५५ मञ्जुश्रीः।
अथ खलु सुधनः श्रेष्ठिदारको दशोत्तरं नगरशतमटित्वा सुमनामुखदिक्प्रत्युद्देशं गत्वा अतिष्ठत् मञ्जुश्रियं कुमारभूतं चिन्तयन् अनुविलोकयन् मञ्जुश्रियः कुमारभूतस्य दर्शनमभिलषन् प्रार्थयमानः समवधानमाकाङ्क्षमाणः। अथ खलु मञ्जुश्रीः कुमारभूतो दशोत्तराद्योजनशतात्पाणिं प्रसार्य सुमनामुखनगरस्थितस्यैव सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य एवमाह-साधु साधु कुलपुत्र न शक्यं श्रद्धेन्द्रियविरहितैः खिन्नचित्तैः लीनचित्तैरनभ्यस्तप्रयोगैः प्रत्युदावर्त्यवीर्यैरित्वरगुणसंतुष्टैरेककुशलमूलतन्मयैश्चर्याप्रणिधानाभिनिर्हाराकुशलैः कल्याणमित्रापरिगृष्टीतैर्बुद्धासमन्वाहृतैरियं धर्मता ज्ञातुम्, एष नयः एष गोचरः एष विहारो ज्ञातुं वा अवगाहयितुं वा अवतरितुं वा अधिमोक्तुं वा कल्पयितुं वा प्रत्यवगन्तुं वा प्रतिलब्धुं वा इति॥
स तं धर्मकथया संदर्शयित्वा समादाप्य समुत्तेज्य संप्रहर्षयित्वा असंख्येयधर्ममुखसमन्वागतं कृत्वा अनन्तज्ञानमहावभासप्राप्तं कृत्वा अपर्यन्तबोधिसत्त्वधारणीप्रतिभानसमाध्यभिज्ञज्ञानवेशाविष्टं कृत्वा समन्तभद्रचर्यामण्डलेऽवतारयित्वा स्वदेशे च प्रतिष्ठाप्य सुधनस्य श्रेष्ठिदारकस्यान्तिकात् प्रक्रान्तः॥५३॥