४८ भद्रोत्तमा

४८ भद्रोत्तमा।
अथ खलु सुधनः श्रेष्ठिदारको येन केवलके जनपदे वर्तनकं नगरम्, येन च भद्रोत्तमोपासिका, तेनोपजगाम। उपेत्य भद्रोत्तमाया उपासिकायाः पादौ शिरसाभिवन्द्य भद्रोत्तमामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य भद्रोत्तमाया उपासिकायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥

सा अवोचत्-अहं कुलपुत्र अनालयमण्डलं नाम धर्मपर्यायं जानामि देशयामि। अधिष्ठानश्च मे समाधिः प्रतिलब्धः। न तत्र समाधौ कस्यचिद्धर्मस्याधिष्ठानम्। तत्र सर्वज्ञताचक्षुः प्रवर्ततेऽधिष्ठानं सर्वज्ञताश्रोत्रम्। अधिष्ठानं सर्वज्ञताघ्राणम्, अधिष्ठानं सर्वज्ञताजिह्वा, अधिष्ठानः सर्वज्ञताकायः, अधिष्ठानं तत्र सर्वज्ञतामनः प्रवर्तते, अधिष्ठाना सर्वज्ञतोर्मिः, अधिष्ठाना सर्वज्ञताविद्युत्, अधिष्ठानाः सर्वज्ञतावेगाः प्रवर्तन्ते जगद्रोचनामण्डलाः। एतमहं कुलपुत्र, अनालयमण्डलं धर्मपर्यायं जानामि। किं मया शक्यमसङ्गबोधिसत्त्वचर्या सकला ज्ञातुम्? गच्छ कुलपुत्र दक्षिणापथे। तत्र भरुकच्छं नाम नगरम्। तत्र मुक्तासारो नाम हैरण्यकः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥

अथ खलु सुधनः श्रेष्ठिदारको भद्रोत्तमाया उपासिकायाः पादौ शिरसाभिवन्द्य भद्रोत्तमामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भद्रोत्तमाया उपासिकाया अन्तिकात्प्रक्रान्तः॥४६॥