत श्रावकः॥

91 तद्यथापि नाम काश्यप सदेवको लोको काचमणिकस्य परिकर्म कुर्यात् न जातु स काचमणिको वैडूर्यमणिरत्नो भविष्यति। एवमेव काश्यप सर्वशीलशिक्षाधुतगुणसमाधिसमन्वागतोऽपि श्रावको न जातु स बोधिमण्डे निषद्यानुत्तरा सम्यक्संबोधिमभिसंबोत्स्यते। तत्रेदमुच्यते 27 ॥

यथापि लोको परिकर्म कुर्यास् सदेवकः काचमणिस्य शुद्धये।
न काच वैडूर्य कदाचि भेष्यते अन्यादृशी तस्य सदेव जातिः एवं हि शीलाश्रुतद्ध्यानयुक्तो यः श्रावक सर्वगुणान्वितोऽपि।
न बोधिमण्डस्थित मार जित्वा बोधिं स्पृशित्वा सुगतो भविष्यति॥

92 तद्यथापि नाम काश्यप वैडूर्यस्य महामणिरत्नस्य परिकर्म क्रियमाणैर्बहुणाम् तत्र कर्षापणशतसहस्राणाम् आयद्वारं भवति। एवमेव काश्यप यत्र बोधिसत्त्वस्य परिकर्म क्रियमाणे बहूनां तत्र श्रावकप्रत्येकबुद्धशतसहस्राणाम् आयद्वारं भवति। तत्रेदमुच्यते 28 ॥

वैडूर्यरत्ने परिकर्मनीयंते कर्षापणानां च बहु आयु भोति।
बुद्धोरसानां परिकर्मणं तथा आयो बहूनां श्रावकानां तथेव। 30॥

93 अथ खलु भगवान् पुनरेवायुष्मंतं महाकाश्यपम् आमंत्रयति स्म। यस्मिं काश्यप देशे उष्ट्रधूमक कृष्णशिर उत्तानशायी भवति स देश सोपद्रवः सोपक्लेश सोपायासो भवति। सचेत्पुन काश्यप यस्मिं देशे बोधिसत्त्वो भवति। स देश निरुपद्रव निरुपक्लेश निरुपायासो भवति। तस्मात्तर्हि काश्यप सत्त्वार्थोद्युक्तेन बोधिसत्त्वेन भवितव्यं तेन सर्वकुशलमूलानि सर्वसत्त्वानाम् उत्स्रष्टव्यं। सर्वं च कुशलमूल सम्यक्समुदानयितव्यं। यश्च ज्ञानभेषज्यं पर्येषते तेन चतुर्दिशम् गत्वा सर्वसत्त्वानां भूतचिकित्सा कर्तव्याः भूतचिकित्साया च्च सत्त्वा चिकित्सितव्याः 94 तत्र काश्यपः कतमा भूतचिकित्साः यदुत रागस्य अशुभा चिकित्सा। द्वेषस्य मैत्री चिकित्साः मोहस्य प्रतीत्यसमुत्पादप्रत्यवेक्षणा चिकित्साः सर्वदृष्टीगतानां शून्यता चिकित्साः सर्वकल्पविकल्पपरिकल्पारंभणवितर्कमनसीकाराणां आनिमित्त चिकित्साः सर्वकामधातुरूपधात्वारूप्यधातुप्रहाणायाम् अप्रणिहित चिकित्साः सर्वविपर्यासाना चत्वारो विपर्यास चिकित्साः अनित्ये नित्यसंज्ञायाः अनित्याः सर्वसंस्कारा इति चिकित्साः दुःखे सुखसंज्ञाया दुःखा सर्वसंस्कारा इति चिकित्साः अनात्मीये आत्मीयसंज्ञाया अनात्मान सर्वधर्मा इति चिकित्साः अशुभे शुभसंज्ञायाः शान्तं निर्वाणम् इति चिकित्साः 95 चत्वारि स्मृत्युपस्थानानि कायेवेदनाचित्तधर्मसंनिश्रितानां चिकित्साः काये कायानुपश्यी विहरति न च काये कायानुपाश्यनायाम् आत्म्यदृष्ट्यां पतति। वेदनायां वेदनानुपश्यी विहरति न च वेदनानुपश्यनाया आत्मदृष्टीगतेन पतति। चित्ते चित्तानुपश्यी विहरति न च चित्तानुपश्यनायां जीवदिष्टीये पतति। धर्मे धर्मानुपश्यी विहरति न च धर्मानुपश्यनायां पुद्गलदृष्टीये पतति। चत्वारि सम्यक्प्रहाणानि सर्वाकुशलधर्मप्रहाणाय चिकित्सा। सर्वकुशलधर्मपारिपूर्यैः संवर्तंते। चत्वारोदृद्धिपादाः कायचित्तपिण्डग्राहोत्सर्गाय संवते। चिकित्साः पञ्चेन्द्रियाणि पञ्च बलानि अश्राद्व्यकौसीद्यमुषितस्मृतिचित्तविक्षेप‍असम्प्रजन्यतादुष्प्रज्ञाताचिकित्साः सप्त बोध्यङ्गानि धर्मसमूहाज्ञानस्य चिकित्साः आर्याष्टाङ्गो मार्ग दौष्प्रज्ञासर्वपरप्रवादिनां कुमार्गप्रतिपन्नानां चिकित्साः इयमुच्यते काश्यप भूतचिकित्साः तत्र काश्यप बोधिसत्त्वेन योगः करणीयः 96 यावंत काश्यप जंबुद्वीपे वैद्या वा वैद्यांतेवासिनो वा सर्वेषां तेषाम् जिवको वैद्यराजा अग्रो माख्यायते। यावंतः काश्यप त्रिसाहस्रमहासाहस्रायां लोकधातौ सत्त्वाः ते सर्वे जीवकवैद्यराजसदृशा भवेयुः ते सर्वे परिपृच्छेरन्। दृष्टि कौकृत्यप्रतिष्ठितस्य प्रपतितस्य किं भैषज्यम् इति। ते न समर्था न च शक्नोति तम् अर्थ आख्यातुं वा निर्देष्टुं वा ज्ञानविज्ञाता वा। तत्र काश्यप बोधिसत्त्वेनैवम् उपपरिक्षितव्य न मया लोकिकभैषज्यसंतुष्टिर्वेदितव्या। लोकोत्तर मया ज्ञानभैषज्यं पर्येष्टितव्यं सर्वकुशलमूलं च सम्यक्समुदानयितव्यम्। मित्येवं चोपपरीक्षितव्यः यच्च ज्ञानभैषज्यं समुदानयित्वा तेन चतुर्दिशं गत्वा सर्वसत्त्वानां भूतचिकित्सा कर्तव्याः भूतचिकित्सया च सत्त्वानि चिकित्सितव्याः 97 तत्र कतरं लोकोत्तरं ज्ञानभैषज्यं। यदिदं हेतुप्रत्ययज्ञानः नैरात्म्येनिःसत्त्वःनिर्जीवनिष्पोषनीष्पुद्गलेषु धर्मेष्वधिमुक्तिज्ञानं। शून्यतानुपलंभेषु धर्मेषु अनुत्रासः चित्तपरिगवेषताये वीर्यं। स एवं चित्तं परिगवेषते। कतरं चित्तं रज्यति वा दुष्यति वा मुह्यति वा। अतीतं वा अनागतं वा प्रत्युत्पन्नं वा। यदि तावद् अतीतं चित्तं तत्क्षीणं। यादनागतं चित्तं तदसंप्राप्तः अथ प्रत्युत्पन्नस्य चित्तस्य स्थितिर्नास्ति।
98 चित्तं हि काश्यप न बहिर्धा नोभयायोमन्तराले उपलभ्यते। चित्तं हि काश्यप अरूप्यनिदर्शनम् अप्रतिघम् अनाभासम् अविज्ञाप्तिकम् अप्रतिष्ठितम् अनिकेतः चित्तं हि काश्यप सर्वबुद्धैर्न दृष्टं न पश्यन्ति न पश्यिष्यन्ति न द्रक्ष्यन्ति यत्सर्वबुद्धैर्न दृष्टं न पश्यन्ति न द्रक्ष्यन्ति कीदृशस्तस्य प्रचारो द्रष्टव्यं नान्यत्र वितथविपर्यासपतिताया संतत्या धर्माः प्रवर्तन्ते 3 चित्तं हि काश्यप मायासदृशंम् अभूतं विकल्प्य विविधोपपत्तिं परिगृह्णाति 4 चित्तं हि काश्यप वायुसदृशं दूरंगमम् अग्राह्यम् अप्रचार 5 चित्तं हि काश्यप नदीस्रोतसदृशंम् अनवस्थितम् उत्पन्नं भग्नविलीन 6 चित्तं हि काश्यप प्रदीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते। ज्वलति च 7 99 चित्तं हि काश्यप विद्युसदृश क्षणभंगाव्यवस्थितं8। चित्तं हि काश्यप आकाशसदृशम् आगंतुकेरुपक्लेशे संक्लिश्यते 9 चित्तं हि काश्यप वानरसदृश विषयाभिलाषि विचित्रकर्मसंस्थानतया 10 चित्तं हि काश्यप चित्रकारसदृश विचित्रकर्माभिसंस्करणतया। 11 चित्तं हि काश्यप अनवस्थितं नानाक्लेशप्रवर्तनतया 12 चित्तं हि काश्यप एकचरम् अद्वितीयचित्ताभिसन्धानतया 13 चित्तं हि काश्यप राजसदृशं सर्वधर्माधिपतेया 14 चित्तं हि काश्यप अमित्रसदृशं सर्वदुःखसंजननतया 15 100 चित्तं हि काश्यप पांस्वागारसदृशम् अनित्ये नित्यसंज्ञया 16 चित्तम् हि काश्यप नीलमक्षिकासदृशम् अशुचो शुचिसंज्ञाया 17 चित्तं हि काश्यप मत्स्यबडीशसदृश दुःखे सुखसंज्ञाया 18 चित्तं हि काश्यप स्वप्नसदृशम् अनात्मीये आत्मीयसंज्ञाया 19 चित्तं हि काश्यप प्रत्यर्थिकसदृशम् विविधकारणाकरणतया 20 चित्तं हि काश्यप ओजाहारयक्षसदृश सदावतारगवेषणतया 21 चित्तं हि काश्यप अरिसदृशं सदा च्छिद्रारामगवेषणतया 22 101 चित्तं हि काश्यप सदा उन्नतावनतम् अनुनयप्रतिघोपहतं 23 चित्तं हि काश्यप चोरसदृश सर्वकुशलमूलमुषणतया 24 चित्तं हि काश्यप रूपारामपगतंगनेत्रसदृशं 25 चित्तं हि काश्यप शब्दाराम संग्रामभेरीसदृश 26 चित्तं हि काश्यप सदा गन्धाराम वराह इव मीडकुणपे 27 चित्तं हि काश्यप रसाराम रसभोज्यचेटीसदृशं 28 चित्तं हि काश्यप स्पर्शाराम मक्षिकेव तैलपात्रे 29 102 चित्तं हि काश्यप परिगवेषमाणं न लभ्यते 30 यन्न लभ्यते तन्नोपलभ्यते तन्नातीतं नानागतं न प्रत्युत्पन्नं। यन्नातीतं नानागतं न प्रत्युत्पन्नं तत्रध्वसमतिक्रान्तं यत्र्यध्वसमतिक्रान्तं। तन्नैवास्ति नेव नास्ति। यन्नैवास्ति न नास्ति। तदजातं यदजातं। तस्य नास्ति स्वभावः यस्य नास्ति स्वभावः तस्य नास्त्युत्पाद। यस्य नास्त्युत्पादः तस्य नास्ति निरोधः यस्य नास्ति निरोधः तस्य नास्ति विगमः अविगमस्तस्यर्न गतिर्नागतिर्न च्युतिर्नोपपत्तिः यत्र न गतिर्नागतिर्न च्युतिर्नोपपत्तिः तत्र न केचित् संस्काराः यत्र न केचित् संस्काराः तदसंस्कृतं। तदार्याणां गोत्र 103 य 1 आर्याणां गोत्र। तत्रर्न शिक्षा न निश्रयो नानिश्रयः यत्र न शिक्षा न निःश्रयो नानिश्रयः तत्र न शिक्षाव्यतिक्रमः यत्र न शिक्षाव्यतिक्रमः तत्र न संवरो नासंवरः यत्र न संवरो नासंवर। तत्र न चारो नाचारः न प्रचारः यत्र न चारो नाचार न प्रचारः तत्र न चित्तं न चेतसिका धर्माः यत्र न चित्तं न चेतसिका धर्माः तत्र न मनो न विज्ञानः यत्र न मनो न विज्ञान। तत्र न कर्मो न विपाकः यत्र न कर्मो न विपाकः तत्र न सुखं न दुःखं यत्र न सुखं न दुःखं तदार्याणां गोत्रं यदार्यानां गोत्रं तत्र न कर्मो न कर्माभिसंस्कारो नापि तत्र गोत्रे कायेन कर्म कृयते न वाचा न मनसा। नापि तत्र गोत्रे हीनोत्कृष्टमध्यमव्यवस्थानं समं तद्गोत्रम् आकाशसमतया। निर्विशेषं तद्गोत्रं सर्वधर्मैकरसतया।
104 विविक्तं तद्गोत्रं कायचित्तविवेकतया। अनुलोमं तद्गोत्रं निर्वाणस्य। विमलं तद्गोत्रं सर्वक्लेशमलविगत अममं तद्गोत्रम् अहंकारममकारविगतं। अविषमं तद्गोत्रं भूताभूतसमतया निर्यातं सत्यं तद्गोत्रं परमार्थसत्यया। अक्षयं तद्गोत्र अत्यन्ततानुत्पन्नं। नित्यं तद्गोत्रं सदा धर्मतथतया। अशुभं तद्गोत्रं निर्वाणपरमतया। शुभं तद्गोत्रं सर्वाकारमलविगतं। अनात्मा तद्गोत्रम् आत्मनः परिगवेष्यमाणनुपलंभात्। विशुद्धं तद्गोत्रम् अत्यन्तविशुद्धतया॥

105 अध्यात्मं काश्यप परिमर्गथ मा बहिर्विधावध्वं। तत्कस्माद्धेतोः भविष्यन्ति काश्यप अनागते ध्वनि भिक्षवः श्वलोष्ट्वानुजवनसदृशाः कथं च काश्यप भिक्षवः श्वलोष्टानुजवनसदृशा भवति। तद्यथापि नाम काश्यप श्वानो लोष्टुना त्रासितः तमेव लोष्टुरनुधावति। न तमनुधावति। येन स लोष्टुं क्षिप्तं भवति। एवमेव काश्यप सत्येके श्रमणब्राह्मणा ये रूपशब्दगन्धरसस्पर्शैर्भयभीता अरण्यायतनेषु विहरंति। तेषा तत्रेकाकिनाम् अद्वितीयानां कायप्रविविक्तविहारिणां रजनीयास्तज्जक्रिया रुपशब्दगन्धरसस्पर्शावभासम् आगच्छन्ति। ते तत्रावेक्षकाः सुखलिकानुयोगम् अनुयुक्ता विहरन्ति रंति।
106 ते न जान जानन्ति न बुद्ध्यंति किं रूपाशब्दगन्धरसस्पर्शान निःसरणमिति। ते अजानंतः अबुद्ध्यंतः तेषां रूपशब्दगन्धरसस्पर्शानास्वादं चादीनवं चा निःसरणं च अवतीर्णा ग्रामनगरनिगमराषराजधानिष्व पुनरेव रूपशब्दगन्धरसस्पर्शर्हंन्यं सचेदरण्यगता कालं कुर्वंति। तेषां लोकिकसंवरस्थिताना स्वर्गलोके उपपत्तिर्भवति। ते तत्रापि दिव्यैः पंचभिः कामगुणैर्हन्यं। ते ततश्च्युता अपरिमुक्ता समानाश्चतुर्भिरपायैर्निरयतिर्यग्नियमलोकासुरैः एवं हि काश्यप भिक्षवः श्वलोष्ट्वनुजवनसदृशा भवन्ति। ॥

107 कथम् च काश्यप भिक्षुर्न श्वलोष्ट्वनुजवनसदृशो भवति यः काश्यप भिक्षु आक्रुष्टो न प्रत्याक्रोशति ताडितो न प्रतिताडयति पंसितो न प्रतिपंसयति। भण्डितो न प्रतिभण्डयति। रोषितो न प्रतिरोषयति। आध्यात्मं चित्तनिद्ध्यप्तिं प्रत्यवेक्षते। को वाक्रुष्टो वा ताडितो वा। पंसितो वा भण्डितो वा रोषितो वा। एवं हि काश्यप भिक्षुर्न श्वलोष्ट्वनुजवनसदृशो भवनसदृशो भवति। तत्रेदमुच्यते॥

श्वानो यथा लोष्टुन त्रास्यमानो अनुधावते लोष्टु न येन क्षिप्तं एमेविहेकै श्रमणा द्विजा वा रूपादिभीता वनवासमाश्रिता।

तेषां च तस्मिन् वसताम् अरण्ये रूपादयो दशनम् एतैष्टा।
उपेक्षकाध्यात्मगतेनभिज्ञा आदीनवान् निःसरणेःकमेषा अजानमाना पुन ग्रामम् आश्रिता।
पुनेपि रूपेहि विहन्यमाना च्युतश्च देवै मनुजैश्च केचित् तत्रापि दिव्यान् उपभुज्य भोगा 3 अपायभूमिः प्रपतंति केचित् च्युता च्युता दुःखमुपैति मूढाः एवं हि ते दुःखशतानुबद्धा श्वलोष्टतुल्या सुगतेन देशिता। 4 आक्रुष्ट नाक्रोशति ताडितस्तथा न पंसितः पंसयतेश्च केचित् न भण्डितो भण्डयते तथान्यान् अरोषितो रोषयते च सूरतः 5 अध्यात्मचित्तं प्रतिपक्षतश्च गवेषते शान्ततवि स्मृतीमान् एवंविधः शीलव्रतोपपण्नोः न श्वानतुल्य कथितो जिनेन। 6॥

108 तद्यथापि नाम काश्यप कुशलो अश्वदमक सुतो। यत्र यत्र पृथिवीप्रदेशे अश्व स्खलति। उत्कुंभति वा खडुंकक्रिया वा करोति। तत्र तत्र चैव पृथिवीप्रदेशे निगृह्णाति स तथा तथा निगृह्णाति यन्न पुनरपि न प्रकुप्यते। एवमेव काश्यप योगाचारो भिक्षुर्यत्रयत्रैवं चित्तस्य विकारं पश्यति। तत्र तत्रैवास्य निग्रहाय प्रतिपद्यत्। स तथा तथा चित्तं निगृह्णाति यथा न पुन प्रकुप्यते तत्रेदमुच्यते। ॥

यथाश्वसूत कुशलो भवेत स्खलितं च अश्व समभिग्र्. हत्.।
योगी तथा चित्तविकार दृष्ट्वा तथा निगृह्णाति यथा न कुप्यत्। ॥

109 तद्यथापि नाम काश्यप गलग्रह सर्वेन्द्रियाणां ग्रहो भवति जीवितेन्द्रियस्योपरोधे वर्तते। एवमेव काश्यप सर्वदृष्टिगतानांमात्मग्राहो धर्मजीवितेन्द्रियस्योपरोधेन वर्तते। तत्रेदमुच्यते॥

गलग्रहो वे यथ जीवितेन्द्रिया निगृह्णते नास्य सुखं ददाति।
दृष्टिकृतानामपि आत्मदृष्टि विनाशयेत इम धर्मजीवितं॥

110 तद्यथापि नाम काश्यप पुरुषो यतो यतः बद्धो भवति ततस्तत एव मोचयितव्यो भवति। एवमेव काश्यप यतो यत एव चित्तं सज्यति। ततस्तत एव मोचयितव्यं भवति। तत्रेदमुच्यते॥

यथापि बद्धः पुरुषः समन्तात् समन्ततो मोचयितव्य भोति एवं यहीं सज्जति मूढचित्तं ततस्ततो योगिन मोचनीयम्॥

111 द्वाविमौ काश्यप प्रव्रजितस्याकाशपलिगोधौ। कतमौ द्वौ। लोकायतमंत्रपर्येष्टिता च। उत्सदपात्रचीवरधारणतया च। इमौ द्वौ। तत्रेदमुच्यते॥

लोकायतस्याभ्यसनाभियोगो ततोत्सदं चीवरपात्रधारणं।
आकाशबोधे इमि द्वे प्रतिष्ठिते तौ बोधिसत्त्वेन विवर्जनीयौ॥

112 द्वाविमौ काश्यप प्रव्रजितस्य गाढबन्धनो। कतमौ द्वियदुतात्मदृष्टिकृतबन्धनं च लाभसत्कारश्लोकबन्धनं चेतीमे काश्यप द्वौ प्रव्रजितस्य गाढबन्धनं। तत्रेदमुच्यते 2॥

द्वे बन्धने प्रव्रजितस्य गाढे दृष्टिकृतं बन्धनमुक्तमादैः सत्कारलाभो यशबन्धनं च ते सर्वदा प्रव्रजितेन त्यज्ये॥

113 द्वाविमौ काश्यप प्रव्रजितस्यांतारयकरो धर्मौ। कतमो द्वौ। गृहपतिपक्षसेवना च आर्यपक्षविद्वेषणता चेतीमे काश्यप द्वौ प्रव्रजितस्यांतरायकरौ धर्मौ। तत्रेदमुच्यते 3॥

गृहस्थपक्षस्य च सेवना या आचार्यपक्षस्य च या विगर्हणा।
द्वावंतरायो परिपन्थभूतो तौ बोधिसत्त्वेन विवर्यनीयो॥

114 द्वाविमौ काश्यप प्रव्रजितस्य मलौ कतमौ द्वौ। यदुत क्लेषाधिवासनता च मित्रकुलभेक्षाककुलाद्व्यवसनताग्रहणं चेतिमे काश्यप द्वौ प्रव्रजितस्य मलो। तत्रेदमुच्यते॥

4॥

क्लेशश्च यो प्रव्रजितो धिवासयेत्।
मित्रं स भेक्षाककुलं च सेवति।
एतौ जिनेन्द्रेण हि देशितौ मलो तौ बोधिसत्त्वेन विवर्जनीयोः॥

115 द्वाविमौ काश्यप प्रव्रजितस्याशनिप्रपातौ। कतमौ द्वौ। सद्धर्मप्रतिक्षेपश्च च्युतशीलस्य च श्रद्धादेयपरिभोगं चेतीमे काश्यप द्वौ प्रव्रजितस्य अशनीप्रपातो धर्मः तत्रेदमुच्यते॥

5॥

सद्धर्मस्य प्रतिक्षेप श्युतशीलस्य भोजनं।
अशनिप्रपातो द्वावेतौ वर्जनीयो नृपात्मकैः॥

116 द्वाविमौ काश्यप प्रव्रजितस्य व्रणौ कतमौ द्वौ। परदौ प्रत्यवेक्षणता च स्वदौषप्रतिच्छादनता चेतीमे काश्यप द्वौ प्रव्रजित व्रणौ तत्रेदमुच्यते 16॥

वृणुते च स्वका दौषा परिदोषाश्च वीक्षते।
विषाग्नितुल्यो द्वावेतौ व्रणौ त्यज्यौ परिक्षकैः॥

117 द्वाविमौ काश्यप प्रव्रजितस्य परिदाघो कतमो द्वौ। यदुत सकाषायस्य च काषायधारणं शीलवंता गुणवंता चान्तिकादुपस्थानपरिचर्यास्वीकरणं चेतीमे काश्यप द्वौ प्रव्रजितस्य परिदाघो। तत्रेदमुच्यते 7॥

सकषायचित्तस्य काषायधारणं शीलान्वितानां च सकाश सेवना परिचर्युपस्थानभिवादनं च धर्माविमौ द्वौ परिवर्जणीया॥

118 द्वाविमौ काश्यप प्रव्रजितस्य दीर्घग्लान्यौ कतमौ द्वौ। यदभिमानिकस्य च चित्तनिध्यप्तिर्महायानसंप्रस्थितानां सत्त्वाना विच्छन्दना इमे काश्यप द्वौ प्रव्रजितस्य दीर्घगैला। तत्रेदमुच्यते 18॥

119 द्वाविमौ काश्यप प्रव्रजितस्य अचिकित्सो गैलान्यौ। कतमौ द्वौ। यदुताभीक्ष्णापत्तिआपद्यनता। अव्युत्थानता चेति इमे काश्यप द्वौ प्रव्रजितस्य अचिकित्सो ग्लान्यो 9॥

120 द्वाविमौ काश्यप प्रव्रजितस्य शल्यो कतमौ द्वौ। यदुत शिक्षापदसमतिक्रमं च अनादत्तसारस्य च कालक्रिया इमे काश्यप द्वौ प्रव्रजितस्य शल्यो 10॥

121 श्रमण श्रमण इति काश्यप उच्यते। कियन्नु तावत् काश्यप श्रमणः श्रमण इत्युच्यते। चत्वार इमे काश्यप श्रमणः कतमे चत्वारः यदुत वर्णरूपलिङ्गसंस्थानश्रमण। आचारगुप्तिकुहकश्रमणः कीर्तिशब्दश्लोकश्रमणः भूतप्रतिपत्तिश्रमणः इमे काश्यप चत्वारः श्रमणाः।
122 तत्र काश्यप कतमो वर्णरूपलिङ्गसंस्थानश्रमणः इह काश्यप इहेकत्यश्रमण वरणरुपलिङ्गसंस्थानसमन्वागतो भवति। संघाटीपरिवेष्ठितो मुण्डशिरः सुपात्रपाणैः परिगृहीतः स च भवत्यपरिशुद्धकायकर्मसमुदाचार अपरिशुद्धवाक्कर्मसमुदाचारः अपरिशुद्धमनस्कर्मसमुदाचारौः भवति। अयुक्त अमुक्तः अदान्तः अशान्तः अगुप्तः अविनितः लुब्धः अलसोः दुःशीलप्पापधर्मसमाचारः अयमुच्यते काश्यप वर्णरूपलिङ्गसंस्थानश्रमणः॥

123 तत्र काश्यप कतमः आचारगुप्तिकुहकः श्रमणः इह काश्यप इहैकत्यश्रमणः आचारचारित्रसंपनो भवति संप्रजानचारी चतुर्भि ईर्यापथैर्लूहान्नपानभोजी संतुष्टः चतुर्भिरार्यवंशेरसंसृष्टो गृहस्थप्रव्रजितैरल्पभाष्योऽल्पमंत्रः ते चास्येर्यापथाः कुहनलपनतया कल्पिता भवंति। न चित्तपरिशुद्धये। न शमाय नोपशमाय। न दमाय। उपलंभदृष्टिकश्च भवति। शून्यतानुपलंभाश्च धर्मेसु श्रुत्वा प्रपातसंज्ञी भवति। शून्यतावादिनां च भिक्षुणाम् अंतिके अप्रसादसंज्ञिमुत्पादयति इयमुच्यते काश्यप आचारगुप्तिकुहक श्रमणः॥

124 तत्र काश्यप कतमः कीर्तिशब्दश्लोकः श्रमणः इह काश्यप इहैकत्यश्रमणः प्रतिसंख्याय शीलं रक्षति। कथमान् परे जानीयुर्शीलवतानिति। प्रतिसंख्याय श्रुतम् उद्गृह्णीते कथमां परे जानीयुर्बहुश्रुत इति। प्रतिसंख्यायारण्ये प्रतिवसति। कथमां परे जानीयु आरण्यकैति। प्रतिसंख्याय अल्पेच्छः संतुष्टः प्रविविक्तो विहरत्। यावदेव परोपदर्शनाय न निर्वेदाय न विरागाय न निरोधाय नोपशमाय। ना संबोधये। न श्रामण्याय। न ब्राह्मणाय। न निर्वाणाय। अयमुच्यते काश्यप कीर्तिशब्दश्लोकश्रमण॥

125 तत्र काश्यप कतमो भूतप्रतिपत्तिः श्रमणः यः काश्यप भिक्षुरनर्थिको भवति कायेन च जीवितेनापि। कः पुनर्व्वादो लाभसत्कारश्लोके। शून्यता आनिमित्ता अप्रणिहिताश्च धर्मां श्रुत्वा आप्तमनो भवति तथत्वतायां प्रतिपन्नो निर्वाणे चाप्यनर्थिका ब्रह्मचर्यं चरति। कः पुनर्वादस्त्रैधातुकाभिनन्दनतया शून्यतादृष्ट्याप्यनर्थिको भवति। कः पुनर्वाद आत्मसत्त्वजीवपौषपुद्गलदृष्ट्या। धर्मप्रतिसरणश्च भवति। क्लेषानां च अध्यात्मविमोक्षमर्गति। न बहिर्धा धावति अत्यन्तपरिशुद्धाश्च प्रकृत्या सर्वधर्मा असंक्लिष्टान् पश्यति। आत्मद्वीपश्च भवत्यनन्यद्वीपः धर्मतोऽपि तथागतं न समनुपश्यति कः पुनर्वाद रूपकायेन। विरागतोऽपि धर्मं नाभिनिविशते कः पुनर्वाद उत वाक्पथोदाहरणेन। असंस्कृतमपि चार्यसङ्घं न विकल्पयति। कः पुनर्वादो गणसंनिपाततः नापि कस्यचिद्धर्मस्य प्रर्हाणायाभियुक्तो भवति न भावनायैर्न साक्षीक्रियाय। न संसारे विरोहति। न निर्वाणम् अभिनन्दति। न मोक्षं पर्येषते। न बन्धं। प्रकृतिपरिनिर्वृता च सर्वधर्मान् विदित्वा न संसरति न परिणिर्वायति। अयमुच्यते काश्यप भूतप्रतिपत्तिः श्रमणः॥

भूतप्रतिपत्त्या श्रामण्यायोगः करणीय न नामहेतेन भवितव्यो इमे काश्यप चत्वार श्रमणा। तत्रेदमुच्यते॥

125 तत्र काश्यप कतमो भूतप्रतिपत्तिः श्रमणः यः काश्यप भिक्षुरनर्थिको भवति कायेन च जीवितेनापि। कः पुनर्व्वादो लाभसत्कारश्लोके। शून्यता आनिमित्ता अप्रणिहिताश्च धर्मां श्रुत्वा आप्तमनो भवति तथत्वतायां प्रतिपन्नो निर्वाणे चाप्यनर्थिका ब्रह्मचर्यं चरति। कः पुनर्वादस्त्रैधातुकाभिनन्दनतया शून्यतादृष्ट्याप्यनर्थिको भवति। कः पुनर्वाद आत्मसत्त्वजीवपौषपुद्गलदृष्ट्या। धर्मप्रतिसरणश्च भवति। क्लेषानां च अध्यात्मविमोक्षमर्गति। न बहिर्धा धावति अत्यन्तपरिशुद्धाश्च प्रकृत्या सर्वधर्मा असंक्लिष्टान् पश्यति। आत्मद्वीपश्च भवत्यनन्यद्वीपः धर्मतोऽपि तथागतं न समनुपश्यति कः पुनर्वाद रूपकायेन। विरागतोऽपि धर्मं नाभिनिविशते कः पुनर्वाद उत वाक्पथोदाहरणेन। असंस्कृतमपि चार्यसङ्घं न विकल्पयति। कः पुनर्वादो गणसंनिपाततः नापि कस्यचिद्धर्मस्य प्रर्हाणायाभियुक्तो भवति न भावनायैर्न साक्षीक्रियाय। न संसारे विरोहति। न निर्वाणम् अभिनन्दति। न मोक्षं पर्येषते। न बन्धं। प्रकृतिपरिनिर्वृता च सर्वधर्मान् विदित्वा न संसरति न परिणिर्वायति। अयमुच्यते काश्यप भूतप्रतिपत्तिः श्रमणः॥

भूतप्रतिपत्त्या श्रामण्यायोगः करणीय न नामहेतेन भवितव्यो इमे काश्यप चत्वार श्रमणा। तत्रेदमुच्यते॥

126 यो कायवाक् चित्तमनेरशुद्धो अदान्तगुप्तो अविनीत लुब्धो मुण्डःशिरश्चीवरपात्रपाणी संस्थानलिङ्गा श्रमणेषु वुक्तो 1 आचारचर्याप्समन्वितोऽपि रूक्षान्नभोजी कुहनादिसेवी चतुरार्यवंशेहि समन्वितोऽपि संसर्ग दुरात् परिवर्जयंतो 2 ते चास्य सर्वे न दमाय भोन्ति न शान्तये नापि च निर्विदाय।
शून्यानिमित्तेषु प्रपातसंज्ञी आचारगुप्तिः कुहको द्वितीयोः 3 धुता गुणा शील श्रुतं समाधिः परस्य विस्वापनहेतु कुर्वति।
न शान्तये नापि च निर्विदाय कीर्तीयश्लोकश्रमणोस्तृतीय। 4 कायेन यो अर्थिक जीवितेन वा यो लाभसत्कारपरामुखश्च विमोक्ष उत्पादमुखं च श्रुत्वा अनर्थिका सर्वभवद्गतीषु। 5॥

अत्यन्तशून्याश्च परीक्ष धर्मान् न निर्वृतिं पश्यति नाप्यनिर्वृतिं।
विरागतो धर्ममवेक्षते सदा असंस्कृतं धर्मम् अनित्य निर्वृतः 6॥

127 तद्यथापि नाम काश्यप दरिद्रपुरुषस्य समृद्धकोश इति नामधेयमं भवेत्। तत्किं मन्यसे काश्यप अनुरूपं तस्य दरिद्रपुरुषस्य तन्नामधेयं भवेत्। आह नो हीदम् भदन्त भगवन्। भगवान् आह। एवमेव काश्यप ये ते श्रमणब्राह्मणा इत्युच्यन्ते। न च श्रमणब्राह्मणसमन्वागता भवन्ति। तानहं दरिद्रपुरुषानिति वदामि। तत्रेदमुच्यते ॥

यथा दरिद्रस्य भवेत नामं समृद्धकोशंभि न तच्च शोभते।
श्रामण्यहीन श्रमणो न शोभते दरिद्र आढ्येतिव उच्यमानः॥

128 तद्यथापि नाम काश्यप कश्चिदेव पुरुषो महता उदकार्णवेनोह्यमानः तृषया कालं कुर्यात्। एवमेव काश्यप इहेकत्ये श्रमणब्राह्मणो बहुन् धर्मान् पर्याप्नुवंति न रागतृष्णान् विनोदयंति। न द्वेषतृष्णा न मोहतृष्णा शक्नुवंति विनोदयितुं। ते महता धर्मार्णवेनोह्यमाना क्लेशतृषाया कालगता दुर्गतिगामिनो भवन्ति। तत्रेदमुच्यते 2॥

यथा मनुष्यो उदकार्णवेन उह्यंति तृष्णाय करेय कालम्।
तथा पठंता बहुधर्मतृष्णया धर्मार्णवस्थामि व्रजंत्यपायं॥

129 तद्यथापि नाम काश्यप वैद्यो ओषधभारं गृहीत्वा अनुविचरेत् तस्य कश्चिद् एव व्याधि उत्पद्येत न च तं व्याधि शक्नुयाचिकित्सितुं। एवमेव काश्यप बहुश्रुतस्य क्लेशव्याधि द्रष्टव्या यस्तेन श्रुतेन न शक्नोति आत्मनः क्लेषव्याधि चिकित्सितुं। निरर्थकं तस्य तच्छ्रुतं भविष्यति। तत्रेदमुच्यते 3॥

यथेव वैद्यौषधर्भरस्त्रसंस्थे परिभ्रमेत निखिलंहि लोके।
उत्पन्नव्याधीन् न निवर्तयेच निरर्थकं तस्य भवेत तं हि।
भिक्षुस्तथा शीलगुणेरुपेतः श्रुतेन युक्तोऽपि न चश्चिकित्सेत्।
अयोनिश क्लेशसमुत्थिता रुजा वृथा श्रमस्तस्य श्रुताभियोगः॥

130 तद्यथापि नाम काश्यप। ग्लानः पुरुषो राजार्हन् भैषज्यमुपयुज्यासंवरेण कालं कुर्यात्। एवमेव काश्यप बहुश्रुतस्य क्लेशव्याधिं द्रष्टव्याः यस्तेनासंवरेण कालं करोति। यो राजार्हां भैषज्यां पर्यापुनित्वा असंवरेण अपायगामी भवति। तत्रेदमुच्यते 4॥

यथापि राजार्हं पीत्व भेषजं व्रजेन्नरो संवरतो निपातं।
बहुश्रुतस्येष तु क्लेशव्याधिर् यो संवरेणेह करोति कालम्।
131 तद्यथापि नाम काश्यप अनर्घं वैडूर्यमहामणिरत्नम् उच्चारे पतितम् अकार्योपकं भवति। एवमेव काश्यप बहुश्रुतस्य लाभसत्कारौच्चारपतनं द्रष्टव्य। निष्किंचनं देवमनुष्येषु। तत्रेदमुच्यते 5॥

रत्नं यथोच्चारगतं जुगुस्पितं यथा स्यान्न तथा यथा पुर।
बहुश्रुतस्यापि वदामि भिक्षोः सत्कारमीडे पतनं तथेव।

तद्यथापि नाम काश्यपा तदेव वैडूर्यं महामणिरत्नम् अमेद्ध्यावस्करादुद्धृतं भवेत् सुद्धौतं सुप्रक्षालितं सुपरिमार्जितं। तं मणिरत्नस्वभावमेव न विजहत्येवमेव काश्यप बहुश्रुतोऽल्पप्रयत्नेन सर्वक्लेशान् विशोधयति महाप्रज्ञारत्नस्वभावमेव न विजहाति 6। ॥

132 तद्यथापि नाम काश्यप मृतकस्य शिरसि सुवर्णमाला। एवमेव काश्यप दुःशीलस्य काषायधारणं द्रष्टव्यं। तत्रेदमुच्यते। 7॥

सुवर्णमालेव मृतस्य शीर्षे न्यस्ता यथा स्यादथ पुष्पमाला काषायवस्त्राणि तथा विशीले दृष्ट्वान्न कुर्यान् मनसः प्रदोषां॥

133 तद्यथापि नाम काश्यप अवदातवस्…………………………….. स्य प्रवरचन्दनानुलिप्तस्य श्रेष्ठिपुत्रस्य वा राजपुत्रस्य वा शिरसि चंपकमालाबद्धं भवेत्। एवम् ए……………………………… लवतो बहुश्रुतस्य काषायधारणं द्रष्टव्यः तत्रेदमुच्यते 8॥

सुस्नातस्यानुलिप्तस्य श्रेष्ठिपुत्रस्य शोभे X XXX ण्पकामालेव शुभगन्धा मनोरमां यथा तथेव काषायं संवरस्थे बहुश्रुते द्रष्टव्यं शीलसंपन्न XXXX गुणान्विते 2॥

134 चत्वार इमे काश्यप दुःशीला शीलवंतप्रतिरूपकाः कतमे चत्वारः इह काश्यप ए…………….. त्यो भिक्षुः प्रातिमोक्षसंवरसंवृतो विहरति। आचारगोचरसंपन्न अणुमात्रेष्ववद्येषु भयदर्शी समा………………….. य शिक्षते शिक्षापदेषु। परिशुद्धकायकर्मवाङ्मनस्कर्मणा समन्वागतो विहरति। परिशुद्धाजीवः स च भ…………………. त्यात्मवादी अयम् काश्यप प्रथमो दुःशीलः शीलवंतःप्रतिरूपको द्रष्टव्यः॥

पुनरपरं काश्यप इहेकत्यो भिक्षुर्विनयधरो भवति। प्रवर्तविनयो विनयगुप्तिःप्रतिष्ठितः सत्कायदृष्टिरस्यानुचलिता भवति। अयं काश्यप द्वितीयो दुःशीलः शीलवंतःप्रतिरूपकः॥

पुनरपरं काश्यप इहेकत्यो भिक्षुः मैत्राविहारि भवति सत्त्वा…………. णया समन्वागतः स च अजाति सर्व्वधर्माणां श्रुत्वा उत्रसति। संत्रसति। संत्रासमापद्यते। अयं काश्यप तृतीयो दुःशीलः शीलवन्तःप्रतिरूपकः॥

पुनरपरं काश्यप इहेकत्यो भिक्षुः द्वादशधुतगुणस…………….. उपलम्भदृष्टिकश्च भवत्यहंकारस्थितः अयं काश्यप चतुर्थो दुःशीलः शीलवन्तप्रतिरूपको द्र………………… प चत्वारो दुःला शीलवंतप्रतिरूपका द्रष्टव्याः॥

135 शीलम् शीलम् इति काश्यप उच्यते। यत्र नात्म………………… नात्मीय न सत्त्वो न सत्त्वप्रज्ञप्तिः न क्रिया नाक्रिया। न करणं नाकरणं। चारो नाचारः न प्रचा…………….. नाप्रचारः न नामं न रूप। निमित्तं नानिमित्तं। न शमो नप्रशमः न ग्राहो नोत्सर्गः न ग्राह्यं …………… ह्य। न सत्त्वो न सत्त्वप्रज्ञप्तिः न वाङ् न वाक्प्रज्ञप्ति न चित्तं न चित्तप्रज्ञप्तिः न लोको नालोकः न निश्रयो नानिश्रयः निमशीलोत्कर्षणा। न परदुःशीलपंसना। न शीलमन्यना। न शीलकल्पना। विकल्पना। न संकल्पना न परिकल्पना। इयमुच्यते काश्यप आर्याणा शील। अनास्रवम् अपर्यापन्नं त्रैधातुकानुगतं सर्वनिश्रयापगं।
136 अथ भगवांस्तस्यां वेलायं इमां गाथाम् अभाषतः॥

न शीलवन्तस्य म्…………… न किंचन न शीलवन्तस्य मदो न निश्रयः न शीलवन्तस्य तमो न बन्धनम्।
न शीलवन्तस्य रजो न…………… शान्तप्रशान्त उपशान्तमानसो कल्पः विकल्पापगतो निरंगणः सर्वेञ्जनामन्यनविप्रमुक्तः XशिXX न् काश्यप बुद्धशासनेः न कायसावेक्षि न जीवितार्थिको ह्यनर्थिकः सर्वभवोपपत्तिभिः सम्यग्गत्। ः स्………………. प्रतिष्ठितः स शीलवान् काश्यप बुद्धशासने। 3 न लोकलिप्तो न च लोकनिश्रितोः आलोकप्राप्तो अममो………………. ञ्चनः न चात्मसंज्ञी न परेषु संज्ञी संज्ञा परिज्ञाय विशुद्धशीलः 4 यस्या नपारं न च पारमध्य्।
X पारपारे च न जातु सक्तः अवबद्धासक्तो अकुहो अनास्रवः स शीलवान् काश्यप बुद्धशासने। 5 137 नामे च रूपे च असक्तमानसः समाहितस्सो हि सुदान्तचित्तः यस्येह आत्मा न च आत्मनीयाम् एतावता शीलस्थितो निरुच्यते। 6 न शिक्षया मन्यति प्रातिमोक्षे न चापि तेन भवतेह तन्मयो।
अथोत्तरं मर्गति आर्यमार्गे विशुद्धशीलस्य इमे निमित्ता 7 न शीलपरमो न समाधितंन्मयोः पर्येषते दुत्तरि प्रज्ञाभावना।
अनोपलंभं आर्याण गोत्रं विशुद्धशील सुगतं प्रशस्तम्।
सत्कायदृष्टे हि विमुक्तमानसो अहं ममैतीह न तस्य भोति।
अधिमुच्यते शून्यतबुद्धगोचरंम् इमस्य शीलस्य समो न विद्यते। 9 शीले प्रतिष्ठाय समाधि शुद्धः समाधिप्राप्तस्य च प्रज्ञभावना।
प्रज्ञाय ज्ञानं भवते विशुद्धं विशुद्धज्ञानस्य च शीलसंपदा। 10॥

138 अस्मिन् खलु पुनर्गाथाभिनिर्हारे भाष्यमाणे अष्टानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि। द्वात्रिंशतिनां च प्राणसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं। पञ्च भिक्षुशतानि ध्यानलाभी उत्थायासनेभ्यः प्रक्रान्तानि इमां गंभीरा धर्मदेशनाम् अवतरंतो नावगाहमानाः अनधिमुच्यमानाः 139 अथायुष्मान् महाकाश्यपो भगवंतमेतदवोचत् इमानि भगवन् पञ्च भिक्षुशतानि ध्यानलाभीन्युत्थायासनेभ्यः प्रक्रान्तानि। इमाम् गंभीरा धर्मदेशनाम् अवतरंतो नावगाहंतो मनधिमुच्यमानाः भगवानाह। तथा ह्येते काश्यप भिक्षुवः अनधिमानिते मनधिमुच्यमाना इमां गंभीरा गाथाभिनिर्हाराम् अनास्रवं शीलविशुद्धिनिर्देशं श्रुत्वा नावतरंति नाधिमुच्यंति नावगाहंति तत्कस्माद्धेतो गंभीरोऽयं काश्यप गाथाभिनिर्हारं गंभीरं बुद्धा भगवंतानां बोधि सा न शक्यमनवरोपितकुशलमूले पापमत्रपरिगृहीतेरनधिमुक्तिबहुले सत्त्वैरधिमुच्यितुं वा पर्या पनितुं वा अवतरितुं वा।
140 अपि च काश्यप एतानि पञ्च भिक्षुशतानि काश्यपस्य तथागतस्यार्हत सम्यक्संबुद्धस्य प्रवचने अन्यतीर्थिकश्रावका अभूवन्। स्ते काश्यपस्य तथागतस्यांतिकादुपरंभाभिप्रायैरेका धर्मदेशना श्रुत्वा श्रुत्वा चेव चित्तप्रसादो लब्ध आश्चार्यं यावन्मधुरप्रियभाखल्वेयं काश्यपस्तथागतोऽर्हां सम्यक्संबुद्ध इति। ते ततश्च्युतसमाना एकचित्तप्रसादेन कालगताः त्रायस्त्रिंशेषु देवेषूपपन्नाः तेनेव हेतुना इह मंम शासने प्रव्रजिताः तान्येतानि काश्यप पञ्च भिक्षुशतानि दृष्टिगतप्रस्कन्दितानि इमां गम्भीरा धर्मदेशना नावतरं नावगाहंति नाधिमुच्यन्ते न श्रद्दधंति। कृतं पुनरेषा म्…. यं धर्मदेशनाया परिकर्म न भूयो विनिपातगामिनो भविष्यन्ति। एभिरेव स्कन्धैः परिनिर्वास्यन्ति। ॥

141 तत्र भगवान् आयुष्मंतं सुभूतिमामन्त्रयति स्म। गच्छस्त्वं सुभूते एतान् भिक्षु संज्ञपय सुभूतिराह। भगवत एव तावदेते भिक्षवो भाषितं प्रतिविलोमयंति कः पुनर्वादो मम। अथ खलु भगवांस्तस्यां वेलाया येन मार्गेण ते भिक्षवो गच्छन्ति स्म। तस्मिन्मार्गे द्वौ भिक्षु निर्मिमीते स्म। अथ तानि पञ्च भिक्षुशतानि येन मार्गेण तौ द्वौ भिक्षु निर्मितो तेनोपसंक्रामन्नुपसंक्रम्येवमवोचन्। कुत्र आयुष्मंतो गमिष्यथः ताववोचताः गमिष्याम वयं अरण्यायतनेषु सुखं फाषं विहरिष्यामः तत्कस्माद्धेतोर्यं हि भगवान् धर्मं देशयति तामावा धर्मदेशनां नावरावो नावगाहामहे। नधिमुच्यावहे। उत्रसावः संत्रसावः संत्रासमापद्यामहे। तावावां आरण्यायतनेषु सुखं विहरिष्यामः 142 तान्यपि पञ्च भिक्षुशतान्येतदवोचन्। वयमप्यायुष्मंतो भगवतो धर्मदेशना नावतरामो नावगाहामहे नाधिमुच्यामहे। उत्रसावः संत्रसावः संत्रासमापद्यामहे। ते वयम् अरण्यायनेषु ध्यानसुखविहारैर्विहरिष्यामः निर्मितकाववोचता संगायिष्याम वयम् आयुष्मंतो न विवदिष्यामः अविवाद परमो हि श्रमणधर्मः यदिह मायुष्मन्त इत्युच्यते परिनिर्वाणम् इति। कतमः स धर्मो यः परि ………….. स्यति कश्चित् पुनरस्मिं कये आत्मा वा सत्त्वो वा जीवो वा जंतुर्वा पौषौ वा पुद्गलो वा मनुजो वा मानवो………………. कर्ता वा कारको वा वेदको वा जानको वा संजानको वा उत्थापको वा समुत्थापको वा यः परिनिर्वास्यति।
143 ते आहु………………. न क्वचिदस्ति। अस्मिं काये आत्मा वा सत्त्वो वा जीवो वा जंतुर्वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा वेदको वा जानको वा संजानको वा उत्थापको वा यः परिनिर्वास्यति। निर्मितका प्राहु। X पुन साक्षीकृयाया परिनिर्वास्यतीति। ते आहुः रागक्षयाय द्वेषक्षयाय मोहक्षयाय आयुष्मन्त परिनिर्वाणमिति। निर्मितका प्राहुः किं पुनरायुष्मता रागद्वेषमोहाः संविद्यंते यां क्षपयिष्यथ। ते आहु। न ते आध्यात्मेन न बहिर्धा नोभयमंतरेणोपलभ्यंते। नापि ते अपरिकल्पिता उत्पद्यंते निर्मितकाववोचता। तेन मायुष्मन्तो मास्मान् कल्पयतः मास्मन् विकल्पयतः यदायुष्मंतो न कल्पयिष्यथः न विकल्पयिष्यथः तदायुष्मन्तो न रंक्ष्यथ न विरंक्ष्यथः यश्चायुष्मंतो न रक्तो न विरक्तः………………. चान्त इत्युच्यते।
144 शीलमायुष्मन्तो न संसरति न परिनिर्वाति समाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनम् आयुष्…………….. न संसरति न परिनिर्वाति। एभिश्चेवायुष्मन्तो धर्मै निर्वाणं सूच्यते। एते च धर्मा शून्या विविक्ता अग्रा…………………. प्रजहीते तामायुष्मन्तः संज्ञा यदुत परिनिर्वाणमिति मा च संज्ञाया संज्ञा कार्ष्वः मा असंज्ञाया……………….. च संज्ञया संज्ञा परिज्ञासिष्व। यः संज्ञया संज्ञा परिजानाति संज्ञाबन्धनं एवास्य तद् भवति। सं……………. वेदयितनिरोधसमापत्तिमायुष्मन्तः समापद्यध्वं मा च कल्पयथ मा विकल्पयथः संज्ञावेदयित………………. धसमापत्तिसमापन्नस्य भिक्षोर्नास्त्युत्तरे करणीयमिति वदामः 145 अस्मिं खलु पुनर्धर्मपर्याये भाष्यमाणे……………………… षां पञ्चानां भिक्षुशतानामनुपादायास्रवेभ्यः चित्तानि विमुक्तानि। ते विमुक्तचित्ता येन भगवांस्ते………………. पसंक्रमन्नुपसंक्रम्य भगवतः पादौ शिरोभिर्वन्दित्वा एकांते न्यषीदन्। अथायुष्मान् सुभुतिस्ता………………….. क्षु एतदवोचत्। क्व नु खल्वायुष्मंतो गता कुतो वा आगताः ते अवोचनक्वचिद्गमनाय। न कुतश्चिदाग……………………… नाय। भदन्त सुभूते भगवता धर्मो देशितः सुभूतिराह। को नामायुष्मन्ता शास्ता। ते आहुः योत्पन्नो…………….. रिनिर्वास्यति।
146 सुभूतिराह। कस्य युष्मे श्रावका कस्य सकाशाद्युष्मे विनीता ते आहुर्येन न प्राप्तनाभिसं………………. सुभूतिराह। कस्य सकाशाद्युष्माकं धर्मं श्रुतं। ते आहु यस्य न स्कन्धा न धातवो नायतनानि 3 सुभूतिराह। कथं पुनर्युष्मे धर्मं श्रुतं। ते आहुर्न बन्धनाय न मोक्षाय। 4 सुभूतिराह। कथं यूयं प्र………………. क्ता ते आहु। न योगाय न प्रयोगाय। न प्रहाणाय। 5 सुभूतिराह केन यूयं विनीताः ते आहुः यस्य न कायपारिनिष्पत्तिर्न चित्तप्रचारं। 6 सुभूतिराह। कथं युष्माभि प्रयुज्यमाना विमुक्ताः……………… आहुः नाविद्यप्रबाणाय न विद्योत्पादाय 7 147 सुभूतिराह। कस्य यूयं श्रावकाः ते आहुः यस्य न प्राप्तो ना……………….. संबुद्धः 8 सुभूतिराह। केव चिरेन यूयं परिनिर्वास्यथः ताहुः यावच्चिरेण तथागतनिर्मि……………….. काः परिनिर्वास्यंति ता वच्चिरेण वयं परिनिर्वास्यामः 9 सुभूतिराह। कृतं युष्माभि स्वकार्थ……………………… ते आहुः अर्थानुपलब्धत्वात् 10 सुभूतिराह। कृतं युष्माभिः करणीय। ते आहु। कारकानुप…………………. ब्धित्वात्। सुभूतिराह। केव युष्माकं सब्रह्मचारिण। ते आहुः। ये त्रैधातुके नोप चरंति। न प्रचरं…………….. 148 सुभूतिराह। क्षीणा यूष्माकं क्लेशाः ते आहुरत्यंतक्षयत्वात् सर्वधर्माणां 13 सुभूतिराह। धर्षिता यु…………………. र् मारः ते आहुः स्कन्धमारानुपलब्धित्वात् 14। सुभूतिराह। परिचीर्णो युष्माभिस्तथागतः ते आहुः………………… कायेन न चित्तेन 15 सुभूतिराह। स्थिता युष्माकं दाक्षिणेयभूमौः ते आहुः अग्राहतः अ……………………… तिग्राहतः 16 सुभूतिराह। च्छिन्ना यूयं संसारं। ते आहुः अनुच्छेद अशाश्वतत्वात् 17 सुभूतिराह। प्रतिपन्ना यूयं श्रमणश्रमणभूमौ। तेन पुनराहुः असंगाविमुक्तौ। 18 सुभूतिरा…………………… किगामिनायुष्मन्तः ते आहुःर्यद्गामिनस्तथागतनिर्मिताः 19॥

149 इति ह्यायुष्मन्तः सुभूति परिपृच्छतः तेषा……………………. भिक्षूणां विसर्जयन्तानां। तस्या पर्षदि अष्टानां भिक्षुशतानां पञ्चानां च भिक्षुणीशतानाम् अनुपादाय…………….. वेभ्यश्चित्तानि विमुक्तानि। द्वात्रिंशतीनां च प्राणसहस्राणां सदेवमानुषिकायां प्रजायाम् विरजो विगत…………………धर्मेषु धर्मचक्षुर्विशुद्धम्॥

150 अथ खलु समन्तालोको नाम बोधिसत्त्वो महासत्त्वो भगवंतमेतदवोचत् इ……………………. गवन् महारत्नकूटे धर्मपर्याये शिक्षितुकामेन बोधिसत्त्वेन कथं स्थातव्यं कथं प्रतिपत्तव्यं। कथं शिक्षितव्यं ………………….. वानाह। उद्गृह्य कुलपुत्र इह धर्मपर्याये शिक्षा आख्याता प्रतिपत्तिसाराणां सत्पुरुषाणां इयं धर्मपर्यायो बह्वार्थकरो भविष्यति।
151 तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषः मृन्मयीनावभिरुह्यं गंगानदीमुत्तर्तुकामो भवेत्। तत्किं मन्यसे कुलपुत्र कीदृशेन वीर्येण तेन पुरुषेण सा न्नोर्वाहयितव्या भवे………………. ह बलवता भगवन् वीर्येण। तत्कस्माद्धेतोः मा मेसंप्राप्तपारस्येवांतरेण न्नौर्विपद्येत। महा‍ओ………………….. र्णवप्राप्तो स्मिन् मा हैवांतरेणायं नावा विकीर्येत। भगवानाह। एवमेव समन्तालोक अतो बहुतरे………………… बलवन्ततरेण वीर्येण बोधिसत्त्वेन बोधिः समुदानयितव्याः महाबलवीर्येण च बुद्धधर्मा समुदानयित…………………… 152 एवमनसीकारेण अनित्यो बतायं कायः चतुर्महाभूतिकः मातापितृकललसंभूत। अध्रु………………….. नाश्वासिकः विपरिणामधर्मः उच्छदस्नपनपरिमर्दनभेदनविकिरणविध्वंसनधर्मः ओद…………………….. ल्मासोपचितः अचिरस्थायि अनाहारो न तिष्ठति। जर्जरगृहसदृशो दुरबलः मा हैव अनादत्तसा………………….. स्यान्तरेण कालक्रिया भविष्यति महोघार्णवप्राप्तोऽस्मि चतुरोत्तररोगशतप्राप्तानां सत्त्वानां उह्यमान……………………. म् उत्तारणताया बोधिसत्त्वेन महाधर्मनावं समुदानयिष्यामि। यया धर्मनावा सर्वसत्त्वा संसार्……………………. वप्राप्तानुह्यमानानुत्तारयिष्यामि।
153 तत्र समन्तालोक कीदृशे धर्मनौ बोधिसत्वस्य समुदानयि………………….. इह समन्तालोक बोधिसत्त्वेन धर्मनावा समुदानयितव्या यदुत सर्वसमचित्तसंभारा……………….. वंति अनन्तपुण्योपचिता शीलफलनिर्जाता दानपरिवारालङ्कारालङ्कृताः आशयदृढसारब्…………………… नसुबद्धाः क्षान्तिसोरत्यस्मृतिशल्यबद्धाः सप्तबोध्यङ्गसंभारदृढवीर्यकुशलधर्मदारुसमुदानिता ध्यान्……………….. त्तक्रमनीयकर्मणिकृताः दान्ताशान्ताजानेयकुशलशिल्पसुनिष्ठिता। अत्यन्ताकोप्यधर्म महाकरुणासंगृही…………………… चतुःसंग्रहवस्तुशूरतुरगवाहिनी प्रत्यर्थिकप्रज्ञाज्ञानसुप्रतिरक्षिता। उपायकौशल्यसुकृतविच्……………….. चतुब्रह्मविहारसुशोधितां।
154 चतुस्मृत्युपस्थानसुचिन्तितकायोपनीता। सम्यक्प्रहाणप्रसठारि…………………….. दजवजविता। इन्द्रियसुनिरीक्षितदानवक्रविगत बलवेगसमुद्गता अन्तरेण शिथिलबोध्यंगविबोध………………… अरिशत्रुमारपथजहनी मानोक्रमवाहिनी। कुतिर्थ्यतीर्थजहनी। शमथनिद्ध्यप्तिनिर्दिष्टा विपश्यनाप्र………………… गा। उभयोरन्तयोरसक्तवाहिनी। हेतुधर्मयुक्ता विपुल्विस्तीर्णाक्षयप्रहाणाबन्धा विघुष्टशब्दा दश………………. क्षु शब्दमादायत्यागच्छतागच्छताभिरुत महाधर्मनावं निर्वाणपुरगामिनी। क्षेममार्गगामिनी। महा……………… मतीर सत्कायदृष्टिं जहनीं। परिमतीरगामिनी लघुसर्वदृष्टिगतविगतां।
155 ईदृशि कुलपुत्र धर्म………………………. बोधिसत्त्वेन समुदानयितव्यः अपरिमाणकल्पकोटीनयुतशतसहस्रपरिखिन्नमानसेन। ……………………. र्वसत्त्वानामर्थाय अनया सद्धर्मनावा सर्वसत्त्वा तारयितव्याः चतुर्भिरोघे उह्यमानाः ईदृ………………… नावा कुलपुत्र बोधिसत्त्वेन समुदानयितव्याः तत्र समन्तालोकः कतामा बोधिसत्त्वस्य क्षिप्राभिज्ञता। यदुत अकृ………………. मः प्रयोगः सर्वसत्त्वेषु। तीव्रच्छन्दिकता आशयशुद्ध्या। उतप्तवीर्यता सर्वकुशलमूलसमुदानय……………… ये कुशलच्छन्दिकता योनिशमनसिकारेण श्रुततृप्तता। प्रज्ञापरिपूर्यैः निर्मानता प्रज्ञोप…….. य। प्रव्रज्यानिम्नता। सर्वगुणपरिपूर्यै अरण्यवासः कायचित्तविवेकतया।
156 असंसर्गो दुर्ज……………………… नविवर्जनतया। धर्मार्थिकता परमार्थार्थप्रतिसरणतया। ज्ञानार्थो त्यंतकोपनार्थतया। धर्मा………………… नार्थतया। सत्यार्थो अविसंवादनार्थतया। शून्यतार्थो सम्यक्प्रयोगार्थतया। विवेकार्थो अत्यन्तोप……………… र्थतायेति॥

इयमुच्यते समंतालोक बोधिसत्त्वस्य महासत्त्वस्य क्षिप्राभिज्ञता॥

157 अथ खल्वायुष्मान् महाकाश्यपो भगवंतमेतदवोचत् - आश्चार्यं भगवन् ! आश्चार्यं सुगतः यावच्चेयं महारत्नकूटो सूत्रान्तरा ……………………. उपकारीभूतो महायानसंप्रस्थितानां कुलपुत्राणां च कुलदुहितृणां च। कियद्भगवन् स कुलपुत्रो………………….. कुलदुहिता वा पुण्यं प्रसवति। य इतो रत्नकूटं सूत्रान्तराज्ञादेकगाथाम् अप्युपदिशेत् 158 एवमुक्ते भगवान् आयुष्मंतं महाकाश्यपमेतदवोचत् - यो हि काश्यप कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुकसमेषु लोकधा……………….. परमाणुञ्जासि बिन्देय भित्वा तात्तका चैव वारावापेय। तात्तका चैव तं सर्वलोकधातवः स…………………. परिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः समयक्संबुद्धेभ्यो दानं दद्यात्। गङ्गानदीवालुकसमानां च बुद्धा………………. भगवन्तानां एकेकस्य च तथागतस्य गङ्गानदीवालुकासमान् विहारान् करापयेत्।
159 गङ्गानदीवा………………… मानां च बुद्धानां भगवतामेकेकं च तथागतस्याप्रमेयश्रावकसंघं गङ्गानदीवालुकासमान् कल्पां………………. सुखोपधानैः परिचरेत्। तेषाम् च बुद्धानां भगवतं यावज्जीवमनापेन कायकर्मेण वाक्कर्मेण म्……………… र्मेण उपस्थानपरिचर्याय तात्तका चैव गङ्गानदीवालुकासमां लोकधातवः परमाणुरजांसि…………………. त्तकाभिद्य भित्वा वा तात्तका चैव वारापेय। तान् सर्वं लोकधातुः सप्तरत्नपरिपूर्णं कृत्वा………………… नं दद्याद्बुद्धानां भगवतां यावज्जीवं च मनपेन काय कर्मणा वाक्कर्मणा मनस्कर्मणा उप……………….. पारिचर्याय तात्तका चैव गङ्गानदीवालुकासमानपि तात्तका चैव बुद्धानां भगवतं सत्कुर्याद्……………… न् मानयेत् पूजयेत् तेषां च परिनिर्वृतानां सप्तरत्नमया स्तुपा कारापयेत्। यश्च कुलपुत्रो वा कुल……………….. ता वा इतो महारत्नकूटात् सूत्रान्तराज्ञा सर्वबुद्धभाषितादेकामपि गाथा उद्गृह्णेय धार………………. अस्य पुण्यस्कन्धस्य स पूर्वकपुण्यस्कन्धः शतिमामपि। कलानोपैति। सहस्रिमामपि। को…………………… तसहस्रिमामपि। संख्यामपि। कलामपि। गणनामपि। उपमापि। उपनिषामपि। नक्ष……………….. योश्च श्रुणेय श्रुत्वा च न परिक्षिपेय। अयं ततो बहुतरः पुण्यस्कन्धप्रसुतो भवेत्। यश्च मातृ…………………………………………….शृणुयाद् वा लिखापयेद् वा पर्याप्नुयाद् वा तस्य न जातु विनिपातो भविष्यति। स एव तस्य पशे…………………. वो भविष्यति।
160 यत्र च पृथिवीप्रदेशो अयं रत्नकूटो धर्मपर्यायो भाष्यते वा देश्यते वा लिख्यते वा…………………….. वा पुस्तगतं वा तिष्ठेत् स पृथिवीप्रदेशे चैत्यभूतो सदेवकस्य लोकस्य यस्य च धर्मभाणकस्यान्त्……………………. द् इमं धर्मपर्यायं श्रिणुयाद् वा उद्गृह्णीयाद् वा लिखेद् वा पर्याप्नुयाद् वा। तस्य धर्मभाणकस्यान्तिके………………. वंरूपा गौरवाम् उत्पादयितव्यः तद्यथापि नाम काश्यप तथागतस्य। य्…………………………………………..णकं सत्करिष्यति गुरुकरिष्यति मानयिष्यति। पूज्…………………. णकाले चास्य तथागतदर्शानं भविष्यति।
161 तथागतदर्शनेन च दश च कायकर्मपारिशुद्धि प्रतिलप्…………………….. कतमे दश। यदुत……………….वेदनाया अपर्यादत्तचित्त कालं करिष्यति। चक्षुविभ्रमश्चास्य न भविष्यति…………… स्तविक्षेपं च करिष्यति 3 न पादविक्षेपं च करिष्यति। 4 नोच्चारं करिष्यति। 5 न प्रस्रावं करिष्यति। 6 न……………………………………आत् स्वेदं प्रयरिष्यति। 7 न मुष्टिं करिष्यति। 8 न चाकाशं परामृशति। 9 यथा निषण्…………….. 162 -missing in original text. 163 -missing in original text. 164 -missing in original text. 165 -missing in original text.