४९ मुक्तासारः

४९ मुक्तासारः।
अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण दक्षिणापथं गत्वा येन भरुकच्छे नगरे मुक्तासारो हैरण्यकः, तेनोपसंक्रम्य मुक्तासारहैरण्यकस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥

सोऽवोचत्-अहं कुलपुत्र असङ्गस्मृतिव्यूहं नाम बोधिसत्त्वविमोक्षं जानामि। अप्रतिप्रस्रब्धा च मे दशसु दिक्षु सर्वतथागतपादमूलेषु धर्मपर्येष्टिः। एतमहं कुलपुत्र असङ्गस्मृतिव्यूहं बोधिसत्त्वविमोक्षं जानामि, प्रजानामि। किं मया शक्यं बोधिसत्त्वानामच्छम्भितसिंहनादनादिनां महापुण्यज्ञानप्रतिष्ठितानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥

गच्छ कुलपुत्र, अयमिहैव भरुकच्छे नगरे सुचन्द्रो नाम गृहपतिः प्रतिवसति। तदवभासितमस्य गृहम्। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥

अथ खलु सुधनः श्रेष्ठिदारको मुक्तासारस्य हैरण्यकस्य पादौ शिरसाभिवन्द्य मुक्तासारं हैरण्यकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मुक्तासारस्य हैरण्यकस्यान्तिकात्प्रक्रान्तः॥४७॥