११ परीन्दनापरिवर्तः

११ परीन्दनापरिवर्तः।
उपक्रमः।
एतास्ताः खलु पुनर्भो जिनपुत्रा दश बोधिसत्त्वभूमयः समासतो निर्दिष्टाः सर्वाकारवरोपेतसर्वज्ञज्ञानानुगता द्रष्टव्याः। तस्यां वेलायामयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्राकम्पत्। विविधानि च पुष्पाणि वियतो न्यपतन्। दिव्यमानुष्यकानि च तूर्याणि संप्रवादितान्यभूवन्। अनुमोदनाशब्देन च यावदकनिष्ठभुवनं विज्ञप्तमभूत्॥

अथ तस्मिन् समये भगवांस्तान् विमुक्तिचन्द्रप्रमुखान् सर्वान् बोधिसत्त्वानामन्त्र्य एवमादिशत् - इमामहं मार्षा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि परमया परिन्दनया। तद्यूयं सर्वे स्वयं चैवमिमं धर्मपर्यायं धारयत, परेभ्यश्च विस्तरेण संप्रकाशयत। संक्षेपान्मार्षा यदि तथागतः कल्पस्थितिकेनायुःप्रमाणेन रात्रिंदिवमधितिष्ठमानोऽस्य धर्मपर्यायस्य वर्णं भाषते, नैवास्य धर्मपर्यायस्य वर्णपर्यन्तो भवेत्, न च तथागतप्रतिभानक्षयो भवेत्। यथा तथागतशीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनमप्रमाणमपर्यन्तम्, एवमेव मार्षा य इमं धर्मपर्यायमुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति लिखिष्यति लिखापयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, पर्षन्मध्ये च विस्तरेण संप्रकाशयिष्यति - अनेन चित्तेन कथममी सत्त्वा एवमुदारधर्मस्य लाभिनः स्युरिति श्रद्धया सत्कृत्य श्रावयिष्यन्ति श्रोष्यन्ति च योनिशो मनसि भावयिष्यन्ति च। पुस्तकलिखितं कृत्वा गृहे धारयिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति। अमात्सर्यचित्ततया अस्य धर्मपर्यायस्य वर्णं भाषित्वा लिखनाय वाचनाय स्वाध्ययनाय पूजनाय दर्शनाय दास्यति, तेषामपि नास्ति पुण्यपर्यन्तः॥

अथ खलु भगवानस्यैव धर्मपर्यायस्य भूयस्या मात्रया अनुपरिन्दनार्थं तस्यां वेलायामिमा गाथा अभाषत - सत्त्वा दृष्टा ये मया बुद्धदृष्ट्या तेऽर्हन्तः स्युः शारिपुत्रेण तुल्याः।
तां चेत्कश्चित्पूजयेत्कल्पकोट्या तुल्यान् गङ्गावालुकाभिर्यथैव॥

१॥

प्रत्येकबुद्धाय तु यश्च पूजां कुर्यादहोरात्रमपि प्रहृष्टः।
माल्यप्रकारैश्च तथाम्बरैश्च तस्मादयं पुण्यकृतो विशिष्टः॥

२॥

सर्वेऽपि प्रत्येकजिना यदि स्यु- स्तान् पूजयेत् कश्चिदिहाप्रमत्तः।
पुष्पैश्च गन्धैश्च विलेपनैश्च कल्पाननेकान् शयनान्नपानैः॥

३॥

एकस्य यश्चैव तथागतस्य कुर्यात् प्रणाममपि चैकवारम्।
प्रसन्नचित्तोऽथ वदेन्नमोऽर्हन् तस्मादिदं श्रेष्ठतरं च पुण्यम्॥

४॥

बुद्धा भवेयुर्यदि सर्वसत्त्वा- स्तान् पूजयेत् यश्च यथैव पूर्वम्।
दिव्यैश्च पुष्पैरथ मानुषैश्च कल्पाननेकान् बहुभिः प्रकारैः॥

५॥

यश्चैव सद्धर्मविलोपकाले त्यक्त्वा स्वकायं च तथात्मजीवम्।
दद्यादहोरात्रमिदं हि सूत्रं विशिष्यते पुण्यमिदं हि तस्मात्॥

६॥

यस्येप्सितं पूजयितुं जिनेन्द्रान् प्रत्येकबुद्धानपि श्रावकांश्च।
दृढं समुत्पाद्य स बोधिचित्तम् इदं सदा सूत्रवरं ददातु॥

७॥

राजा ह्ययं सर्वसुभाषितानां सोऽभुद्गतः सर्वतथागतानाम।
गृहे स्थितस्तस्य तथागतः स तिष्ठेदिदं यत्र हि सूत्ररत्नम्॥

८॥

प्रभां स प्राप्नोति शुभामनन्ताम् एकं पदं वादि शतीहयश्च।
न व्यञ्जनाद् ग्रस्यति नापि चार्थाद् ददाति यः सूत्रमिदं परेभ्यः॥

९॥

अनुत्तरासौ नरनायकानां सत्त्वो न कश्चित् सदृशोऽस्य विद्यते।
भवेत्समुद्रेण समश्च सोऽक्षयः श्रुत्वा हि यो धर्ममिमं प्रपद्यते॥

१०॥