१०. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम्

१०. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी सुगतात्मजः।
भगवन्तं पूनर्नत्वा सांजलिरेवमब्रवीत्॥

भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः।
कदेह समुपागच्छेत् संद्रक्ष्यते मया कथम्॥

१२६ नैवास्मि तोषितः शास्तः पीत्वापि तद्गुणामृतम्।
यत्साक्षाद्द्रष्तुमिच्छामि कदेह स समाचरेत्॥

यत्त्रैलोकाधिपतीशोऽसौ दुर्दान्तानपि दानवान्।
बोधयित्वा प्रयत्नेन बोधिमार्गे न्ययोजयत्॥

तत्तस्येव महद्वीर्यं कस्यापि विद्यते न हि।
मुनीन्द्रैरपि सर्वैर्यत्प्रमातुं नैव शक्यते॥

भूयोऽपि पातुमिच्छामि तद्गुणामृतमुत्तमम्।
तद्भवान्समुपादिश्य तुष्टोऽन्तः कर्तुमहति॥

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत्॥

शृणु साधो महासत्त्व लोकेशस्य महद्गुणम्।
भूयोऽहं संप्रवक्ष्यामि सर्वस्त्तवशुभार्थतः॥

ततो निष्क्रम्य दैत्येन्द्रभवनात् स जिनात्मजः।
अन्यत्रापि समुद्धर्तुं सत्त्वान् संभासयन् ययौ॥

ततश्चासौ महाभिज्ञो लोकेश्वरः स्वपुण्यजान्।
नानारश्मीन् समुत्सृत्य जगल्लोकमभासयत्॥

तद्रश्मयो जगल्लोकानभास्य प्रसारिताः।
जेतोद्याने मुनीन्द्रस्य विश्वभुवः पुरः स्थिताः॥

जेतोद्याने तदा तत्र प्रादुर्भूताः सरोवराः।
अष्टांगगुणसंपन्नजलपूर्णा मनोहराः॥

दिव्यसौवर्णपद्मादिपरिपूर्णाभिशोभिताः।
अनेके कल्पवृक्षाश्च सर्वालंकारलम्बिताः।
सरत्नमणिमुक्तादिहारलम्बितशोभिताः॥

काशिकदुष्यपट्टादिवस्त्रालंकारलम्बिताः।
प्रवालोहितस्तम्बाः सुवर्णरुप्यपत्रकाः॥

अनेके पुष्पवृक्षाश्च फ़लवृक्षादयोऽपि च।
सर्वाश्चापि महौषध्यः प्रादुर्भूतास्समन्ततः॥

तत्रारामे विहारे च सुगन्धिकुसुमानि च।
दिव्यसुवर्णपुष्पाणि निपेतुर्वियतस्तदा॥

१२७ एवं तन्मंगलोद्भूतनिमित्तं महदद्भुतम्।
समुद्भूतं समालोक्य तस्थुः सर्वे सविस्मयाः॥

अथ गगनगंजाख्यो बोधिसत्त्वोऽपि विस्मितः।
तन्महद्भद्रनैमित्यं परिस्प्रष्टुं समुत्थितः॥

विश्वभुवो मुनीन्द्रस्य पुरतः समुपस्थितः।
पादाब्जे प्रणतिं कृत्वा सांजलिरेवमब्रवीत्॥

कस्य पुण्यप्रभारश्मिर्भगवन्नयमागतः।
कुत इह समाभास्य करोत्येवं शुभाद्भुतम्॥

तद्भवान् समुपादिश्य सर्वान् सभाश्रितानिमान्।
लोकान् प्रबोधयन् धर्मे विनोदयितुमर्हति॥

एवं संप्रार्थिते तेन विश्वभूर्भगवान् जिनः।
गगनगंजमालोक्य तमेवं पुनरब्रवीत्॥

असौ लोकेश्वरस्तस्माद्भवनान्निश्चरन् बलेः।
तमोऽन्धकारभूम्यां च सत्त्वान् पातुं प्रगच्छति॥

तस्य लोकेश्वरस्यायं पुण्यरश्मिस्समन्ततः।
अवभास्य जगल्लोकमिहापि संप्रसारितः॥

तेनदं भद्रनैमित्यं कुलपुत्र प्रजायते।
तत्र सत्त्वान् समुद्धृत्य प्रागच्छेत् स जगत्प्रभुः॥

तदात्र कुलपुत्रस्त्वं त्रैलोकाधिपतीश्वरम्।
तमायातं समालोक्य नत्वाराधय सादरम्॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः।
गगनगंज आलोक्य तं मुनीमेवमब्रवीत्॥

कथं स भगवान् याति तत्रान्धतमसे भुवि।
सूर्यचन्द्रमसोर्यत्र प्रभा न ज्ञायते क्वचित्॥

तत्रापि प्राणिनः सन्ति यानुद्धर्तुं स गच्छति।
कथं किमर्थमालोक्य विहरेत् क्व जिनात्मजः॥

इति तेनोदिते शास्ता विश्वभूः स मुनीश्वरः।
गगनगंजमालोक्य तं पुनरेवमादिशत्॥

१२८ तत्रापि कुलपुत्रास्ति वरदो नाम सद्गुणी।
चिन्तामणिर्महारत्नः श्रीकान्तिमान् दिनेशवत्॥

तत्रानेकसहस्राणि यक्षणां रक्षसामपि।
यथाकामं सुखं भुक्त्वा वसन्ति स्वैरचारिणः॥

तान् क्लेशाभिमानो दुष्टान् पश्यन् स करुणानिधिः।
बोधयित्वा प्रयत्नेन चारयितुं सुसंवरम्॥

स्वपुण्यरश्मिमुत्सृज्य संभासयन् समन्ततः।
प्रविशति यथा पूर्णचन्द्रः प्रह्लादयन् जगत्॥

तद्रश्मिपरिस्पृष्टास्ते सर्वेऽपि यक्षराक्षसाः।
महासौख्यसमापन्नाः तिष्ठन्ति विस्मयान्विताः॥

तदा तं समुपायातं श्रीकान्तिसंप्रभासितम्।
दृष्ट्वा ते मुदिताः सर्वे पुरतः समुपागताः।
कृतांजलिपुटा नत्वा तस्य पादाम्बुजे मुदा।
पुरतः समुपाश्रित्य संपृच्छन्त्येवमादरत्॥

मा त्वं भगवंच्छ्रान्तः क्लान्तो व भवतां तनौ।
कच्चित् सर्वत्र कौशल्यं दृश्यते सुचिराद्भवान्॥

इति तैरुदितं श्रुत्वा लोकेशः स जिनात्मजः।
तान् सर्वान् समुपासीनान् वदत्येवं विलोकयन्॥

ममानेकानि कार्याणि सत्त्वानां हितसाधने।
तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम्॥

नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने।
निष्पादितो जगत्सत्त्वसद्धर्मसाधनेऽपि हि॥

सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम्॥

तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम्।
नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने॥

निष्पादितो जगत्सत्त्वसद्धर्मसाधनेऽपि हि।
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः॥

१२९ बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम्॥

तेनाहं सुचिरेणापि युष्माकं हितसाधने।
विलोक्य समुपायामि नान्यथेति हि मन्यत॥

इत्यादिष्टं जगच्छास्त्रा तेन लोकेश्वरेण ते।
श्रुत्वा सर्वे मुदा तस्य पुर एवं वदन्ति च॥

जयोऽस्तु ते सदा कार्ये सिध्यतु ते समीहितम्।
सदैवं कृपयालोक्य सर्वान्नः पातुमर्हति॥

इत्युक्त्वा ते प्रसन्नाक्षाः सर्वे तं त्रिगुणाधिपम्।
स्वर्णरत्नासने स्थाप्य प्रार्थयन्येवमानताः॥

भगवन्नाथ लोकेश सत्सौख्यगुणसाधनम्।
अस्मदनुग्रहे धर्मं समुपादेष्टुमर्हति॥

इति सम्प्रार्थिते तैः स लोकेश्वरो जिनात्मजः।
तान यक्षान् राक्षसान् सर्वान् समालोक्यैवमादिशत्॥

साधु चित्तं समाधाय शृणुध्वं यूयमादरात्।
कारण्डव्यूहमौदार्यसूत्रं वक्ष्यामि वो हिते॥

ये श्रोष्यन्ति महायानसूत्रराजमिदं मुदा।
ये श्रुत्वा धारयिष्यन्ति वाचयिष्यन्ति ये सदा॥

पर्यवाप्स्यन्ति ये चापि लिखिष्यन्ति च ये तथा।
ये च लिखापयिष्यन्ति भावयिष्यन्ति ये सदा॥

ये च प्रवर्तयिष्यन्ति श्रावयिष्यन्ति ये परान्।
अनुमोद्य सदा स्मृत्वा प्रणत्वा ये भजन्त्यपि॥

ये चापि श्रद्धया नित्यमर्चयिष्यन्ति सर्वदा।
सादरं ये च सत्कृत्य मानयिष्यन्ति सर्वदा॥

तेषां पुण्यमसंख्येयमप्रमेयं महत्तरम्।
सद्गुनश्रीमहत्सौख्यसंबुद्धपदसाधनम्॥

सर्वज्ञाः सुगताः सर्वे मुनीन्द्रा अपि सर्वदा।
एतत्पुण्यप्रमाणानि कर्तुं न चाभिशक्नुयुः॥

तद्यथापि च चतुर्द्विपनिवासिनोऽपि मानवाः।
हेमरत्नमयं स्तूपं कुर्युरेकैकमुच्छ्रितम्॥

१३० तेषु स्तूपेषु सर्वेषु धातुरत्नावरोपणम्।
कूर्युस्ते मानवाः सर्वे चतुर्द्वीपनिवासिनः॥

तेसां यावन्महत्पुण्यस्कन्धमौदार्यसत्तमम्।
ततोऽधिकं हि तत्पुण्यं कारण्डव्यूहसूत्रजम्॥

तद्यथा च महानघाः पंचपूर्णजलावहाः।
सहस्रपरिवारास्ताः संक्रमन्ति यथोदधिम्॥

एवमेव महत्पुण्यं कारण्डव्यूहसूत्रजम्।
श्रवणभजनादीनां संप्राभिवहते सदा॥

एवमेतन्महत्पुण्यं मत्वा यूयं यदीच्छथ।
त्यक्त्वा पापमतिं सर्वे शृणुतेदं सुभाषितम्॥

श्रुत्वानुमोद्य सत्कृत्य मानयत सदादरात्।
एतत्पुण्याभिलिप्ता हि भविष्यथ जिनात्मजाः॥

इति तेन जगच्छास्त्रा समादिष्टं निशम्य ते॥

सर्वे ते राक्षसा यक्षा मुदिताश्चेदमब्रुवन्॥

ये चापीदं महायानसूत्रराजं जगत्प्रभाः।
लिखापयन्ति तेषां स्यात्कियत्पुण्यं समादिश॥

इत्यक्ते तैः स लोकेशो बोधिसत्त्वो जिनात्मजः।
सर्वांस्तान् मुदितान् मत्वा समालोक्येदमादिशत्॥

कुलपुत्रा अप्रमेयं पुज्यं तेषां प्रजायते।
लिखन्तीदं सूत्रराजं लिखापयन्ति येऽपि च॥

चतुरशीतिसद्धर्मस्कन्धसाहस्रिकानि तैः।
लिखापितानि सर्वाणि तेषां पुण्यं महत्तरम्॥

राजानस्ते भविष्यन्ति नृपेन्द्राश्चक्रवर्तिनः।
धर्मिष्ठा लोकभर्तारो विरा धीरा विचक्षणाः॥

ये चाप्यस्य महायानसूत्रराजस्य सर्वदा।
नामानुस्मरणं कृत्वा भजन्ति संप्रसादिताः॥

ते सर्वे भवदुःखेभ्यो विमुक्ता विमलाशयाः।
निःक्लेशाः परिपूर्णांगाः सुगन्धिमुखवासिनः॥

१३१ चन्दनगन्धितांगाश्च सुवीर्यबलवेगिनः।
जातिस्मराश्च धर्मीष्ठा भवेयुः श्रीगुणाश्रयाः॥

एवं मत्वा महत्पुण्यं यद्येतद्गुणमिच्छथ।
विरम्य क्लेशसंगेभ्यः परिशुद्धाशया मुदा॥

एतत्कारण्डव्यूहस्य सूत्रराजस्य सर्वदा।
नामानुस्मरणं कृत्वा भजत श्रद्धयादरात्॥

ततो यूयं विनिर्मुक्ता भवक्लेशातिदुःखतः।
निःक्लेशा विमलात्मानः सुखावतीं गमिष्यथ॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा।
बोधिचर्यांव्रतं प्राप्य भविष्यथ जिनात्मजाः॥

ततः सत्त्वहिताधानश्रीसंपत्सद्गुणाश्रयाः।
सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यथ॥

इति सत्यं परिज्ञाय शुद्धाशया जितेन्द्रियाः।
त्रिरत्नभजनं कृत्वा भजन तत्सुभाषितम्॥

इति तदुक्तमाकर्ण्य सर्वे ते यक्षराक्षसाः।
प्रबोधिता महोत्साहैश्चरन्त्येवं समादरात्॥

ततः केचिन् भवन्त्येतद्धर्मश्रद्धानुसारिणः।
केचिच्च श्रोतापन्नाः सकृदागामिनोऽपरे॥

अन्येऽनागामिनः केचिद्भवन्ति बोधिसाधने।
ततस्सर्वेऽपि ते यक्षा राक्षसाः संप्रमोदिताः॥

तदुपदिष्टमासाद्य भवन्ति ब्रह्मचारिणः।
परस्य च हितं कृत्वा संचरन्ते शुभे सदा॥

ततस्ते नन्दिताः सर्वे भूयस्तं त्रिगुणाधिपम्।
कृताजंलिपुटा नत्वा प्रार्थयन्त्येवमादरात्॥

भगवन्नुबोधे नः सद्धर्मं समुपादिशत्।
विहरस्व सदात्रैव क्वचिदन्यत्र मा व्रज॥

स्वर्णरत्नमयं स्तूपं कृत्वा दास्यामहेऽत्र ते।
रथचंक्रयात्रा च करिष्यामो जगत्प्रभोः॥

१३२ सदा ते शरणे स्थित्वा पीत्वा धर्मामृतं मुदा।
सद्धर्मसाधनं कृत्वा चरिष्यामः सुखं शुभे॥

इति तैः प्रार्थितं सर्वैः श्रुत्वा लोकेश्वरोऽथ सः।
सर्वान्स्तान् राक्षसान् यक्षान् समालोक्यैवमादिशत्॥

नाहं सदात्र तिष्ठेयमन्त्रत्राप्येवमाचरन्।
बोधयन्नपरान् सत्त्वान् योजयेयं सुसंवरे॥

तस्माद्यूयमिमे सर्वे उपदिष्टं यथा मया।
तथा धृत्वा सदा धर्मे चरित्वा तिष्ठताभवम्॥

इति शास्त्रा समादिष्टं श्रुत्वा ते यक्षराक्षसाः।
तद्वियोगातिदुःखार्ता वदन्येवं परस्परम्॥

गमिष्यति भवन्तोऽयं लोकनाथो जगत्प्रभुः।
तद्भविष्यामहे सर्वे सद्धर्मरहिता वयम्॥

इति संभाष्य सर्वे ते तस्य त्रैधातुकप्रभोः।
पादाब्जे प्रणतिं कृत्वा तिष्ठन्ति समुपाश्रिताः॥

ततः स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।
तान् सर्वान् समुपामन्त्र्य चरति प्रस्थितस्ततः॥

तत्र ते राक्षसा यक्षास्सर्वे तस्य जगत्प्रभोः।
रुदन्तः स्नेहरागार्ता गच्छन्ति पृष्ठतोऽनुगाः॥

तान् दृष्ट्वा त्वागतान् सर्वान् स लोकेशो करुणात्मकः।
प्रायातान् दूरतो मार्गे समालोक्यैवमब्रवीत्॥

सुदूरमागतो यूयं निवर्तध्वं स्वमालयम्।
मागच्छत गमिष्यामि शुद्धावासे सुरालये॥

इत्यादिष्टे जगच्छास्त्रा सर्वे ते यक्षराक्षसाः।
लोकेश्वरस्य पादाब्जे नत्वा यान्ति स्वमालयम्॥

तत्र ते राक्षसा यक्षा धृत्वाज्ञां त्रिजगत्प्रभोः।
त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः॥

बोधिचर्याव्रतं धृत्वा संबोधिनिहिताशयाः।
परस्परं हितं कृत्वा संचरन्ते सदा शुभे॥

१३३ एवं स त्रिजगन्नाथो दुर्बोधान् यक्षराक्षसान्।
अपि नियुज्य सद्धर्मे चारयति प्रबोधयन्॥

एवं स त्रिजगन्नाथः सर्वासत्त्वान् प्रबोधयन्।
बोधिमार्गे प्रतिष्ठाप्य पालयति सदा भवे॥

तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम्।
अप्रमेयं जिनैः सर्वैः प्रमातुं नैव शक्यते॥

तस्मात्तस्य जगद्भर्तुः स्मृत्वापि नाम सर्वदा।
समुदाहृत्य नत्वापि कर्तव्यं भजनं मुदा॥

ये तस्योच्चार्य नामापि भजन्ति सर्वदा मुदा।
दुर्गतिं ते न गच्छन्ति संप्रयायुः सुखावतीम्॥

तत्रामिताभनाथस्य शरणे समुपाश्रिताः।
सदा धर्मामृतं पीत्वा संचरेरन् सुसंवरे॥

ततो बोधिव्रतं धृत्वा संचरित्वा जगद्धिते।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः॥

इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते।
सर्वे ससांघिका लोका मुहुर्मुहुः संप्रबोधिताः॥

इति तमोऽन्धकारभूमियक्षराक्षसपरिबोधनसद्धर्मावतारणप्रकरणं समाप्तम्॥