५० सुचन्द्रः।
अथ खलु सुधनः श्रेष्ठिदारको येन सुचन्द्रो गृहपतिः, तेनोपसंक्रम्य सुचन्द्रस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीती। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
आह-मया कुलपुत्र विमलज्ञानप्रभो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः। एतमहं कुलपुत्र विमलज्ञानप्रभं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यमप्रमाणविमोक्षप्रतिलब्धानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे रोरुकं नाम नगरम्। तत्र अजितसेनो नाम गृहपतिः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥
अथ खलु सुधनः श्रेष्ठिदारकः सुचन्द्रस्य गृहपतेः पादु शिरसाभिवन्द्य सुचन्द्रं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुचन्द्रस्य गृहपतेरन्तिकात्प्रक्रान्तः॥४८॥